Śiva Sahasranāma

 

I mille nomi di Śiva

(testo in sanscrito tratto dallo Shiva Purana - Koṭirudra-Saṃhitā cap. 35)

 

 

शिव सहस्रनाम

 

सूत उवाच ।

श्रूयतामृषयः श्रेष्ठाः कथयामि यथा श्रुतम् ।

विष्णुना प्रार्थितो येन संतुष्टः परमेश्वरः ।

तदाहं कथयाम्यद्य पुण्यं नाम सहस्रकम् ॥ १ ॥

 

श्रीविष्णुरुवाच ।

शिवो हरो मृडो रुद्रः पुष्करः पुष्पलोचनः ।

अर्थिगम्यः सदाचारः शर्वः शंभुर्महेश्वरः ॥ २ ॥

 

चंद्रापीडश्चंद्रमौलिर्विश्वं विश्वंभरेश्वरः ।

वेदांतसारसंदोहः कपाली नीललोहितः ॥ ३ ॥

 

ध्यानाधारोऽपरिच्छेद्यो गौरीभर्त्ता गणेश्वरः ।

अष्टमूर्तिर्विश्वमूर्तिस्त्रिवर्गस्वर्गसाधनः ॥ ४ ॥

 

ज्ञानगम्यो दृढप्रज्ञो देवदेवस्त्रिलोचनः ।

वामदेवो महादेवः पटुः परिवृढो दृढः ॥ ५ ॥

 

विश्वरूपो विरूपाक्षो वागीशः शुचिसत्तमः ।

सर्वप्रमाणसंवादी वृषाङ्को वृषवाहनः ॥ ६ ॥

 

ईशः पिनाकी खट्वांगी चित्रवेषश्चिरंतनः ।

तमोहरो महायोगी गोप्ता ब्रह्मा च धूर्जटिः ॥ ७ ॥

 

कालकालः कृत्तिवासाः सुभगः प्रणवात्मकः ।

उन्नध्रः पुरुषो जुष्यो दुर्वासाः पुरशासनः ॥ ८ ॥

 

दिव्यायुधः स्कंदगुरुः परमेष्ठीः परात्परः ।

अनादिमध्यनिधनो गिरीशो गिरिजाधवः ॥ ९ ॥

 

कुबेरबंधुः श्रीकंठो लोकवर्णोत्तमो मृदुः ।

समाधिवेद्यः कोदंडी नीलकंठः परस्वधीः ॥ १० ॥

 

विशालाक्षो मृगव्याधः सुरेशः सूर्यतापनः ।

धर्मधाम क्षमाक्षेत्रं भगवान्भगनेत्रभित् ॥ ११ ॥

 

उग्रः पशुपतिस्तार्क्ष्यः प्रियभक्तः परंतपः ।

दाता दयाकरो दक्षः कर्मंदीः कामशासनः ॥ १२ ॥

 

श्मशाननिलयः सूक्ष्मः श्मशानस्थो महेश्वरः ।

लोककर्त्ता मृगपतिर्महाकर्त्ता महौषधिः ॥ १३ ॥

 

उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ।

नीतिः सुनीतिः शुद्धात्मा सोमः सोमरतः सुखी ॥ १४ ॥

 

सोमपोऽमृतपः सौम्यो महातेजा महाद्युतिः ।

तेजोमयोऽमृतमयोऽन्नमयश्च सुधापतिः ॥ १५ ॥

 

अजातशत्रुरालोकः संभाव्यो हव्यवाहनः ।

लोककरो वेदकरः सूत्रकारः सनातनः ॥ १६ ॥

 

महर्षिकपिलाचार्यो विश्वदीप्तिस्त्रिलोचनः ।

पिनाकपाणिर्भूदेवः स्वस्तिदः स्वस्तिकृत्सुधीः ॥ १७ ॥

 

धातृधामा धामकरः सर्वगः सर्वगोचरः ।

ब्रह्मसृग्विश्वसृक्सर्गः कर्णिकारः प्रियः कविः ॥ १८ ॥

 

शाखो विशाखो गोशाखः शिवो भिषगनुत्तमः ।

गंगाप्लवोदको भव्यः पुष्कलः स्थपतिः स्थिरः ॥ १९ ॥

 

विजितात्मा विधेयात्मा भूतवाहनसारथिः ।

सगणो गणकायश्च सुकीर्तिच्छिन्नसंशयः ॥ २० ॥

 

कामदेवः कामपालो भस्मोद्धूलितविग्रहः ।

भस्मप्रियो भस्मशायी कामी कांतः कृतागमः ॥ २१ ॥

 

समावर्तोऽनिवृत्तात्मा धर्मपुंजः सदाशिवः ।

अकल्मषश्च पुण्यात्मा चतुर्बाहुर्दुरासदः ॥ २२ ॥

 

दुर्लभो दुर्गमो दुर्गः सर्वायुधविशारदः ।

अध्यात्मयोगनिलयः सुतंतुस्तंतुवर्धनः ॥ २३ ॥

 

शुभांगो लोकसारंगो जगदीशो जनार्दनः ।

भस्मशुद्धिकरो मेरुरोजस्वी शुद्धविग्रहः ॥ २४ ॥

 

असाध्यः साधुसाध्यश्च भृत्यमर्कटरूपधृक् ।

हिरण्यरेताः पौराणो रिपुजीवहरो बली ॥ २५ ॥

 

महाह्रदो महागर्तस्सिद्धोवृंदारवंदितः ।

व्याघ्रचर्मांबरो व्याली महाभूतो महानिधिः ॥ २६ ॥

 

अमृतोऽमृवपुः श्रीमान्पाञ्चजन्यः प्रभंजनः ।

पंचविंशतितत्त्वस्थः पारिजातः परात्परः ॥ २७ ॥

 

सुलभस्सुव्रतश्शूरो वाङ्मयैकनिधिर्निधिः ।

वर्णाश्रमगुरुर्वर्णी शत्रुजिच्छत्रुतापनः ॥ २८ ॥

 

आश्रमः क्षपणः क्षामो ज्ञानवानचलेश्वरः ।

प्रमाणभूतो दुर्ज्ञेयः सुपर्णो वायुवाहनः ॥ २९ ॥

 

धनुर्धरो धनुर्वेदो गुणः शशिगुणाकरः ।

सत्यस्सत्यपरोऽदीनो धर्मो गोधर्मशासनः ॥ ३० ॥

 

अनंतदृष्टिरानंदो दंडो दमयिता दमः ।

अभिचार्य्यो महामायो विश्वकर्म विशारदः ॥ ३१ ॥

 

