AVADHUT GITA

अवधूत गीता

 

१ २ ३ ४ ५ ६ ७ ८
1 2 3 4 5 6 7 8

 


अथ प्रथमोऽध्यायः ।


ईश्वरानुग्रहादेव पुंसामद्वैतवासना ।
महद्भयपरित्राणाद्विप्राणामुपजायते ।। १।।

येनेदं पूरितं सर्वमात्मनैवाअत्मनात्मनि ।
निराकारं कथं वन्दे ह्यभिन्नं शिवमव्ययम् ।। २।।

पञ्चभूतात्मकं विश्वं मरीचिजलसन्निभम् ।
कस्याप्यहो नमस्कुर्यामहमेको निरञ्जनः ।। ३।।

आत्मैव केवलं सर्वं भेदाभेदो न विद्यते ।
अस्ति नास्ति कथं ब्रूयां विस्मयः प्रतिभाति मे ।। ४।।

वेदान्तसारसर्वस्वं ज्ञानं विज्ञानमेव च ।
अहमात्मा निराकारः सर्वव्यापी स्वभावतः ।। ५।।

यो वै सर्वात्मको देवो निष्कलो गगनोपमः ।
स्वभावनिर्मलः शुद्धः स एवायं न संशयः ।। ६।।

अहमेवाव्ययोऽनन्तः शुद्धविज्ञानविग्रहः ।
सुखं दुःखं न जानामि कथं कस्यापि वर्तते ।। ७।।

न मानसं कर्म शुभाशुभं मे न कायिकं कर्म शुभाशुभं मे ।
न वाचिकं कर्म शुभाशुभं मे ज्ञानामृतं शुद्धमतीन्द्रियोऽहम् ।। ८।।

मनो वै गगनाकारं मनो वै सर्वतोमुखम् ।
मनोऽतीतं मनः सर्वं न मनः परमार्थतः ।। ९।।

अहमेकमिदं सर्वं व्योमातीतं निरन्तरम् ।
पश्यामि कथमात्मानं प्रत्यक्षं वा तिरोहितम् ।। १०।।

त्वमेवमेकं हि कथं न बुध्यसे समं हि सर्वेषु विमृष्टमव्ययम् ।
सदोदितोऽसि त्वमखण्डितः प्रभो दिवा च नक्तं च कथं हि मन्यसे ।। ११।।

आत्मानं सततं विद्धि सर्वत्रैकं निरन्तरम् ।
अहं ध्याता परं ध्येयमखण्डं खण्ड्यते कथम् ।। १२।।

न जातो न मृतोऽसि त्वं न ते देहः कदाचन ।
सर्वं ब्रह्मेति विख्यातं ब्रवीति बहुधा श्रुतिः ।। १३।।

स बाह्याभ्यन्तरोऽसि त्वं शिवः सर्वत्र सर्वदा ।
इतस्ततः कथं भ्रान्तः प्रधावसि पिशाचवत् ।। १४।।

संयोगश्च वियोगश्च वर्तते न च ते न मे ।
न त्वं नाहं जगन्नेदं सर्वमात्मैव केवलम् ।। १५।।

शब्दादिपञ्चकस्यास्य नैवासि त्वं न ते पुनः ।
त्वमेव परमं तत्त्वमतः किं परितप्यसे ।। १६।।

जन्म मृत्युर्न ते चित्तं बन्धमोक्षौ शुभाशुभौ ।
कथं रोदिषि रे वत्स नामरूपं न ते न मे ।। १७।।

अहो चित्त कथं भ्रान्तः प्रधावसि पिशाचवत् ।
अभिन्नं पश्य चात्मानं रागत्यागात्सुखी भव ।। १८।।

त्वमेव तत्त्वं हि विकारवर्जितं निष्कम्पमेकं हि विमोक्षविग्रहम् ।
न ते च रागो ह्यथवा विरागः कथं हि सन्तप्यसि कामकामतः ।। १९।।

वदन्ति श्रुतयः सर्वाः निर्गुणं शुद्धमव्ययम् ।
अशरीरं समं तत्त्वं तन्मां विद्धि न संशयः ।। २०।।

साकारमनृतं विद्धि निराकारं निरन्तरम् ।
एतत्तत्त्वोपदेशेन न पुनर्भवसम्भवः ।। २१।।

एकमेव समं तत्त्वं वदन्ति हि विपश्चितः ।
रागत्यागात्पुनश्चित्तमेकानेकं न विद्यते ।। २२।।

अनात्मरूपं च कथं समाधि रात्मस्वरूपं च कथं समाधिः ।
अस्तीति नास्तीति कथं समाधि र्मोक्षस्वरूपं यदि सर्वमेकम् ।। २३।।

विशुद्धोऽसि समं तत्त्वं विदेहस्त्वमजोऽव्ययः ।
जानामीह न जानामीत्यात्मानं मन्यसे कथम् ।। २४।।

तत्त्वमस्यादिवाक्येन स्वात्मा हि प्रतिपादितः ।
नेति नेति श्रुतिर्ब्रूयादनृतं पाञ्चभौतिकम् ।। २५।।

आत्मन्येवात्मना सर्वं त्वया पूर्णं निरन्तरम् ।
ध्याता ध्यानं न ते चित्तं निर्लज्जं ध्यायते कथम् ।। २६।।

शिवं न जानामि कथं वदामि शिवं न जानामि कथं भजामि ।
अहं शिवश्चेत्परमार्थथतत्त्वं समस्वरूपं गगनोपमं च ।। २७।।

नाहं तत्त्वं समं तत्त्वं कल्पनाहेतुवर्जितम् ।
ग्राह्यग्राहकनिर्मुक्तं स्वसंवेद्यं कथं भवेत् ।। २८।।

अनन्तरूपं न हि वस्तु किंचि- त्तत्त्वस्वरूपं न हि वस्तु किंचित् ।
आत्मैकरूपं परमार्थतत्त्वं न हिंसको वापि न चाप्यहिंसा ।। २९।।

विशुद्धोऽसि समं तत्त्वं विदेहमजमव्ययम् ।
विभ्रमं कथमात्मार्थे विभ्रान्तोऽहं कथं पुनः ।। ३०।।

घटे भिन्ने घटाकाशं सुलीनं भेदवर्जितम् ।
शिवेन मनसा शुद्धो न भेदः प्रतिभाति मे ।। ३१।।

न घटो न घटाकाशो न जीवो न जीवविग्रहः ।
केवलं ब्रह्म संविद्धि वेद्यवेदकवर्जितम् ।। ३२।।

सर्वत्र सर्वदा सर्वमात्मानं सततं ध्रुवम् ।
सर्वं शून्यमशून्यं च तन्मां विद्धि न संशयः ।। ३३।।

वेदा न लोका न सुरा न यज्ञा वर्णाश्रमो नैव कुलं न जातिः ।
न धूममार्गो न च दीप्तिमार्गो ब्रह्मैकरूपं परमार्थतत्त्वम् ।। ३४।।

व्याप्यव्यापकनिर्मुक्तः त्वमेकः सफलं यदि ।
प्रत्यक्षं चापरोक्षं च ह्यात्मानं मन्यसे कथम् ।। ३५।।

अद्वैतं केचिदिच्छन्ति द्वैतमिच्छन्ति चापरे ।
समं तत्त्वं न विन्दन्ति द्वैताद्वैतविवर्जितम् ।। ३६।।

श्वेतादिवर्णरहितं शब्दादिगुणवर्जितम् ।
कथयन्ति कथं तत्त्वं मनोवाचामगोचरम् ।। ३७।।

यदाऽनृतमिदं सर्वं देहादिगगनोपमम् ।
तदा हि ब्रह्म संवेत्ति न ते द्वैतपरम्परा ।। ३८।।

परेण सहजात्मापि ह्यभिन्नः प्रतिभाति मे ।
व्योमाकारं तथैवैकं ध्याता ध्यानं कथं भवेत् ।। ३९।।

यत्करोमि यदश्नामि यज्जुहोमि ददामि यत् ।
एतत्सर्वं न मे किंचिद्विशुद्धोऽहमजोऽव्ययः ।। ४०।।

सर्वं जगद्विद्धि निराकृतीदं सर्वं जगद्विद्धि विकारहीनम् ।
सर्वं जगद्विद्धि विशुद्धदेहं सर्वं जगद्विद्धि शिवैकरूपम् ।। ४१।।

तत्त्वं त्वं न हि सन्देहः किं जानाम्यथवा पुनः ।
असंवेद्यं स्वसंवेद्यमात्मानं मन्यसे कथम् ।। ४२।।

मायाऽमाया कथं तात छायाऽछाया न विद्यते ।
तत्त्वमेकमिदं सर्वं व्योमाकारं निरञ्जनम् ।। ४३।।

आदिमध्यान्तमुक्तोऽहं न बद्धोऽहं कदाचन ।
स्वभावनिर्मलः शुद्ध इति मे निश्चिता मतिः ।। ४४।।

महदादि जगत्सर्वं न किंचित्प्रतिभाति मे ।
ब्रह्मैव केवलं सर्वं कथं वर्णाश्रमस्थितिः ।। ४५।।

जानामि सर्वथा सर्वमहमेको निरन्तरम् ।
निरालम्बमशून्यं च शून्यं व्योमादिपञ्चकम् ।। ४६।।

न षण्ढो न पुमान्न स्त्री न बोधो नैव कल्पना ।
सानन्दो वा निरानन्दमात्मानं मन्यसे कथम् ।। ४७।।

षडङ्गयोगान्न तु नैव शुद्धं मनोविनाशान्न तु नैव शुद्धम् ।
गुरूपदेशान्न तु नैव शुद्धं स्वयं च तत्त्वं स्वयमेव बुद्धम् ।। ४८।।

न हि पञ्चात्मको देहो विदेहो वर्तते न हि ।
आत्मैव केवलं सर्वं तुरीयं च त्रयं कथम् ।। ४९।।

न बद्धो नैव मुक्तोऽहं न चाहं ब्रह्मणः पृथक् ।
न कर्ता न च भोक्ताहं व्याप्यव्यापकवर्जितः ।। ५०।।

यथा जलं जले न्यस्तं सलिलं भेदवर्जितम् ।
प्रकृतिं पुरुषं तद्वदभिन्नं प्रतिभाति मे ।। ५१।।

यदि नाम न मुक्तोऽसि न बद्धोऽसि कदाचन ।
साकारं च निराकारमात्मानं मन्यसे कथम् ।। ५२।।

जानामि ते परं रूपं प्रत्यक्षं गगनोपमम् ।
यथा परं हि रूपं यन्मरीचिजलसन्निभम् ।। ५३।।

न गुरुर्नोपदेशश्च न चोपाधिर्न मे क्रिया ।
विदेहं गगनं विद्धि विशुद्धोऽहं स्वभावतः ।। ५४।।

विशुद्धोऽस्य शरीरोऽसि न ते चित्तं परात्परम् ।
अहं चात्मा परं तत्त्वमिति वक्तुं न लज्जसे ।। ५५।।

कथं रोदिषि रे चित्त ह्यात्मैवात्मात्मना भव ।
पिब वत्स कलातीतमद्वैतं परमामृतम् ।। ५६।।

नैव बोधो न चाबोधो न बोधाबोध एव च ।
यस्येदृशः सदा बोधः स बोधो नान्यथा भवेत् ।। ५७।।

ज्ञानं न तर्को न समाधियोगो न देशकालौ न गुरूपदेशः ।
स्वभावसंवित्तरहं च तत्त्व- माकाशकल्पं सहजं ध्रुवं च ।। ५८।।

न जातोऽहं मृतो वापि न मे कर्म शुभाशुभम् ।
विशुद्धं निर्गुणं ब्रह्म बन्धो मुक्तिः कथं मम ।। ५९।।

यदि सर्वगतो देवः स्थिरः पूर्णो निरन्तरः ।
अन्तरं हि न पश्यामि स बाह्याभ्यन्तरः कथम् ।। ६०।।

स्फुरत्येव जगत्कृत्स्नमखण्डितनिरन्तरम् ।
अहो मायामहामोहो द्वैताद्वैतविकल्पना ।। ६१।।

साकारं च निराकारं नेति नेतीति सर्वदा ।
भेदाभेदविनिर्मुक्तो वर्तते केवलः शिवः ।। ६२।।

न ते च माता च पिता च बन्धुः न ते च पत्नी न सुतश्च मित्रम् ।
न पक्षपाती न विपक्षपातः कथं हि संतप्तिरियं हि चित्ते ।। ६३।।

दिवा नक्तं न ते चित्तं उदयास्तमयौ न हि ।
विदेहस्य शरीरत्वं कल्पयन्ति कथं बुधाः ।। ६४।।

नाविभक्तं विभक्तं च न हि दुःखसुखादि च ।
न हि सर्वमसर्वं च विद्धि चात्मानमव्ययम् ।। ६५।।

नाहं कर्ता न भोक्ता च न मे कर्म पुराऽधुना ।
न मे देहो विदेहो वा निर्ममेति ममेति किम् ।। ६६।।

न मे रागादिको दोषो दुःखं देहादिकं न मे ।
आत्मानं विद्धि मामेकं विशालं गगनोपमम् ।। ६७।।

सखे मनः किं बहुजल्पितेन सखे मनः सर्वमिदं वितर्क्यम् ।
यत्सारभूतं कथितं मया ते त्वमेव तत्त्वं गगनोपमोऽसि ।। ६८।।

येन केनापि भावेन यत्र कुत्र मृता अपि ।
योगिनस्तत्र लीयन्ते घटाकाशमिवाम्बरे ।। ६९।।

तीर्थे चान्त्यजगेहे वा नष्टस्मृतिरपि त्यजन् ।
समकाले तनुं मुक्तः कैवल्यव्यापको भवेत् ।। ७०।।

धर्मार्थकाममोक्षांश्च द्विपदादिचराचरम् ।
मन्यन्ते योगिनः सर्वं मरीचिजलसन्निभम् ।। ७१।।

अतीतानागतं कर्म वर्तमानं तथैव च ।
न करोमि न भुञ्जामि इति मे निश्चला मतिः ।। ७२।।

शून्यागारे समरसपूत- स्तिष्ठन्नेकः सुखमवधूतः ।
चरति हि नग्नस्त्यक्त्वा गर्वं विन्दति केवलमात्मनि सर्वम् ।। ७३।।

