Ucchishta Ganapati

The Tantric Ganesh

 

 

 

Ucchistha Ganapati is one of the thirty-two forms of Ganesh. It is the tantric aspect of the elephant-headed god, adored mainly in the rituals of the Vamachara tradition. Ucchishta means "leftovers" is the food kept in the mouth, which has been contaminated by saliva, therefore impure and not to be offered in orthodox Hinduism. Ucchistha Ganapati is considered the Lord of Superiority and the Lord of Offerings. He is worshipped as a giver of great boons. He is portrayed in union with his Shakti Hastipishachi (Hasti = elephant; Pishaci = a class of celestial beings of the first order who eats flesh and tamasic by nature), or depicted with the Goddess seated on his left. She is naked and the tip of the proboscis touches her yoni. In some depictions the Shakti touches the erect lingam of Ganapati with the right hand.

 

 

The 9 syllable mantra is:

हस्ति पिशाचि लिखे स्वाहा

hasti piśāci likhe svāhā

 

One who is in union with Hastipishachi

 

 

The 10 syllable mantra is:

गं हस्ति पिशाचि लिखे स्वाहा

gaṃ hasti piśāci likhe svāhā

 

 

The 12 syllable mantra is:

ॐ ह्रीं गं हस्ति पिशाचि लिखे स्वाहा

Oṃ hrīṃ gaṃ hasti piśāci likhe svāhā

 

 

The 19 syllable mantra is:

ॐ नमः उच्छिष्ट गणेशाय हस्ति पिशाचि लिखे स्वाहा

oṃ namaḥ ucchiṣṭa gaṇeśāya hasti piśāci likhe svāhā

 

 

108 names of Ucchiṣṭa Gaṇapati     Ucchishta Ganapati Kavacham

 

 


 

 

 

Ucchishta Ganapati Yantra

 

 


 

 

 

Viniyogaḥ

 

ॐ अस्य श्री मदुच्छिष्ट गणेश मन्त्रस्य कंकोल ऋषिः विराट् छन्दः उच्छिष्ट गणपतिर् देवता अखिलाप्तये जपे विनियोगः

oṃ asya śrī maducchiṣṭa gaṇeśa mantrasya kaṃkola ṛṣiḥ virāṭ chandaḥ ucchiṣṭa gaṇapatir devatā akhilāptaye jape viniyogaḥ

 

 

Kara Nyāsaṃ

 

ॐ हस्ति अङ्गुष्ठभ्यम् नमः

ॐ पिशाचि थर्जनीभ्यम् स्वाहा

ॐ लिखे मध्यमभ्यम् वषट्

ॐ स्वाहा अनामिकाभ्यम् हुं

ॐ हस्ति पिशाचि लिखे कनिष्ठाकभ्यम् वौषट्

ॐ हस्ति पिशाचि लिखे स्वाहा कर थल कर पृष्ठभ्यम् फट्

 

Oṃ Hasti Aṅguṣṭhabhyam Namaḥ

Oṃ Piśāci Tharjanībhyam Svāhā

Oṃ Likhe Madhyamabhyam Vaṣaṭ

Oṃ Svāhā Anāmikābhyam Huṃ

Oṃ Hasti Piśāci Likhe Kaniṣṭhākabhyam Vauṣaṭ

Oṃ Hasti Piśāci Likhe Svāhā Kara Thala Kara Pṛṣṭhabhyam Phaṭ

 

 

Aṅga Nyāsaṃ

 

ॐ हस्ति हृदयय नमः

ॐ पिशाचि शिरसे स्वाहा

ॐ लिखे शिखायै वषट्

ॐ स्वाहा कवछय हुं

ॐ हस्ति पिशाचि लिखे नेत्रत्रय वौषट्

ॐ हस्ति पिशाचि लिखे स्वाहा अस्त्रय फट्

भूर् भुव सुवर्-ॐ-इति-दिग्-बन्धः

 

