| 
 Guhyakālī 
 La Kālī segreta 
 
 
 Kālī è adorata in moltissime forme, nel tantra possiamo trovare le 10 o le 12 Mahavidya. Diffusa è l'adorazione di Mahakālī, Dakshina Kālīka, Smashankālī, ed altre tra cui Guhyakālī, la forma segreta o nascosta della Dea Kālī. Viene descritta nei dettagli nella Mahākālasamhita (composta nel 10° sec.) in una sezione a lei dedicata. Secondo questo testo Mahākāli è la Dea Primaria dell'intero sistema tantrico basato sulle pratiche Vamachara. Nella Mahākālasamhita vengono rivelate le varie forme di adorazione, i mantra e gli yantra relativi a Guhyakālī. L'adorazione alla Dea non è per tutti ed è dedicata solo a praticanti avanzati, a quei Sadhaka che dedicano una vita allo scambio reciproco di condizioni con la Dea e che sanno come proteggersi dai pericoli incontrati durante questi potenti rituali. Guhyakālī è la forma della Dea al di là della percezione umana ed è segreta. 
 Le varie forme di Guhyakālī con un numero diverso di facce, forme che sono state invocate da vari Devata e grandi saggi: 
 
 
 
 
 
 
 
 Guhyakālī Yantra 
 
 Qui sotto uno dei suoi Mantra. 
 सर्वाननशिरोग्रीवा सर्वभूतगुहाशया | सर्वत्रस्था भगवती तस्मात् सर्वगता शिवा || नवद्वारे पुरे देवी हंसी लीलायतां बहिः | ध्येया सर्वस्य लोकस्य स्थावरस्य चरस्य च || अपाणिपादा जननी ग्रहीत्री पश्यत्यचक्षुः सा शृणोत्यकर्णा | सा वेत्ति वेद्यं न च तस्यास्तु वेत्ता तामाहुरग्र्यां महतीं महीयसीम् || सूक्ष्मातिसूक्ष्मं सलिलस्य मध्ये विश्वस्य स्रष्ट्रीमनेकाननाख्याम् | विश्वस्य चैकां परिवेष्टयित्रीं ज्ञात्वा गुह्यां शान्तिमत्यन्तमेति || घृतात्परं मण्डमिवातिसूक्ष्मं ज्ञात्वा कालीं सर्वभूतेषु गूढाम् | कल्पान्ते वै सर्वसंहारकर्त्रीं ज्ञात्वा गुह्यां मुच्यते सर्वपापैः || भूयश्च सृष्टा त्रिदशानथेशी सर्वाधिपत्यं कुरुते भवानी | सर्वा दिशशोर्ध्वमधश्च तिर्यक् प्रकाशयन्ती भ्राजते गुह्यकाली || तामीश्वराणां परमां भगेशीं तां देवतानां परदेवतां च | पतिं पतीनां परमां पुरस्तात् विद्यावतां गुह्यकालीं मनीषाम् || 
 sarvānanaśirogrīvā sarvabhūtaguhāśayā | sarvatrasthā bhagavatī tasmāt sarvagatā śivā || navadvāre pure devī haṃsī līlāyatāṃ bahiḥ | dhyeyā sarvasya lokasya sthāvarasya carasya ca || apāṇipādā jananī grahītrī paśyatyacakṣuḥ sā śṛṇotyakarṇā | sā vetti vedyaṃ na ca tasyāstu vettā tāmāhuragryāṃ mahatīṃ mahīyasīm || sūkṣmātisūkṣmaṃ salilasya madhye viśvasya sraṣṭrīmanekānanākhyām | viśvasya caikāṃ pariveṣṭayitrīṃ jñātvā guhyāṃ śāntimatyantameti || ghṛtātparaṃ maṇḍamivātisūkṣmaṃ jñātvā kālīṃ sarvabhūteṣu gūḍhām | kalpānte vai sarvasaṃhārakartrīṃ jñātvā guhyāṃ mucyate sarvapāpaiḥ || bhūyaśca sṛṣṭā tridaśānatheśī sarvādhipatyaṃ kurute bhavānī | sarvā diśaśordhvamadhaśca tiryak prakāśayantī bhrājate guhyakālī || tāmīśvarāṇāṃ paramāṃ bhageśīṃ tāṃ devatānāṃ paradevatāṃ ca | patiṃ patīnāṃ paramāṃ purastāt vidyāvatāṃ guhyakālīṃ manīṣām || 
 
 
 
 Guhyakali Sahasranama Stotra (dalla Mahākālasamhita) 
 गुह्यकाल्याः सहस्रनामस्तोत्रम् 
 महाकालसंहितायां (पूर्वपीठिका) देव्युवाच - यदुक्तं भवता पूर्वं प्राणेश करुणावशात् ॥१॥ नाम्नां सहस्रं देव्यास्तु तदिदानीं वदप्रभो । 
 श्री महाकाल उवाच - अतिप्रीतोऽस्मि देवेशि तवाहं वचसामुना ॥२॥ 
 सहस्रनामस्तोत्रं यत् सर्वेषामुत्तमोत्तमम् । सुगोपितं यद्यपि स्यात् कथयिष्ये तथापि ते ॥३॥ 
 देव्याः सहस्रनामाख्यं स्तोत्रं पापौघमर्दनम् । मह्यं पुरा भुवः कल्पे त्रिपुरघ्नेन कीर्तितम् ॥४॥ 
 आज्ञप्तश्च तथा देव्या प्रत्यक्षङ्गतया तया । त्वयैतत् प्रत्यहं पाठ्यं स्तोत्रं परमदुर्लभम् ॥ ५॥ 
 महापातकविध्वंसि सर्वसिद्धिविधायकम् । महाभाग्यप्रदं दिव्यं सङ्ग्रामे जयकारकम् ॥६॥ 
 विपक्षदर्पदलनं विपदम्भोधितारकम् । कृत्याभिचारशमनं महाविभवदायकम् ॥७॥ 
 मनश्चिन्तितकार्यैकसाधकं वाग्मिताकरम् । आयुरारोग्यजनकं बलपुष्टिप्रदं परम् ॥८॥ 
 नृपतस्करभीतिघ्नं विवादे जयवर्धनम् । परशत्रुक्षयकरं कैवल्यामृतहैतुकम् ॥९॥ 
 सिद्धिरत्नाकरं श्रेष्ठं सद्यः प्रत्ययकारकम् । नातः परतरं देव्याः अस्त्यन्यत् तुष्टिदं परमं ॥१०॥ 
 नाम्नां सहस्रं गुह्यायाः कथयिष्यामि ते प्रिये । यत्पूर्वं सर्वदेवानां मन्त्ररूपतया स्थितम् ॥११॥ 
 दैत्यदानवयक्षाणां गन्धर्वोरगरक्षसाम् । प्राणवत् कण्ठदेशस्थं यत्स्वप्नेऽप्यपरिच्युतम् ॥१२॥ 
 देवर्षीणां मुनीनां च वेदवद्रसनागतम् । सार्वभौममहीपालैः प्रत्यहं यच्च पठ्यते ॥१३॥ 
 मया च त्रिपुरघ्नेन जप्यते यद्दिने दिने । यस्मात् परं नो भविता स्तोत्रं त्रिजगतीतले ॥१४॥ 
 वेदवन्मन्त्रवद् यच्च शिववक्त्रविनिर्गतम् । यन्नान्यतन्त्रागमेषु यामले डामरे न च ॥१५॥ 
 न चान्यसंहिताग्रन्थे नैव ब्रह्माण्डगोलके । संसारसागरं तर्तुमेतत् पोतवदिष्यते ॥१६॥ 
 नानाविधमहासिद्धिकोषरूपं महोदयम् । या देवी सर्वदेवानां या माता जगदोकसाम् ॥१७॥ 
 या सृर्ष्टिकर्त्रीं देवानां विश्वावित्री च या स्मृता । या च त्रिलोक्याः संहर्त्री या दात्री सर्वसम्पदाम् ॥१८॥ 
 ब्रह्माण्डं या च विष्टभ्य तिष्ठत्यमरपूजिता । पुराणोपनिषद्वेद्या या चैका जगदम्बिका ॥१९॥ 
 यस्याः परं नान्यदस्ति किमपीह जगत्त्रये । सा गुह्यास्य प्रसादेन वशीभूतेव तिष्ठति ॥२०॥ 
 अत एव महत्स्तोत्रमेतज्जगति दुर्लभम् । पठनीयं प्रयत्नेन परं पदमभीप्सुभिः ॥२१॥ 
 किमन्यैः स्तोत्रविस्तारैर्नायं चेत् पठितोऽभवत् । किमन्यैः स्तोत्रविस्तारैरयं चेत् पठितो भवेत् ॥२२॥ 
 दुर्वाससे नारदाय कपिलायात्रये तथा । दक्षाय च वसिष्ठाय संवर्ताय च विष्णवे ॥२३॥ 
 अन्येभ्योऽपि देवेभ्योऽवदं स्तोत्रमिदं पुरा । इदानीं कथयिष्यामि तव त्रिदशवन्दिते ॥२४॥ 
 इदं शृणुष्व यत्नेन श्रुत्वा चैवावधारय । धृत्वाऽन्येभ्योऽपि देहि त्वं यान् वै कृपयसे सदा ॥२५॥ 