त्रितयतुरीयं नहि नहि यत्र विन्दति केवलमात्मनि तत्र ।
धर्माधर्मौ नहि नहि यत्र बद्धो मुक्तः कथमिह तत्र ।। ७४।।

विन्दति विन्दति नहि नहि मन्त्रं छन्दोलक्षणं नहि नहि तन्त्रम् ।
समरसमग्नो भावितपूतः प्रलपितमेतत्परमवधूतः ।। ७५।।

सर्वशून्यमशून्यं च सत्यासत्यं न विद्यते ।
स्वभावभावतः प्रोक्तं शास्त्रसंवित्तिपूर्वकम् ।। ७६।।

 

अथ द्वितीयोऽध्यायः ।

 

बालस्य वा विषयभोगरतस्य वापि मूर्खस्य सेवकजनस्य गृहस्थितस्य ।

एतद्गुरोः किमपि नैव न चिन्तनीयं रत्नं कथं त्यजति कोऽप्यशुचौ प्रविष्टम् ।। १।।

नैवात्र काव्यगुण एव तु चिन्तनीयो ग्राह्यः परं गुणवता खलु सार एव ।

सिन्दूरचित्ररहिता भुवि रूपशून्या पारं न किं नयति नौरिह गन्तुकामान् ।। २।।

प्रयत्नेन विना येन निश्चलेन चलाचलम् ।

ग्रस्तं स्वभावतः शान्तं चैतन्यं गगनोपमम् ।। ३।।

अयत्नाछालयेद्यस्तु एकमेव चराचरम् ।

सर्वगं तत्कथं भिन्नमद्वैतं वर्तते मम ।। ४।।

अहमेव परं यस्मात्सारात्सारतरं शिवम् ।

गमागमविनिर्मुक्तं निर्विकल्पं निराकुलम् ।। ५।।

सर्वावयवनिर्मुक्तं तथाहं त्रिदशार्चितम् ।

संपूर्णत्वान्न गृह्णामि विभागं त्रिदशादिकम् ।। ६।।

प्रमादेन न सन्देहः किं करिष्यामि वृत्तिमान् ।

उत्पद्यन्ते विलीयन्ते बुद्बुदाश्च यथा जले ।। ७।।

महदादीनि भूतानि समाप्यैवं सदैव हि ।

मृदुद्रव्येषु तीक्ष्णेषु गुडेषु कटुकेषु च ।। ८।।

कटुत्वं चैव शैत्यत्वं मृदुत्वं च यथा जले ।

प्रकृतिः पुरुषस्तद्वदभिन्नं प्रतिभाति मे ।। ९।।

सर्वाख्यारहितं यद्यत्सूक्ष्मात्सूक्ष्मतरं परम् ।

मनोबुद्धीन्द्रियातीतमकलङ्कं जगत्पतिम् ।। १०।।

ईदृशं सहजं यत्र अहं तत्र कथं भवेत् ।

त्वमेव हि कथं तत्र कथं तत्र चराचरम् ।। ११।।

गगनोपमं तु यत्प्रोक्तं तदेव गगनोपमम् ।

चैतन्यं दोषहीनं च सर्वज्ञं पूर्णमेव च ।। १२।।

पृथिव्यां चरितं नैव मारुतेन च वाहितम् ।

वरिणा पिहितं नैव तेजोमध्ये व्यवस्थितम् ।। १३।।

आकाशं तेन संव्याप्तं न तद्व्याप्तं च केनचित् ।

स बाह्याभ्यन्तरं तिष्ठत्यवच्छिन्नं निरन्तरम् ।। १४।।

सूक्ष्मत्वात्तददृश्यत्वान्निर्गुणत्वाच्च योगिभिः ।

आलम्बनादि यत्प्रोक्तं क्रमादालम्बनं भवेत् ।। १५।।

सतताऽभ्यासयुक्तस्तु निरालम्बो यदा भवेत् ।

तल्लयाल्लीयते नान्तर्गुणदोषविवर्जितः ।। १६।।

विषविश्वस्य रौद्रस्य मोहमूर्च्छाप्रदस्य च ।

एकमेव विनाशाय ह्यमोघं सहजामृतम् ।। १७।।

भावगम्यं निराकारं साकारं दृष्टिगोचरम् ।

भावाभावविनिर्मुक्तमन्तरालं तदुच्यते ।। १८।।

बाह्यभावं भवेद्विश्वमन्तः प्रकृतिरुच्यते ।

अन्तरादन्तरं ज्ञेयं नारिकेलफलाम्बुवत् ।। १९।।

भ्रान्तिज्ञानं स्थितं बाह्यं सम्यग्ज्ञानं च मध्यगम् ।

मध्यान्मध्यतरं ज्ञेयं नारिकेलफलाम्बुवत् ।। २०।।

पौर्णमास्यां यथा चन्द्र एक एवातिनिर्मलः ।

तेन तत्सदृशं पश्येद्द्विधादृष्टिर्विपर्ययः ।। २१।।

अनेनैव प्रकारेण बुद्धिभेदो न सर्वगः ।

दाता च धीरतामेति गीयते नामकोटिभिः ।। २२।।

गुरुप्रज्ञाप्रसादेन मूर्खो वा यदि पण्डितः ।

यस्तु संबुध्यते तत्त्वं विरक्तो भवसागरात् ।। २३।।

रागद्वेषविनिर्मुक्तः सर्वभूतहिते रतः ।

दृढबोधश्च धीरश्च स गच्छेत्परमं पदम् ।। २४।।

घटे भिन्ने घटाकाश आकाशे लीयते यथा ।

देहाभावे तथा योगी स्वरूपे परमात्मनि ।। २५।।

उक्तेयं कर्मयुक्तानां मतिर्यान्तेऽपि सा गतिः ।

न चोक्ता योगयुक्तानां मतिर्यान्तेऽपि सा गतिः ।। २६।।

या गतिः कर्मयुक्तानां सा च वागिन्द्रियाद्वदेत् ।

योगिनां या गतिः क्वापि ह्यकथ्या भवतोर्जिता ।। २७।।

एवं ज्ञात्वा त्वमुं मार्गं योगिनां नैव कल्पितम् ।

विकल्पवर्जनं तेषां स्वयं सिद्धिः प्रवर्तते ।। २८।।

तीर्थे वान्त्यजगेहे वा यत्र कुत्र मृतोऽपि वा ।

न योगी पश्यते गर्भं परे ब्रह्मणि लीयते ।। २९।।

सहजमजमचिन्त्यं यस्तु पश्येत्स्वरूपं घटति यदि यथेष्टं लिप्यते नैव दोषैः ।

सकृदपि तदभावात्कर्म किंचिन्नकुर्यात् तदपि न च विबद्धः संयमी वा तपस्वी ।। ३०।।

निरामयं निष्प्रतिमं निराकृतिं निराश्रयं निर्वपुषं निराशिषम् ।

निर्द्वन्द्वनिर्मोहमलुप्तशक्तिकं तमीशमात्मानमुपैति शाश्वतम् ।। ३१।।

वेदो न दीक्षा न च मुण्डनक्रिया गुरुर्न शिष्यो न च यन्त्रसम्पदः ।

मुद्रादिकं चापि न यत्र भासते तमीशमात्मानमुपैति शाश्वतम् ।। ३२।।

न शाम्भवं शाक्तिकमानवं न वा पिण्डं च रूपं च पदादिकं न वा ।

आरम्भनिष्पत्तिघटादिकं च नो तमीशमात्मानमुपैति शाश्वतम् ।। ३३।।

यस्य स्वरूपात्सचराचरं जग-दुत्पद्यते तिष्ठति लीयतेऽपि वा ।

पयोविकारादिव फेनबुद्बुदा-स्तमीशमात्मानमुपैति शाश्वतम् ।। ३४।।

नासानिरोधो न च दृष्टिरासनं बोधोऽप्यबोधोऽपि न यत्र भासते ।

नाडीप्रचारोऽपि न यत्र किञ्चि-त्तमीशमात्मानमुपैति शाश्वतम् ।। ३५।।

नानात्वमेकत्वमुभत्वमन्यता अणुत्वदीर्घत्वमहत्त्वशून्यता ।

मानत्वमेयत्वसमत्ववर्जितं तमीशमात्मानमुपैति शाश्वतम् ।। ३६।।

सुसंयमी वा यदि वा न संयमी सुसंग्रही वा यदि वा न संग्रही ।

निष्कर्मको वा यदि वा सकर्मक-स्तमीशमात्मानमुपैति शाश्वतम् ।। ३७।।

मनो न बुद्धिर्न शरीरमिन्द्रियं तन्मात्रभूतानि न भूतपञ्चकम् ।

अहंकृतिश्चापि वियत्स्वरूपकं तमीशमात्मानमुपैति शाश्वतम् ।। ३८।।

विधौ निरोधे परमात्मतां गते न योगिनश्चेतसि भेदवर्जिते ।

शौचं न वाशौचमलिङ्गभावना सर्वं विधेयं यदि वा निषिध्यते ।। ३९।।

मनो वचो यत्र न शक्तमीरितुं नूनं कथं तत्र गुरूपदेशता ।

इमां कथामुक्तवतो गुरोस्त-द्युक्तस्य तत्त्वं हि समं प्रकाशते ।। ४०।।

 

अथ तृतीयोऽध्यायः ।

 

गुणविगुणविभागो वर्तते नैव किञ्चित् रतिविरतिविहीनं निर्मलं निष्प्रपञ्चम् ।

गुणविगुणविहीनं व्यापकं विश्वरूपं कथमहमिह वन्दे व्योमरूपं शिवं वै ।। १।।

श्वेतादिवर्णरहितो नियतं शिवश्च कार्यं हि कारणमिदं हि परं शिवश्च ।

एवं विकल्परहितोऽहमलं शिवश्च स्वात्मानमात्मनि सुमित्र कथं नमामि ।। २।।

निर्मूलमूलरहितो हि सदोदितोऽहं निर्धूमधूमरहितो हि सदोदितोऽहम् ।

निर्दीपदीपरहितो हि सदोदितोऽहं ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ३।।

निष्कामकाममिह नाम कथं वदामि निःसङ्गसङ्गमिह नाम कथं वदामि ।

निःसारसाररहितं च कथं वदामि ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ४।।

अद्वैतरूपमखिलं हि कथं वदामि द्वैतस्वरूपमखिलं हि कथं वदामि ।

नित्यं त्वनित्यमखिलं हि कथं वदामि ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ५।।

स्थूलं हि नो नहि कृशं न गतागतं हि आद्यन्तमध्यरहितं न परापरं हि ।

सत्यं वदामि खलु वै परमार्थतत्त्वं ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ६।।

संविद्धि सर्वकरणानि नभोनिभानि संविद्धि सर्वविषयांश्च नभोनिभांश्च ।

संविद्धि चैकममलं न हि बन्धमुक्तं ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ७।।

दुर्बोधबोधगहनो न भवामि तात दुर्लक्ष्यलक्ष्यगहनो न भवामि तात ।

आसन्नरूपगहनो न भवामि तात ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ८।।

निष्कर्मदहनो ज्वलनो भवामि निर्दुःखदुःखदहनो ज्वलनो भवामि ।

निर्देहदेहदहनो ज्वलनो भवामि ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ९।।

निष्पापपापदहनो हि हुताशनोऽहं निर्धर्मधर्मदहनो हि हुताशनोऽहम् ।

निर्बन्धबन्धदहनो हि हुताशनोऽहं ज्ञानामृतं समरसं गगनोपमोऽहम् ।। १०।।

निर्भावभावरहितो न भवामि वत्स निर्योगयोगरहितो न भवामि वत्स ।

निश्चित्तचित्तरहितो न भवामि वत्स ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ११।।