वीतरागो विनीतात्मा तपस्वीभूतभावनः ।

उन्मत्तवेषः प्रच्छन्नो जितकामोऽजितप्रियः ॥ ३२ ॥

 

कल्याणप्रकृतिः कल्पः सर्वलोकप्रजापतिः ।

तरस्वी तारको धीमान्प्रधानः प्रभुरव्ययः ॥ ३३ ॥

 

लोकपालोंऽतर्हितात्मा कल्पादिः कमलेक्षणः ।

वेदशास्त्रार्थतत्त्वज्ञोऽनियमो नियताश्रयः ॥ ३४ ॥

 

चंद्रः सूर्यः शनिः केतुर्वरांगो विद्रुमच्छविः ।

भक्तिवश्यः परं ब्रह्म मृगबाणापर्णोऽनघः ॥ ३५ ॥

 

अद्रिरद्र्यालयः कांतः परमात्मा जगद्गुरुः ।

सर्वकर्मालयस्तुष्टो मंगल्यो मंगलावृतः ॥ ३६ ॥

 

महातपा दीर्घतपाः स्थविष्ठ स्थविरो ध्रुवः ।

अहः संवत्सरो व्याप्तिः प्रमाणं परमं तपः ॥ ३७ ॥

 

संवत्सरकरो मंत्रः प्रत्ययः सर्वतापनः ।

अजः सर्वेश्वरस्सिद्धो महातेजा महाबलः ॥ ३८ ॥

 

योगी योग्यो महारेता सिद्धिः सर्वादिरग्रहः ।

वसुर्वसुमनाः सत्यः सर्वपापहरो हरः ॥ ३९ ॥

 

सुकीर्ति शोभनस्स्रग्वी वेदांगो वेदविन्मुनिः ।

भ्राजिष्णुर्भोजनं भोक्ता लोकनाथो दुराधरः ॥ ४० ॥

 

अमृतश्शाश्वतश्शांतो बाणहस्तः प्रतापवान् ।

कमंडलुधरो धन्वी ह्यवाङ्मनसगोचरः ॥ ४१ ॥

 

अतींद्रियो महामायस्सर्ववासश्चतुष्पथः ।

कालयोगी महानादो महोत्साहो महाबलः ॥ ४२ ॥

 

महाबुद्धिर्महावीर्यो भूतचारी पुरं दरः ।

निशाचरः प्रेतचारी महाशक्तिर्महाद्युतिः ॥ ४३ ॥

 

अनिर्देश्यवपुः श्रीमान्सर्वाचार्यमनोगतिः ।

बहुश्रुतिर्महामायो नियतात्मा ध्रुवोऽध्रुवः ॥ ४४ ॥

 

तेजस्तेजो द्युतिधरो जनकः सर्वशासकः ।

नृत्यप्रियो नृत्यनित्यः प्रकाशात्मा प्रकाशकः ॥ ४५ ॥

 

स्पष्टाक्षरो बुधो मंत्रः समानः सारसंप्लवः ।

युगादिकृद्युगावर्तो गंभीरो वृषवाहनः ॥ ४६ ॥

 

इष्टो विशिष्टः शिष्टेष्टः सुलभः सारशो धनः ।

तीर्थरूपस्तीर्थनामा तीर्थादृश्यस्तु तीर्थदः ॥ ४७ ॥

 

अपांनिधिरधिष्ठानं विजयो जयकालवित् ।

प्रतिष्ठितः प्रमाणज्ञो हिरण्यकवचो हरिः ॥ ४८ ॥

 

विमोचनस्सुरगणो विद्येशो बिंदुसंश्रयः ।

वातरूपोऽमलोन्मायी विकर्ता गहनो गुहः ॥ ४९ ॥

 

करणं कारणं कर्ता सर्वबंधविमोचनः ।

व्यवसायो व्यवस्थानः स्थानदो जगदादिजः ॥ ५० ॥

 

गुरुदो ललितोऽभेदो भावात्मात्मनि संस्थितः ।

वीरेश्वरो वीरभद्रो वीरासनविधिर्गुरुः ॥ ५१ ॥

 

वीरचूडामणिर्वेत्ता चिदानंदो नदीधरः ।

आज्ञाधारस्त्रिशूली च शिपिविष्टः शिवालयः ॥ ५२ ॥

 

बालखिल्यो महावीरस्तिग्मांशुर्बधिरः खगः ।

अभिरामः सुशरणः सुब्रह्मण्यः सुधापतिः ॥ ५३ ॥

 

मघवान्कौशिको गोमान्विरामः सर्वसाधनः ।

ललाटाक्षो विश्वदेहः सारः संसारचक्रभृत् ॥ ५४ ॥

 

अमोघदंडी मध्यस्थो हिरण्यो ब्रह्मवर्चसः ।

परमार्थः परोमायी शंबरो व्याघ्रलोचनः ॥ ९५ ॥

 

रुचिर्बहुरुचिर्वेद्यो वाचस्पतिरहस्पतिः ।

रविर्विरोचनः स्कंदः शास्ता वैवस्वतो यमः ॥ ५६ ॥

 

युक्तिरुन्नतकीर्तिश्च सानुरागः पुरंजयः ।

कैलासाधिपतिः कांतः सविता रविलोचनः ॥ ५७ ॥

 

विश्वोत्तमो वीतभयो विश्वभर्त्ताऽनिवारितः ।

नित्यो नियतकल्याणः पुण्यश्रवणकीर्त्तनः ॥ ५८ ॥

 

दूरश्रवो विश्वसहो ध्येयो दुःस्वप्ननाशनः ।

उत्तारणो दुष्कृतिहा विज्ञेयो दुःसहोऽभवः ॥ ५९ ॥

 

अनादिर्भूर्भुवो लक्ष्मीः किरीटी त्रिदशाधिपः ।

विश्वगोप्ता विश्वकर्त्ता सुवीरो रुचिरांगदः ॥ ६० ॥

 

जननो जनजन्मादिः प्रीतिमान्नीतिमान्ध्रुवः ।

वशिष्ठः कश्यपो भानुर्भीमो भीमपराक्रमः ॥ ६१ ॥

 

प्रणवः सत्पथाचारो महाकोशो महाधनः ।

जन्माधिपो महा देवः सकलागमपारगः ॥ ६२ ॥

 

तत्त्वं तत्त्वविदेकात्मा विभुर्विष्णुर्विभूषणः ।

ऋषिर्ब्राह्मण ऐश्वर्यजन्ममृत्युजरातिगः ॥ ६३ ॥

 

पंचयज्ञसमुत्पत्तिर्विश्वेशो विमलोदयः ।

आत्मयोनिरनाद्यंतो वत्सलो भक्तलोकधृक् ॥ ६४ ॥

 