Oṃ Hasti Hṛdayaya Namaḥ

Oṃ Piśāci Śirase Svāhā

Oṃ Likhe Śikhāyai Vaṣaṭ

Oṃ Svāhā Kavachaya Huṃ

Oṃ Hasti Piśāci Likhe Netratraya Vauṣaṭ

Oṃ Hasti Piśāci Likhe Svāhā Astraya Phaṭ

Bhūr Bhuva Suvar-Om-Iti-Dig-Bandhaḥ

 

 

Dhyānam

 

चतुर्भुजं रक्ततनुं त्रिनेत्रं पशाङ्कुशौ मोदक पात्र दन्तौ ।

करैर्दधानं सरसीरुहस्थम् उन्मत्तम् उच्छिष्ट गणेषमीडे ॥

 

caturbhujaṃ raktatanuṃ trinetraṃ paśāṅkuśau modaka pātra dantau

karairdadhānaṃ sarasīruhastham unmattam ucchiṣṭa gaṇeṣamīḍe

 

I meditate upon the Unmatta (crazy, intoxicated, drunk) Ucchiṣṭa Gaṇapati, who has four hands and three eyes, whose body is red, who holds the goad and the vessel of sweets in the right hands and the noose and tusk in His left hands and who is also seated in the lotus posture.

 

 

.

 


Ucchiṣṭa Gaṇapati Kavacam

 

अथ उच्छिष्टगनेशकवचप्रारम्भः ।

 

देव्युवाच ।

देवदेव जगन्नाथ सृष्टिस्थितिलयात्मक ।

विना ध्यानं विना मन्त्रं विना होमं विना जपम् ॥ १ ॥

 

येन स्मरणमात्रेण लभ्यते चाशु चिन्तितम् ।

तदेव श्रोतुमिच्छमि कथयस्व जगत्प्रभो ॥ २ ॥

 

 

ईश्वर उवाच ।

श्रृणु देवि प्रवक्ष्यामि गुह्याद्गुह्यतरं महत् ।

उच्चिष्ट गणनाधस्य कवचं सर्वसिद्धिदं ॥ ३ ॥

 

अल्पायासैर्विना कष्टैर्जपमात्रेण सिद्धिदं ।

एकान्ते निर्जने अरण्ये गह्वरे च रणाङ्गणे ॥ ४ ॥

 

सिंधुतीरे च गाङ्गीये कूले वृक्षतले जले ।

सर्वदेवालये तीर्थेलब्ध्वा सम्यक् जपं चरेत् ॥ ५ ॥

 

स्नानशौचादिकं नास्ति नास्ति निर्बन्धनं प्रिये ।

दारिद्र्यांत करं शीघ्रं सर्वतत्वं जनप्रिये ॥ ६ ॥

 

सहस्रशपथं कृत्वायदि स्नेहोस्ति मां प्रति ।

निंदकाय कुशिष्याय खलाय कुटिलाय च ॥ ७.

 

दुष्टाय परशिष्याय घातकाय शठाय च ।

वञ्चकाय वरघ्नाय ब्राह्मणीगमनाय च ॥ ८ ॥

 

 

अशक्तायच क्रूराय गुरुद्रोहरताय च ।

न दातव्यं न दातव्यं न दातव्यवं कदाचन ॥ ९ ॥

 

गुरुभक्ताय दातव्यं सच्छिष्याय विशेषतः ।

तेषां सिध्यन्ति शीघ्रेण ह्यन्यथा न च सिध्यन्ति ॥ १० ॥

 

गुरु संतुष्टि मात्रेण कलौ प्रतक्ष सिद्धिदम् ।

देहोच्छिष्टै प्रजप्तव्यं तथोच्छिष्टैर्महामनुः ॥ ११ ॥

 

आकाशे च फलं प्राप्तं नान्यथा वचनं मम ।

एषा राजवती विद्या विना पुण्यं न लभ्यते ॥ १२ ॥

 

अत वक्ष्यामि देवेशि कवचं मंत्रपूर्वकम् ।

एन विज्ञानमात्रेण राजभोगफलप्रदम् ॥ १३ ॥

 