 अथ विनियोगः ॐ अस्य श्रीगुह्यकालीसहस्रनामस्तोत्रस्य श्रीत्रिपुरघ्न ऋषिः । अनुष्टुप् छन्दः । एकवक्त्रादिशतवक्त्रान्ता श्रीगुह्यकालीदेवता । फ्रूं बीजं । ख्रैं ख्रैं शक्तिः । छ्रीं ख्रीं कीलकं । पुरुषार्थचतुष्टयसाधनपूर्वकश्रीचण्डयोगेश्वरीप्रीत्यर्थे जपे विनियोगः । ॐ तत्सत् । 
 अथ श्रीगुह्यकालीसहस्रनामस्तोत्रम् । ॐ फ्रें कराली चामुण्डा चण्डयोगेश्वरी शिवा । दुर्गा कात्यायनी सिद्धिविकराली मनोजवा ॥१॥ उल्कामुखी फेरुरावा भीषणा भैरवासना । कपालिनी कालरात्रिर्गौरी कङ्कालधारिणी ॥२॥ 
 श्मशानवासिनी प्रेतासना रक्तोदधिप्रिया । योगमाता महारात्रिः पञ्चकालानलस्थिता ॥३॥ 
 रुद्राणी रौद्ररूपा च रुधिरद्वीपचारिणी । मुण्डमालाधरा चण्डी बलवर्वरकुन्तला ॥४॥ 
 मेधा महाडाकिनी च योगिनी योगिवन्दिता । कौलिनी कुरुकुल्ला च घोरा पिङ्गजटा जया ॥५॥ 
 सावित्री वेदजननी गायत्री गगनालया । नवपञ्चमहाचक्रनिलया दारुणस्वना ॥६॥ 
 उग्रा कपर्दिगृहिणी जगदाद्या जनाश्रया । कालकर्णी कुण्डलिनी भूतप्रेतगणाधिपा ॥७॥ 
 जालन्धरी मसीदेहा पूर्णानन्दपतङ्गिनी । पालिनी पावकाभासा प्रसन्ना परमेश्वरी ॥८॥ 
 रतिप्रिया रोगहरी नागहारा नगात्मजा । अव्यया वीतरागा च भवानी भूतधारिणी ॥९॥ 
 कादम्बिनी नीलदेहा काली कादम्बरीप्रिया । माननीया महादेवी महामण्डलवर्तिनी ॥१०॥ 
 महामांसाशनीशानी चिद्रूपा वागगोचरा । यज्ञाम्बुजामनादेवी दर्वीकरविभूषिता ॥११॥ 
 चण्डमुण्डप्रमथनी खेचरी खेचरोदिता । तमालश्यामला तीव्रा तापिनी तापनाशिनी ॥१२॥ 
 महामाया महादंष्ट्रा महोरगविराजिता । लम्बोदरी लोलजटा लक्ष्म्यालक्ष्मीप्रदायिनी ॥१३॥ 
 धात्री धाराधराकारा धोरणी धावनप्रिया । हरजाया हराराध्या हरिवक्त्रा हरीश्वरी ॥१४॥ 
 विश्वेश्वरी वज्रनखी स्वरारोहा बलप्रदा । घोणकी घर्घरारावा घोराघौघप्रणाशिनी ॥१५॥ 
 कल्पान्तकारिणी भीमा ज्वालामालिन्यवामया । सृष्टिः स्थितिः क्षोभणा च कराला चापराजिता ॥१६॥ 
 वज्रहस्तानन्तशक्तिर्विरूपा च परापरा । ब्रह्माण्डमर्दिनी प्रध्वंसिनी लक्षभुजा सती ॥१७॥ 
 विद्युज्जिह्वा महादंष्ट्रा छायाध्वरसुताद्यहृत् । महाकालाग्निमूर्तिश्च मेघनादा कटङ्कटा ॥१८॥ 
 प्रदीप्ता विश्वरूपा च जीवदात्री जनेश्वरी । साक्षिणी शर्वरी शान्ता शममार्गप्रकाशिका ॥१९॥ 
 क्षेत्रज्ञा क्षेपणी क्षम्याऽक्षता क्षामोदरी क्षितिः । अप्रमेया कुलाचारकर्त्री कौलिकपालिनी ॥२०॥ 
 माननीया मनोगम्या मेनानन्दप्रदायिनी । सिद्धान्तखनिरध्यक्षा मुण्डिनी मण्डलप्रिया ॥२१॥ 
 बाला च युवती वृद्धा वयोतीता बलप्रदा । रत्नमालाधरा दान्ता दर्वीकरविराजिता ॥२२॥ 
 धर्ममूर्तिर्ध्वान्तरुचिर्धरित्री धावनप्रिया । सङ्कल्पिनी कल्पकरी कलातीता कलस्वना ॥२३॥ 
 वसुन्धरा बोधदात्री वर्णिनी वानरानरा । विद्या विद्यात्मिका वन्या बन्धनी बन्धनाशिनी ॥२४॥ 
 गेया जटाजटरम्या जरती जाह्नवी जडा । तारिणी तीर्थरूपा च तपनीया तनूदरी ॥२५॥ 
 तापत्रयहरा तापी तपस्या तापसप्रिया । भोगिभूष्या भोगवती भगिनी भगमालिनी ॥२६॥ 
 भक्तिलभ्या भावगम्या भूतिदा भववल्लभा । स्वाहारूपा स्वधारूपा वषट्कारस्वरूपिणी ॥२७॥ 
 हन्ता कृतिर्नमोरूपा यज्ञादिर्यज्ञसम्भवा । स्फ्यसूर्पचमसाकारा स्रक्स्रु वाकृतिधारिणी ॥२८॥ 
 उद्गीथहिंकारदेहा नमः स्वस्तिप्रकाशिनी । ऋग्यजुः सामरूपा च मन्त्रब्राह्मणरूपिणी ॥२९॥ 
 सर्वशाखामयी खर्वा पीवर्युपनिषद्बुधा । रौद्री मृत्युञ्जयाचिन्तामणिर्वैहायसी धृतिः ॥३०॥ 
 तार्तीया हंसिनी चान्द्री तारा त्रैविक्रमी स्थितिः । योगिनी डाकिनी धारा वैद्युती विनयप्रदा ॥३१॥ 
 उपांशुर्मानसी वाच्या रोचना रुचिदायिनी । सत्वाकृतिस्तमोरूपा राजसी गुणवर्जिता ॥३२॥ 
 आदिसर्गादिकालीनभानवी नाभसी तथा । मूलाधारा कुण्डलिनी स्वाधिप्ठानपरायणा ॥३३॥ 
 मणिपूरकवासा च विशुद्धानाहता तथा । आज्ञा प्रज्ञा महासंज्ञा वर्वरा व्योमचारिणी ॥३४॥ 
 बृहद्रथन्तराकारा ज्येष्ठा चाथर्वणी तथा । प्राजापत्या महाब्राह्मी हूंहूङ्कारा पतङ्गिनी ॥३५॥ 
 राक्षसी दानवी भूतिः पिशाची प्रत्यनीकरा । उदात्ताप्यनुदात्ता च स्वरिता निःस्वराप्यजा ॥३६॥ 
 निष्कला पुष्कला साध्वी सा नुता खण्डरूपिणी । गूढा पुराणा चरमा प्राग्भवी वामनी ध्रुवा ॥३७॥ 
 काकीमुखी साकला च स्थावरा जङ्गमेश्वरी । ईडा च पिङ्गला चैव सुषुम्णा ध्यानगोचरा ॥३८॥ 
 सर्गा विसर्गा धमनी कम्पिनी बन्धनी हिता । सङ्कोचिनी भासुरा च निम्ना दृप्ता प्रकाशिनी ॥३९॥ 
 प्रबुद्धा क्षेपणी क्षिप्ता पूर्णालस्या विलम्बिता । आवेशिनी घर्घरा च रूक्षा क्लिन्ना सरस्वती ॥४०॥ 
 स्निग्धा चण्डा कुहूः पूषा वारणा च यशस्विनी । गान्धारी शङ्खिनी चैव हस्तिजिह्वा पयस्विनी ॥४१॥ 
 विश्वोदरालम्बुषा च बिभ्रा तेजस्विनी सती । अव्यक्ता गालनी मन्दा मुदिता चेतनापि च ॥४२॥ 
 द्रावणी चपला लम्बा भ्रामरी मधुमत्यपि । धर्मा रसवहा चण्डी सौवीरी कपिला तथा ॥४३॥ 
 रण्डोत्तरा कर्षिणी च रेवती सुमुखी नटी । रजन्याप्यायनी विश्वदूता चन्द्रा कपर्दिनी ॥४४॥ 
 नन्दा चन्द्रावती मैत्री विशालापि च माण्डवी । विचित्रा लोहिनीकल्पा सुकल्पा पूतनापि च ॥४५॥ 
 धोरणी धारणी हेला धीरा वेगवती जटा । अग्निज्वाला च सुरभी विवर्णा कृन्तनी तथा ॥४६॥ 
 तपिनी तापिनी धूम्रा मरीचिर्ज्वालिनी रुचिः । तपस्विनी स्वप्नवहा संमोहा कोटरा चला ॥४७॥ 
 विकल्पा लम्बिका मूला तन्द्रावत्यपि घण्टिका । अविग्रहा च कैवल्या तुरीया चापुनर्भवा ॥४८॥ 
 विभ्रान्तिश्च प्रशान्ता च योगिनिः श्रेण्यलक्षिता । निर्वाणा स्वस्तिका वृद्धिर्निवृत्तिश्च महोदया ॥४९॥ 
 बोध्याऽविद्या च तामिस्रा वासना योगमेदिनी । निरञ्जना च प्रकृतिः सत्तारव्या पारमार्थिकी ॥५०॥ 
 प्रतिबिम्बनिराभासा सदसद्रूपधारिणी । उपशान्ता च चैतन्या कूटा विज्ञानमय्यपि ॥५१॥ 
 शक्तिविद्या वासिता च मोदिनी मुदितानना । अनया प्रवहा व्याडी सर्वज्ञा शरणप्रदा ॥५२॥ 
 वारुणी मार्जनीभाषा प्रतिमा बृहती खला । प्रतीच्छा प्रमितिः प्रीतिः कुहिका तर्पणप्रिया ॥५३॥ 
 स्वस्तिका सर्वतोभद्रा गायत्री प्रणवात्मिका । सावित्री वेदजननी निगमाचारबोधिनी ॥५४॥ 
 विकराला कराला च ज्वालाजालैकमालिनी । भीमा च क्षोभणानन्ता वीरा वज्रायुधा तथा ॥५५॥ 
 प्रध्वंसिनी च मालङ्का विश्वमर्दिन्यवीक्षिता । मृत्युः सहस्रबाहुश्च घोरदंष्ट्रा वलाहकी ॥५६॥ 
 पिङ्गा पिङ्गशता दीप्ता प्रचण्डा सर्वतोमुखी । विदारिणी विश्वरूपा विक्रान्ता भूतभावनी ॥५७॥ 
 विद्राविणी मोक्षदात्री कालचक्रेश्वरी नटी । तप्तहाटकवर्णा च कृतान्ता भ्रान्तिभञ्जिनी ॥५८॥ 