गायत्रीवल्लभः प्रांशुर्विश्वावासः प्रभाकरः ।

शिशुर्गिरिरतः सम्राट् सुषेणः सुरशत्रुहा ॥ ६५ ॥

 

अनेमिरिष्टनेमिश्च मुकुन्दो विगतज्वरः ।

स्वयंज्योतिर्महाज्योतिस्तनुज्योतिरचंचलः ॥ ६६ ॥

 

पिंगलः कपिलश्मश्रुर्भालनेत्रस्त्रयीतनुः ।

ज्ञानस्कंदो महानीतिर्विश्वोत्पत्तिरुपप्लवः ॥ ६७ ॥

 

भगो विवस्वानादित्यो गतपारो बृहस्पतिः ।

कल्याणगुणनामा च पापहा पुण्यदर्शनः ॥ ६८ ॥

 

उदारकीर्तिरुद्योगी सद्योगी सदसत्त्रपः ।

नक्षत्रमाली नाकेशः स्वाधिष्ठानः षडाश्रयः ॥ ६९ ॥

 

पवित्रः पापहारी च मणिपूरो नभोगतिः ।

हृत्पुंडरीकमासीनः शक्रः शांतो वृषाकपिः ॥ ७० ॥

 

उष्णो गृहपतिः कृष्णः समर्थोऽनर्थनाशनः ।

अधर्मशत्रुरज्ञेयः पुरुहूतः पुरुश्रुतः ॥ ७१ ॥

 

ब्रह्मगर्भो बृहद्गर्भो धर्मधेनुर्धनागमः ।

जगद्धितैषी सुगतः कुमारः कुशलागमः ॥ ७२ ॥

 

हिरण्यवर्णो ज्योतिष्मान्नानाभूतरतो ध्वनिः ।

आरोग्यो नमनाध्यक्षो विश्वामित्रो धनेश्वरः ॥ ७३ ॥

 

ब्रह्मज्योतिर्वसुधामा महाज्योतिरनुत्तमः ।

मातामहो मातरिश्वा नभस्वान्नागहारधृक् ॥ ७४ ॥

 

पुलस्त्यः पुलहोऽगस्त्यो जातूकर्ण्यः पराशरः ।

निरावरणनिर्वारो वैरंच्यो विष्टरश्रवाः ॥ ७५ ॥

 

आत्मभूरनिरुद्धोऽत्रिर्ज्ञानमूर्तिर्महायशाः ।

लोकवीराग्रणीर्वीरश्चण्डः सत्यपराक्रमः ॥ ७६ ॥

 

व्यालकल्पो महाकल्पः कल्पवृक्षः कलाधरः ।

अलंकरिष्णुरचलो रोचिष्णुर्विक्रमोन्नतः ॥ ७७ ॥

 

आयुः शब्दपतिर्वाग्मी प्लवनश्शिखिसारथिः ।

असंसृष्टोऽतिथिश्शत्रुः प्रमाथी पादपासनः ॥ ७८ ॥

 

वसुश्रवा कव्यवाहः प्रतप्तो विश्वभोजनः ।

जप्यो जरादिशमनो लोहितश्च तनूनपात् ॥ ७९ ॥

 

पृषदश्वो नभोयोनिः सुप्रतीकस्तमिस्रहा ।

निदाघस्तपनो मेघभक्षः परपुरंजयः ॥ ८० ॥

 

सुखानिलस्सुनिष्पन्नस्सुरभिश्शिशिरात्मकः ।

वसंतो माधवो ग्रीष्मो नभस्यो बीजवाहनः ॥ ८१ ॥

 

अंगिरा गुरुरात्रेयो विमलो विश्वपावनः ।

पावनः पुरजिच्छक्रस्त्रैविद्यो नववारण ॥ ८२ ॥

 

मनोबुद्धिरहंकारः क्षेत्रज्ञः क्षेत्रपालकः ।

जमदग्निर्बलनिधिर्विगालो विश्वगालवः ॥ ८३ ॥

 

अघोरोऽनुत्तरो यज्ञः श्रेयो निःश्रेयसप्रदः ।

शैलो गगनकुंदाभो दानवारिररिंदमः ॥ ८४ ॥

 

चामुण्डो जनकश्चारुर्निश्शल्यो लोकशल्यधृक् ।

चतुर्वेदश्चतुर्भावश्चतुरश्चतुर प्रियः ॥ ८५ ॥

 

आम्नायोऽथ समाम्नायस्तीर्थदेवशिवालयः ।

बहुरूपो महारूपस्सर्वरूपश्चराचरः ॥ ८६ ॥

 

न्यायनिर्मायको नेयो न्यायगम्यो निरंजनः ।

सहस्रमूर्द्धा देवेंद्रस्सर्वशस्त्रप्रभंजनः ॥ ८७ ॥

 

मुंडी विरूपो विकृतो दंडी नादी गुणोत्तमः ।

पिंगलाक्षो हि बह्वयो नीलग्रीवो निरामयः ॥ ८८ ॥

 

सहस्रबाहुस्सर्वेशश्शरण्यस्सर्वलोकधृक् ।

पद्मासनः परं ज्योतिः पारम्पर्य्यफलप्रदः ॥ ८९ ॥

 

पद्मगर्भो महागर्भो विश्वगर्भो विचक्षणः ।

परावरज्ञो वरदो वरेण्यश्च महास्वनः ॥ ९० ॥

 

देवासुरगुरुर्देवो देवासुरनमस्कृतः ।

देवासुरमहा मित्रो देवासुरमहेश्वरः ॥ ९१ ॥

 

देवासुरेश्वरो दिव्यो देवासुरमहाश्रयाः ।

देवदेवोऽनयोऽचिंत्यो देवतात्मात्मसंभवः ॥ ९२ ॥

 

सद्यो महासुरव्याधो देवसिंहो दिवाकरः ।

विबुधामचरः श्रेष्ठः सर्वदेवोत्तमोत्तम ॥ ९३ ॥

 

शिवज्ञानरतः श्रीमाञ्शिखी श्रीपर्वतप्रियः ।

वज्रहस्तस्सिद्धखङ्गो नरसिंहनिपातनः ॥ ९४ ॥

 

ब्रह्मचारी लोकचारी धर्मचारी धनाधिपः ।

नन्दी नंदीश्वरोऽनंतो नग्नव्रतधरश्शुचिः ॥ ९५ ॥

 

लिंगाध्यक्षः सुराध्यक्षो युगाध्यक्षो युगापहः ।

स्वधामा स्वगतः स्वर्गी स्वरः स्वरमयः स्वनः ॥ ९६ ॥

 