ऋषिर्मे गणकः पातु शिरसि च निरन्तरम् ।

त्राहि मां देवि गायत्री छन्दो ऋषिः सदा मुखे ॥ १४ ॥

 

हृदये पातु मां नित्यं उच्छिष्ट गणदेवता ।

गुह्येरक्षतु तद्बीजं स्वाहाशक्तिश्च पादयोः ॥ १५ ॥

 

कामकीलक सर्वाङ्गे विनियोगश्च सर्वदा ।

पार्श्वद्वये सदापातु स्वशक्तिं गणनायकः ॥ १६ ॥

 

शिखायां पातु तद्बीजं भ्रूमध्ये तारबीजकं ।

हस्तिवक्त्रश्च शिरसि लंबोदरो ललाटके ॥ १७ ॥

 

उच्छिष्टो नेत्रयोः पातु कर्णौ पातु महात्मने ।

पाशांकुश महाबीजं नासिकायां च रक्षतु ॥ १८ ॥

 

भूतीश्वरः परः पातु आस्यं जिह्वां स्वयंवपुः ।

तद्बीजं पातु मां नित्यं ग्रीवायां कन्ठदेशके ॥ १९ ॥

 

गं बीजं च तधा रक्षेत्तथा त्वग्रे च पृष्टके ।

सर्वकामश्च हृत् पातु पातु मां च करद्वये ॥ २० ॥

 

उच्छिष्टाय च हृदये वह्नि बीजं तथोदरे ।

मायाबीजं तथा कट्यां द्वौ ऊरू सिद्धिदायकः ॥ २१ ॥

 

जङ्घायां गणनाथश्च पादौ पातु विनायकः ।

शिरसः पादपर्यन्तं उच्छिष्ट गणनायकः ॥ २२ ॥

 

आपादमस्तकान्तं च उमापुत्रश्च पातु माम् ।

दिशो अष्टौ च तथाकाशे पाताले विदि शाष्टके ॥ २३ ॥

 

 

अहर्निशं च मां पातु मदचञ्चललोचनः ।

जले अनले च संग्रामे दुष्ट कारागृहे वने ॥ २४ ॥

 

राजद्वारे घोरपथे पातु मां गणनायकः ।

इदं तु कवचं गुह्यं मम वक्त्राद्विनिर्गतम् ॥ २५ ॥

 

त्रैलोक्ये सततं पातु द्विभुजश्च चतुर्भुजः ।

बाह्यम्भ्यंतरं पातु सिद्धिबुद्धिर्विनायकः ॥ २६ ॥

 

सर्वसिद्धि प्रदं देवि कवचमृद्धिसिद्धिदम् ।

एकांते प्रजपेन्मंत्रं कवचं युक्ति संयुतम् ॥ २७ ॥

 

इदं रहस्यं कवचं उच्छिष्ट गणनायकम् ।

सर्ववर्मसु देवेशि इदं कवचनायकं ॥ २८ ॥

 

एतत् कवच माहात्म्यं वर्णितुं नैव शक्यते ।

धर्मार्थकाम मोक्षं च नानाफल प्रदं नृणाम् ॥ २९ ॥

 

शिवपुत्रः सदा पातु पातु मां सुरार्चितः ।

गजाननः सदापातु गणराजश्च पातु माम् ॥ ३० ॥

 

सदा शक्तिरतः पातु पातु मां कामविह्वलः ।

सर्वाभरण भूषाढ्यः पातु मां सिन्दूरार्चितः ॥ ३१ ॥

 

पञ्चमोदकरः पातु पातु मां पार्वती सुतः ।

पाशांकुशधरः पातु पातु मां च धनेश्वरः ॥ ३२ ॥

 

गदाधरः सदा पातु पातु मां काममोहितः ।

नग्ननारीरतः पातु पातु मांच गणेश्वरः ॥ ३३ ॥

 

अक्षयं वरदः पातु शक्तियुक्तः सदावतु ।

भालचन्द्रः सदापातु नानारत्न विभूषितः ॥ ३४ ॥

 