 सर्वतेजोमयी भव्या दितिशोककरी कृतिः । महाक्रुद्धा श्मशानस्था कपालस्रगलङ्कृता ॥ ५९॥ 
 कालातिकाला कालान्तकरीतिः करुणानिधिः । महाघोरा घोरतरा संहारकरिणी तथा ॥६०॥ 
 अनादिश्च महोन्मत्ता भूतधात्र्यसितेक्षणा । भीष्माकारा च वक्राङ्गी बहुपादैकपादिका ॥६१॥ 
 कुलाङ्गना कुलाराध्या कुलमार्गरतेश्वरी । दिगम्बरा मुक्तकेशी वज्रमुष्टिर्निरिन्धनी ॥६२॥ 
 सम्मोहिनी क्षोभकरी स्तम्भिनी वश्यकारिणी । दुर्धर्षा दर्पदलनी त्रैलोक्यजननी जया ॥६३॥ 
 उन्मादोच्चाटनकरी कृत्या कृत्याविघातिनी । विरूपा कालरात्रिश्च महारात्रिर्मनोन्मनी ॥६४॥ 
 महावीर्या गूढनिद्रा चण्डदोर्दण्डमण्डिता । निर्मला शूलिनी तन्त्रा वज्रिणी चापधारिणी ॥६५॥ 
 स्थूलोदरी च कुमुदा कामुका लिङ्गधारिणी । धटोदरी फेरवी च प्रवीणा कालसुन्दरी ॥६६॥ 
 तारावती डमरुका भानुमण्डलमालिनी । एकानङ्गा पिङ्गलाक्षी प्रचण्डाक्षी शुभङ्करी ॥६७॥ 
 विद्युत्केशी महामारी सूची तूण्डी च जृम्भका । प्रस्वापिनी महातीव्रा वरणीया वरप्रदा ॥६८॥ 
 चण्डचण्डा ज्वलद्देहा लम्बोदर्यग्निमर्दिनी । महादन्तोल्कादृगम्बा ज्वालाजालजलन्धरी ॥६९॥ 
 माया कृशा प्रभा रामा महाविभवदायिनी । पौरन्दरी विष्णुमाया कीर्तिः पुष्टिस्तनूदरी ॥७०॥ 
 योगज्ञा योगदात्री च योगिनी योगिवल्लभा । सहस्रशीर्षपादा च सहस्रनयनोज्वला ॥७१॥ 
 पानकर्त्री पावकाभा परामृतपरायणा । जगद्गतिर्जगज्जेत्री जन्मकालविमोचिनी ॥७२॥ 
 मूलावतंसिनी मूला मौनव्रतपराङ्मुखी । ललिता लोलुपा लोला लक्षणीया ललामधृक् ॥७३॥ 
 मातङ्गिनी भवानी च सर्वलोकेश्वरेश्वरी । पार्वती शम्भुदयिता महिषासुरमर्दिनी ॥७४॥ 
 चण्डमुण्डापहर्त्री च रक्तबीजनिकृन्तनी । निशुम्भशुम्भमथनी देवराजवरप्रदा ॥७५॥ 
 कल्याणकारिणी काली कोलमांसास्रपायिनी । खड्गहस्ता चर्मिणी च पाशिनी शक्तिधारिणी ॥७६॥ 
 खट्वाङ्गिनी मुण्डधरा भुशुण्डी धनुरन्विता । चक्रघण्टान्विता बालप्रेतशैलप्रधारिणी ॥७७॥ 
 नरकङ्कालनकुलसर्पहस्ता समुद्गरा । मुरलीधारिणी बलिकुण्डिनी डमरुप्रिया ॥७८॥ 
 भिन्दिपालास्त्रिणी पूज्या साध्या परिघिणी तथा । पट्टिशप्रासिनी रम्या शतशो मुसलिन्यपि ॥७९॥ 
 शिवापोतधरादण्डाङ्कुशहस्ता त्रिशूलिनी । रत्नकुम्भधरा दान्ता छुरिकाकुन्तदोर्युता ॥८०॥ 
 कमण्डलुकरा क्षामा गृध्राढ्या पुष्पमालिनी । मांसखण्डकरा बीजपूरवत्यक्षरा क्षरा ॥८१॥ 
 गदापरशुयष्ट्यङ्का मुष्टिनानलधारिणी । प्रभूता च पवित्रा च श्रेष्ठा पुण्यविवर्धनो ॥८२॥ 
 प्रसन्नानन्दितमुखी विशिष्टा शिष्टपालिनी । कामरूपा कामगवी कमनीय कलावती ॥८३॥ 
 गङ्गा कलिङ्गतनया सिप्रा गोदावरी मही । रेवा सरस्वती चन्द्रभागा कृष्णा दृषद्वती ॥८४॥ 
 वाराणसी गयावन्ती काञ्ची मलयवासिनी । सर्वदेवीस्वरूपा च नानारूपधरामला ॥८५॥ 
 लक्ष्मीर्गौरी महालक्ष्मी रत्नपूर्णा कृपामयी । दुर्गा च विजया घोरा पद्मावत्यमरेश्वरी ॥८६॥ 
 वगला राजमातङ्गी चण्डी महिषमर्दिनी । त्रिपुटोच्छिष्टचाण्डाली भारुण्डा भुवनेश्वरी ॥८७॥ 
 राजराजेश्वरी नित्यक्लिन्ना च जयभैरवी । चण्डयोगेश्वरी राज्यलक्ष्मी रुद्राण्यरुन्धती ॥८८॥ 
 अश्वारूढा महागुह्या यन्त्रप्रमथनी तथा । धनलक्ष्मीर्विश्वलक्ष्मीर्वश्यकारिण्यकल्मषा ॥८९॥ 
 त्वरिता च महाचण्डभैरवी परमेश्वरी । त्रैलोक्यविजया ज्वालामुखी दिक्करवासिनी ॥९०॥ 
 महामन्त्रेश्वरी वज्रप्रस्तारिण्यजनावती । चण्डकापालेश्वरी च स्वर्णकोटेश्वरी तथा ॥९१॥ 
 उग्रचण्डा श्मशानोग्रचण्डा वार्ताल्यजेश्वरी । चण्डोग्रा च प्रचण्डा च चण्डिका चण्डनायिका ॥९२॥ 
 वाग्वादिनी मधुमती वारुणी तुम्बुरेश्वरी । वागीश्वरी च पूर्णेशी सौम्योग्रा कालभैरवी ॥९३॥ 
 दिगम्बरा च धनदा कालरात्रिश्च कुब्जिका । किराटी शिवदूती च कालसङ्कर्षणी तथा ॥९४॥ 
 कुक्कुटी सङ्कटा देवी चपलभ्रमराम्बिका । महार्णवेश्वरी नित्या जयझङ्केश्वरी तथा ॥९५॥ 
 शवरी पिङ्गला बुद्धिप्रदा संसारतारिणी । विज्ञा महामोहिनी च बाला त्रिपुरसुन्दरी ॥९६॥ 
 उग्रतारा चैकजटा तथा नीलसरस्वती । त्रिकण्टकी छिन्नमस्ता बोधिसत्वा रणेश्वरी ॥९७॥ 
 ब्रह्माणी वैष्णवी माहेश्वरी कौमार्यलम्बुषा । वाराही नारसिंही च चामुण्डेन्द्राण्योनिजा ॥९८॥ 
 चण्डेश्वरी चण्डघण्टा नाकुली मृत्युहारिणी । हंसेश्वरी मोक्षदा च शातकर्णी जलन्धरी ॥ ९९॥ 
 (इन्द्राणी वज्रवाराही फेत्कारी तुम्बुरेश्वरी । हयग्रीवा हस्तितुण्डा नाकुली मृत्युहारिणी ॥) स्वरकर्णी ऋक्षकर्णी सूर्पकर्णा बलाबला । महानीलेश्वरी जातवेतसी कोकतुण्डिका ॥१००॥ 
 गुह्येश्वरी वज्रचण्डी महाविद्या च बाभ्रवी । शाकम्भरी दानवेशी डामरी चर्चिका तथा ॥१०१॥ 
 एकवीरा जयन्ती च एकानंशा पताकिनी । नीललोहितरूपा च ब्रह्मवादिन्ययन्त्रिता ॥१०२॥ 
 त्रिकालवेदिनी नीलकोरङ्गी रक्तदन्तिका । भूतभैरव्यनालम्बा कामाख्या कुलकुट्टनी ॥१०३॥ 
 क्षेमङ्करी विश्वरूपा मायूर्यावेशिनी तथा । कामाङ्कुशा कालचण्डी भीमादेव्यर्धमस्तका ॥१०४॥ 
 धूमावती योगनिद्रा ब्रह्मविष्णुनिकृन्तनी । चण्डोग्रकापालिनी च बोधिका हाटकेश्वरी ॥ १०५॥ 
 महामङ्गलचण्डी च तोवरा चण्डखेचरी । विशाला शक्तिसौपर्णी फेरुचण्डी मदोद्धता ॥१०६॥ 
 कापालिका चञ्चरीका महाकामध्रुवापि च । विक्षेपणी भूततुण्डी मानस्तोका सुदामिनी ॥१०७॥ 
 निर्मूलिनी राङ्कविणी सद्योजाता मदोत्कटा । वामदेवी महाघोरा महातत्पुरुषी तथा ॥१०८॥ 
 ईशानी शाङ्करी भर्गो महादेवी कपर्दिनी । त्र्यम्बकी व्योमकेशी च मारी पाशुपती तथा ॥१०९॥ 
 जयकाली धूमकाली ज्वालाकाल्युग्रकालिका । धनकाली घोरनादकाली कल्पान्तकालिका ॥११०॥ 
 वेतालकाली कङ्कालकाली श्रीनग्नकालिका । रौद्रकाली घोरघोरतरकाली तथैव च ॥१११॥ 
 ततो दुर्जयकाली च महामन्थानकालिका । आज्ञाकाली च संहारकाली सङ्ग्रामकालिका ॥११२॥ 
 कृतान्तकाली तदनु तिग्मकाली ततः परम् । ततो महारात्रिकाली महारुधिरकालिका ॥११३॥ 
 शवकाली भीमकाली चण्डकाली तथैव च । सन्त्रासकाली च ततः श्रीभयङ्करकालिका ॥११४॥ 
 विकरालकाली श्रीघोरकाली विकटकालिका । करालकाली तदनु भोगकाली ततः परम् ॥११५॥ 
 विभूतिकाली श्रीकालकाली दक्षिणकालिका । विद्याकाली वज्रकाली महाकाली भवेत्ततः ॥११६॥ 
 ततः कामकलाकाली भद्रकाली तथैव च । श्मशानकालिकोन्मत्तकालिका मुण्डकालिका ॥११७॥ 
 कुलकाली नादकाली सिद्धिकाली ततः परम् । उदारकाली सन्तापकाली चञ्चलकालिका ॥११८॥ 
 डामरी कालिका भावकाली कुणपकालिका । कपालकाली च दिगम्बरकाली तथैव च ॥११९॥ 