निर्मोहमोहपदवीति न मे विकल्पो निःशोकशोकपदवीति न मे विकल्पः ।

निर्लोभलोभपदवीति न मे विकल्पो ज्ञानामृतं समरसं गगनोपमोऽहम् ।। १२।।

संसारसन्ततिलता न च मे कदाचित् सन्तोषसन्ततिसुखो न च मे कदाचित् ।

अज्ञानबन्धनमिदं न च मे कदाचित् ज्ञानामृतं समरसं गगनोपमोऽहम् ।। १३।।

संसारसन्ततिरजो न च मे विकारः सन्तापसन्ततितमो न च मे विकारः ।

सत्त्वं स्वधर्मजनकं न च मे विकारो ज्ञानामृतं समरसं गगनोपमोऽहम् ।। १४।।

सन्तापदुःखजनको न विधिः कदाचित् सन्तापयोगजनितं न मनः कदाचित् ।

यस्मादहङ्कृतिरियं न च मे कदाचित् ज्ञानामृतं समरसं गगनोपमोऽहम् ।। १५।।

निष्कम्पकम्पनिधनं न विकल्पकल्पं स्वप्नप्रबोधनिधनं न हिताहितं हि ।

निःसारसारनिधनं न चराचरं हि ज्ञानामृतं समरसं गगनोपमोऽहम् ।। १६।।

नो वेद्यवेदकमिदं न च हेतुतर्क्यं वाचामगोचरमिदं न मनो न बुद्धिः ।

एवं कथं हि भवतः कथयामि तत्त्वं ज्ञानामृतं समरसं गगनोपमोऽहम् ।। १७।।

निर्भिन्नभिन्नरहितं परमार्थतत्त्व-मन्तर्बहिर्न हि कथं परमार्थतत्त्वम् ।

प्राक्सम्भवं न च रतं नहि वस्तु किञ्चित् ज्ञानामृतं समरसं गगनोपमोऽहम् ।। १८।।

रागादिदोषरहितं त्वहमेव तत्त्वं दैवादिदोषरहितं त्वहमेव तत्त्वम् ।

संसारशोकरहितं त्वहमेव तत्त्वं ज्ञानामृतं समरसं गगनोपमोऽहम् ।। १९।।

स्थानत्रयं यदि च नेति कथं तुरीयं कालत्रयं यदि च नेति कथं दिशश्च ।

शान्तं पदं हि परमं परमार्थतत्त्वं ज्ञानामृतं समरसं गगनोपमोऽहम् ।। २०।।

दीर्घो लघुः पुनरितीह नमे विभागो विस्तारसंकटमितीह न मे विभागः ।

कोणं हि वर्तुलमितीह न मे विभागो ज्ञानामृतं समरसं गगनोपमोऽहम् ।। २१।।

मातापितादि तनयादि न मे कदाचित् जातं मृतं न च मनो न च मे कदाचित् ।

निर्व्याकुलं स्थिरमिदं परमार्थतत्त्वं ज्ञानामृतं समरसं गगनोपमोऽहम् ।। २२।।

शुद्धं विशुद्धमविचारमनन्तरूपं निर्लेपलेपमविचारमनन्तरूपम् ।

निष्खण्डखण्डमविचारमनन्तरूपं ज्ञानामृतं समरसं गगनोपमोऽहम् ।। २३।।

ब्रह्मादयः सुरगणाः कथमत्र सन्ति स्वर्गादयो वसतयः कथमत्र सन्ति ।

यद्येकरूपममलं परमार्थतत्त्वं ज्ञानामृतं समरसं गगनोपमोऽहम् ।। २४।।

निर्नेति नेति विमलो हि कथं वदामि निःशेषशेषविमलो हि कथं वदामि ।

निर्लिङ्गलिङ्गविमलो हि कथं वदामि ज्ञानामृतं समरसं गगनोपमोऽहम् ।। २५।।

निष्कर्मकर्मपरमं सततं करोमि निःसङ्गसङ्गरहितं परमं विनोदम् ।

निर्देहदेहरहितं सततं विनोदं ज्ञानामृतं समरसं गगनोपमोऽहम् ।। २६।।

मायाप्रपञ्चरचना न च मे विकारः । कौटिल्यदम्भरचना न च मे विकारः ।

सत्यानृतेति रचना न च मे विकारो ज्ञानामृतं समरसं गगनोपमोऽहम् ।। २७।।

सन्ध्यादिकालरहितं न च मे वियोगो-ह्यन्तः प्रबोधरहितं बधिरो न मूकः ।

एवं विकल्परहितं न च भावशुद्धं ज्ञानामृतं समरसं गगनोपमोऽहम् ।। २८।।

निर्नाथनाथरहितं हि निराकुलं वै निश्चित्तचित्तविगतं हि निराकुलं वै ।

संविद्धि सर्वविगतं हि निराकुअलं वै ज्ञानामृतं समरसं गगनोपमोऽहम् ।। २९।।

कान्तारमन्दिरमिदं हि कथं वदामि संसिद्धसंशयमिदं हि कथं वदामि ।

एवं निरन्तरसमं हि निराकुलं वै ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ३०।।

निर्जीवजीवरहितं सततं विभाति निर्बीजबीजरहितं सततं विभाति ।

निर्वाणबन्धरहितं सततं विभाति ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ३१।।

सम्भूतिवर्जितमिदं सततं विभाति संसारवर्जितमिदं सततं विभाति ।

संहारवर्जितमिअदं सततं विभाति ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ३२।।

उल्लेखमात्रमपि ते न च नामरूपं निर्भिन्नभिन्नमपि ते न हि वस्तु किञ्चित् ।

निर्लज्जमानस करोषि कथं विषादं ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ३३।।

किं नाम रोदिषि सखे न जरा न मृत्युः किं नाम रोदिषि सखे न च जन्म दुःखम् ।

किं नाम रोदिषि सखे न च ते विकारो ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ३४।।

किं नाम रोदिषि सखे न च ते स्वरूपं किं नाम रोदिषि सखे न च ते विरूपम् ।

किं नाम रोदिषि सखे न च ते वयांसि ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ३५।।

किं नाम रोदिषि सखे न च ते वयांसि किं नाम रोदिषि सखे न च ते मनांसि ।

किं नाम रोदिषि सखे न तवेन्द्रियाणि ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ३६।।

किं नाम रोदिषि सखे न च तेऽस्ति कामः किं नाम रोदिषि सखे न च ते प्रलोभः ।

किं नाम रोदिषि सखे न च ते विमोहो ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ३७।।

ऐश्वर्यमिच्छसि कथं न च ते धनानि ऐश्वर्यमिच्छसि कथं न च ते हि पत्नी ।

ऐश्वर्यमिच्छसि कथं न च ते ममेति ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ३८।।

लिङ्गप्रपञ्चजनुषी न च ते न मे च निर्लज्जमानसमिदं च विभाति भिन्नम् ।

निर्भेदभेदरहितं न च ते न मे च ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ३९।।

नो वाणुमात्रमपि ते हि विरागरूपं नो वाणुमात्रमपि ते हि सरागरूपम् ।

नो वाणुमात्रमपि ते हि सकामरूपं ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ४०।।

ध्याता न ते हि हृदये न च ते समाधि-र्ध्यानं न ते हि हृदये न बहिः प्रदेशः ।

ध्येयं न चेति हृदये न हि वस्तु कालो ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ४१।।

यत्सारभूतमखिलं कथितं मया ते न त्वं न मे न महतो न गुरुर्न न शिष्यः ।

स्वच्छन्दरूपसहजं परमार्थतत्त्वं ज्ञानामृतं समरसं गगनोपमोऽहम् ।। ४२।।

कथमिह परमार्थं तत्त्वमानन्दरूपं कथमिह परमार्थं नैवमानन्दरूपम् ।

कथमिह परमार्थं ज्ञानविज्ञानरूपं यदि परमहमेकं वर्तते व्योमरूपम् ।। ४३।।

दहनपवनहीनं विद्धि विज्ञानमेक-मवनिजलविहीनं विद्धि विज्ञानरूपम् ।

समगमनविहीनं विद्धि विज्ञानमेकं गगनमिव विशालं विद्धि विज्ञानमेकम् ।। ४४।।

न शून्यरूपं न विशून्यरूपं न शुद्धरूपं न विशुद्धरूपम् ।

रूपं विरूपं न भवामि किञ्चित् स्वरूपरूपं परमार्थतत्त्वम् ।। ४५।।

मुञ्च मुञ्च हि संसारं त्यागं मुञ्च हि सर्वथा ।

त्यागात्यागविषं शुद्धममृतं सहजं ध्रुवम् ।। ४६।।

 


अथ चतुर्थोऽध्यायः ।

 

नावाहनं नैव विसर्जनं वा पुष्पाणि पत्राणि कथं भवन्ति ।

ध्यानानि मन्त्राणि कथं भवन्ति समासमं चैव शिवार्चनं च ।। १।।

न केवलं बन्धविबन्धमुक्तो न केवलं शुद्धविशुद्धमुक्तः ।

न केवलं योगवियोगमुक्तः स वै विमुक्तो गगनोपमोऽहम् ।। २।।

सञ्जायते सर्वमिदं हि तथ्यं सञ्जायते सर्वमिदं वितथ्यम् ।

एवं विकल्पो मम नैव जातः स्वरूपनिर्वाणमनामयोऽहम् ।। ३।।

न साञ्जनं चैव निरञ्जनं वा न चान्तरं वापि निरन्तरं वा ।

अन्तर्विभन्नं न हि मे विभाति स्वरूपनिर्वाणमनामयोऽहम् ।। ४।।

अबोधबोधो मम नैव जातो बोधस्वरूपं मम नैव जातम् ।

निर्बोधबोधं च कथं वदामि स्वरूपनिर्वाणमनामयोऽहम् ।। ५।।

न धर्मयुक्तो न च पापयुक्तो न बन्धयुक्तो न च मोक्षयुक्तः ।

युक्तं त्वयुक्तं न च मे विभाति स्वरूपनिर्वाणमनामयोऽहम् ।। ६।।

परापरं वा न च मे कदाचित् मध्यस्थभावो हि न चारिमित्रम् ।

हिताहितं चापि कथं वदामि स्वरूपनिर्वाणमनामयोऽहम् ।। ७।।

नोपासको नैवमुपास्यरूपं न चोपदेशो न च मे क्रिया च ।

संवित्स्वरूपं च कथं वदामि स्वरूपनिर्वाणमनामयोऽहम् ।। ८।।

नो व्यापकं व्याप्यमिहास्ति किञ्चित् न चालयं वापि निरालयं वा ।

अशून्यशून्यं च कथं वदामि स्वरूपनिर्वाणमनामयोऽहम् ।। ९।।

न ग्राहको ग्राह्यकमेव किञ्चित् न कारणं वा मम नैव कार्यम् ।

अचिन्त्यचिन्त्यं च कथं वदामि स्वरूपनिर्वाणमनामयोऽहम् ।। १०।।

न भेदकं वापि न चैव भेद्यं न वेदकं वा मम नैव वेद्यम् ।

गतागतं तात कथं वदामि स्वरूपनिर्वाणमनामयोऽहम् ।। ११।।

न चास्ति देहो न च मे विदेहो बुद्दिर्मनो मे न हि चेन्द्रियाणि ।

रागो विरागश्च कथं वदामि स्वरूपनिर्वाणमनामयोऽहम् ।। १२।।

उल्लेखमात्रं न हि भिन्नमुच्चै-रुल्लेखमात्रं न तिरोहितं वै ।

समासमं मित्र कथं वदामि स्वरूपनिर्वाणमनामयोऽहम् ।। १३।।

जितेन्द्रियोऽहं त्वजितेन्द्रियो वा न संयमो मे नियमो न जातः ।

जयाजयौ मित्र कथं वदामि स्वरूपनिर्वाणमनामयोऽहम् ।। १४।।

अमूर्तमूर्तिर्न च मे कदाचि-दाद्यन्तमध्यं न च मे कदाचित् ।

बलाबलं मित्र कथं वदामि स्वरूपनिर्वाणमनामयोऽहम् ।। १५।।

मृतामृतं वापि विषाविषं च सञ्जायते तात न मे कदाचित् ।

अशुद्धशुद्धं च कथं वदामि स्वरूपनिर्वाणमनामयोऽहम् ।। १६।।

स्वप्नः प्रबोधो न च योगमुद्रा नक्तं दिवा वापि न मे कदाचित् ।

अतुर्यतुर्यं च कथं वदामि स्वरूपनिर्वाणमनामयोऽहम् ।। १७।।

संविद्धि मां सर्वविसर्वमुक्तं माया विमाया न च मे कदाचित् ।

सन्ध्यादिकं कर्म कथं वदामि स्वरूपनिर्वाणमनामयोऽहम् ।। १८।।

संविद्धि मां सर्वसमाधियुक्तं संविद्धि मां लक्ष्यविलक्ष्यमुक्तम् ।

योगं वियोगं च कथं वदामि स्वरूपनिर्वाणमनामयोऽहम् ।। १९।।

मूर्खोऽपि नाहं न च पण्डितोऽहं मौनं विमौनं न च मे कदाचित् ।

तर्कं वितर्कं च कथं वदामि स्वरूपनिर्वाणमनामयोऽहम् ।। २०।।

पिता च माता च कुलं न जाति-र्जन्मादि मृत्युर्न च मे कदाचित् ।

स्नेहं विमोहं च कथं वदामि स्वरूपनिर्वाणमनामयोऽहम् ।। २१।।

अस्तं गतो नैव सदोदितोऽहं तेजोवितेजो न च मे कदाचित् ।

सन्ध्यादिकं कर्म कथं वदामि स्वरूपनिर्वाणमनामयोऽहम् ।। २२।।

असंशयं विद्धि निराकुलं मां असंशयं विद्धि निरन्तरं माम् ।

असंशयं विद्धि निरञ्जनं मां स्वरूपनिर्वाणमनामयोऽहम् ।। २३।।

ध्यानानि सर्वाणि परित्यजन्ति शुभाशुभं कर्म परित्यजन्ति ।

त्यागामृतं तात पिबन्ति धीराः स्वरूपनिर्वाणमनामयोऽहम् ।। २४।।

विन्दति विन्दति न हि न हि यत्र छन्दोलक्षणं न हि न हि तत्र ।

समरसमग्नो भावितपूतः प्रलपति तत्त्वं परमवधूतः ।। २५।।

 


अथ पञ्चमोध्यायः ।

 