बाणाध्यक्षो बीजकर्ता कर्मकृद्धर्मसंभवः ।

दंभो लोभोऽथ वै शंभुस्सर्व भूतमहेश्वरः ॥ ९७ ॥

 

श्मशाननिलयस्त्र्यक्षस्स तुरप्रतिमाकृतिः ।

लोकोत्तरस्फुटोलोकः त्र्यंबको नागभूषणः ॥ ९८ ॥

 

अंधकारि मखद्वेषी विष्णुकंधरपातनः ।

हीनदोषोऽक्षयगुणो दक्षारिः पूषदंतभित् ॥ ९९ ॥

 

पूर्णः पूरयिता पुण्यः सुकुमारः सुलोचनः ।

सन्मार्गमप्रियो धूर्त्तः पुण्यकीर्तिरनामयः ॥ १०० ॥

 

मनोजवस्तीर्थकरो जटिलो नियमेश्वरः ।

जीवितांतकरो नित्यो वसुरेता वसुप्रदः ॥ १०१ ॥

 

सद्गतिः सिद्धिदः सिद्धिः सज्जातिः खलकंटकः ।

कलाधरो महाकालभूतः सत्यपरायणः ॥ १०२ ॥

 

लोकलावण्यकर्ता च लोकोत्तरसुखालयः ।

चंद्रसंजीवनश्शास्ता लोकग्राहो महाधिपः ॥ १०३ ॥

 

लोकबंधुर्लोकनाथः कृतज्ञः कृतिभूषितः ।

अनपायोऽक्षरः कांतः सर्वशस्त्रभृतां वरः ॥ १०४ ॥

 

तेजोमयो श्रुतिधरो लोकमानी घृणार्णवः ।

शुचिस्मितः प्रसन्नात्मा ह्यजेयो दुरतिक्रमः ॥ १०५ ॥

 

ज्योतिर्मयो जगन्नाथो निराकारो जलेश्वरः ।

तुम्बवीणो महाकायो विशोकश्शोकनाशनः ॥ १०६ ॥

 

त्रिलोकपस्त्रिलोकेशः सर्वशुद्धिरधोक्षजः ।

अव्यक्तलक्षणो देवो व्यक्तोऽव्यक्तो विशांपतिः ॥ १०७ ॥

 

परः शिवो वसुर्नासासारो मानधरो यमः ।

ब्रह्मा विष्णुः प्रजापालो हंसो हंसगतिर्वयः ॥ १०८ ॥

 

वेधा विधाता धाता च स्रष्टा हर्त्ता चतुर्मुखः ।

कैलासशिखरावासी सर्वावासी सदागति ॥ १०९ ॥

 

हिरण्यगर्भो द्रुहिणो भूतपालोऽथ भूपतिः ।

सद्योगी योगविद्योगीवरदो ब्राह्मणप्रिय ॥ ११० ॥

 

देवप्रियो देवनाथो देवको देवचिंतकः ।

विषमाक्षो विरूपाक्षो वृषदो वृषवर्धनः ॥ १११ ॥

 

निर्ममो निरहंकारो निर्मोहो निरुपद्रवः ।

दर्पहा दर्पदो दृप्तः सर्वार्थपरिवर्त्तकः ॥ ११२ ॥

 

सहस्रार्चिर्भूतिभूषः स्निग्धाकृतिरदक्षिणः ।

भूतभव्यभवन्नाथो विभवो भूतिनाशनः ॥ ११३ ॥

 

अर्थोऽनर्थो महाकोश परकायैकपंडित ।

निष्कंटकः कृतानंदो निर्व्याजो व्याजमर्दनः ॥ ११४ ॥

 

सत्त्ववान्सात्त्विकः सत्यः कृतस्नेहः कृतागमः ।

अकंपितो गुणग्राही नैकात्मानैककर्मकृत् ॥ ११५ ॥

 

सुप्रीतः सुखदः सूक्ष्मः सुकरो दक्षिणानिलः ।

नंदिस्कंदो धरो धुर्यः प्रकटः प्रीतिवर्धनः ॥ ११६ ॥

 

अपराजितः सर्वसहो गोविंदः सत्त्ववाहनः ।

अधृतः स्वधृतः सिद्धः पूतमूर्तिर्यशोधनः ॥ ११७ ॥

 

वाराहशृंगधृक् शृंगी बलवानेकनायकः ।

श्रुतिप्रकाशः श्रुतिमाने कबंधुरनेकधृक् ॥ ११८ ॥

 

श्रीवत्सलः शिवारंभः शांतभद्रः समो यशः ।

भूयशो भूषणो भूतिर्भूतिकृद्भूतभावनः ॥ ११९ ॥

 

अकंपो भक्तिकायस्तु कालहानिः कलाविभुः ।

सत्यव्रती महात्यागी नित्यशांतिपरायणः ॥ १२० ॥

 

परार्थवृत्तिर्वरदो विरक्तस्तु विशारदः ।

शुभदः शुभकर्ता च शुभनामा शुभः स्वयम् ॥ १२१ ॥

 

अनर्थितो गुणग्राही ह्यकर्ता कनकप्रभः ।

स्वभावभद्रो मध्यस्थ शत्रुघ्नो विघ्ननाशनः ॥ १२२ ॥

 

शिखंडी कवची शूली जटी मुंडी च कुंडली ।

अमृत्युः सर्वदृक् सिंहस्तेजोराशिर्महामणिः ॥ १२३ ॥

 

असंख्येयोऽप्रमेयात्मा वीर्यवान् वीर्यकोविदः ।

वेद्यश्च वै वियोगात्मा सप्तावरमुनीश्वरः ॥ १२४ ॥

 

अनुत्तमो दुराधर्षो मधुरः प्रियदर्शनः ।

सुरेश स्मरणः सर्वः शब्दः प्रतपतां वरः ॥ १२५ ॥

 

कालपक्षः कालकालः सुकृती कृतवासुकिः ।

महेष्वासो महीभर्ता निष्कलंको विशृंखल ॥ १२६ ॥

 

द्युमणिस्तरणिर्धन्यः सिद्धिदः सिद्धिसाधनः ।

विश्वतस्संवृतस्तु व्यूढोरस्को महाभुजः ॥ १२७ ॥

 

सर्वयोनिर्निरातंको नरनारायणप्रियः ।

निर्लेपो यतिसंगात्मा निर्व्यंगो व्यंगनाशनः ॥ १२८ ॥

 

स्तव्यः स्तवप्रियः स्तोता व्यासमूर्तिर्निरंकुलः ।

निरवद्यमयोपायो विद्याराशिश्च सत्कृतः ॥ १२९ ॥

 