उच्छिष्ट गणनाथश्च मदाघूर्णितलोचनः ।

नारीयोनि रसास्वादः पातुमां गजकर्णकः ॥ ३५ ॥

 

प्रसन्नवदनः पातु पातु मां भगवल्लभः ।

धटाधरः सदा पातु पातु मां च किरीटिकः ॥ ३६ ॥

 

पद्मासनः स्थितः पातु रक्तवर्णश्च पातु माम् ।

नग्नसाम मदोन्मत्तः पातु मां गणदैवतः ॥ ३७ ॥

 

वामाङ्गे सुंदरीयुक्तः पातु मां मन्मथप्रभुः ।

क्षेत्रपः पिशितं पातु पातु मां श्रृतिपाठकः ॥ ३८ ॥

 

भूषणाढ्यस्तु मां पातु नानाभोग समन्वितः ।

स्मिताननः सदा पातु श्री गणेश कुलान्वितः ॥ ३९ ॥

 

श्रीरक्त चन्दनमयः सुलक्षण गणेश्वरः ।

श्वेतार्क गणनाथश्च हरिद्रा गणनायकः ॥ ४० ॥

 

पारभद्रगणेशश्च पातुसप्त गणेश्वरः ।

प्रवालक गणाध्यक्षो गजदंतो गणेश्वरः ॥ ४१ ॥

 

हरबीज गणेशश्च भद्राक्ष गणनायकः ।

दिव्यौषधि समुद्भूतो गणेशश्चिन्तितप्रदः ॥ ४२ ॥

 

लवणस्य गणाध्यक्षो मृत्तिकागणनायकः ।

तण्डुलाक्ष गणाध्यक्षो गोमयश्च गणेश्वरः ॥ ४३ ॥

 

स्फटिकाक्ष गणाध्यक्षो रुद्राक्ष गणदैवतः ।

नवरत्न गणेशश्च आदिदेवो गणेश्वरः ॥ ४४ ॥

 

पञ्चाननश्चतुर्वक्त्रः षडानन गणेश्वरः ।

मयूरवाहनः पातु पातु मां मुषकासनः ॥ ४५ ॥

 

पातु मां देव देवेशः पातु मां ऋषिपूजितः ।

पातु मां सर्वदा देवो देवदानवपूजितः ॥ ४६ ॥

 

त्रैलोक्यपूजितो देवः पातु मां च विभुः प्रभुः ।

रंगस्थं च सदापातु सागरस्थं सदाऽवतु ॥ ४७ ॥

 

भूमिस्थं च सदा पातु पाताळस्थं च पातु माम् ।

अन्तरिक्षे सदा पातु आकाशस्थं सदावतु ॥ ४८ ॥

 

चतुःष्पथे सदा पातु त्रिपथस्थं च पातु माम् ।

विळ्वस्थं च वनस्थं च पातु मां सर्वतस्तनम् ॥ ४९ ॥

 

राजद्वारस्थितं पातु पातु मां शीघ्रसिद्धिदः ।

भवानी पूजितः पातु ब्रह्म विष्णु शिवार्चितः ॥ ५० ॥

 

इदं तु कवचं देवि पठनात्सर्व सिद्धिदं ।

उच्छिष्ट गणनाथस्य समंत्रं कवचं परम् ॥ ५१ ॥

 

स्मरणाद्भूभुजत्वं च लभते साङ्गतां ध्रुवम् ।

वाच: सिद्धिकरं शीघ्रं परसैन्य विदारणम् ॥ ५२ ॥

 

प्रातर्मध्याह्न सायाह्ने दिव रात्रौ पठेन्नरः ।

चतुर्ध्यां दिवसे रात्रौ पूजने मानदायकम् ॥ ५३ ॥

 

सर्वसौभाग्यदं शीघ्रं दारिद्यार्णवघातकम् ।

सुदार सुप्रजासौख्यं सर्वसिद्धिकरं नृणाम् ॥ ५४ ॥

 

जलेथवानले रण्ये सिन्धुतीरे सरित्तटे ।

श्मशाने दूरदेशे च रणे पर्वत गह्वरे ॥ ५५ ॥

 