 उद्दामकाली प्रपञ्चकाली विजयकालिका । क्रतुकाली योगकाली तपःकाली तथैव च ॥१२०॥ 
 आनन्दकाली च ततः प्रभाकाली ततः परम् । सूर्यकाली चन्द्रकाली कौमुदीकालिका ततः ॥१२१॥ 
 स्फुलिङ्गकाल्यग्निकाली वीरकाली तथैव च । रणकाली हूंहूङ्कारनादकाली ततः परम् ॥१२२॥ 
 जयकाली विघ्नकाली महामार्तण्डकालिका । चिताकाली भस्मकाली ज्वलदङ्गारकालिका ॥१२३॥ 
 पिशाचकाली तदनु ततो लोहितकालिका । खर (खग) काली नागकाली ततो राक्षसकालिका ॥१२४॥ 
 महागगनकाली च विश्वकाली भवेदनु । मायाकाली मोहकाली ततो जङ्गमकालिका ॥१२५॥ 
 पुन स्थावरकाली च ततो ब्रह्माण्डकालिका । सृष्टिकाली स्थितिकाली पुनः संहारकालिका ॥१२६॥ 
 अनाख्याकालिका चापि भासाकाली ततोऽप्यनु । व्योमकाली पीठकाली शक्तिकाली तथैव च ॥१२७॥ 
 ऊर्ध्वकाली अधःकाली तथा चोत्तरकालिका । तथा समयकाली च कौलिकक्रमकालिका ॥१२८॥ 
 ज्ञानविज्ञानकाली च चित्सत्ताकालिकापि च । अद्वैतकाली परमानन्दकाली तथैव च ॥१२९॥ 
 वासनाकालिका योगभूमिकाली ततः परम् । उपाधिकाली च महोदयकाली ततोऽप्यनु ॥१३०॥ 
 निवृत्तिकाली चैतन्यकाली वैराग्यकालिका । समाधिकाली प्रकृतिकाली प्रत्ययकालिका ॥१३१॥ 
 सत्ताकाली च परमार्थकाली नित्यकालिका । जीवात्मकाली परमात्मकाली बन्धकालिका ॥१३२॥ 
 आभासकालिका सूक्ष्मकालिका शेषकालिका । लयकाली साक्षिकाली ततश्च स्मृतिकालिका ॥१३३॥ 
 पृथिवीकालिका वापि एककाली ततः परम् । कैवल्यकाली सायुज्यकाली च ब्रह्मकालिका ॥१३४॥ 
 ततश्च पुनरावृत्तिकाली याऽमृतकालिका । मोक्षकाली च विज्ञानमयकाली ततः परम् ॥१३५॥ 
 प्रतिबिम्बकालिका चापि एक(पिण्ड)काली ततः परम् । एकात्म्यकालिकानन्दमयकाली तथैव च ॥१३६॥ 
 सर्वशेषे परिज्ञेया निर्वाणमयकालिका । इति नाम्नां सहस्रं ते प्रोक्तमेकाधिकं प्रिये ॥१३७॥ 
 पठतः स्तोत्रमेतद्धि सर्वं करतले स्थितम् । 
 ॥ सहस्रनाम्नः स्तोत्रस्य फलश्रुतिः ॥ 
 नैतेन सदृशं स्तोत्रं भूतं वापि भविष्यति ॥१॥ 
 यः पठेत् प्रत्यहमदस्तस्य पुण्यफलं शृणु । पापानि विलयं यान्ति मन्दराद्रिनिभान्यपि ॥२॥ 
 उपद्रवाः विनश्यन्ति रोगाग्निनृपचौरजाः । आपदश्च विलीयन्ते ग्रहपीडाः स्पृशन्ति न ॥३॥ 
 दारिद्र्यं नाभिभवति शोको नैव प्रबाधते । नाशं गच्छन्ति रिपवः क्षीयन्ते विघ्नकोटयः ॥४॥ 
 उपसर्गाः पलायन्ते बाधन्ते न विषाण्यपि । नाकालमृत्युर्भवति न जाड्यं नैव मूकता ॥५॥ 
 इन्द्रियाणां न दौर्बल्यं विषादो नैव जायते । अथादौ नास्य हानिः स्यात् न कुत्रापि पराभवः ॥६॥ 
 यान् यान् मनोरथानिच्छेत् तांस्तान् साधयति द्रुतम् । सहस्रनामपूजान्ते यः पठेद् भक्तिभावितः ॥७॥ 
 पात्रं स सर्वसिद्धीनां भवेत्संवत्सरादनु । विद्यावान् बलवान् वाग्मी रूपवान् रूपवल्लभः ॥८॥ 
 अधृष्यः सर्वसत्वानां सर्वदा जयवान् रणे । कामिनीनां प्रियो नित्यं मित्राणां प्राणसन्निभः ॥९॥ 
 रिपूणामशनिः साक्षाद्दाता भोक्ता प्रियंवदः । आकरः स हि भाग्यानां रत्नानामिव सागरः ॥१०॥ 
 मन्त्ररूपमिदं ज्ञेयं स्तोत्रं त्रैलोक्यदुर्लभम् । एतस्य बहवः सन्ति प्रयोगाः सिद्धिदायिनः ॥११॥ 
 तान् विधाय सुरेशानि ततः सिद्धीः परीक्षयेत् । ताररावौ पुरा दत्त्वा नाम चैकैकमन्तरा ॥१२॥ 
 तच्च ङेऽन्तं विनिर्दिश्य शेषे हार्दमनुं न्यसेत् । उपरागे भास्करस्येन्दोर्वाप्यथान्यपर्वणि ॥१३॥ 
 मालतीकुसुमैर्बिल्वपत्रैर्वा पायसेन वा । मधूक्षितद्राक्षया वा पक्वमोचाफलेन वा ॥१४॥ 
 प्रत्येकं जुहुयात् नाम पूर्वप्रोक्तक्रमेण हि । एवं त्रिवारं निष्पाद्य ततः स्तोत्रं परीक्षयेत् ॥१५॥ 
 यावत्यः सिद्धयः सन्ति कथिता यामलादिषु । भवन्त्येते न तावन्त्यो दृढविश्वासशालिनाम् ॥१६॥ 
 (एतत्स्तोत्रस्य प्रयोगविधिवर्णनम्) परचक्रे समायाते मुक्तकेशो दिगम्बरः । रात्रौ तदाशाभिमुखः पञ्चविंशतिधा पठेत् ॥१७॥ 
 परचक्रं सदा घोरं स्वयमेव पलायते । महारोगोपशमने त्रिंशद्वारमुदीरयेत् ॥१८॥ 
 विवादे राजजनितोपद्रवे दशधा जपेत् । महादुर्भिक्षपीडासु महामारीभयेषु च ॥१९॥ 
 षष्टिवारं स्तोत्रमिदं पठन्नाशयति द्रुतम् । भूतप्रेतपिशाचादि कृताभिभवकर्मणि ॥२०॥ 
 प्रजपेत् पञ्च दशधा क्षिप्रं तदभिधीयते । तथा निगडबद्धानां मोचने पञ्चधा जपेत् ॥२१॥ 
 बध्यानां प्राणरक्षार्थं शतवारमुदीरयेत् । दुःस्वप्नदर्शने वारत्रयं स्तोत्रमिदं पठेत् ॥२२॥ 
 एवं विज्ञाय देवेशि महिमानममुष्य हि । यस्मिन् कस्मिन्नपि प्राप्ते सङ्कटे योजयेदिदम् ॥२३॥ 
 शमयित्वा तु तत्सर्वं शुभमुत्पादयत्यपि । रणे विवादे कलहे भूतावेशे महाभये ॥२४॥ 
 उत्पातराजपीडायां बन्धुविच्छेद एव वा । सर्पाग्निदस्युनृपतिशत्रुरोगभये तथा ॥२५॥ 
 जप्यमेतन्महास्तोत्रं समस्तं नाशमिच्छता । ध्यात्वा देवीं गुह्यकालीं नग्नां शक्तिं विधाय च ॥२६॥ 
 तद्योनौ यन्त्रमालिख्य त्रिकोणं बिन्दुमत् प्रिये । पूर्वोदितक्रमेणैव मन्त्रमुच्चार्य साधकः ॥२७॥ 
 गन्धपुष्पाक्षतैर्नित्यं प्रत्येकं परिपूजयेत् । बलिं च प्रत्यहं दद्यात् चतुर्विंशतिवासरान् ॥२८॥ 
 स्तोत्राणामुत्तमं स्तोत्रं सिद्ध्यन्त्येतावताप्यदः । स्तम्भने मोहने चैव वशीकरण एव च ॥ २९॥ 
 उच्चाटने मारणे च तथा द्वेषाभिचारयोः । गुटिकाधातुवादादियक्षिणीपादुकादिषु ॥३०॥ 
 कृपाणाञ्जनवेतालान्यदेहादिप्रवेशने । प्रयुञ्ज्यादिदमीशानि ततः सर्वं प्रसिद्ध्यति ॥३१॥ 
 सर्वे मनोरथास्तस्य वशीभूता करे स्थिताः । आरोग्यं विजयं सौख्यं विभूतिमतुलामपि ॥३२॥ 
 त्रिविधोत्पातशान्तिञ्च शत्रुनाशं पदे पदे । ददाति पठितं स्तोत्रमिदं सत्यं सुरेश्वरि ॥३३॥ 
 स्तोत्राण्यन्यानि भूयांसि गुह्यायाः सन्ति पार्वति । तानि नैतस्य तुल्यानि ज्ञातव्यानि सुनिश्चितम् ॥३४॥ 
 इदमेव तस्य तुल्यं सत्यं सत्यं मयोदितम् । नाम्नां सहस्रं यद्येतत् पठितु नालमन्वहम् ॥३५॥ 
 (सहस्रनाम्नः पाठाशक्तौ वक्ष्यमाणपाठस्य निदेशः) तदैतानि पठेन्नित्यं नामानि स्तोत्रपाठकः । चण्डयोगेश्वरी चण्डी चण्डकापालिनी शिवा ॥३६॥ 
 चामुण्डा चण्डिका सिद्धिकराली मुण्डमालिनी । कालचक्रेश्वरी फेरुहस्ता घोराट्टहासिनी ॥३७॥ 
 डामरी चर्चिका सिद्धिविकराली भगप्रिया । उल्कामुखी ऋक्षकर्णी बलप्रमथिनी परा ॥३८॥ 
 महामाया योगनिद्रा त्रैलोक्यजननीश्वरी । कात्यायनी घोररूपा जयन्ती सर्वमङ्गला ॥३९॥ 
 कामातुरा मदोन्मत्ता देवदेवीवरप्रदा । मातङ्गी कुब्जिका रौद्री रुद्राणी जगदम्बिका ॥४०॥ 
 चिदानन्दमयी मेधा ब्रह्मरूपा जगन्मयी । संहारिणी वेदमाता सिद्धिदात्री बलाहका ॥४१॥ 