ॐ इति गदितं गगनसमं तत् न परापरसारविचार इति ।

अविलासविलासनिराकरणं कथमक्षरबिन्दुसमुच्चरणम् ।। १।।

इति तत्त्वमसिप्रभृतिश्रुतिभिः प्रतिपादितमात्मनि तत्त्वमसि ।

त्वमुपाधिविवर्जितसर्वसमं किमु रोदिषि मानसि सर्वसमम् ।। २।।

अधऊर्ध्वविवर्जितसर्वसमं बहिरन्तरवर्जितसर्वसमम् ।

यदि चैकविवर्जितसर्वसमं किमु रोदिषि मानसि सर्वसमम् ।। ३।।

न हि कल्पितकल्पविचार इति न हि कारणकार्यविचार इति ।

पदसन्धिविवर्जितसर्वसमं किमु रोदिषि मानसि सर्वसमम् ।। ४।।

न हि बोधविबोधसमाधिरिति न हि देशविदेशसमाधिरिति ।

न हि कालविकालसमाधिरिति किमु रोदिषि मानसि सर्वसमम् ।। ५।।

न हि कुम्भनभो न हि कुम्भ इति न हि जीववपुर्न हि जीव इति ।

न हि कारणकार्यविभाग इति किमु रोदिषि मानसि सर्वसमम् ।। ६।।

इह सर्वनिरन्तरमोक्षपदं लघुदीर्घविचारविहीन इति ।

न हि वर्तुलकोणविभाग इति किमु रोदिषि मानसि सर्वसमम् ।। ७।।

इह शून्यविशून्यविहीन इति इह शुद्धविशुद्धविहीन इति ।

इह सर्वविसर्वविहीन इति किमु रोदिषि मानसि सर्वसमम् ।। ८।।

न हि भिन्नविभिन्नविचार इति बहिरन्तरसन्धिविचार इति ।

अरिमित्रविवर्जितसर्वसमं किमु रोदिषि मानसि सर्वसमम् ।। ९।।

न हि शिष्यविशिष्यस्वरूपैति न चराचरभेदविचार इति ।

इह सर्वनिरन्तरमोक्षपदं किमु रोदिषि मानसि सर्वसमम् ।। १०।।

ननु रूपविरूपविहीन इति ननु भिन्नविभिन्नविहीन इति ।

ननु सर्गविसर्गविहीन इति किमु रोदिषि मानसि सर्वसमम् ।। ११।।

न गुणागुणपाशनिबन्ध इति मृतजीवनकर्म करोमि कथम् ।

इति शुद्धनिरञ्जनसर्वसमं किमु रोदिषि मानसि सर्वसमम् ।। १२।।

इह भावविभावविहीन इति इह कामविकामविहीन इति ।

इह बोधतमं खलु मोक्षसमं किमु रोदिषि मानसि सर्वसमम् ।। १३।।

इह तत्त्वनिरन्तरतत्त्वमिति न हि सन्धिविसन्धिविहीन इति ।

यदि सर्वविवर्जितसर्वसमं किमु रोदिषि मानसि सर्वसमम् ।। १४।।

अनिकेतकुटी परिवारसमं इहसङ्गविसङ्गविहीनपरम् ।

इह बोधविबोधविहीनपरं किमु रोदिषि मानसि सर्वसमम् ।। १५।।

अविकारविकारमसत्यमिति अविलक्षविलक्षमसत्यमिति ।

यदि केवलमात्मनि सत्यमिति किमु रोदिषि मानसि सर्वसमम् ।। १६।।

इह सर्वसमं खलु जीव इति इह सर्वनिरन्तरजीव इति ।

इह केवलनिश्चलजीव इति किमु रोदिषि मानसि सर्वसमम् ।। १७।।

अविवेकविवेकमबोध इति अविकल्पविकल्पमबोध इति ।

यदि चैकनिरन्तरबोध इति किमु रोदिषि मानसि सर्वसमम् ।। १८।।

न हि मोक्षपदं न हि बन्धपदं न हि पुण्यपदं न हि पापपदम् ।

न हि पूर्णपदं न हि रिक्तपदं किमु रोदिषि मानसि सर्वसमम् ।। १९।।

यदि वर्णविवर्णविहीनसमं यदि कारणकार्यविहीनसमम् ।

यदिभेदविभेदविहीनसमं किमु रोदिषि मानसि सर्वसमम् ।। २०।।

इह सर्वनिरन्तरसर्वचिते इह केवलनिश्चलसर्वचिते ।

द्विपदादिविवर्जितसर्वचिते किमु रोदिषि मानसि सर्वसमम् ।। २१।।

अतिसर्वनिरन्तरसर्वगतं अतिनिर्मलनिश्चलसर्वगतम् ।

दिनरात्रिविवर्जितसर्वगतं किमु रोदिषि मानसि सर्वसमम् ।। २२।।

न हि बन्धविबन्धसमागमनं न हि योगवियोगसमागमनम् ।

न हि तर्कवितर्कसमागमनं किमु रोदिषि मानसि सर्वसमम् ।। २३।।

इह कालविकालनिराकरणं अणुमात्रकृशानुनिराकरणम् ।

न हि केवलसत्यनिराकरणं किमु रोदिषि मानसि सर्वसमम् ।। २४।।

इह देहविदेहविहीन इति ननु स्वप्नसुषुप्तिविहीनपरम् ।

अभिधानविधानविहीनपरं किमु रोदिषि मानसि सर्वसमम् ।। २५।।

गगनोपमशुद्धविशालसमं अतिसर्वविवर्जितसर्वसमम् ।

गतसारविसारविकारसमं किमु रोदिषि मानसि सर्वसमम् ।। २६।।

इह धर्मविधर्मविरागतर-मिह वस्तुविवस्तुविरागतरम् ।

इह कामविकामविरागतरं किमु रोदिषि मानसि सर्वसमम् ।। २७।।

सुखदुःखविवर्जितसर्वसम-मिह शोकविशोकविहीनपरम् ।

गुरुशिष्यविवर्जिततत्त्वपरं किमु रोदिषि मानसि सर्वसमम् ।। २८।।

न किलाङ्कुरसारविसार इति न चलाचलसाम्यविसाम्यमिति ।

अविचारविचारविहीनमिति किमु रोदिषि मानसि सर्वसमम् ।। २९।।

इह सारसमुच्चयसारमिति । कथितं निजभावविभेद इति ।

विषये करणत्वमसत्यमिति किमु रोदिषि मानसि सर्वसमम् ।। ३०।।

बहुधा श्रुतयः प्रवदन्ति यतो वियदादिरिदं मृगतोयसमम् ।

यदि चैकनिरन्तरसर्वसमं किमु रोदिषि मानसि सर्वसमम् ।। ३१।।

विन्दति विन्दति न हि न हि यत्र छन्दोलक्षणं न हि न हि तत्र ।

समरसमग्नो भावितपूतः प्रलपति तत्त्वं परमवधूतः ।। ३२।।

 

अथ षष्ठमोऽध्यायः ।

 

बहुधा श्रुतयः प्रवदन्ति वयं वियदादिरिदं मृगतोयसमम् ।

यदि चैकनिरन्तरसर्वशिव-मुपमेयमथोह्युपमा च कथम् ।। १।।

अविभक्तिविभक्तिविहीनपरं ननु कार्यविकार्यविहीनपरम् ।

यदि चैकनिरन्तरसर्वशिवं यजनं च कथं तपनं च कथम् ।। २।।

मन एव निरन्तरसर्वगतं ह्यविशालविशालविहीनपरम् ।

मन एव निरन्तरसर्वशिवं मनसापि कथं वचसा च कथम् ।। ३।।

दिनरात्रिविभेदनिराकरण-मुदितानुदितस्य निराकरणम् ।

यदि चैकनिरन्तरसर्वशिवं रविचन्द्रमसौ ज्वलनश्च कथम् ।। ४।।

गतकामविकामविभेद इति गतचेष्टविचेष्टविभेद इति ।

यदि चैकनिरन्तरसर्वशिवं बहिरन्तरभिन्नमतिश्च कथम् ।। ५।।

यदि सारविसारविहीन इति यदि शून्यविशून्यविहीन इति ।

यदि चैकनिरन्तरसर्वशिवं प्रथमं च कथं चरमं च कथम् ।। ६।।

यदिभेदविभेदनिराकरणं यदि वेदकवेद्यनिराकरणम् ।

यदि चैकनिरन्तरसर्वशिवं तृतीयं च कथं तुरीयं च कथम् ।। ७।।

गदिताविदितं न हि सत्यमिति विदिताविदितं नहि सत्यमिति ।

यदि चैकनिरन्तरसर्वशिवं विषयेन्द्रियबुद्धिमनांसि कथम् ।। ८।।

गगनं पवनो न हि सत्यमिति धरणी दहनो न हि सत्यमिति ।

यदि चैकनिरन्तरसर्वशिवं जलदश्च कथं सलिलं च कथम् ।। ९।।

यदि कल्पितलोकनिराकरणं यदि कल्पितदेवनिराकरणम् ।

यदि चैकनिरन्तरसर्वशिवं गुणदोषविचारमतिश्च कथम् ।। १०।।

मरणामरणं हि निराकरणं करणाकरणं हि निराकरणम् ।

यदि चैकनिरन्तरसर्वशिवं गमनागमनं हि कथं वदति ।। ११।।

प्रकृतिः पुरुषो न हि भेद इति न हि कारणकार्यविभेद इति ।

यदि चैकनिरन्तरसर्वशिवं पुरुषापुरुषं च कथं वदति ।। १२।।

तृतीयं न हि दुःखसमागमनं न गुणाद्द्वितीयस्य समागमनम् ।

यदि चैकनिरन्तरसर्वशिवं स्थविरश्च युवा च शिशुश्च कथम् ।। १३।।

ननु आश्रमवर्णविहीनपरं ननु कारणकर्तृविहीनपरम् ।

यदि चैकनिरन्तरसर्वशिव-मविनष्टविनष्टमतिश्च कथम् ।। १४।।

ग्रसिताग्रसितं च वितथ्यमिति जनिताजनितं च वितथ्यमिति ।

यदि चैकनिरन्तरसर्वशिव-मविनाशि विनाशि कथं हि भवेत् ।। १५।।

पुरुषापुरुषस्य विनष्टमिति वनितावनितस्य विनष्टमिति ।

यदि चैकनिरन्तरसर्वशिव-मविनोदविनोदमतिश्च कथम् ।। १६।।

यदि मोहविषादविहीनपरो यदि संशयशोकविहीनपरः ।

यदि चैकनिरन्तरसर्वशिव-महमेति ममेति कथं च पुनः ।। १७।।

ननु धर्मविधर्मविनाश इति ननु बन्धविबन्धविनाश इति ।

यदि चैकनिरन्तरसर्वशिवं-मिहदुःखविदुःखमतिश्च कथम् ।। १८।।

न हि याज्ञिकयज्ञविभाग इति न हुताशनवस्तुविभाग इति ।

यदि चैकनिरन्तरसर्वशिवं वद कर्मफलानि भवन्ति कथम् ।। १९।।

ननु शोकविशोकविमुक्त इति ननु दर्पविदर्पविमुक्त इति ।

यदि चैकनिरन्तरसर्वशिवं ननु रागविरागमतिश्च कथम् ।। २०।।

न हि मोहविमोहविकार इति न हि लोभविलोभविकार इति ।

यदि चैकनिरन्तरसर्वशिवं ह्यविवेकविवेकमतिश्च कथम् ।। २१।।

त्वमहं न हि हन्त कदाचिदपि कुलजातिविचारमसत्यमिति ।

अहमेव शिवः परमार्थ इति अभिवादनमत्र करोमि कथम् ।। २२।।

गुरुशिष्यविचारविशीर्ण इति उपदेशविचारविशीर्ण इति ।

अहमेव शिवः परमार्थ इति अभिवादनमत्र करोमि कथम् ।। २३।।

न हि कल्पितदेहविभाग इति न हि कल्पितलोकविभाग इति ।

अहमेव शिवः परमार्थ इति अभिवादनमत्र करोमि कथम् ।। २४।।

सरजो विरजो न कदाचिदपि ननु निर्मलनिश्चलशुद्ध इति ।

अहमेव शिवः परमार्थ इति अभिवादनमत्र करोमि कथम् ।। २५।।

न हि देहविदेहविकल्प इति अनृतं चरितं न हि सत्यमिति ।

अहमेव शिवः परमार्थ इति अभिवादनमत्र करोमि कथम् ।। २६।।

विन्दति विन्दति न हि न हि यत्र छन्दोलक्षणं न हि न हि तत्र ।

समरसमग्नो भावितपूतः प्रलपति तत्त्वं परमवधूतः ।। २७।।

 


अथ सप्तमोऽध्यायः ।

 

रथ्याकर्पटविरचितकन्थः पुण्यापुण्यविवर्जितपन्थः ।

शून्यागारे तिष्ठति नग्नो शुद्धनिरञ्जनसमरसमग्नः ।। १।।

लक्ष्यालक्ष्यविवर्जितलक्ष्यो युक्तायुक्तविवर्जितदक्षः ।

केवलतत्त्वनिरञ्जनपूतो वादविवादः कथमवधूतः ।। २।।

आशापाशविबन्धनमुक्ताः शौचाचारविवर्जितयुक्ताः ।

एवं सर्वविवर्जितशान्त-स्तत्त्वं शुद्धनिरञ्जनवन्तः ।। ३।।

कथमिह देहविदेहविचारः कथमिह रागविरागविचारः ।

निर्मलनिश्चलगगनाकारं स्वयमिह तत्त्वं सहजाकारम् ।। ४।।

कथमिह तत्त्वं विन्दति यत्र रूपमरूपं कथमिह तत्र ।

गगनाकारः परमो यत्र विषयीकरणं कथमिह तत्र ।। ५।।

गगनाकारनिरन्तरहंस-स्तत्त्वविशुद्धनिरञ्जनहंसः ।

एवं कथमिह भिन्नविभिन्नं बन्धविबन्धविकारविभिन्नम् ।। ६।।

केवलतत्त्वनिरन्तरसर्वं योगवियोगौ कथमिह गर्वम् ।

एवं परमनिरन्तरसर्व-मेवं कथमिह सारविसारम् ।। ७।।

केवलतत्त्वनिरञ्जनसर्वं गगनाकारनिरन्तरशुद्धम् ।

एवं कथमिह सङ्गविसङ्गं सत्यं कथमिह रङ्गविरङ्गम् ।। ८।।

योगवियोगै रहितो योगी भोगविभोगै रहितो भोगी ।

एवं चरति हि मन्दं मन्दं मनसा कल्पितसहजानन्दम् ।। ९।।

बोधविबोधैः सततं युक्तो द्वैताद्वैतैः कथमिह मुक्तः ।

सहजो विरजः कथमिह योगी शुद्धनिरञ्जनसमरसभोगी ।। १०।।

भग्नाभग्नविवर्जितभग्नो लग्नालग्नविवर्जितलग्नः ।

एवं कथमिह सारविसारः समरसतत्त्वं गगनाकारः ।। ११।।

सततं सर्वविवर्जितयुक्तः सर्वं तत्त्वविवर्जितमुक्तः ।

एवं कथमिह जीवितमरणं ध्यानाध्यानैः कथमिह करणम् ।। १२।।

इन्द्रजालमिदं सर्वं यथा मरुमरीचिका ।

अखण्डितमनाकारो वर्तते केवलः शिवः ।। १३।।

धर्मादौ मोक्षपर्यन्तं निरीहाः सर्वथा वयम् ।

कथं रागविरागैश्च कल्पयन्ति विपश्चितः ।। १४।।

विन्दति विन्दति न हि न हि यत्र छन्दोलक्षणं न हि न हि तत्र ।

समरसमग्नो भावितपूतः प्रलपति तत्त्वं परमवधूतः ।। १५।।

 


अथ अष्टमोऽध्यायः ।

 

त्वद्यात्रया व्यापकता हता ते ध्यानेन चेतःपरता हता ते ।

स्तुत्या मया वाक्परता हता ते क्षमस्व नित्यं त्रिविधापराधान् ।। १।।

कामैरहतधीर्दान्तो मृदुः शुचिरकिञ्चनः ।

अनीहो मितभुक् शान्तः स्थिरो मच्छरणो मुनिः ।। २।।

अप्रमत्तो गभीरात्मा धृतिमान् जितषड्गुणः ।

अमानी मानदः कल्पो मैत्रः कारुणिकः कविः ।। ३।।

कृपालुरकृतद्रोहस्तितिक्षुः सर्वदेहिनाम् ।

सत्यसारोऽनवद्यात्मा समः सर्वोपकारकः ।। ४।।

अवधूतलक्षणं वर्णैर्ज्ञातव्यं भगवत्तमैः ।

वेदवर्णार्थतत्त्वज्ञैर्वेदवेदान्तवादिभिः ।। ५।।

आशापाशविनिर्मुक्त आदिमध्यान्तनिर्मलः ।

आनन्दे वर्तते नित्यमकारं तस्य लक्षणम् ।। ६।।

वासना वर्जिता येन वक्तव्यं च निरामयम् ।

वर्तमानेषु वर्तेत वकारं तस्य लक्षणम् ।। ७।।

धूलिधूसरगात्राणि धूतचित्तो निरामयः ।

धारणाध्याननिर्मुक्तो धूकारस्तस्य लक्षणम् ।। ८।।

तत्त्वचिन्ता धृता येन चिन्ताचेष्टाविवर्जितः ।

तमोऽहंकारनिर्मुक्तस्तकारस्तस्य लक्षणम् ।। ९।।

दत्तात्रेयावधूतेन निर्मितानन्दरूपिणा ।

ये पठन्ति च शृण्वन्ति तेषां नैव पुनर्भवः ।। १०।।

 