राजद्वारे भये घोरे निर्भयो जायते ध्रुवम्।

सागरे च महाशीते दुर्भिक्षे दुष्ट सङ्कटे ॥ ५६ ॥

 

 

भूत प्रेत पिशाचादि यक्षराक्षसजे भये ।

राक्षसी यक्षिणीक्रूरा शाकिनी ढाकिनी गणाः ॥ ५७ ॥

 

राजमृत्युहरं देवि कवचं कामधेनुवत् ।

अनन्त फलदंदेवि सति मोक्षं च पार्वति ॥ ५८ ॥

 

कवचेन विना मन्त्रं यो जपेद् गणनायकम् ।

इहजन्मनि पापिष्ठो जन्मान्ते मूषको भवेत् ॥ ५९ ॥

 

इति परमरहस्यं देव देवार्चनं च कवच परमदिव्यं पार्वती पुत्ररूपम् ।

पठति परमभौगैश्वर्य मोक्षप्रदं च लभति सकलसौख्यं शक्तिपुत्रप्रसादात् ॥ ६० ॥

 

इति श्री रुद्रयामळ तंत्रे उमा महेश्वर सम्वादे उच्छिष्ट गणेश कवचं समाप्तम् । शुभमस्तु  ॥

 

atha ucchiṣṭaganeśakavacaprārambhaḥ |

 

devyuvāca |

devadeva jagannātha sṛṣṭisthitilayātmaka |

vinā dhyānaṃ vinā mantraṃ vinā homaṃ vinā japam || 1 ||

 

yena smaraṇamātreṇa labhyate cāśu cintitam |

tadeva śrotumicchami kathayasva jagatprabho || 2 ||

 

 

Īśvara uvāca |

śrṛṇu devi pravakṣyāmi guhyādguhyataraṃ mahat |

ucciṣṭa gaṇanādhasya kavacaṃ sarvasiddhidaṃ || 3 ||

 

alpāyāsairvinā kaṣṭairjapamātreṇa siddhidaṃ |

ekānte nirjane araṇye gahvare ca raṇāṅgaṇe || 4 ||

 

siṃdhutīre ca gāṅgīye kūle vṛkṣatale jale |

sarvadevālaye tīrthelabdhvā samyak japaṃ caret || 5 ||

 

snānaśaucādikaṃ nāsti nāsti nirbandhanaṃ priye |

dāridryāṃta karaṃ śīghraṃ sarvatatvaṃ janapriye || 6 ||

 

sahasraśapathaṃ kṛtvāyadi snehosti māṃ prati |

niṃdakāya kuśiṣyāya khalāya kuṭilāya ca || 7.

 

duṣṭāya paraśiṣyāya ghātakāya śaṭhāya ca |

vañcakāya varaghnāya brāhmaṇīgamanāya ca || 8 ||

 

 

aśaktāyaca krūrāya gurudroharatāya ca |

na dātavyaṃ na dātavyaṃ na dātavyavaṃ kadācana || 9 ||

 

gurubhaktāya dātavyaṃ sacchiṣyāya viśeṣataḥ |

teṣāṃ sidhyanti śīghreṇa hyanyathā na ca sidhyanti || 10 ||

 

guru saṃtuṣṭi mātreṇa kalau pratakṣa siddhidam |

dehocchiṣṭai prajaptavyaṃ tathocchiṣṭairmahāmanuḥ || 11 ||

 

ākāśe ca phalaṃ prāptaṃ nānyathā vacanaṃ mama |

eṣā rājavatī vidyā vinā puṇyaṃ na labhyate || 12 ||

 

ata vakṣyāmi deveśi kavacaṃ maṃtrapūrvakam |

ena vijñānamātreṇa rājabhogaphalapradam || 13 ||

 