प्रशांतबुद्धिरक्षुण्णः संग्रहो नित्यसुंदरः ।

वैयाघ्रधुर्यो धात्रीशः संकल्पः शर्वरीपतिः ॥ १३० ॥

 

परमार्थगुरुर्दत्तः सूरिराश्रितवत्सलः ।

सोमो रसज्ञो रसदः सर्वसत्त्वावलंबनः ॥ १३१ ॥

 

एवं नाम्नां सहस्रेण तुष्टाव हि हरं हरिः ।

प्रार्थयामास शम्भुं वै पूजयामास पंकजः ॥ १३२ ॥

 

 

 

Śiva Sahasranāma

 

 

sūta uvāca |

śrūyatāmṛṣayaḥ śreṣṭhāḥ kathayāmi yathā śrutam |

viṣṇunā prārthito yena saṃtuṣṭaḥ parameśvaraḥ |

tadāhaṃ kathayāmyadya puṇyaṃ nāma sahasrakam || 1 ||

 

śrīviṣṇuruvāca |

śivo haro mṛḍo rudraḥ puṣkaraḥ puṣpalocanaḥ |

arthigamyaḥ sadācāraḥ śarvaḥ śaṃbhurmaheśvaraḥ || 2 ||

 

caṃdrāpīḍaścaṃdramaulirviśvaṃ viśvaṃbhareśvaraḥ |

vedāṃtasārasaṃdohaḥ kapālī nīlalohitaḥ || 3 ||

 

dhyānādhāro'paricchedyo gaurībharttā gaṇeśvaraḥ |

aṣṭamūrtirviśvamūrtistrivargasvargasādhanaḥ || 4 ||

 

jñānagamyo dṛḍhaprajño devadevastrilocanaḥ |

vāmadevo mahādevaḥ paṭuḥ parivṛḍho dṛḍhaḥ || 5 ||

 

viśvarūpo virūpākṣo vāgīśaḥ śucisattamaḥ |

sarvapramāṇasaṃvādī vṛṣāṅko vṛṣavāhanaḥ || 6 ||

 

īśaḥ pinākī khaṭvāṃgī citraveṣaściraṃtanaḥ |

tamoharo mahāyogī goptā brahmā ca dhūrjaṭiḥ || 7 ||

 

kālakālaḥ kṛttivāsāḥ subhagaḥ praṇavātmakaḥ |

unnadhraḥ puruṣo juṣyo durvāsāḥ puraśāsanaḥ || 8 ||

 

divyāyudhaḥ skaṃdaguruḥ parameṣṭhīḥ parātparaḥ |

anādimadhyanidhano girīśo girijādhavaḥ || 9 ||

 

kuberabaṃdhuḥ śrīkaṃṭho lokavarṇottamo mṛduḥ |

samādhivedyaḥ kodaṃḍī nīlakaṃṭhaḥ parasvadhīḥ || 10 ||

 

viśālākṣo mṛgavyādhaḥ sureśaḥ sūryatāpanaḥ |

dharmadhāma kṣamākṣetraṃ bhagavānbhaganetrabhit || 11 ||

 

ugraḥ paśupatistārkṣyaḥ priyabhaktaḥ paraṃtapaḥ |

dātā dayākaro dakṣaḥ karmaṃdīḥ kāmaśāsanaḥ || 12 ||

 

śmaśānanilayaḥ sūkṣmaḥ śmaśānastho maheśvaraḥ |

lokakarttā mṛgapatirmahākarttā mahauṣadhiḥ || 13 ||

 

uttaro gopatirgoptā jñānagamyaḥ purātanaḥ |

nītiḥ sunītiḥ śuddhātmā somaḥ somarataḥ sukhī || 14 ||

 

somapo'mṛtapaḥ saumyo mahātejā mahādyutiḥ |

tejomayo'mṛtamayo'nnamayaśca sudhāpatiḥ || 15 ||

 

ajātaśatrurālokaḥ saṃbhāvyo havyavāhanaḥ |

lokakaro vedakaraḥ sūtrakāraḥ sanātanaḥ || 16 ||

 

maharṣikapilācāryo viśvadīptistrilocanaḥ |

pinākapāṇirbhūdevaḥ svastidaḥ svastikṛtsudhīḥ || 17 ||

 

dhātṛdhāmā dhāmakaraḥ sarvagaḥ sarvagocaraḥ |

brahmasṛgviśvasṛksargaḥ karṇikāraḥ priyaḥ kaviḥ || 18 ||

 

śākho viśākho gośākhaḥ śivo bhiṣaganuttamaḥ |

gaṃgāplavodako bhavyaḥ puṣkalaḥ sthapatiḥ sthiraḥ || 19 ||

 

vijitātmā vidheyātmā bhūtavāhanasārathiḥ |

sagaṇo gaṇakāyaśca sukīrticchinnasaṃśayaḥ || 20 ||

 

kāmadevaḥ kāmapālo bhasmoddhūlitavigrahaḥ |

bhasmapriyo bhasmaśāyī kāmī kāṃtaḥ kṛtāgamaḥ || 21 ||

 

samāvarto'nivṛttātmā dharmapuṃjaḥ sadāśivaḥ |

akalmaṣaśca puṇyātmā caturbāhurdurāsadaḥ || 22 ||

 

durlabho durgamo durgaḥ sarvāyudhaviśāradaḥ |

adhyātmayoganilayaḥ sutaṃtustaṃtuvardhanaḥ || 23 ||

 

śubhāṃgo lokasāraṃgo jagadīśo janārdanaḥ |

bhasmaśuddhikaro merurojasvī śuddhavigrahaḥ || 24 ||

 

asādhyaḥ sādhusādhyaśca bhṛtyamarkaṭarūpadhṛk |

hiraṇyaretāḥ paurāṇo ripujīvaharo balī || 25 ||

 

mahāhrado mahāgartassiddhovṛṃdāravaṃditaḥ |

vyāghracarmāṃbaro vyālī mahābhūto mahānidhiḥ || 26 ||

 

amṛto'mṛvapuḥ śrīmānpāñcajanyaḥ prabhaṃjanaḥ |

paṃcaviṃśatitattvasthaḥ pārijātaḥ parātparaḥ || 27 ||

 

sulabhassuvrataśśūro vāṅmayaikanidhirnidhiḥ |

varṇāśramagururvarṇī śatrujicchatrutāpanaḥ || 28 ||

 