 

१ २ ३ ४ ५ ६ ७ ८
1 2 3 4 5 6 7 8

 

 

avadhūta gītā

 

atha prathamo ̕dhyāyaḥ ।

 

īśvarānugrahādeva puṃsāmadvaitavāsanā ।

mahadbhayaparitrāṇādviprāṇāmupajāyate ।। 1।।

yenedaṃ pūritaṃ sarvamātmanaivāatmanātmani ।

nirākāraṃ kathaṃ vande hyabhinnaṃ śivamavyayam ।। 2।।

pañcabhūtātmakaṃ viśvaṃ marīcijalasannibham ।

kasyāpyaho namaskuryāmahameko nirañjanaḥ ।। 3।।

ātmaiva kevalaṃ sarvaṃ bhedābhedo na vidyate ।

asti nāsti kathaṃ brūyāṃ vismayaḥ pratibhāti me ।। 4।।

vedāntasārasarvasvaṃ jñānaṃ vijñānameva ca ।

ahamātmā nirākāraḥ sarvavyāpī svabhāvataḥ ।। 5।।

yo vai sarvātmako devo niṣkalo gaganopamaḥ ।

svabhāvanirmalaḥ śuddhaḥ sa evāyaṃ na saṃśayaḥ ।। 6।।

ahamevāvyayo ̕nantaḥ śuddhavijñānavigrahaḥ ।

sukhaṃ duḥkhaṃ na jānāmi kathaṃ kasyāpi vartate ।। 7।।

na mānasaṃ karma śubhāśubhaṃ me na kāyikaṃ karma śubhāśubhaṃ me ।

na vācikaṃ karma śubhāśubhaṃ me jñānāmṛtaṃ śuddhamatīndriyo ̕ham ।। 8।।

mano vai gaganākāraṃ mano vai sarvatomukham ।

mano ̕tītaṃ manaḥ sarvaṃ na manaḥ paramārthataḥ ।। 9।।

ahamekamidaṃ sarvaṃ vyomātītaṃ nirantaram ।

paśyāmi kathamātmānaṃ pratyakṣaṃ vā tirohitam ।। 10।।

tvamevamekaṃ hi kathaṃ na budhyase samaṃ hi sarveṣu vimṛṣṭamavyayam ।

sadodito ̕si tvamakhaṇḍitaḥ prabho divā ca naktaṃ ca kathaṃ hi manyase ।। 11।।

ātmānaṃ satataṃ viddhi sarvatraikaṃ nirantaram ।

ahaṃ dhyātā paraṃ dhyeyamakhaṇḍaṃ khaṇḍyate katham ।। 12।।

na jāto na mṛto ̕si tvaṃ na te dehaḥ kadācana ।

sarvaṃ brahmeti vikhyātaṃ bravīti bahudhā śrutiḥ ।। 13।।

sa bāhyābhyantaro ̕si tvaṃ śivaḥ sarvatra sarvadā ।

itastataḥ kathaṃ bhrāntaḥ pradhāvasi piśācavat ।। 14।।

saṃyogaśca viyogaśca vartate na ca te na me ।

na tvaṃ nāhaṃ jagannedaṃ sarvamātmaiva kevalam ।। 15।।

śabdādipañcakasyāsya naivāsi tvaṃ na te punaḥ ।

tvameva paramaṃ tattvamataḥ kiṃ paritapyase ।। 16।।

janma mṛtyurna te cittaṃ bandhamokṣau śubhāśubhau ।

kathaṃ rodiṣi re vatsa nāmarūpaṃ na te na me ।। 17।।

aho citta kathaṃ bhrāntaḥ pradhāvasi piśācavat ।

abhinnaṃ paśya cātmānaṃ rāgatyāgātsukhī bhava ।। 18।।

tvameva tattvaṃ hi vikāravarjitaṃ niṣkampamekaṃ hi vimokṣavigraham ।

na te ca rāgo hyathavā virāgaḥ kathaṃ hi santapyasi kāmakāmataḥ ।। 19।।

vadanti śrutayaḥ sarvāḥ nirguṇaṃ śuddhamavyayam ।

aśarīraṃ samaṃ tattvaṃ tanmāṃ viddhi na saṃśayaḥ ।। 20।।

sākāramanṛtaṃ viddhi nirākāraṃ nirantaram ।

etattattvopadeśena na punarbhavasambhavaḥ ।। 21।।

ekameva samaṃ tattvaṃ vadanti hi vipaścitaḥ ।

rāgatyāgātpunaścittamekānekaṃ na vidyate ।। 22।।

anātmarūpaṃ ca kathaṃ samādhi rātmasvarūpaṃ ca kathaṃ samādhiḥ ।

astīti nāstīti kathaṃ samādhi rmokṣasvarūpaṃ yadi sarvamekam ।। 23।।

viśuddho ̕si samaṃ tattvaṃ videhastvamajo ̕vyayaḥ ।

jānāmīha na jānāmītyātmānaṃ manyase katham ।। 24।।

tattvamasyādivākyena svātmā hi pratipāditaḥ ।

neti neti śrutirbrūyādanṛtaṃ pāñcabhautikam ।। 25।।

ātmanyevātmanā sarvaṃ tvayā pūrṇaṃ nirantaram ।

dhyātā dhyānaṃ na te cittaṃ nirlajjaṃ dhyāyate katham ।। 26।।

śivaṃ na jānāmi kathaṃ vadāmi śivaṃ na jānāmi kathaṃ bhajāmi ।

ahaṃ śivaścetparamārthathatattvaṃ samasvarūpaṃ gaganopamaṃ ca ।। 27।।

nāhaṃ tattvaṃ samaṃ tattvaṃ kalpanāhetuvarjitam ।

grāhyagrāhakanirmuktaṃ svasaṃvedyaṃ kathaṃ bhavet ।। 28।।

anantarūpaṃ na hi vastu kiṃci- ttattvasvarūpaṃ na hi vastu kiṃcit ।

ātmaikarūpaṃ paramārthatattvaṃ na hiṃsako vāpi na cāpyahiṃsā ।। 29।।

viśuddho ̕si samaṃ tattvaṃ videhamajamavyayam ।

vibhramaṃ kathamātmārthe vibhrānto ̕haṃ kathaṃ punaḥ ।। 30।।

ghaṭe bhinne ghaṭākāśaṃ sulīnaṃ bhedavarjitam ।

śivena manasā śuddho na bhedaḥ pratibhāti me ।। 31।।

na ghaṭo na ghaṭākāśo na jīvo na jīvavigrahaḥ ।

kevalaṃ brahma saṃviddhi vedyavedakavarjitam ।। 32।।

sarvatra sarvadā sarvamātmānaṃ satataṃ dhruvam ।

sarvaṃ śūnyamaśūnyaṃ ca tanmāṃ viddhi na saṃśayaḥ ।। 33।।

vedā na lokā na surā na yajñā varṇāśramo naiva kulaṃ na jātiḥ ।

na dhūmamārgo na ca dīptimārgo brahmaikarūpaṃ paramārthatattvam ।। 34।।

vyāpyavyāpakanirmuktaḥ tvamekaḥ saphalaṃ yadi ।

pratyakṣaṃ cāparokṣaṃ ca hyātmānaṃ manyase katham ।। 35।।

advaitaṃ kecidicchanti dvaitamicchanti cāpare ।

samaṃ tattvaṃ na vindanti dvaitādvaitavivarjitam ।। 36।।

śvetādivarṇarahitaṃ śabdādiguṇavarjitam ।

kathayanti kathaṃ tattvaṃ manovācāmagocaram ।। 37।।

yadā ̕nṛtamidaṃ sarvaṃ dehādigaganopamam ।

tadā hi brahma saṃvetti na te dvaitaparamparā ।। 38।।

pareṇa sahajātmāpi hyabhinnaḥ pratibhāti me ।

vyomākāraṃ tathaivaikaṃ dhyātā dhyānaṃ kathaṃ bhavet ।। 39।।

yatkaromi yadaśnāmi yajjuhomi dadāmi yat ।

etatsarvaṃ na me kiṃcidviśuddho ̕hamajo ̕vyayaḥ ।। 40।।

sarvaṃ jagadviddhi nirākṛtīdaṃ sarvaṃ jagadviddhi vikārahīnam ।

sarvaṃ jagadviddhi viśuddhadehaṃ sarvaṃ jagadviddhi śivaikarūpam ।। 41।।

tattvaṃ tvaṃ na hi sandehaḥ kiṃ jānāmyathavā punaḥ ।

asaṃvedyaṃ svasaṃvedyamātmānaṃ manyase katham ।। 42।।

māyā ̕māyā kathaṃ tāta chāyā ̕chāyā na vidyate ।

tattvamekamidaṃ sarvaṃ vyomākāraṃ nirañjanam ।। 43।।

ādimadhyāntamukto ̕haṃ na baddho ̕haṃ kadācana ।

svabhāvanirmalaḥ śuddha iti me niścitā matiḥ ।। 44।।

mahadādi jagatsarvaṃ na kiṃcitpratibhāti me ।

brahmaiva kevalaṃ sarvaṃ kathaṃ varṇāśramasthitiḥ ।। 45।।

jānāmi sarvathā sarvamahameko nirantaram ।

nirālambamaśūnyaṃ ca śūnyaṃ vyomādipañcakam ।। 46।।

na ṣaṇḍho na pumānna strī na bodho naiva kalpanā ।

sānando vā nirānandamātmānaṃ manyase katham ।। 47।।

ṣaḍaṅgayogānna tu naiva śuddhaṃ manovināśānna tu naiva śuddham ।

gurūpadeśānna tu naiva śuddhaṃ svayaṃ ca tattvaṃ svayameva buddham ।। 48।।

na hi pañcātmako deho videho vartate na hi ।

ātmaiva kevalaṃ sarvaṃ turīyaṃ ca trayaṃ katham ।। 49।।

na baddho naiva mukto ̕haṃ na cāhaṃ brahmaṇaḥ pṛthak ।

na kartā na ca bhoktāhaṃ vyāpyavyāpakavarjitaḥ ।। 50।।

yathā jalaṃ jale nyastaṃ salilaṃ bhedavarjitam ।

prakṛtiṃ puruṣaṃ tadvadabhinnaṃ pratibhāti me ।। 51।।

yadi nāma na mukto ̕si na baddho ̕si kadācana ।

sākāraṃ ca nirākāramātmānaṃ manyase katham ।। 52।।

jānāmi te paraṃ rūpaṃ pratyakṣaṃ gaganopamam ।

yathā paraṃ hi rūpaṃ yanmarīcijalasannibham ।। 53।।

na gururnopadeśaśca na copādhirna me kriyā ।

videhaṃ gaganaṃ viddhi viśuddho ̕haṃ svabhāvataḥ ।। 54।।

viśuddho ̕sya śarīro ̕si na te cittaṃ parātparam ।

ahaṃ cātmā paraṃ tattvamiti vaktuṃ na lajjase ।। 55।।

kathaṃ rodiṣi re citta hyātmaivātmātmanā bhava ।

piba vatsa kalātītamadvaitaṃ paramāmṛtam ।। 56।।

naiva bodho na cābodho na bodhābodha eva ca ।

yasyedṛśaḥ sadā bodhaḥ sa bodho nānyathā bhavet ।। 57।।

jñānaṃ na tarko na samādhiyogo na deśakālau na gurūpadeśaḥ ।

svabhāvasaṃvittarahaṃ ca tattv- mākāśakalpaṃ sahajaṃ dhruvaṃ ca ।। 58।।

na jāto ̕haṃ mṛto vāpi na me karma śubhāśubham ।

viśuddhaṃ nirguṇaṃ brahma bandho muktiḥ kathaṃ mama ।। 59।।

yadi sarvagato devaḥ sthiraḥ pūrṇo nirantaraḥ ।

antaraṃ hi na paśyāmi sa bāhyābhyantaraḥ katham ।। 60।।

sphuratyeva jagatkṛtsnamakhaṇḍitanirantaram ।

aho māyāmahāmoho dvaitādvaitavikalpanā ।। 61।।

sākāraṃ ca nirākāraṃ neti netīti sarvadā ।

bhedābhedavinirmukto vartate kevalaḥ śivaḥ ।। 62।।

na te ca mātā ca pitā ca bandhuḥ na te ca patnī na sutaśca mitram ।

na pakṣapātī na vipakṣapātaḥ kathaṃ hi saṃtaptiriyaṃ hi citte ।। 63।।

divā naktaṃ na te cittaṃ udayāstamayau na hi ।

videhasya śarīratvaṃ kalpayanti kathaṃ budhāḥ ।। 64।।

nāvibhaktaṃ vibhaktaṃ ca na hi duḥkhasukhādi ca ।

na hi sarvamasarvaṃ ca viddhi cātmānamavyayam ।। 65।।

nāhaṃ kartā na bhoktā ca na me karma purā ̕dhunā ।

na me deho videho vā nirmameti mameti kim ।। 66।।

na me rāgādiko doṣo duḥkhaṃ dehādikaṃ na me ।

ātmānaṃ viddhi māmekaṃ viśālaṃ gaganopamam ।। 67।।

sakhe manaḥ kiṃ bahujalpitena sakhe manaḥ sarvamidaṃ vitarkyam ।

yatsārabhūtaṃ kathitaṃ mayā te tvameva tattvaṃ gaganopamo ̕si ।। 68।।

yena kenāpi bhāvena yatra kutra mṛtā api ।

yoginastatra līyante ghaṭākāśamivāmbare ।। 69।।

tīrthe cāntyajagehe vā naṣṭasmṛtirapi tyajan ।

samakāle tanuṃ muktaḥ kaivalyavyāpako bhavet ।। 70।।

dharmārthakāmamokṣāṃśca dvipadādicarācaram ।

manyante yoginaḥ sarvaṃ marīcijalasannibham ।। 71।।

atītānāgataṃ karma vartamānaṃ tathaiva ca ।

na karomi na bhuñjāmi iti me niścalā matiḥ ।। 72।।

śūnyāgāre samarasapūt- stiṣṭhannekaḥ sukhamavadhūtaḥ ।

carati hi nagnastyaktvā garvaṃ vindati kevalamātmani sarvam ।। 73।।

tritayaturīyaṃ nahi nahi yatra vindati kevalamātmani tatra ।

dharmādharmau nahi nahi yatra baddho muktaḥ kathamiha tatra ।। 74।।

vindati vindati nahi nahi mantraṃ chandolakṣaṇaṃ nahi nahi tantram ।

samarasamagno bhāvitapūtaḥ pralapitametatparamavadhūtaḥ ।। 75।।

sarvaśūnyamaśūnyaṃ ca satyāsatyaṃ na vidyate ।

svabhāvabhāvataḥ proktaṃ śāstrasaṃvittipūrvakam ।। 76।।

 