ṛṣirme gaṇakaḥ pātu śirasi ca nirantaram |

trāhi māṃ devi gāyatrī chando ṛṣiḥ sadā mukhe || 14 ||

 

hṛdaye pātu māṃ nityaṃ ucchiṣṭa gaṇadevatā |

guhyerakṣatu tadbījaṃ svāhāśaktiśca pādayoḥ || 15 ||

 

kāmakīlaka sarvāṅge viniyogaśca sarvadā |

pārśvadvaye sadāpātu svaśaktiṃ gaṇanāyakaḥ || 16 ||

 

śikhāyāṃ pātu tadbījaṃ bhrūmadhye tārabījakaṃ |

hastivaktraśca śirasi laṃbodaro lalāṭake || 17 ||

 

ucchiṣṭo netrayoḥ pātu karṇau pātu mahātmane |

pāśāṃkuśa mahābījaṃ nāsikāyāṃ ca rakṣatu || 18 ||

 

bhūtīśvaraḥ paraḥ pātu āsyaṃ jihvāṃ svayaṃvapuḥ |

tadbījaṃ pātu māṃ nityaṃ grīvāyāṃ kanṭhadeśake || 19 ||

 

gaṃ bījaṃ ca tadhā rakṣettathā tvagre ca pṛṣṭake |

sarvakāmaśca hṛt pātu pātu māṃ ca karadvaye || 20 ||

 

ucchiṣṭāya ca hṛdaye vahni bījaṃ tathodare |

māyābījaṃ tathā kaṭyāṃ dvau ūrū siddhidāyakaḥ || 21 ||

 

jaṅghāyāṃ gaṇanāthaśca pādau pātu vināyakaḥ |

śirasaḥ pādaparyantaṃ ucchiṣṭa gaṇanāyakaḥ || 22 ||

 

āpādamastakāntaṃ ca umāputraśca pātu mām |

diśo aṣṭau ca tathākāśe pātāle vidi śāṣṭake || 23 ||

 

 

aharniśaṃ ca māṃ pātu madacañcalalocanaḥ |

jale anale ca saṃgrāme duṣṭa kārāgṛhe vane || 24 ||

 

rājadvāre ghorapathe pātu māṃ gaṇanāyakaḥ |

idaṃ tu kavacaṃ guhyaṃ mama vaktrādvinirgatam || 25 ||

 

trailokye satataṃ pātu dvibhujaśca caturbhujaḥ |

bāhyambhyaṃtaraṃ pātu siddhibuddhirvināyakaḥ || 26 ||

 

sarvasiddhi pradaṃ devi kavacamṛddhisiddhidam |

ekāṃte prajapenmaṃtraṃ kavacaṃ yukti saṃyutam || 27 ||

 

idaṃ rahasyaṃ kavacaṃ ucchiṣṭa gaṇanāyakam |

sarvavarmasu deveśi idaṃ kavacanāyakaṃ || 28 ||

 

etat kavaca māhātmyaṃ varṇituṃ naiva śakyate |

dharmārthakāma mokṣaṃ ca nānāphala pradaṃ nṛṇām || 29 ||

 

śivaputraḥ sadā pātu pātu māṃ surārcitaḥ |

gajānanaḥ sadāpātu gaṇarājaśca pātu mām || 30 ||

 

sadā śaktirataḥ pātu pātu māṃ kāmavihvalaḥ |

sarvābharaṇa bhūṣāḍhyaḥ pātu māṃ sindūrārcitaḥ || 31 ||

 

pañcamodakaraḥ pātu pātu māṃ pārvatī sutaḥ |

pāśāṃkuśadharaḥ pātu pātu māṃ ca dhaneśvaraḥ || 32 ||

 

gadādharaḥ sadā pātu pātu māṃ kāmamohitaḥ |

nagnanārīrataḥ pātu pātu māṃca gaṇeśvaraḥ || 33 ||

 

akṣayaṃ varadaḥ pātu śaktiyuktaḥ sadāvatu |

bhālacandraḥ sadāpātu nānāratna vibhūṣitaḥ || 34 ||

 

ucchiṣṭa gaṇanāthaśca madāghūrṇitalocanaḥ |

nārīyoni rasāsvādaḥ pātumāṃ gajakarṇakaḥ || 35 ||

 