āśramaḥ kṣapaṇaḥ kṣāmo jñānavānacaleśvaraḥ |

pramāṇabhūto durjñeyaḥ suparṇo vāyuvāhanaḥ || 29 ||

 

dhanurdharo dhanurvedo guṇaḥ śaśiguṇākaraḥ |

satyassatyaparo'dīno dharmo godharmaśāsanaḥ || 30 ||

 

anaṃtadṛṣṭirānaṃdo daṃḍo damayitā damaḥ |

abhicāryyo mahāmāyo viśvakarma viśāradaḥ || 31 ||

 

vītarāgo vinītātmā tapasvībhūtabhāvanaḥ |

unmattaveṣaḥ pracchanno jitakāmo'jitapriyaḥ || 32 ||

 

kalyāṇaprakṛtiḥ kalpaḥ sarvalokaprajāpatiḥ |

tarasvī tārako dhīmānpradhānaḥ prabhuravyayaḥ || 33 ||

 

lokapāloṃ'tarhitātmā kalpādiḥ kamalekṣaṇaḥ |

vedaśāstrārthatattvajño'niyamo niyatāśrayaḥ || 34 ||

 

caṃdraḥ sūryaḥ śaniḥ keturvarāṃgo vidrumacchaviḥ |

bhaktivaśyaḥ paraṃ brahma mṛgabāṇāparṇo'naghaḥ || 35 ||

 

adriradryālayaḥ kāṃtaḥ paramātmā jagadguruḥ |

sarvakarmālayastuṣṭo maṃgalyo maṃgalāvṛtaḥ || 36 ||

 

mahātapā dīrghatapāḥ sthaviṣṭha sthaviro dhruvaḥ |

ahaḥ saṃvatsaro vyāptiḥ pramāṇaṃ paramaṃ tapaḥ || 37 ||

 

saṃvatsarakaro maṃtraḥ pratyayaḥ sarvatāpanaḥ |

ajaḥ sarveśvarassiddho mahātejā mahābalaḥ || 38 ||

 

yogī yogyo mahāretā siddhiḥ sarvādiragrahaḥ |

vasurvasumanāḥ satyaḥ sarvapāpaharo haraḥ || 39 ||

 

sukīrti śobhanassragvī vedāṃgo vedavinmuniḥ |

bhrājiṣṇurbhojanaṃ bhoktā lokanātho durādharaḥ || 40 ||

 

amṛtaśśāśvataśśāṃto bāṇahastaḥ pratāpavān |

kamaṃḍaludharo dhanvī hyavāṅmanasagocaraḥ || 41 ||

 

atīṃdriyo mahāmāyassarvavāsaścatuṣpathaḥ |

kālayogī mahānādo mahotsāho mahābalaḥ || 42 ||

 

mahābuddhirmahāvīryo bhūtacārī puraṃ daraḥ |

niśācaraḥ pretacārī mahāśaktirmahādyutiḥ || 43 ||

 

anirdeśyavapuḥ śrīmānsarvācāryamanogatiḥ |

bahuśrutirmahāmāyo niyatātmā dhruvo'dhruvaḥ || 44 ||

 

tejastejo dyutidharo janakaḥ sarvaśāsakaḥ |

nṛtyapriyo nṛtyanityaḥ prakāśātmā prakāśakaḥ || 45 ||

 

spaṣṭākṣaro budho maṃtraḥ samānaḥ sārasaṃplavaḥ |

yugādikṛdyugāvarto gaṃbhīro vṛṣavāhanaḥ || 46 ||

 

iṣṭo viśiṣṭaḥ śiṣṭeṣṭaḥ sulabhaḥ sāraśo dhanaḥ |

tīrtharūpastīrthanāmā tīrthādṛśyastu tīrthadaḥ || 47 ||

 

apāṃnidhiradhiṣṭhānaṃ vijayo jayakālavit |

pratiṣṭhitaḥ pramāṇajño hiraṇyakavaco hariḥ || 48 ||

 

vimocanassuragaṇo vidyeśo biṃdusaṃśrayaḥ |

vātarūpo'malonmāyī vikartā gahano guhaḥ || 49 ||

 

karaṇaṃ kāraṇaṃ kartā sarvabaṃdhavimocanaḥ |

vyavasāyo vyavasthānaḥ sthānado jagadādijaḥ || 50 ||

 

gurudo lalito'bhedo bhāvātmātmani saṃsthitaḥ |

vīreśvaro vīrabhadro vīrāsanavidhirguruḥ || 51 ||

 

vīracūḍāmaṇirvettā cidānaṃdo nadīdharaḥ |

ājñādhārastriśūlī ca śipiviṣṭaḥ śivālayaḥ || 52 ||

 

bālakhilyo mahāvīrastigmāṃśurbadhiraḥ khagaḥ |

abhirāmaḥ suśaraṇaḥ subrahmaṇyaḥ sudhāpatiḥ || 53 ||

 

maghavānkauśiko gomānvirāmaḥ sarvasādhanaḥ |

lalāṭākṣo viśvadehaḥ sāraḥ saṃsāracakrabhṛt || 54 ||

 

amoghadaṃḍī madhyastho hiraṇyo brahmavarcasaḥ |

paramārthaḥ paromāyī śaṃbaro vyāghralocanaḥ || 95 ||

 

rucirbahurucirvedyo vācaspatirahaspatiḥ |

ravirvirocanaḥ skaṃdaḥ śāstā vaivasvato yamaḥ || 56 ||

 

yuktirunnatakīrtiśca sānurāgaḥ puraṃjayaḥ |

kailāsādhipatiḥ kāṃtaḥ savitā ravilocanaḥ || 57 ||

 

viśvottamo vītabhayo viśvabharttā'nivāritaḥ |

nityo niyatakalyāṇaḥ puṇyaśravaṇakīrttanaḥ || 58 ||

 

dūraśravo viśvasaho dhyeyo duḥsvapnanāśanaḥ |

uttāraṇo duṣkṛtihā vijñeyo duḥsaho'bhavaḥ || 59 ||

 

anādirbhūrbhuvo lakṣmīḥ kirīṭī tridaśādhipaḥ |

viśvagoptā viśvakarttā suvīro rucirāṃgadaḥ || 60 ||

 

janano janajanmādiḥ prītimānnītimāndhruvaḥ |

vaśiṣṭhaḥ kaśyapo bhānurbhīmo bhīmaparākramaḥ || 61 ||

 

praṇavaḥ satpathācāro mahākośo mahādhanaḥ |

janmādhipo mahā devaḥ sakalāgamapāragaḥ || 62 ||

 

tattvaṃ tattvavidekātmā vibhurviṣṇurvibhūṣaṇaḥ |

ṛṣirbrāhmaṇa aiśvaryajanmamṛtyujarātigaḥ || 63 ||

 

paṃcayajñasamutpattirviśveśo vimalodayaḥ |

ātmayoniranādyaṃto vatsalo bhaktalokadhṛk || 64 ||

 