 वारुणी जगतामाद्या कलातीता चिदात्मिका । नाभान्येतानि पठता सर्वं तत् परिपठ्यते ॥४२॥ 
 इत्येतत् कथितं नाम्नां सहस्रं तव पार्वति । उदीरितं फलं चास्य पठनाद् यत् प्रजायते ॥४३॥ 
 निःशेषमवधार्य त्वं यथेच्छसि तथा कुरु । पठनीयं न च स्त्रीभिरेतत् स्तोत्रं कदाचन ॥४४॥ 
 ॥ इति महाकालसंहितायां विश्वमङ्गलकवचान्तं पूजापद्धतिप्रभूतिकथनं नाम दशमः पटलान्तर्गतं गुह्यकालिसहस्रनामस्तोत्रं सम्पूर्णम् ॥ 
 
 
 guhyakālyāḥ sahasranāmastotram 
 mahākālasaṃhitāyāṃ (pūrvapīṭhikā) devyuvāca - yaduktaṃ bhavatā pūrvaṃ prāṇeśa karuṇāvaśāt ||1|| nāmnāṃ sahasraṃ devyāstu tadidānīṃ vadaprabho | 
 śrī mahākāla uvāca - atiprīto'smi deveśi tavāhaṃ vacasāmunā ||2|| 
 sahasranāmastotraṃ yat sarveṣāmuttamottamam | sugopitaṃ yadyapi syāt kathayiṣye tathāpi te ||3|| 
 devyāḥ sahasranāmākhyaṃ stotraṃ pāpaughamardanam | mahyaṃ purā bhuvaḥ kalpe tripuraghnena kīrtitam ||4|| 
 ājñaptaśca tathā devyā pratyakṣaṅgatayā tayā | tvayaitat pratyahaṃ pāṭhyaṃ stotraṃ paramadurlabham || 5|| 
 mahāpātakavidhvaṃsi sarvasiddhividhāyakam | mahābhāgyapradaṃ divyaṃ saṅgrāme jayakārakam ||6|| 
 vipakṣadarpadalanaṃ vipadambhodhitārakam | kṛtyābhicāraśamanaṃ mahāvibhavadāyakam ||7|| 
 manaścintitakāryaikasādhakaṃ vāgmitākaram | āyurārogyajanakaṃ balapuṣṭipradaṃ param ||8|| 
 nṛpataskarabhītighnaṃ vivāde jayavardhanam | paraśatrukṣayakaraṃ kaivalyāmṛtahaitukam ||9|| 
 siddhiratnākaraṃ śreṣṭhaṃ sadyaḥ pratyayakārakam | nātaḥ parataraṃ devyāḥ astyanyat tuṣṭidaṃ paramaṃ ||10|| 
 nāmnāṃ sahasraṃ guhyāyāḥ kathayiṣyāmi te priye | yatpūrvaṃ sarvadevānāṃ mantrarūpatayā sthitam ||11|| 
 daityadānavayakṣāṇāṃ gandharvoragarakṣasām | prāṇavat kaṇṭhadeśasthaṃ yatsvapne'pyaparicyutam ||12|| 
 devarṣīṇāṃ munīnāṃ ca vedavadrasanāgatam | sārvabhaumamahīpālaiḥ pratyahaṃ yacca paṭhyate ||13|| 
 mayā ca tripuraghnena japyate yaddine dine | yasmāt paraṃ no bhavitā stotraṃ trijagatītale ||14|| 
 vedavanmantravad yacca śivavaktravinirgatam | yannānyatantrāgameṣu yāmale ḍāmare na ca ||15|| 
 na cānyasaṃhitāgranthe naiva brahmāṇḍagolake | saṃsārasāgaraṃ tartumetat potavadiṣyate ||16|| 
 nānāvidhamahāsiddhikoṣarūpaṃ mahodayam | yā devī sarvadevānāṃ yā mātā jagadokasām ||17|| 
 yā sṛrṣṭikartrīṃ devānāṃ viśvāvitrī ca yā smṛtā | yā ca trilokyāḥ saṃhartrī yā dātrī sarvasampadām ||18|| 
 brahmāṇḍaṃ yā ca viṣṭabhya tiṣṭhatyamarapūjitā | purāṇopaniṣadvedyā yā caikā jagadambikā ||19|| 
 yasyāḥ paraṃ nānyadasti kimapīha jagattraye | sā guhyāsya prasādena vaśībhūteva tiṣṭhati ||20|| 
 ata eva mahatstotrametajjagati durlabham | paṭhanīyaṃ prayatnena paraṃ padamabhīpsubhiḥ ||21|| 
 kimanyaiḥ stotravistārairnāyaṃ cet paṭhito'bhavat | kimanyaiḥ stotravistārairayaṃ cet paṭhito bhavet ||22|| 
 durvāsase nāradāya kapilāyātraye tathā | dakṣāya ca vasiṣṭhāya saṃvartāya ca viṣṇave ||23|| 
 anyebhyo'pi devebhyo'vadaṃ stotramidaṃ purā | idānīṃ kathayiṣyāmi tava tridaśavandite ||24|| 
 idaṃ śṛṇuṣva yatnena śrutvā caivāvadhāraya | dhṛtvā'nyebhyo'pi dehi tvaṃ yān vai kṛpayase sadā ||25|| 
 atha viniyogaḥ Om̐ asya śrīguhyakālīsahasranāmastotrasya śrītripuraghna ṛṣiḥ | anuṣṭup chandaḥ | ekavaktrādiśatavaktrāntā śrīguhyakālīdevatā | phrūṃ bījaṃ | khraiṃ khraiṃ śaktiḥ | chrīṃ khrīṃ kīlakaṃ | puruṣārthacatuṣṭayasādhanapūrvakaśrīcaṇḍayogeśvarīprītyarthe jape viniyogaḥ | Om̐ tatsat | 
 atha śrīguhyakālīsahasranāmastotram | Om̐ phreṃ karālī cāmuṇḍā caṇḍayogeśvarī śivā | durgā kātyāyanī siddhivikarālī manojavā ||1|| ulkāmukhī pherurāvā bhīṣaṇā bhairavāsanā | kapālinī kālarātrirgaurī kaṅkāladhāriṇī ||2|| 
 śmaśānavāsinī pretāsanā raktodadhipriyā | yogamātā mahārātriḥ pañcakālānalasthitā ||3|| 
 rudrāṇī raudrarūpā ca rudhiradvīpacāriṇī | muṇḍamālādharā caṇḍī balavarvarakuntalā ||4|| 
 medhā mahāḍākinī ca yoginī yogivanditā | kaulinī kurukullā ca ghorā piṅgajaṭā jayā ||5|| 
 sāvitrī vedajananī gāyatrī gaganālayā | navapañcamahācakranilayā dāruṇasvanā ||6|| 
 ugrā kapardigṛhiṇī jagadādyā janāśrayā | kālakarṇī kuṇḍalinī bhūtapretagaṇādhipā ||7|| 
 jālandharī masīdehā pūrṇānandapataṅginī | pālinī pāvakābhāsā prasannā parameśvarī ||8|| 
 ratipriyā rogaharī nāgahārā nagātmajā | avyayā vītarāgā ca bhavānī bhūtadhāriṇī ||9|| 
 kādambinī nīladehā kālī kādambarīpriyā | mānanīyā mahādevī mahāmaṇḍalavartinī ||10|| 
 mahāmāṃsāśanīśānī cidrūpā vāgagocarā | yajñāmbujāmanādevī darvīkaravibhūṣitā ||11|| 
 caṇḍamuṇḍapramathanī khecarī khecaroditā | tamālaśyāmalā tīvrā tāpinī tāpanāśinī ||12|| 
 mahāmāyā mahādaṃṣṭrā mahoragavirājitā | lambodarī lolajaṭā lakṣmyālakṣmīpradāyinī ||13|| 
 dhātrī dhārādharākārā dhoraṇī dhāvanapriyā | harajāyā harārādhyā harivaktrā harīśvarī ||14|| 
 viśveśvarī vajranakhī svarārohā balapradā | ghoṇakī ghargharārāvā ghorāghaughapraṇāśinī ||15|| 
 kalpāntakāriṇī bhīmā jvālāmālinyavāmayā | sṛṣṭiḥ sthitiḥ kṣobhaṇā ca karālā cāparājitā ||16|| 
 vajrahastānantaśaktirvirūpā ca parāparā | brahmāṇḍamardinī pradhvaṃsinī lakṣabhujā satī ||17|| 
 vidyujjihvā mahādaṃṣṭrā chāyādhvarasutādyahṛt | mahākālāgnimūrtiśca meghanādā kaṭaṅkaṭā ||18|| 
 pradīptā viśvarūpā ca jīvadātrī janeśvarī | sākṣiṇī śarvarī śāntā śamamārgaprakāśikā ||19|| 
 kṣetrajñā kṣepaṇī kṣamyā'kṣatā kṣāmodarī kṣitiḥ | aprameyā kulācārakartrī kaulikapālinī ||20|| 
 mānanīyā manogamyā menānandapradāyinī | siddhāntakhaniradhyakṣā muṇḍinī maṇḍalapriyā ||21|| 