atha dvitīyo ̕dhyāyaḥ ।

 

bālasya vā viṣayabhogaratasya vāpi mūrkhasya sevakajanasya gṛhasthitasya ।

etadguroḥ kimapi naiva na cintanīyaṃ ratnaṃ kathaṃ tyajati ko ̕pyaśucau praviṣṭam ।। 1।।

naivātra kāvyaguṇa eva tu cintanīyo grāhyaḥ paraṃ guṇavatā khalu sāra eva ।

sindūracitrarahitā bhuvi rūpaśūnyā pāraṃ na kiṃ nayati nauriha gantukāmān ।। 2।।

prayatnena vinā yena niścalena calācalam ।

grastaṃ svabhāvataḥ śāntaṃ caitanyaṃ gaganopamam ।। 3।।

ayatnāchālayedyastu ekameva carācaram ।

sarvagaṃ tatkathaṃ bhinnamadvaitaṃ vartate mama ।। 4।।

ahameva paraṃ yasmātsārātsārataraṃ śivam ।

gamāgamavinirmuktaṃ nirvikalpaṃ nirākulam ।। 5।।

sarvāvayavanirmuktaṃ tathāhaṃ tridaśārcitam ।

saṃpūrṇatvānna gṛhṇāmi vibhāgaṃ tridaśādikam ।। 6।।

pramādena na sandehaḥ kiṃ kariṣyāmi vṛttimān ।

utpadyante vilīyante budbudāśca yathā jale ।। 7।।

mahadādīni bhūtāni samāpyaivaṃ sadaiva hi ।

mṛdudravyeṣu tīkṣṇeṣu guḍeṣu kaṭukeṣu ca ।। 8।।

kaṭutvaṃ caiva śaityatvaṃ mṛdutvaṃ ca yathā jale ।

prakṛtiḥ puruṣastadvadabhinnaṃ pratibhāti me ।। 9।।

sarvākhyārahitaṃ yadyatsūkṣmātsūkṣmataraṃ param ।

manobuddhīndriyātītamakalaṅkaṃ jagatpatim ।। 10।।

īdṛśaṃ sahajaṃ yatra ahaṃ tatra kathaṃ bhavet ।

tvameva hi kathaṃ tatra kathaṃ tatra carācaram ।। 11।।

gaganopamaṃ tu yatproktaṃ tadeva gaganopamam ।

caitanyaṃ doṣahīnaṃ ca sarvajñaṃ pūrṇameva ca ।। 12।।

pṛthivyāṃ caritaṃ naiva mārutena ca vāhitam ।

variṇā pihitaṃ naiva tejomadhye vyavasthitam ।। 13।।

ākāśaṃ tena saṃvyāptaṃ na tadvyāptaṃ ca kenacit ।

sa bāhyābhyantaraṃ tiṣṭhatyavacchinnaṃ nirantaram ।। 14।।

sūkṣmatvāttadadṛśyatvānnirguṇatvācca yogibhiḥ ।

ālambanādi yatproktaṃ kramādālambanaṃ bhavet ।। 15।।

satatā ̕bhyāsayuktastu nirālambo yadā bhavet ।

tallayāllīyate nāntarguṇadoṣavivarjitaḥ ।। 16।।

viṣaviśvasya raudrasya mohamūrcchāpradasya ca ।

ekameva vināśāya hyamoghaṃ sahajāmṛtam ।। 17।।

bhāvagamyaṃ nirākāraṃ sākāraṃ dṛṣṭigocaram ।

bhāvābhāvavinirmuktamantarālaṃ taducyate ।। 18।।

bāhyabhāvaṃ bhavedviśvamantaḥ prakṛtirucyate ।

antarādantaraṃ jñeyaṃ nārikelaphalāmbuvat ।। 19।।

bhrāntijñānaṃ sthitaṃ bāhyaṃ samyagjñānaṃ ca madhyagam ।

madhyānmadhyataraṃ jñeyaṃ nārikelaphalāmbuvat ।। 20।।

paurṇamāsyāṃ yathā candra eka evātinirmalaḥ ।

tena tatsadṛśaṃ paśyeddvidhādṛṣṭirviparyayaḥ ।। 21।।

anenaiva prakāreṇa buddhibhedo na sarvagaḥ ।

dātā ca dhīratāmeti gīyate nāmakoṭibhiḥ ।। 22।।

guruprajñāprasādena mūrkho vā yadi paṇḍitaḥ ।

yastu saṃbudhyate tattvaṃ virakto bhavasāgarāt ।। 23।।

rāgadveṣavinirmuktaḥ sarvabhūtahite rataḥ ।

dṛḍhabodhaśca dhīraśca sa gacchetparamaṃ padam ।। 24।।

ghaṭe bhinne ghaṭākāśa ākāśe līyate yathā ।

dehābhāve tathā yogī svarūpe paramātmani ।। 25।।

ukteyaṃ karmayuktānāṃ matiryānte ̕pi sā gatiḥ ।

na coktā yogayuktānāṃ matiryānte ̕pi sā gatiḥ ।। 26।।

yā gatiḥ karmayuktānāṃ sā ca vāgindriyādvadet ।

yogināṃ yā gatiḥ kvāpi hyakathyā bhavatorjitā ।। 27।।

evaṃ jñātvā tvamuṃ mārgaṃ yogināṃ naiva kalpitam ।

vikalpavarjanaṃ teṣāṃ svayaṃ siddhiḥ pravartate ।। 28।।

tīrthe vāntyajagehe vā yatra kutra mṛto ̕pi vā ।

na yogī paśyate garbhaṃ pare brahmaṇi līyate ।। 29।।

sahajamajamacintyaṃ yastu paśyetsvarūpaṃ ghaṭati yadi yatheṣṭaṃ lipyate naiva doṣaiḥ ।

sakṛdapi tadabhāvātkarma kiṃcinnakuryāt tadapi na ca vibaddhaḥ saṃyamī vā tapasvī ।। 30।।

nirāmayaṃ niṣpratimaṃ nirākṛtiṃ nirāśrayaṃ nirvapuṣaṃ nirāśiṣam ।

nirdvandvanirmohamaluptaśaktikaṃ tamīśamātmānamupaiti śāśvatam ।। 31।।

vedo na dīkṣā na ca muṇḍanakriyā gururna śiṣyo na ca yantrasampadaḥ ।

mudrādikaṃ cāpi na yatra bhāsate tamīśamātmānamupaiti śāśvatam ।। 32।।

na śāmbhavaṃ śāktikamānavaṃ na vā piṇḍaṃ ca rūpaṃ ca padādikaṃ na vā ।

ārambhaniṣpattighaṭādikaṃ ca no tamīśamātmānamupaiti śāśvatam ।। 33।।

yasya svarūpātsacarācaraṃ jag-dutpadyate tiṣṭhati līyate ̕pi vā ।

payovikārādiva phenabudbudā-stamīśamātmānamupaiti śāśvatam ।। 34।।

nāsānirodho na ca dṛṣṭirāsanaṃ bodho ̕pyabodho ̕pi na yatra bhāsate ।

nāḍīpracāro ̕pi na yatra kiñci-ttamīśamātmānamupaiti śāśvatam ।। 35।।

nānātvamekatvamubhatvamanyatā aṇutvadīrghatvamahattvaśūnyatā ।

mānatvameyatvasamatvavarjitaṃ tamīśamātmānamupaiti śāśvatam ।। 36।।

susaṃyamī vā yadi vā na saṃyamī susaṃgrahī vā yadi vā na saṃgrahī ।

niṣkarmako vā yadi vā sakarmak-stamīśamātmānamupaiti śāśvatam ।। 37।।

mano na buddhirna śarīramindriyaṃ tanmātrabhūtāni na bhūtapañcakam ।

ahaṃkṛtiścāpi viyatsvarūpakaṃ tamīśamātmānamupaiti śāśvatam ।। 38।।

vidhau nirodhe paramātmatāṃ gate na yoginaścetasi bhedavarjite ।

śaucaṃ na vāśaucamaliṅgabhāvanā sarvaṃ vidheyaṃ yadi vā niṣidhyate ।। 39।।

mano vaco yatra na śaktamīrituṃ nūnaṃ kathaṃ tatra gurūpadeśatā ।

imāṃ kathāmuktavato gurost-dyuktasya tattvaṃ hi samaṃ prakāśate ।। 40।।

 

 

atha tṛtīyo ̕dhyāyaḥ ।

 

guṇaviguṇavibhāgo vartate naiva kiñcit rativirativihīnaṃ nirmalaṃ niṣprapañcam ।

guṇaviguṇavihīnaṃ vyāpakaṃ viśvarūpaṃ kathamahamiha vande vyomarūpaṃ śivaṃ vai ।। 1।।

śvetādivarṇarahito niyataṃ śivaśca kāryaṃ hi kāraṇamidaṃ hi paraṃ śivaśca ।

evaṃ vikalparahito ̕hamalaṃ śivaśca svātmānamātmani sumitra kathaṃ namāmi ।। 2।।

nirmūlamūlarahito hi sadodito ̕haṃ nirdhūmadhūmarahito hi sadodito ̕ham ।

nirdīpadīparahito hi sadodito ̕haṃ jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 3।।

niṣkāmakāmamiha nāma kathaṃ vadāmi niḥsaṅgasaṅgamiha nāma kathaṃ vadāmi ।

niḥsārasārarahitaṃ ca kathaṃ vadāmi jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 4।।

advaitarūpamakhilaṃ hi kathaṃ vadāmi dvaitasvarūpamakhilaṃ hi kathaṃ vadāmi ।

nityaṃ tvanityamakhilaṃ hi kathaṃ vadāmi jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 5।।

sthūlaṃ hi no nahi kṛśaṃ na gatāgataṃ hi ādyantamadhyarahitaṃ na parāparaṃ hi ।

satyaṃ vadāmi khalu vai paramārthatattvaṃ jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 6।।

saṃviddhi sarvakaraṇāni nabhonibhāni saṃviddhi sarvaviṣayāṃśca nabhonibhāṃśca ।

saṃviddhi caikamamalaṃ na hi bandhamuktaṃ jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 7।।

durbodhabodhagahano na bhavāmi tāta durlakṣyalakṣyagahano na bhavāmi tāta ।

āsannarūpagahano na bhavāmi tāta jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 8।।

niṣkarmadahano jvalano bhavāmi nirduḥkhaduḥkhadahano jvalano bhavāmi ।

nirdehadehadahano jvalano bhavāmi jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 9।।

niṣpāpapāpadahano hi hutāśano ̕haṃ nirdharmadharmadahano hi hutāśano ̕ham ।

nirbandhabandhadahano hi hutāśano ̕haṃ jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 10।।

nirbhāvabhāvarahito na bhavāmi vatsa niryogayogarahito na bhavāmi vatsa ।

niścittacittarahito na bhavāmi vatsa jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 11।।

nirmohamohapadavīti na me vikalpo niḥśokaśokapadavīti na me vikalpaḥ ।

nirlobhalobhapadavīti na me vikalpo jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 12।।

saṃsārasantatilatā na ca me kadācit santoṣasantatisukho na ca me kadācit ।

ajñānabandhanamidaṃ na ca me kadācit jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 13।।

saṃsārasantatirajo na ca me vikāraḥ santāpasantatitamo na ca me vikāraḥ ।

sattvaṃ svadharmajanakaṃ na ca me vikāro jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 14।।

santāpaduḥkhajanako na vidhiḥ kadācit santāpayogajanitaṃ na manaḥ kadācit ।

yasmādahaṅkṛtiriyaṃ na ca me kadācit jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 15।।

niṣkampakampanidhanaṃ na vikalpakalpaṃ svapnaprabodhanidhanaṃ na hitāhitaṃ hi ।

niḥsārasāranidhanaṃ na carācaraṃ hi jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 16।।

no vedyavedakamidaṃ na ca hetutarkyaṃ vācāmagocaramidaṃ na mano na buddhiḥ ।

evaṃ kathaṃ hi bhavataḥ kathayāmi tattvaṃ jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 17।।

nirbhinnabhinnarahitaṃ paramārthatattv-mantarbahirna hi kathaṃ paramārthatattvam ।

prāksambhavaṃ na ca rataṃ nahi vastu kiñcit jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 18।।

rāgādidoṣarahitaṃ tvahameva tattvaṃ daivādidoṣarahitaṃ tvahameva tattvam ।

saṃsāraśokarahitaṃ tvahameva tattvaṃ jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 19।।

sthānatrayaṃ yadi ca neti kathaṃ turīyaṃ kālatrayaṃ yadi ca neti kathaṃ diśaśca ।

śāntaṃ padaṃ hi paramaṃ paramārthatattvaṃ jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 20।।

dīrgho laghuḥ punaritīha name vibhāgo vistārasaṃkaṭamitīha na me vibhāgaḥ ।

koṇaṃ hi vartulamitīha na me vibhāgo jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 21।।

mātāpitādi tanayādi na me kadācit jātaṃ mṛtaṃ na ca mano na ca me kadācit ।

nirvyākulaṃ sthiramidaṃ paramārthatattvaṃ jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 22।।