gāyatrīvallabhaḥ prāṃśurviśvāvāsaḥ prabhākaraḥ |

śiśurgirirataḥ samrāṭ suṣeṇaḥ suraśatruhā || 65 ||

 

anemiriṣṭanemiśca mukundo vigatajvaraḥ |

svayaṃjyotirmahājyotistanujyotiracaṃcalaḥ || 66 ||

 

piṃgalaḥ kapilaśmaśrurbhālanetrastrayītanuḥ |

jñānaskaṃdo mahānītirviśvotpattirupaplavaḥ || 67 ||

 

bhago vivasvānādityo gatapāro bṛhaspatiḥ |

kalyāṇaguṇanāmā ca pāpahā puṇyadarśanaḥ || 68 ||

 

udārakīrtirudyogī sadyogī sadasattrapaḥ |

nakṣatramālī nākeśaḥ svādhiṣṭhānaḥ ṣaḍāśrayaḥ || 69 ||

 

pavitraḥ pāpahārī ca maṇipūro nabhogatiḥ |

hṛtpuṃḍarīkamāsīnaḥ śakraḥ śāṃto vṛṣākapiḥ || 70 ||

 

uṣṇo gṛhapatiḥ kṛṣṇaḥ samartho'narthanāśanaḥ |

adharmaśatrurajñeyaḥ puruhūtaḥ puruśrutaḥ || 71 ||

 

brahmagarbho bṛhadgarbho dharmadhenurdhanāgamaḥ |

jagaddhitaiṣī sugataḥ kumāraḥ kuśalāgamaḥ || 72 ||

 

hiraṇyavarṇo jyotiṣmānnānābhūtarato dhvaniḥ |

ārogyo namanādhyakṣo viśvāmitro dhaneśvaraḥ || 73 ||

 

brahmajyotirvasudhāmā mahājyotiranuttamaḥ |

mātāmaho mātariśvā nabhasvānnāgahāradhṛk || 74 ||

 

pulastyaḥ pulaho'gastyo jātūkarṇyaḥ parāśaraḥ |

nirāvaraṇanirvāro vairaṃcyo viṣṭaraśravāḥ || 75 ||

 

ātmabhūraniruddho'trirjñānamūrtirmahāyaśāḥ |

lokavīrāgraṇīrvīraścaṇḍaḥ satyaparākramaḥ || 76 ||

 

vyālakalpo mahākalpaḥ kalpavṛkṣaḥ kalādharaḥ |

alaṃkariṣṇuracalo rociṣṇurvikramonnataḥ || 77 ||

 

āyuḥ śabdapatirvāgmī plavanaśśikhisārathiḥ |

asaṃsṛṣṭo'tithiśśatruḥ pramāthī pādapāsanaḥ || 78 ||

 

vasuśravā kavyavāhaḥ pratapto viśvabhojanaḥ |

japyo jarādiśamano lohitaśca tanūnapāt || 79 ||

 

pṛṣadaśvo nabhoyoniḥ supratīkastamisrahā |

nidāghastapano meghabhakṣaḥ parapuraṃjayaḥ || 80 ||

 

sukhānilassuniṣpannassurabhiśśiśirātmakaḥ |

vasaṃto mādhavo grīṣmo nabhasyo bījavāhanaḥ || 81 ||

 

aṃgirā gururātreyo vimalo viśvapāvanaḥ |

pāvanaḥ purajicchakrastraividyo navavāraṇa || 82 ||

 

manobuddhirahaṃkāraḥ kṣetrajñaḥ kṣetrapālakaḥ |

jamadagnirbalanidhirvigālo viśvagālavaḥ || 83 ||

 

aghoro'nuttaro yajñaḥ śreyo niḥśreyasapradaḥ |

śailo gaganakuṃdābho dānavārirariṃdamaḥ || 84 ||

 

cāmuṇḍo janakaścārurniśśalyo lokaśalyadhṛk |

caturvedaścaturbhāvaścaturaścatura priyaḥ || 85 ||

 

āmnāyo'tha samāmnāyastīrthadevaśivālayaḥ |

bahurūpo mahārūpassarvarūpaścarācaraḥ || 86 ||

 

nyāyanirmāyako neyo nyāyagamyo niraṃjanaḥ |

sahasramūrddhā deveṃdrassarvaśastraprabhaṃjanaḥ || 87 ||

 

muṃḍī virūpo vikṛto daṃḍī nādī guṇottamaḥ |

piṃgalākṣo hi bahvayo nīlagrīvo nirāmayaḥ || 88 ||

 

sahasrabāhussarveśaśśaraṇyassarvalokadhṛk |

padmāsanaḥ paraṃ jyotiḥ pāramparyyaphalapradaḥ || 89 ||

 

padmagarbho mahāgarbho viśvagarbho vicakṣaṇaḥ |

parāvarajño varado vareṇyaśca mahāsvanaḥ || 90 ||

 

devāsuragururdevo devāsuranamaskṛtaḥ |

devāsuramahā mitro devāsuramaheśvaraḥ || 91 ||

 

devāsureśvaro divyo devāsuramahāśrayāḥ |

devadevo'nayo'ciṃtyo devatātmātmasaṃbhavaḥ || 92 ||

 

sadyo mahāsuravyādho devasiṃho divākaraḥ |

vibudhāmacaraḥ śreṣṭhaḥ sarvadevottamottama || 93 ||

 

śivajñānarataḥ śrīmāñśikhī śrīparvatapriyaḥ |

vajrahastassiddhakhaṅgo narasiṃhanipātanaḥ || 94 ||

 

brahmacārī lokacārī dharmacārī dhanādhipaḥ |

nandī naṃdīśvaro'naṃto nagnavratadharaśśuciḥ || 95 ||

 

liṃgādhyakṣaḥ surādhyakṣo yugādhyakṣo yugāpahaḥ |

svadhāmā svagataḥ svargī svaraḥ svaramayaḥ svanaḥ || 96 ||

 

bāṇādhyakṣo bījakartā karmakṛddharmasaṃbhavaḥ |

daṃbho lobho'tha vai śaṃbhussarva bhūtamaheśvaraḥ || 97 ||

 