prasannavadanaḥ pātu pātu māṃ bhagavallabhaḥ |

dhaṭādharaḥ sadā pātu pātu māṃ ca kirīṭikaḥ || 36 ||

 

padmāsanaḥ sthitaḥ pātu raktavarṇaśca pātu mām |

nagnasāma madonmattaḥ pātu māṃ gaṇadaivataḥ || 37 ||

 

vāmāṅge suṃdarīyuktaḥ pātu māṃ manmathaprabhuḥ |

kṣetrapaḥ piśitaṃ pātu pātu māṃ śrṛtipāṭhakaḥ || 38 ||

 

bhūṣaṇāḍhyastu māṃ pātu nānābhoga samanvitaḥ |

smitānanaḥ sadā pātu śrī gaṇeśa kulānvitaḥ || 39 ||

 

śrīrakta candanamayaḥ sulakṣaṇa gaṇeśvaraḥ |

śvetārka gaṇanāthaśca haridrā gaṇanāyakaḥ || 40 ||

 

pārabhadragaṇeśaśca pātusapta gaṇeśvaraḥ |

pravālaka gaṇādhyakṣo gajadaṃto gaṇeśvaraḥ || 41 ||

 

harabīja gaṇeśaśca bhadrākṣa gaṇanāyakaḥ |

divyauṣadhi samudbhūto gaṇeśaścintitapradaḥ || 42 ||

 

lavaṇasya gaṇādhyakṣo mṛttikāgaṇanāyakaḥ |

taṇḍulākṣa gaṇādhyakṣo gomayaśca gaṇeśvaraḥ || 43 ||

 

sphaṭikākṣa gaṇādhyakṣo rudrākṣa gaṇadaivataḥ |

navaratna gaṇeśaśca ādidevo gaṇeśvaraḥ || 44 ||

 

pañcānanaścaturvaktraḥ ṣaḍānana gaṇeśvaraḥ |

mayūravāhanaḥ pātu pātu māṃ muṣakāsanaḥ || 45 ||

 

pātu māṃ deva deveśaḥ pātu māṃ ṛṣipūjitaḥ |

pātu māṃ sarvadā devo devadānavapūjitaḥ || 46 ||

 

trailokyapūjito devaḥ pātu māṃ ca vibhuḥ prabhuḥ |

raṃgasthaṃ ca sadāpātu sāgarasthaṃ sadā'vatu || 47 ||

 

bhūmisthaṃ ca sadā pātu pātāḻasthaṃ ca pātu mām |

antarikṣe sadā pātu ākāśasthaṃ sadāvatu || 48 ||

 

catuḥṣpathe sadā pātu tripathasthaṃ ca pātu mām |

viḻvasthaṃ ca vanasthaṃ ca pātu māṃ sarvatastanam || 49 ||

 

rājadvārasthitaṃ pātu pātu māṃ śīghrasiddhidaḥ |

bhavānī pūjitaḥ pātu brahma viṣṇu śivārcitaḥ || 50 ||

 

idaṃ tu kavacaṃ devi paṭhanātsarva siddhidaṃ |

ucchiṣṭa gaṇanāthasya samaṃtraṃ kavacaṃ param || 51 ||

 

smaraṇādbhūbhujatvaṃ ca labhate sāṅgatāṃ dhruvam |

vāca: siddhikaraṃ śīghraṃ parasainya vidāraṇam || 52 ||

 

prātarmadhyāhna sāyāhne diva rātrau paṭhennaraḥ |

caturdhyāṃ divase rātrau pūjane mānadāyakam || 53 ||

 

sarvasaubhāgyadaṃ śīghraṃ dāridyārṇavaghātakam |

sudāra suprajāsaukhyaṃ sarvasiddhikaraṃ nṛṇām || 54 ||

 

jalethavānale raṇye sindhutīre sarittaṭe |

śmaśāne dūradeśe ca raṇe parvata gahvare || 55 ||

 

rājadvāre bhaye ghore nirbhayo jāyate dhruvam|

sāgare ca mahāśīte durbhikṣe duṣṭa saṅkaṭe || 56 ||

 