śuddhaṃ viśuddhamavicāramanantarūpaṃ nirlepalepamavicāramanantarūpam ।

niṣkhaṇḍakhaṇḍamavicāramanantarūpaṃ jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 23।।

brahmādayaḥ suragaṇāḥ kathamatra santi svargādayo vasatayaḥ kathamatra santi ।

yadyekarūpamamalaṃ paramārthatattvaṃ jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 24।।

nirneti neti vimalo hi kathaṃ vadāmi niḥśeṣaśeṣavimalo hi kathaṃ vadāmi ।

nirliṅgaliṅgavimalo hi kathaṃ vadāmi jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 25।।

niṣkarmakarmaparamaṃ satataṃ karomi niḥsaṅgasaṅgarahitaṃ paramaṃ vinodam ।

nirdehadeharahitaṃ satataṃ vinodaṃ jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 26।।

māyāprapañcaracanā na ca me vikāraḥ । kauṭilyadambharacanā na ca me vikāraḥ ।

satyānṛteti racanā na ca me vikāro jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 27।।

sandhyādikālarahitaṃ na ca me viyogo-hyantaḥ prabodharahitaṃ badhiro na mūkaḥ ।

evaṃ vikalparahitaṃ na ca bhāvaśuddhaṃ jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 28।।

nirnāthanātharahitaṃ hi nirākulaṃ vai niścittacittavigataṃ hi nirākulaṃ vai ।

saṃviddhi sarvavigataṃ hi nirākualaṃ vai jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 29।।

kāntāramandiramidaṃ hi kathaṃ vadāmi saṃsiddhasaṃśayamidaṃ hi kathaṃ vadāmi ।

evaṃ nirantarasamaṃ hi nirākulaṃ vai jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 30।।

nirjīvajīvarahitaṃ satataṃ vibhāti nirbījabījarahitaṃ satataṃ vibhāti ।

nirvāṇabandharahitaṃ satataṃ vibhāti jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 31।।

sambhūtivarjitamidaṃ satataṃ vibhāti saṃsāravarjitamidaṃ satataṃ vibhāti ।

saṃhāravarjitamiadaṃ satataṃ vibhāti jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 32।।

ullekhamātramapi te na ca nāmarūpaṃ nirbhinnabhinnamapi te na hi vastu kiñcit ।

nirlajjamānasa karoṣi kathaṃ viṣādaṃ jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 33।।

kiṃ nāma rodiṣi sakhe na jarā na mṛtyuḥ kiṃ nāma rodiṣi sakhe na ca janma duḥkham ।

kiṃ nāma rodiṣi sakhe na ca te vikāro jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 34।।

kiṃ nāma rodiṣi sakhe na ca te svarūpaṃ kiṃ nāma rodiṣi sakhe na ca te virūpam ।

kiṃ nāma rodiṣi sakhe na ca te vayāṃsi jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 35।।

kiṃ nāma rodiṣi sakhe na ca te vayāṃsi kiṃ nāma rodiṣi sakhe na ca te manāṃsi ।

kiṃ nāma rodiṣi sakhe na tavendriyāṇi jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 36।।

kiṃ nāma rodiṣi sakhe na ca te ̕sti kāmaḥ kiṃ nāma rodiṣi sakhe na ca te pralobhaḥ ।

kiṃ nāma rodiṣi sakhe na ca te vimoho jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 37।।

aiśvaryamicchasi kathaṃ na ca te dhanāni aiśvaryamicchasi kathaṃ na ca te hi patnī ।

aiśvaryamicchasi kathaṃ na ca te mameti jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 38।।

liṅgaprapañcajanuṣī na ca te na me ca nirlajjamānasamidaṃ ca vibhāti bhinnam ।

nirbhedabhedarahitaṃ na ca te na me ca jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 39।।

no vāṇumātramapi te hi virāgarūpaṃ no vāṇumātramapi te hi sarāgarūpam ।

no vāṇumātramapi te hi sakāmarūpaṃ jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 40।।

dhyātā na te hi hṛdaye na ca te samādhi-rdhyānaṃ na te hi hṛdaye na bahiḥ pradeśaḥ ।

dhyeyaṃ na ceti hṛdaye na hi vastu kālo jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 41।।

yatsārabhūtamakhilaṃ kathitaṃ mayā te na tvaṃ na me na mahato na gururna na śiṣyaḥ ।

svacchandarūpasahajaṃ paramārthatattvaṃ jñānāmṛtaṃ samarasaṃ gaganopamo ̕ham ।। 42।।

kathamiha paramārthaṃ tattvamānandarūpaṃ kathamiha paramārthaṃ naivamānandarūpam ।

kathamiha paramārthaṃ jñānavijñānarūpaṃ yadi paramahamekaṃ vartate vyomarūpam ।। 43।।

dahanapavanahīnaṃ viddhi vijñānamek-mavanijalavihīnaṃ viddhi vijñānarūpam ।

samagamanavihīnaṃ viddhi vijñānamekaṃ gaganamiva viśālaṃ viddhi vijñānamekam ।। 44।।

na śūnyarūpaṃ na viśūnyarūpaṃ na śuddharūpaṃ na viśuddharūpam ।

rūpaṃ virūpaṃ na bhavāmi kiñcit svarūparūpaṃ paramārthatattvam ।। 45।।

muñca muñca hi saṃsāraṃ tyāgaṃ muñca hi sarvathā ।

tyāgātyāgaviṣaṃ śuddhamamṛtaṃ sahajaṃ dhruvam ।। 46।।

 

 

atha caturtho ̕dhyāyaḥ ।

 

nāvāhanaṃ naiva visarjanaṃ vā puṣpāṇi patrāṇi kathaṃ bhavanti ।

dhyānāni mantrāṇi kathaṃ bhavanti samāsamaṃ caiva śivārcanaṃ ca ।। 1।।

na kevalaṃ bandhavibandhamukto na kevalaṃ śuddhaviśuddhamuktaḥ ।

na kevalaṃ yogaviyogamuktaḥ sa vai vimukto gaganopamo ̕ham ।। 2।।

sañjāyate sarvamidaṃ hi tathyaṃ sañjāyate sarvamidaṃ vitathyam ।

evaṃ vikalpo mama naiva jātaḥ svarūpanirvāṇamanāmayo ̕ham ।। 3।।

na sāñjanaṃ caiva nirañjanaṃ vā na cāntaraṃ vāpi nirantaraṃ vā ।

antarvibhannaṃ na hi me vibhāti svarūpanirvāṇamanāmayo ̕ham ।। 4।।

abodhabodho mama naiva jāto bodhasvarūpaṃ mama naiva jātam ।

nirbodhabodhaṃ ca kathaṃ vadāmi svarūpanirvāṇamanāmayo ̕ham ।। 5।।

na dharmayukto na ca pāpayukto na bandhayukto na ca mokṣayuktaḥ ।

yuktaṃ tvayuktaṃ na ca me vibhāti svarūpanirvāṇamanāmayo ̕ham ।। 6।।

parāparaṃ vā na ca me kadācit madhyasthabhāvo hi na cārimitram ।

hitāhitaṃ cāpi kathaṃ vadāmi svarūpanirvāṇamanāmayo ̕ham ।। 7।।

nopāsako naivamupāsyarūpaṃ na copadeśo na ca me kriyā ca ।

saṃvitsvarūpaṃ ca kathaṃ vadāmi svarūpanirvāṇamanāmayo ̕ham ।। 8।।

no vyāpakaṃ vyāpyamihāsti kiñcit na cālayaṃ vāpi nirālayaṃ vā ।

aśūnyaśūnyaṃ ca kathaṃ vadāmi svarūpanirvāṇamanāmayo ̕ham ।। 9।।

na grāhako grāhyakameva kiñcit na kāraṇaṃ vā mama naiva kāryam ।

acintyacintyaṃ ca kathaṃ vadāmi svarūpanirvāṇamanāmayo ̕ham ।। 10।।

na bhedakaṃ vāpi na caiva bhedyaṃ na vedakaṃ vā mama naiva vedyam ।

gatāgataṃ tāta kathaṃ vadāmi svarūpanirvāṇamanāmayo ̕ham ।। 11।।

na cāsti deho na ca me videho buddirmano me na hi cendriyāṇi ।

rāgo virāgaśca kathaṃ vadāmi svarūpanirvāṇamanāmayo ̕ham ।। 12।।

ullekhamātraṃ na hi bhinnamuccai-rullekhamātraṃ na tirohitaṃ vai ।

samāsamaṃ mitra kathaṃ vadāmi svarūpanirvāṇamanāmayo ̕ham ।। 13।।

jitendriyo ̕haṃ tvajitendriyo vā na saṃyamo me niyamo na jātaḥ ।

jayājayau mitra kathaṃ vadāmi svarūpanirvāṇamanāmayo ̕ham ।। 14।।

amūrtamūrtirna ca me kadāci-dādyantamadhyaṃ na ca me kadācit ।

balābalaṃ mitra kathaṃ vadāmi svarūpanirvāṇamanāmayo ̕ham ।। 15।।

mṛtāmṛtaṃ vāpi viṣāviṣaṃ ca sañjāyate tāta na me kadācit ।

aśuddhaśuddhaṃ ca kathaṃ vadāmi svarūpanirvāṇamanāmayo ̕ham ।। 16।।

svapnaḥ prabodho na ca yogamudrā naktaṃ divā vāpi na me kadācit ।

aturyaturyaṃ ca kathaṃ vadāmi svarūpanirvāṇamanāmayo ̕ham ।। 17।।

saṃviddhi māṃ sarvavisarvamuktaṃ māyā vimāyā na ca me kadācit ।

sandhyādikaṃ karma kathaṃ vadāmi svarūpanirvāṇamanāmayo ̕ham ।। 18।।

saṃviddhi māṃ sarvasamādhiyuktaṃ saṃviddhi māṃ lakṣyavilakṣyamuktam ।

yogaṃ viyogaṃ ca kathaṃ vadāmi svarūpanirvāṇamanāmayo ̕ham ।। 19।।

mūrkho ̕pi nāhaṃ na ca paṇḍito ̕haṃ maunaṃ vimaunaṃ na ca me kadācit ।

tarkaṃ vitarkaṃ ca kathaṃ vadāmi svarūpanirvāṇamanāmayo ̕ham ।। 20।।

pitā ca mātā ca kulaṃ na jāti-rjanmādi mṛtyurna ca me kadācit ।

snehaṃ vimohaṃ ca kathaṃ vadāmi svarūpanirvāṇamanāmayo ̕ham ।। 21।।

astaṃ gato naiva sadodito ̕haṃ tejovitejo na ca me kadācit ।

sandhyādikaṃ karma kathaṃ vadāmi svarūpanirvāṇamanāmayo ̕ham ।। 22।।

asaṃśayaṃ viddhi nirākulaṃ māṃ asaṃśayaṃ viddhi nirantaraṃ mām ।

asaṃśayaṃ viddhi nirañjanaṃ māṃ svarūpanirvāṇamanāmayo ̕ham ।। 23।।

dhyānāni sarvāṇi parityajanti śubhāśubhaṃ karma parityajanti ।

tyāgāmṛtaṃ tāta pibanti dhīrāḥ svarūpanirvāṇamanāmayo ̕ham ।। 24।।

vindati vindati na hi na hi yatra chandolakṣaṇaṃ na hi na hi tatra ।

samarasamagno bhāvitapūtaḥ pralapati tattvaṃ paramavadhūtaḥ ।। 25।।

 

 

atha pañcamodhyāyaḥ ।

 