 bālā ca yuvatī vṛddhā vayotītā balapradā | ratnamālādharā dāntā darvīkaravirājitā ||22|| 
 dharmamūrtirdhvāntarucirdharitrī dhāvanapriyā | saṅkalpinī kalpakarī kalātītā kalasvanā ||23|| 
 vasundharā bodhadātrī varṇinī vānarānarā | vidyā vidyātmikā vanyā bandhanī bandhanāśinī ||24|| 
 geyā jaṭājaṭaramyā jaratī jāhnavī jaḍā | tāriṇī tīrtharūpā ca tapanīyā tanūdarī ||25|| 
 tāpatrayaharā tāpī tapasyā tāpasapriyā | bhogibhūṣyā bhogavatī bhaginī bhagamālinī ||26|| 
 bhaktilabhyā bhāvagamyā bhūtidā bhavavallabhā | svāhārūpā svadhārūpā vaṣaṭkārasvarūpiṇī ||27|| 
 hantā kṛtirnamorūpā yajñādiryajñasambhavā | sphyasūrpacamasākārā sraksru vākṛtidhāriṇī ||28|| 
 udgīthahiṃkāradehā namaḥ svastiprakāśinī | ṛgyajuḥ sāmarūpā ca mantrabrāhmaṇarūpiṇī ||29|| 
 sarvaśākhāmayī kharvā pīvaryupaniṣadbudhā | raudrī mṛtyuñjayācintāmaṇirvaihāyasī dhṛtiḥ ||30|| 
 tārtīyā haṃsinī cāndrī tārā traivikramī sthitiḥ | yoginī ḍākinī dhārā vaidyutī vinayapradā ||31|| 
 upāṃśurmānasī vācyā rocanā rucidāyinī | satvākṛtistamorūpā rājasī guṇavarjitā ||32|| 
 ādisargādikālīnabhānavī nābhasī tathā | mūlādhārā kuṇḍalinī svādhipṭhānaparāyaṇā ||33|| 
 maṇipūrakavāsā ca viśuddhānāhatā tathā | ājñā prajñā mahāsaṃjñā varvarā vyomacāriṇī ||34|| 
 bṛhadrathantarākārā jyeṣṭhā cātharvaṇī tathā | prājāpatyā mahābrāhmī hūṃhūṅkārā pataṅginī ||35|| 
 rākṣasī dānavī bhūtiḥ piśācī pratyanīkarā | udāttāpyanudāttā ca svaritā niḥsvarāpyajā ||36|| 
 niṣkalā puṣkalā sādhvī sā nutā khaṇḍarūpiṇī | gūḍhā purāṇā caramā prāgbhavī vāmanī dhruvā ||37|| 
 kākīmukhī sākalā ca sthāvarā jaṅgameśvarī | īḍā ca piṅgalā caiva suṣumṇā dhyānagocarā ||38|| 
 sargā visargā dhamanī kampinī bandhanī hitā | saṅkocinī bhāsurā ca nimnā dṛptā prakāśinī ||39|| 
 prabuddhā kṣepaṇī kṣiptā pūrṇālasyā vilambitā | āveśinī ghargharā ca rūkṣā klinnā sarasvatī ||40|| 
 snigdhā caṇḍā kuhūḥ pūṣā vāraṇā ca yaśasvinī | gāndhārī śaṅkhinī caiva hastijihvā payasvinī ||41|| 
 viśvodarālambuṣā ca bibhrā tejasvinī satī | avyaktā gālanī mandā muditā cetanāpi ca ||42|| 
 drāvaṇī capalā lambā bhrāmarī madhumatyapi | dharmā rasavahā caṇḍī sauvīrī kapilā tathā ||43|| 
 raṇḍottarā karṣiṇī ca revatī sumukhī naṭī | rajanyāpyāyanī viśvadūtā candrā kapardinī ||44|| 
 nandā candrāvatī maitrī viśālāpi ca māṇḍavī | vicitrā lohinīkalpā sukalpā pūtanāpi ca ||45|| 
 dhoraṇī dhāraṇī helā dhīrā vegavatī jaṭā | agnijvālā ca surabhī vivarṇā kṛntanī tathā ||46|| 
 tapinī tāpinī dhūmrā marīcirjvālinī ruciḥ | tapasvinī svapnavahā saṃmohā koṭarā calā ||47|| 
 vikalpā lambikā mūlā tandrāvatyapi ghaṇṭikā | avigrahā ca kaivalyā turīyā cāpunarbhavā ||48|| 
 vibhrāntiśca praśāntā ca yoginiḥ śreṇyalakṣitā | nirvāṇā svastikā vṛddhirnivṛttiśca mahodayā ||49|| 
 bodhyā'vidyā ca tāmisrā vāsanā yogamedinī | nirañjanā ca prakṛtiḥ sattāravyā pāramārthikī ||50|| 
 pratibimbanirābhāsā sadasadrūpadhāriṇī | upaśāntā ca caitanyā kūṭā vijñānamayyapi ||51|| 
 śaktividyā vāsitā ca modinī muditānanā | anayā pravahā vyāḍī sarvajñā śaraṇapradā ||52|| 
 vāruṇī mārjanībhāṣā pratimā bṛhatī khalā | pratīcchā pramitiḥ prītiḥ kuhikā tarpaṇapriyā ||53|| 
 svastikā sarvatobhadrā gāyatrī praṇavātmikā | sāvitrī vedajananī nigamācārabodhinī ||54|| 
 vikarālā karālā ca jvālājālaikamālinī | bhīmā ca kṣobhaṇānantā vīrā vajrāyudhā tathā ||55|| 
 pradhvaṃsinī ca mālaṅkā viśvamardinyavīkṣitā | mṛtyuḥ sahasrabāhuśca ghoradaṃṣṭrā valāhakī ||56|| 
 piṅgā piṅgaśatā dīptā pracaṇḍā sarvatomukhī | vidāriṇī viśvarūpā vikrāntā bhūtabhāvanī ||57|| 
 vidrāviṇī mokṣadātrī kālacakreśvarī naṭī | taptahāṭakavarṇā ca kṛtāntā bhrāntibhañjinī ||58|| 
 sarvatejomayī bhavyā ditiśokakarī kṛtiḥ | mahākruddhā śmaśānasthā kapālasragalaṅkṛtā || 59|| 
 kālātikālā kālāntakarītiḥ karuṇānidhiḥ | mahāghorā ghoratarā saṃhārakariṇī tathā ||60|| 
 anādiśca mahonmattā bhūtadhātryasitekṣaṇā | bhīṣmākārā ca vakrāṅgī bahupādaikapādikā ||61|| 
 kulāṅganā kulārādhyā kulamārgarateśvarī | digambarā muktakeśī vajramuṣṭirnirindhanī ||62|| 
 sammohinī kṣobhakarī stambhinī vaśyakāriṇī | durdharṣā darpadalanī trailokyajananī jayā ||63|| 
 unmādoccāṭanakarī kṛtyā kṛtyāvighātinī | virūpā kālarātriśca mahārātrirmanonmanī ||64|| 
 mahāvīryā gūḍhanidrā caṇḍadordaṇḍamaṇḍitā | nirmalā śūlinī tantrā vajriṇī cāpadhāriṇī ||65|| 
 sthūlodarī ca kumudā kāmukā liṅgadhāriṇī | dhaṭodarī pheravī ca pravīṇā kālasundarī ||66|| 
 tārāvatī ḍamarukā bhānumaṇḍalamālinī | ekānaṅgā piṅgalākṣī pracaṇḍākṣī śubhaṅkarī ||67|| 
 vidyutkeśī mahāmārī sūcī tūṇḍī ca jṛmbhakā | prasvāpinī mahātīvrā varaṇīyā varapradā ||68|| 
 caṇḍacaṇḍā jvaladdehā lambodaryagnimardinī | mahādantolkādṛgambā jvālājālajalandharī ||69|| 
 māyā kṛśā prabhā rāmā mahāvibhavadāyinī | paurandarī viṣṇumāyā kīrtiḥ puṣṭistanūdarī ||70|| 
 yogajñā yogadātrī ca yoginī yogivallabhā | sahasraśīrṣapādā ca sahasranayanojvalā ||71|| 
 pānakartrī pāvakābhā parāmṛtaparāyaṇā | jagadgatirjagajjetrī janmakālavimocinī ||72|| 
 mūlāvataṃsinī mūlā maunavrataparāṅmukhī | lalitā lolupā lolā lakṣaṇīyā lalāmadhṛk ||73|| 
 mātaṅginī bhavānī ca sarvalokeśvareśvarī | pārvatī śambhudayitā mahiṣāsuramardinī ||74|| 
 caṇḍamuṇḍāpahartrī ca raktabījanikṛntanī | niśumbhaśumbhamathanī devarājavarapradā ||75|| 
 kalyāṇakāriṇī kālī kolamāṃsāsrapāyinī | khaḍgahastā carmiṇī ca pāśinī śaktidhāriṇī ||76|| 