śmaśānanilayastryakṣassa turapratimākṛtiḥ |

lokottarasphuṭolokaḥ tryaṃbako nāgabhūṣaṇaḥ || 98 ||

 

aṃdhakāri makhadveṣī viṣṇukaṃdharapātanaḥ |

hīnadoṣo'kṣayaguṇo dakṣāriḥ pūṣadaṃtabhit || 99 ||

 

pūrṇaḥ pūrayitā puṇyaḥ sukumāraḥ sulocanaḥ |

sanmārgamapriyo dhūrttaḥ puṇyakīrtiranāmayaḥ || 100 ||

 

manojavastīrthakaro jaṭilo niyameśvaraḥ |

jīvitāṃtakaro nityo vasuretā vasupradaḥ || 101 ||

 

sadgatiḥ siddhidaḥ siddhiḥ sajjātiḥ khalakaṃṭakaḥ |

kalādharo mahākālabhūtaḥ satyaparāyaṇaḥ || 102 ||

 

lokalāvaṇyakartā ca lokottarasukhālayaḥ |

caṃdrasaṃjīvanaśśāstā lokagrāho mahādhipaḥ || 103 ||

 

lokabaṃdhurlokanāthaḥ kṛtajñaḥ kṛtibhūṣitaḥ |

anapāyo'kṣaraḥ kāṃtaḥ sarvaśastrabhṛtāṃ varaḥ || 104 ||

 

tejomayo śrutidharo lokamānī ghṛṇārṇavaḥ |

śucismitaḥ prasannātmā hyajeyo duratikramaḥ || 105 ||

 

jyotirmayo jagannātho nirākāro jaleśvaraḥ |

tumbavīṇo mahākāyo viśokaśśokanāśanaḥ || 106 ||

 

trilokapastrilokeśaḥ sarvaśuddhiradhokṣajaḥ |

avyaktalakṣaṇo devo vyakto'vyakto viśāṃpatiḥ || 107 ||

 

paraḥ śivo vasurnāsāsāro mānadharo yamaḥ |

brahmā viṣṇuḥ prajāpālo haṃso haṃsagatirvayaḥ || 108 ||

 

vedhā vidhātā dhātā ca sraṣṭā harttā caturmukhaḥ |

kailāsaśikharāvāsī sarvāvāsī sadāgati || 109 ||

 

hiraṇyagarbho druhiṇo bhūtapālo'tha bhūpatiḥ |

sadyogī yogavidyogīvarado brāhmaṇapriya || 110 ||

 

devapriyo devanātho devako devaciṃtakaḥ |

viṣamākṣo virūpākṣo vṛṣado vṛṣavardhanaḥ || 111 ||

 

nirmamo nirahaṃkāro nirmoho nirupadravaḥ |

darpahā darpado dṛptaḥ sarvārthaparivarttakaḥ || 112 ||

 

sahasrārcirbhūtibhūṣaḥ snigdhākṛtiradakṣiṇaḥ |

bhūtabhavyabhavannātho vibhavo bhūtināśanaḥ || 113 ||

 

artho'nartho mahākośa parakāyaikapaṃḍita |

niṣkaṃṭakaḥ kṛtānaṃdo nirvyājo vyājamardanaḥ || 114 ||

 

sattvavānsāttvikaḥ satyaḥ kṛtasnehaḥ kṛtāgamaḥ |

akaṃpito guṇagrāhī naikātmānaikakarmakṛt || 115 ||

 

suprītaḥ sukhadaḥ sūkṣmaḥ sukaro dakṣiṇānilaḥ |

naṃdiskaṃdo dharo dhuryaḥ prakaṭaḥ prītivardhanaḥ || 116 ||

 

aparājitaḥ sarvasaho goviṃdaḥ sattvavāhanaḥ |

adhṛtaḥ svadhṛtaḥ siddhaḥ pūtamūrtiryaśodhanaḥ || 117 ||

 

vārāhaśṛṃgadhṛk śṛṃgī balavānekanāyakaḥ |

śrutiprakāśaḥ śrutimāne kabaṃdhuranekadhṛk || 118 ||

 

śrīvatsalaḥ śivāraṃbhaḥ śāṃtabhadraḥ samo yaśaḥ |

bhūyaśo bhūṣaṇo bhūtirbhūtikṛdbhūtabhāvanaḥ || 119 ||

 

akaṃpo bhaktikāyastu kālahāniḥ kalāvibhuḥ |

satyavratī mahātyāgī nityaśāṃtiparāyaṇaḥ || 120 ||

 

parārthavṛttirvarado viraktastu viśāradaḥ |

śubhadaḥ śubhakartā ca śubhanāmā śubhaḥ svayam || 121 ||

 

anarthito guṇagrāhī hyakartā kanakaprabhaḥ |

svabhāvabhadro madhyastha śatrughno vighnanāśanaḥ || 122 ||

 

śikhaṃḍī kavacī śūlī jaṭī muṃḍī ca kuṃḍalī |

amṛtyuḥ sarvadṛk siṃhastejorāśirmahāmaṇiḥ || 123 ||

 

asaṃkhyeyo'prameyātmā vīryavān vīryakovidaḥ |

vedyaśca vai viyogātmā saptāvaramunīśvaraḥ || 124 ||

 

anuttamo durādharṣo madhuraḥ priyadarśanaḥ |

sureśa smaraṇaḥ sarvaḥ śabdaḥ pratapatāṃ varaḥ || 125 ||

 

kālapakṣaḥ kālakālaḥ sukṛtī kṛtavāsukiḥ |

maheṣvāso mahībhartā niṣkalaṃko viśṛṃkhala || 126 ||

 

dyumaṇistaraṇirdhanyaḥ siddhidaḥ siddhisādhanaḥ |

viśvatassaṃvṛtastu vyūḍhorasko mahābhujaḥ || 127 ||

 

sarvayonirnirātaṃko naranārāyaṇapriyaḥ |

nirlepo yatisaṃgātmā nirvyaṃgo vyaṃganāśanaḥ || 128 ||

 

stavyaḥ stavapriyaḥ stotā vyāsamūrtirniraṃkulaḥ |

niravadyamayopāyo vidyārāśiśca satkṛtaḥ || 129 ||

 

praśāṃtabuddhirakṣuṇṇaḥ saṃgraho nityasuṃdaraḥ |

vaiyāghradhuryo dhātrīśaḥ saṃkalpaḥ śarvarīpatiḥ || 130 ||

 

paramārthagururdattaḥ sūrirāśritavatsalaḥ |

somo rasajño rasadaḥ sarvasattvāvalaṃbanaḥ || 131 ||

 

evaṃ nāmnāṃ sahasreṇa tuṣṭāva hi haraṃ hariḥ |

prārthayāmāsa śambhuṃ vai pūjayāmāsa paṃkajaḥ || 132 ||

 

 

 

 

Shiva Sahasranama Traduzione

 

Shiva Purana

 

 


 

 

Altri libri:

 

AVADHUT GITA     ASHTAVAKRA GITA     TRIPURA RAHASYA     DEVI MAHATMYA

 


 

 

 

Creative Commons License

Precedente Home Successiva

Privacy Policy