om iti gaditaṃ gaganasamaṃ tat na parāparasāravicāra iti ।

avilāsavilāsanirākaraṇaṃ kathamakṣarabindusamuccaraṇam ।। 1।।

iti tattvamasiprabhṛtiśrutibhiḥ pratipāditamātmani tattvamasi ।

tvamupādhivivarjitasarvasamaṃ kimu rodiṣi mānasi sarvasamam ।। 2।।

adhūrdhvavivarjitasarvasamaṃ bahirantaravarjitasarvasamam ।

yadi caikavivarjitasarvasamaṃ kimu rodiṣi mānasi sarvasamam ।। 3।।

na hi kalpitakalpavicāra iti na hi kāraṇakāryavicāra iti ।

padasandhivivarjitasarvasamaṃ kimu rodiṣi mānasi sarvasamam ।। 4।।

na hi bodhavibodhasamādhiriti na hi deśavideśasamādhiriti ।

na hi kālavikālasamādhiriti kimu rodiṣi mānasi sarvasamam ।। 5।।

na hi kumbhanabho na hi kumbha iti na hi jīvavapurna hi jīva iti ।

na hi kāraṇakāryavibhāga iti kimu rodiṣi mānasi sarvasamam ।। 6।।

iha sarvanirantaramokṣapadaṃ laghudīrghavicāravihīna iti ।

na hi vartulakoṇavibhāga iti kimu rodiṣi mānasi sarvasamam ।। 7।।

iha śūnyaviśūnyavihīna iti iha śuddhaviśuddhavihīna iti ।

iha sarvavisarvavihīna iti kimu rodiṣi mānasi sarvasamam ।। 8।।

na hi bhinnavibhinnavicāra iti bahirantarasandhivicāra iti ।

arimitravivarjitasarvasamaṃ kimu rodiṣi mānasi sarvasamam ।। 9।।

na hi śiṣyaviśiṣyasvarūpaiti na carācarabhedavicāra iti ।

iha sarvanirantaramokṣapadaṃ kimu rodiṣi mānasi sarvasamam ।। 10।।

nanu rūpavirūpavihīna iti nanu bhinnavibhinnavihīna iti ।

nanu sargavisargavihīna iti kimu rodiṣi mānasi sarvasamam ।। 11।।

na guṇāguṇapāśanibandha iti mṛtajīvanakarma karomi katham ।

iti śuddhanirañjanasarvasamaṃ kimu rodiṣi mānasi sarvasamam ।। 12।।

iha bhāvavibhāvavihīna iti iha kāmavikāmavihīna iti ।

iha bodhatamaṃ khalu mokṣasamaṃ kimu rodiṣi mānasi sarvasamam ।। 13।।

iha tattvanirantaratattvamiti na hi sandhivisandhivihīna iti ।

yadi sarvavivarjitasarvasamaṃ kimu rodiṣi mānasi sarvasamam ।। 14।।

aniketakuṭī parivārasamaṃ ihasaṅgavisaṅgavihīnaparam ।

iha bodhavibodhavihīnaparaṃ kimu rodiṣi mānasi sarvasamam ।। 15।।

avikāravikāramasatyamiti avilakṣavilakṣamasatyamiti ।

yadi kevalamātmani satyamiti kimu rodiṣi mānasi sarvasamam ।। 16।।

iha sarvasamaṃ khalu jīva iti iha sarvanirantarajīva iti ।

iha kevalaniścalajīva iti kimu rodiṣi mānasi sarvasamam ।। 17।।

avivekavivekamabodha iti avikalpavikalpamabodha iti ।

yadi caikanirantarabodha iti kimu rodiṣi mānasi sarvasamam ।। 18।।

na hi mokṣapadaṃ na hi bandhapadaṃ na hi puṇyapadaṃ na hi pāpapadam ।

na hi pūrṇapadaṃ na hi riktapadaṃ kimu rodiṣi mānasi sarvasamam ।। 19।।

yadi varṇavivarṇavihīnasamaṃ yadi kāraṇakāryavihīnasamam ।

yadibhedavibhedavihīnasamaṃ kimu rodiṣi mānasi sarvasamam ।। 20।।

iha sarvanirantarasarvacite iha kevalaniścalasarvacite ।

dvipadādivivarjitasarvacite kimu rodiṣi mānasi sarvasamam ।। 21।।

atisarvanirantarasarvagataṃ atinirmalaniścalasarvagatam ।

dinarātrivivarjitasarvagataṃ kimu rodiṣi mānasi sarvasamam ।। 22।।

na hi bandhavibandhasamāgamanaṃ na hi yogaviyogasamāgamanam ।

na hi tarkavitarkasamāgamanaṃ kimu rodiṣi mānasi sarvasamam ।। 23।।

iha kālavikālanirākaraṇaṃ aṇumātrakṛśānunirākaraṇam ।

na hi kevalasatyanirākaraṇaṃ kimu rodiṣi mānasi sarvasamam ।। 24।।

iha dehavidehavihīna iti nanu svapnasuṣuptivihīnaparam ।

abhidhānavidhānavihīnaparaṃ kimu rodiṣi mānasi sarvasamam ।। 25।।

gaganopamaśuddhaviśālasamaṃ atisarvavivarjitasarvasamam ।

gatasāravisāravikārasamaṃ kimu rodiṣi mānasi sarvasamam ।। 26।।

iha dharmavidharmavirāgatar-miha vastuvivastuvirāgataram ।

iha kāmavikāmavirāgataraṃ kimu rodiṣi mānasi sarvasamam ।। 27।।

sukhaduḥkhavivarjitasarvasam-miha śokaviśokavihīnaparam ।

guruśiṣyavivarjitatattvaparaṃ kimu rodiṣi mānasi sarvasamam ।। 28।।

na kilāṅkurasāravisāra iti na calācalasāmyavisāmyamiti ।

avicāravicāravihīnamiti kimu rodiṣi mānasi sarvasamam ।। 29।।

iha sārasamuccayasāramiti । kathitaṃ nijabhāvavibheda iti ।

viṣaye karaṇatvamasatyamiti kimu rodiṣi mānasi sarvasamam ।। 30।।

bahudhā śrutayaḥ pravadanti yato viyadādiridaṃ mṛgatoyasamam ।

yadi caikanirantarasarvasamaṃ kimu rodiṣi mānasi sarvasamam ।। 31।।

vindati vindati na hi na hi yatra chandolakṣaṇaṃ na hi na hi tatra ।

samarasamagno bhāvitapūtaḥ pralapati tattvaṃ paramavadhūtaḥ ।। 32।।

 

 

atha ṣaṣṭhamo ̕dhyāyaḥ ।

 

bahudhā śrutayaḥ pravadanti vayaṃ viyadādiridaṃ mṛgatoyasamam ।

yadi caikanirantarasarvaśiv-mupameyamathohyupamā ca katham ।। 1।।

avibhaktivibhaktivihīnaparaṃ nanu kāryavikāryavihīnaparam ।

yadi caikanirantarasarvaśivaṃ yajanaṃ ca kathaṃ tapanaṃ ca katham ।। 2।।

mana eva nirantarasarvagataṃ hyaviśālaviśālavihīnaparam ।

mana eva nirantarasarvaśivaṃ manasāpi kathaṃ vacasā ca katham ।। 3।।

dinarātrivibhedanirākaraṇ-muditānuditasya nirākaraṇam ।

yadi caikanirantarasarvaśivaṃ ravicandramasau jvalanaśca katham ।। 4।।

gatakāmavikāmavibheda iti gataceṣṭaviceṣṭavibheda iti ।

yadi caikanirantarasarvaśivaṃ bahirantarabhinnamatiśca katham ।। 5।।

yadi sāravisāravihīna iti yadi śūnyaviśūnyavihīna iti ।

yadi caikanirantarasarvaśivaṃ prathamaṃ ca kathaṃ caramaṃ ca katham ।। 6।।

yadibhedavibhedanirākaraṇaṃ yadi vedakavedyanirākaraṇam ।

yadi caikanirantarasarvaśivaṃ tṛtīyaṃ ca kathaṃ turīyaṃ ca katham ।। 7।।

gaditāviditaṃ na hi satyamiti viditāviditaṃ nahi satyamiti ।

yadi caikanirantarasarvaśivaṃ viṣayendriyabuddhimanāṃsi katham ।। 8।।

gaganaṃ pavano na hi satyamiti dharaṇī dahano na hi satyamiti ।

yadi caikanirantarasarvaśivaṃ jaladaśca kathaṃ salilaṃ ca katham ।। 9।।

yadi kalpitalokanirākaraṇaṃ yadi kalpitadevanirākaraṇam ।

yadi caikanirantarasarvaśivaṃ guṇadoṣavicāramatiśca katham ।। 10।।

maraṇāmaraṇaṃ hi nirākaraṇaṃ karaṇākaraṇaṃ hi nirākaraṇam ।

yadi caikanirantarasarvaśivaṃ gamanāgamanaṃ hi kathaṃ vadati ।। 11।।

prakṛtiḥ puruṣo na hi bheda iti na hi kāraṇakāryavibheda iti ।

yadi caikanirantarasarvaśivaṃ puruṣāpuruṣaṃ ca kathaṃ vadati ।। 12।।

tṛtīyaṃ na hi duḥkhasamāgamanaṃ na guṇāddvitīyasya samāgamanam ।

yadi caikanirantarasarvaśivaṃ sthaviraśca yuvā ca śiśuśca katham ।। 13।।

nanu āśramavarṇavihīnaparaṃ nanu kāraṇakartṛvihīnaparam ।

yadi caikanirantarasarvaśiv-mavinaṣṭavinaṣṭamatiśca katham ।। 14।।

grasitāgrasitaṃ ca vitathyamiti janitājanitaṃ ca vitathyamiti ।

yadi caikanirantarasarvaśiv-mavināśi vināśi kathaṃ hi bhavet ।। 15।।

puruṣāpuruṣasya vinaṣṭamiti vanitāvanitasya vinaṣṭamiti ।

yadi caikanirantarasarvaśiv-mavinodavinodamatiśca katham ।। 16।।

yadi mohaviṣādavihīnaparo yadi saṃśayaśokavihīnaparaḥ ।

yadi caikanirantarasarvaśiv-mahameti mameti kathaṃ ca punaḥ ।। 17।।

nanu dharmavidharmavināśa iti nanu bandhavibandhavināśa iti ।

yadi caikanirantarasarvaśivaṃ-mihaduḥkhaviduḥkhamatiśca katham ।। 18।।

na hi yājñikayajñavibhāga iti na hutāśanavastuvibhāga iti ।

yadi caikanirantarasarvaśivaṃ vada karmaphalāni bhavanti katham ।। 19।।

nanu śokaviśokavimukta iti nanu darpavidarpavimukta iti ।

yadi caikanirantarasarvaśivaṃ nanu rāgavirāgamatiśca katham ।। 20।।

na hi mohavimohavikāra iti na hi lobhavilobhavikāra iti ।

yadi caikanirantarasarvaśivaṃ hyavivekavivekamatiśca katham ।। 21।।

tvamahaṃ na hi hanta kadācidapi kulajātivicāramasatyamiti ।

ahameva śivaḥ paramārtha iti abhivādanamatra karomi katham ।। 22।।

guruśiṣyavicāraviśīrṇa iti upadeśavicāraviśīrṇa iti ।

ahameva śivaḥ paramārtha iti abhivādanamatra karomi katham ।। 23।।

na hi kalpitadehavibhāga iti na hi kalpitalokavibhāga iti ।

ahameva śivaḥ paramārtha iti abhivādanamatra karomi katham ।। 24।।

sarajo virajo na kadācidapi nanu nirmalaniścalaśuddha iti ।

ahameva śivaḥ paramārtha iti abhivādanamatra karomi katham ।। 25।।

na hi dehavidehavikalpa iti anṛtaṃ caritaṃ na hi satyamiti ।

ahameva śivaḥ paramārtha iti abhivādanamatra karomi katham ।। 26।।

vindati vindati na hi na hi yatra chandolakṣaṇaṃ na hi na hi tatra ।

samarasamagno bhāvitapūtaḥ pralapati tattvaṃ paramavadhūtaḥ ।। 27।।

 

 

 

atha saptamo ̕dhyāyaḥ ।

 

rathyākarpaṭaviracitakanthaḥ puṇyāpuṇyavivarjitapanthaḥ ।

śūnyāgāre tiṣṭhati nagno śuddhanirañjanasamarasamagnaḥ ।। 1।।

lakṣyālakṣyavivarjitalakṣyo yuktāyuktavivarjitadakṣaḥ ।

kevalatattvanirañjanapūto vādavivādaḥ kathamavadhūtaḥ ।। 2।।

āśāpāśavibandhanamuktāḥ śaucācāravivarjitayuktāḥ ।

evaṃ sarvavivarjitaśānt-stattvaṃ śuddhanirañjanavantaḥ ।। 3।।

kathamiha dehavidehavicāraḥ kathamiha rāgavirāgavicāraḥ ।

nirmalaniścalagaganākāraṃ svayamiha tattvaṃ sahajākāram ।। 4।।

kathamiha tattvaṃ vindati yatra rūpamarūpaṃ kathamiha tatra ।

gaganākāraḥ paramo yatra viṣayīkaraṇaṃ kathamiha tatra ।। 5।।

gaganākāranirantarahaṃs-stattvaviśuddhanirañjanahaṃsaḥ ।

evaṃ kathamiha bhinnavibhinnaṃ bandhavibandhavikāravibhinnam ।। 6।।

kevalatattvanirantarasarvaṃ yogaviyogau kathamiha garvam ।

evaṃ paramanirantarasarv-mevaṃ kathamiha sāravisāram ।। 7।।

kevalatattvanirañjanasarvaṃ gaganākāranirantaraśuddham ।

evaṃ kathamiha saṅgavisaṅgaṃ satyaṃ kathamiha raṅgaviraṅgam ।। 8।।

yogaviyogai rahito yogī bhogavibhogai rahito bhogī ।

evaṃ carati hi mandaṃ mandaṃ manasā kalpitasahajānandam ।। 9।।

bodhavibodhaiḥ satataṃ yukto dvaitādvaitaiḥ kathamiha muktaḥ ।

sahajo virajaḥ kathamiha yogī śuddhanirañjanasamarasabhogī ।। 10।।

bhagnābhagnavivarjitabhagno lagnālagnavivarjitalagnaḥ ।

evaṃ kathamiha sāravisāraḥ samarasatattvaṃ gaganākāraḥ ।। 11।।

satataṃ sarvavivarjitayuktaḥ sarvaṃ tattvavivarjitamuktaḥ ।

evaṃ kathamiha jīvitamaraṇaṃ dhyānādhyānaiḥ kathamiha karaṇam ।। 12।।

indrajālamidaṃ sarvaṃ yathā marumarīcikā ।

akhaṇḍitamanākāro vartate kevalaḥ śivaḥ ।। 13।।

dharmādau mokṣaparyantaṃ nirīhāḥ sarvathā vayam ।

kathaṃ rāgavirāgaiśca kalpayanti vipaścitaḥ ।। 14।।

vindati vindati na hi na hi yatra chandolakṣaṇaṃ na hi na hi tatra ।

samarasamagno bhāvitapūtaḥ pralapati tattvaṃ paramavadhūtaḥ ।। 15।।

 

 

atha aṣṭamo ̕dhyāyaḥ ।

 

tvadyātrayā vyāpakatā hatā te dhyānena cetaḥparatā hatā te ।

stutyā mayā vākparatā hatā te kṣamasva nityaṃ trividhāparādhān ।। 1।।

kāmairahatadhīrdānto mṛduḥ śucirakiñcanaḥ ।

anīho mitabhuk śāntaḥ sthiro maccharaṇo muniḥ ।। 2।।

apramatto gabhīrātmā dhṛtimān jitaṣaḍguṇaḥ ।

amānī mānadaḥ kalpo maitraḥ kāruṇikaḥ kaviḥ ।। 3।।

kṛpālurakṛtadrohastitikṣuḥ sarvadehinām ।

satyasāro ̕navadyātmā samaḥ sarvopakārakaḥ ।। 4।।

avadhūtalakṣaṇaṃ varṇairjñātavyaṃ bhagavattamaiḥ ।

vedavarṇārthatattvajñairvedavedāntavādibhiḥ ।। 5।।

āśāpāśavinirmukta ādimadhyāntanirmalaḥ ।

ānande vartate nityamakāraṃ tasya lakṣaṇam ।। 6।।

vāsanā varjitā yena vaktavyaṃ ca nirāmayam ।

vartamāneṣu varteta vakāraṃ tasya lakṣaṇam ।। 7।।

dhūlidhūsaragātrāṇi dhūtacitto nirāmayaḥ ।

dhāraṇādhyānanirmukto dhūkārastasya lakṣaṇam ।। 8।।

tattvacintā dhṛtā yena cintāceṣṭāvivarjitaḥ ।

tamo ̕haṃkāranirmuktastakārastasya lakṣaṇam ।। 9।।

dattātreyāvadhūtena nirmitānandarūpiṇā ।

ye paṭhanti ca śṛṇvanti teṣāṃ naiva punarbhavaḥ ।। 10।।

 

 

१ २ ३ ४ ५ ६ ७ ८
1 2 3 4 5 6 7 8

 


 

 

 

Creative Commons License

Precedente Home Successiva

Privacy Policy