 khaṭvāṅginī muṇḍadharā bhuśuṇḍī dhanuranvitā | cakraghaṇṭānvitā bālapretaśailapradhāriṇī ||77|| 
 narakaṅkālanakulasarpahastā samudgarā | muralīdhāriṇī balikuṇḍinī ḍamarupriyā ||78|| 
 bhindipālāstriṇī pūjyā sādhyā parighiṇī tathā | paṭṭiśaprāsinī ramyā śataśo musalinyapi ||79|| 
 śivāpotadharādaṇḍāṅkuśahastā triśūlinī | ratnakumbhadharā dāntā churikākuntadoryutā ||80|| 
 kamaṇḍalukarā kṣāmā gṛdhrāḍhyā puṣpamālinī | māṃsakhaṇḍakarā bījapūravatyakṣarā kṣarā ||81|| 
 gadāparaśuyaṣṭyaṅkā muṣṭinānaladhāriṇī | prabhūtā ca pavitrā ca śreṣṭhā puṇyavivardhano ||82|| 
 prasannānanditamukhī viśiṣṭā śiṣṭapālinī | kāmarūpā kāmagavī kamanīya kalāvatī ||83|| 
 gaṅgā kaliṅgatanayā siprā godāvarī mahī | revā sarasvatī candrabhāgā kṛṣṇā dṛṣadvatī ||84|| 
 vārāṇasī gayāvantī kāñcī malayavāsinī | sarvadevīsvarūpā ca nānārūpadharāmalā ||85|| 
 lakṣmīrgaurī mahālakṣmī ratnapūrṇā kṛpāmayī | durgā ca vijayā ghorā padmāvatyamareśvarī ||86|| 
 vagalā rājamātaṅgī caṇḍī mahiṣamardinī | tripuṭocchiṣṭacāṇḍālī bhāruṇḍā bhuvaneśvarī ||87|| 
 rājarājeśvarī nityaklinnā ca jayabhairavī | caṇḍayogeśvarī rājyalakṣmī rudrāṇyarundhatī ||88|| 
 aśvārūḍhā mahāguhyā yantrapramathanī tathā | dhanalakṣmīrviśvalakṣmīrvaśyakāriṇyakalmaṣā ||89|| 
 tvaritā ca mahācaṇḍabhairavī parameśvarī | trailokyavijayā jvālāmukhī dikkaravāsinī ||90|| 
 mahāmantreśvarī vajraprastāriṇyajanāvatī | caṇḍakāpāleśvarī ca svarṇakoṭeśvarī tathā ||91|| 
 ugracaṇḍā śmaśānogracaṇḍā vārtālyajeśvarī | caṇḍogrā ca pracaṇḍā ca caṇḍikā caṇḍanāyikā ||92|| 
 vāgvādinī madhumatī vāruṇī tumbureśvarī | vāgīśvarī ca pūrṇeśī saumyogrā kālabhairavī ||93|| 
 digambarā ca dhanadā kālarātriśca kubjikā | kirāṭī śivadūtī ca kālasaṅkarṣaṇī tathā ||94|| 
 kukkuṭī saṅkaṭā devī capalabhramarāmbikā | mahārṇaveśvarī nityā jayajhaṅkeśvarī tathā ||95|| 
 śavarī piṅgalā buddhipradā saṃsāratāriṇī | vijñā mahāmohinī ca bālā tripurasundarī ||96|| 
 ugratārā caikajaṭā tathā nīlasarasvatī | trikaṇṭakī chinnamastā bodhisatvā raṇeśvarī ||97|| 
 brahmāṇī vaiṣṇavī māheśvarī kaumāryalambuṣā | vārāhī nārasiṃhī ca cāmuṇḍendrāṇyonijā ||98|| 
 caṇḍeśvarī caṇḍaghaṇṭā nākulī mṛtyuhāriṇī | haṃseśvarī mokṣadā ca śātakarṇī jalandharī || 99|| 
 (indrāṇī vajravārāhī phetkārī tumbureśvarī | hayagrīvā hastituṇḍā nākulī mṛtyuhāriṇī ||) svarakarṇī ṛkṣakarṇī sūrpakarṇā balābalā | mahānīleśvarī jātavetasī kokatuṇḍikā ||100|| 
 guhyeśvarī vajracaṇḍī mahāvidyā ca bābhravī | śākambharī dānaveśī ḍāmarī carcikā tathā ||101|| 
 ekavīrā jayantī ca ekānaṃśā patākinī | nīlalohitarūpā ca brahmavādinyayantritā ||102|| 
 trikālavedinī nīlakoraṅgī raktadantikā | bhūtabhairavyanālambā kāmākhyā kulakuṭṭanī ||103|| 
 kṣemaṅkarī viśvarūpā māyūryāveśinī tathā | kāmāṅkuśā kālacaṇḍī bhīmādevyardhamastakā ||104|| 
 dhūmāvatī yoganidrā brahmaviṣṇunikṛntanī | caṇḍograkāpālinī ca bodhikā hāṭakeśvarī || 105|| 
 mahāmaṅgalacaṇḍī ca tovarā caṇḍakhecarī | viśālā śaktisauparṇī pherucaṇḍī madoddhatā ||106|| 
 kāpālikā cañcarīkā mahākāmadhruvāpi ca | vikṣepaṇī bhūtatuṇḍī mānastokā sudāminī ||107|| 
 nirmūlinī rāṅkaviṇī sadyojātā madotkaṭā | vāmadevī mahāghorā mahātatpuruṣī tathā ||108|| 
 īśānī śāṅkarī bhargo mahādevī kapardinī | tryambakī vyomakeśī ca mārī pāśupatī tathā ||109|| 
 jayakālī dhūmakālī jvālākālyugrakālikā | dhanakālī ghoranādakālī kalpāntakālikā ||110|| 
 vetālakālī kaṅkālakālī śrīnagnakālikā | raudrakālī ghoraghoratarakālī tathaiva ca ||111|| 
 tato durjayakālī ca mahāmanthānakālikā | ājñākālī ca saṃhārakālī saṅgrāmakālikā ||112|| 
 kṛtāntakālī tadanu tigmakālī tataḥ param | tato mahārātrikālī mahārudhirakālikā ||113|| 
 śavakālī bhīmakālī caṇḍakālī tathaiva ca | santrāsakālī ca tataḥ śrībhayaṅkarakālikā ||114|| 
 vikarālakālī śrīghorakālī vikaṭakālikā | karālakālī tadanu bhogakālī tataḥ param ||115|| 
 vibhūtikālī śrīkālakālī dakṣiṇakālikā | vidyākālī vajrakālī mahākālī bhavettataḥ ||116|| 
 tataḥ kāmakalākālī bhadrakālī tathaiva ca | śmaśānakālikonmattakālikā muṇḍakālikā ||117|| 
 kulakālī nādakālī siddhikālī tataḥ param | udārakālī santāpakālī cañcalakālikā ||118|| 
 ḍāmarī kālikā bhāvakālī kuṇapakālikā | kapālakālī ca digambarakālī tathaiva ca ||119|| 
 uddāmakālī prapañcakālī vijayakālikā | kratukālī yogakālī tapaḥkālī tathaiva ca ||120|| 
 ānandakālī ca tataḥ prabhākālī tataḥ param | sūryakālī candrakālī kaumudīkālikā tataḥ ||121|| 
 sphuliṅgakālyagnikālī vīrakālī tathaiva ca | raṇakālī hūṃhūṅkāranādakālī tataḥ param ||122|| 
 jayakālī vighnakālī mahāmārtaṇḍakālikā | citākālī bhasmakālī jvaladaṅgārakālikā ||123|| 
 piśācakālī tadanu tato lohitakālikā | khara (khaga) kālī nāgakālī tato rākṣasakālikā ||124|| 
 mahāgaganakālī ca viśvakālī bhavedanu | māyākālī mohakālī tato jaṅgamakālikā ||125|| 
 puna sthāvarakālī ca tato brahmāṇḍakālikā | sṛṣṭikālī sthitikālī punaḥ saṃhārakālikā ||126|| 
 anākhyākālikā cāpi bhāsākālī tato'pyanu | vyomakālī pīṭhakālī śaktikālī tathaiva ca ||127|| 
 ūrdhvakālī adhaḥkālī tathā cottarakālikā | tathā samayakālī ca kaulikakramakālikā ||128|| 
 jñānavijñānakālī ca citsattākālikāpi ca | advaitakālī paramānandakālī tathaiva ca ||129|| 
 vāsanākālikā yogabhūmikālī tataḥ param | upādhikālī ca mahodayakālī tato'pyanu ||130|| 
 nivṛttikālī caitanyakālī vairāgyakālikā | samādhikālī prakṛtikālī pratyayakālikā ||131|| 
 sattākālī ca paramārthakālī nityakālikā | jīvātmakālī paramātmakālī bandhakālikā ||132|| 
 ābhāsakālikā sūkṣmakālikā śeṣakālikā | layakālī sākṣikālī tataśca smṛtikālikā ||133|| 
 pṛthivīkālikā vāpi ekakālī tataḥ param | kaivalyakālī sāyujyakālī ca brahmakālikā ||134|| 
 tataśca punarāvṛttikālī yā'mṛtakālikā | mokṣakālī ca vijñānamayakālī tataḥ param ||135|| 
 pratibimbakālikā cāpi eka(piṇḍa)kālī tataḥ param | ekātmyakālikānandamayakālī tathaiva ca ||136|| 
 sarvaśeṣe parijñeyā nirvāṇamayakālikā | iti nāmnāṃ sahasraṃ te proktamekādhikaṃ priye ||137|| 
 paṭhataḥ stotrametaddhi sarvaṃ karatale sthitam | 
 || sahasranāmnaḥ stotrasya phalaśrutiḥ || 
 naitena sadṛśaṃ stotraṃ bhūtaṃ vāpi bhaviṣyati ||1|| 
 yaḥ paṭhet pratyahamadastasya puṇyaphalaṃ śṛṇu | pāpāni vilayaṃ yānti mandarādrinibhānyapi ||2|| 
 upadravāḥ vinaśyanti rogāgninṛpacaurajāḥ | āpadaśca vilīyante grahapīḍāḥ spṛśanti na ||3|| 
 dāridryaṃ nābhibhavati śoko naiva prabādhate | nāśaṃ gacchanti ripavaḥ kṣīyante vighnakoṭayaḥ ||4|| 
 upasargāḥ palāyante bādhante na viṣāṇyapi | nākālamṛtyurbhavati na jāḍyaṃ naiva mūkatā ||5|| 
 indriyāṇāṃ na daurbalyaṃ viṣādo naiva jāyate | athādau nāsya hāniḥ syāt na kutrāpi parābhavaḥ ||6|| 
 yān yān manorathānicchet tāṃstān sādhayati drutam | sahasranāmapūjānte yaḥ paṭhed bhaktibhāvitaḥ ||7|| 
 pātraṃ sa sarvasiddhīnāṃ bhavetsaṃvatsarādanu | vidyāvān balavān vāgmī rūpavān rūpavallabhaḥ ||8|| 
 adhṛṣyaḥ sarvasatvānāṃ sarvadā jayavān raṇe | kāminīnāṃ priyo nityaṃ mitrāṇāṃ prāṇasannibhaḥ ||9|| 
 ripūṇāmaśaniḥ sākṣāddātā bhoktā priyaṃvadaḥ | ākaraḥ sa hi bhāgyānāṃ ratnānāmiva sāgaraḥ ||10|| 
 mantrarūpamidaṃ jñeyaṃ stotraṃ trailokyadurlabham | etasya bahavaḥ santi prayogāḥ siddhidāyinaḥ ||11|| 
 tān vidhāya sureśāni tataḥ siddhīḥ parīkṣayet | tārarāvau purā dattvā nāma caikaikamantarā ||12|| 
 tacca ṅe'ntaṃ vinirdiśya śeṣe hārdamanuṃ nyaset | uparāge bhāskarasyendorvāpyathānyaparvaṇi ||13|| 
 mālatīkusumairbilvapatrairvā pāyasena vā | madhūkṣitadrākṣayā vā pakvamocāphalena vā ||14|| 
 pratyekaṃ juhuyāt nāma pūrvaproktakrameṇa hi | evaṃ trivāraṃ niṣpādya tataḥ stotraṃ parīkṣayet ||15|| 
 yāvatyaḥ siddhayaḥ santi kathitā yāmalādiṣu | bhavantyete na tāvantyo dṛḍhaviśvāsaśālinām ||16|| 
 (etatstotrasya prayogavidhivarṇanam) paracakre samāyāte muktakeśo digambaraḥ | rātrau tadāśābhimukhaḥ pañcaviṃśatidhā paṭhet ||17|| 
 paracakraṃ sadā ghoraṃ svayameva palāyate | mahārogopaśamane triṃśadvāramudīrayet ||18|| 
 vivāde rājajanitopadrave daśadhā japet | mahādurbhikṣapīḍāsu mahāmārībhayeṣu ca ||19|| 
 ṣaṣṭivāraṃ stotramidaṃ paṭhannāśayati drutam | bhūtapretapiśācādi kṛtābhibhavakarmaṇi ||20|| 
 prajapet pañca daśadhā kṣipraṃ tadabhidhīyate | tathā nigaḍabaddhānāṃ mocane pañcadhā japet ||21|| 
 badhyānāṃ prāṇarakṣārthaṃ śatavāramudīrayet | duḥsvapnadarśane vāratrayaṃ stotramidaṃ paṭhet ||22|| 
 evaṃ vijñāya deveśi mahimānamamuṣya hi | yasmin kasminnapi prāpte saṅkaṭe yojayedidam ||23|| 
 śamayitvā tu tatsarvaṃ śubhamutpādayatyapi | raṇe vivāde kalahe bhūtāveśe mahābhaye ||24|| 
 utpātarājapīḍāyāṃ bandhuviccheda eva vā | sarpāgnidasyunṛpatiśatrurogabhaye tathā ||25|| 
 japyametanmahāstotraṃ samastaṃ nāśamicchatā | dhyātvā devīṃ guhyakālīṃ nagnāṃ śaktiṃ vidhāya ca ||26|| 
 tadyonau yantramālikhya trikoṇaṃ bindumat priye | pūrvoditakrameṇaiva mantramuccārya sādhakaḥ ||27|| 
 gandhapuṣpākṣatairnityaṃ pratyekaṃ paripūjayet | baliṃ ca pratyahaṃ dadyāt caturviṃśativāsarān ||28|| 
 stotrāṇāmuttamaṃ stotraṃ siddhyantyetāvatāpyadaḥ | stambhane mohane caiva vaśīkaraṇa eva ca || 29|| 
 uccāṭane māraṇe ca tathā dveṣābhicārayoḥ | guṭikādhātuvādādiyakṣiṇīpādukādiṣu ||30|| 
 kṛpāṇāñjanavetālānyadehādipraveśane | prayuñjyādidamīśāni tataḥ sarvaṃ prasiddhyati ||31|| 
 sarve manorathāstasya vaśībhūtā kare sthitāḥ | ārogyaṃ vijayaṃ saukhyaṃ vibhūtimatulāmapi ||32|| 
 trividhotpātaśāntiñca śatrunāśaṃ pade pade | dadāti paṭhitaṃ stotramidaṃ satyaṃ sureśvari ||33|| 
 stotrāṇyanyāni bhūyāṃsi guhyāyāḥ santi pārvati | tāni naitasya tulyāni jñātavyāni suniścitam ||34|| 
 idameva tasya tulyaṃ satyaṃ satyaṃ mayoditam | nāmnāṃ sahasraṃ yadyetat paṭhitu nālamanvaham ||35|| 
 (sahasranāmnaḥ pāṭhāśaktau vakṣyamāṇapāṭhasya nideśaḥ) tadaitāni paṭhennityaṃ nāmāni stotrapāṭhakaḥ | caṇḍayogeśvarī caṇḍī caṇḍakāpālinī śivā ||36|| 
 cāmuṇḍā caṇḍikā siddhikarālī muṇḍamālinī | kālacakreśvarī pheruhastā ghorāṭṭahāsinī ||37|| 
 ḍāmarī carcikā siddhivikarālī bhagapriyā | ulkāmukhī ṛkṣakarṇī balapramathinī parā ||38|| 
 mahāmāyā yoganidrā trailokyajananīśvarī | kātyāyanī ghorarūpā jayantī sarvamaṅgalā ||39|| 
 kāmāturā madonmattā devadevīvarapradā | mātaṅgī kubjikā raudrī rudrāṇī jagadambikā ||40|| 
 cidānandamayī medhā brahmarūpā jaganmayī | saṃhāriṇī vedamātā siddhidātrī balāhakā ||41|| 
 vāruṇī jagatāmādyā kalātītā cidātmikā | nābhānyetāni paṭhatā sarvaṃ tat paripaṭhyate ||42|| 
 ityetat kathitaṃ nāmnāṃ sahasraṃ tava pārvati | udīritaṃ phalaṃ cāsya paṭhanād yat prajāyate ||43|| 
 niḥśeṣamavadhārya tvaṃ yathecchasi tathā kuru | paṭhanīyaṃ na ca strībhiretat stotraṃ kadācana ||44|| 
 || iti mahākālasaṃhitāyāṃ viśvamaṅgalakavacāntaṃ pūjāpaddhatiprabhūtikathanaṃ nāma daśamaḥ paṭalāntargataṃ guhyakālisahasranāmastotraṃ sampūrṇam || 
 
 
 
 
 | 
| 
 
 
 
 |