 

bhūta preta piśācādi yakṣarākṣasaje bhaye |

rākṣasī yakṣiṇīkrūrā śākinī ḍhākinī gaṇāḥ || 57 ||

 

rājamṛtyuharaṃ devi kavacaṃ kāmadhenuvat |

ananta phaladaṃdevi sati mokṣaṃ ca pārvati || 58 ||

 

Kavacena vinā mantraṃ yo japed gaṇanāyakam |

ihajanmani pāpiṣṭho janmānte mūṣako bhavet || 59 ||

 

iti paramarahasyaṃ deva devārcanaṃ ca kavaca paramadivyaṃ pārvatī putrarūpam |

paṭhati paramabhaugaiśvarya mokṣapradaṃ ca labhati sakalasaukhyaṃ śaktiputraprasādāt || 60 ||

 

iti śrī rudrayāmaḻa taṃtre umā maheśvara samvāde ucchiṣṭa gaṇeśa kavacaṃ samāptam | śubhamastu  ||

 

 


 

108 names of Ucchiṣṭa Gaṇapati

 

Śrī ucchiṣṭagaṇanāthasya aṣṭottaraśatanāmāvaliḥ  

श्री उच्छिष्टगणनाथस्य अष्टोत्तरशतनामावलिः

 

 

ॐ वन्दारुजनमन्दारपादपाय नमो नमः ॐ ॥१॥    

oṃ vandārujanamandārapādapāya namo namaḥ oṃ 1

 

Salutations to the One whose revered like the mandāra or the heavenly red coral tree (Erythina Stricta).

 

 

ॐ चन्द्रार्धशेखरप्राणतनयाय नमो नमः ॐ ॥२॥

oṃ candrārdhaśekharaprāṇatanayāya namo namaḥ oṃ 2

 

Salutations to the dearest son of Lord Śiva, who has a half moon behind the lock of his hair.

(Lord Gaṇeśa has the power and is none other than Lord Śiva, the manifestation of Brahman Itself.)

 

 

ॐ शैलराजसुतोत्सङ्गमण्डनाय नमो नमः ॐ ॥३॥

oṃ śailarājasutotsaṅgamaṇḍanāya namo namaḥ oṃ 3

 

Salutations to the son of Śakti, the daughter of the mountain king, who carved Him out of the paste on Her lap as an ornament and put her prāṇa into Him.

(He’s none other than Śakti Herself. As referred in the Guhyasahasranāmā, He is Śiva Śakti Aikya, the confluence of both the static and dynamic aspects of the super-consciousness or Brahman.)

 

 

ॐ वल्लीशवलयक्रीडाकुतुकाय नमो नमः ॐ ॥४॥

oṃ vallīśavalayakrīḍākutukāya namo namaḥ oṃ 4

 

Salutations to the One who runs races with his brother, the husband of vallī, Kārtikeyā.

(This name refers to the race between the two sons of Śiva and Śakti. Kārtikeyā, the younger son is extremely powerful and also has his vehicle, the peacock. While Lord Kārtikeyā dashes off on the race, Lord gaṇeśa circles his parents, who represent the entire cosmos and creation itself. Kārtikeyā finds his brother Gaṇeśa wherever he goes. The meaning to derive is that everything is part of the super-consciousness itself and is not separate from it.)

  

 

ॐ श्रीनीलवाणीललितारसिकाय नमो नमः ॐ ॥५॥

oṃ śrīnīlavāṇīlalitārasikāya namo namaḥ oṃ 5

 

Salutations to the One who represents the essence of Śrī (Lakṣmī), Nīla (Śakti) and Vāṇī (Sarasvatī) and their combination Lalitā Devi Herself.

 

 

ॐ स्वानन्दभवनानन्दनिलयाय नमो नमः ॐ ॥६॥

oṃ svānandabhavanānandanilayāya namo namaḥ oṃ 6

 

Salutations to the One who resides in the palace representing the felicity of the self. Svānandabhavanā is located in the ocean of sugarcane juice or Ikṣusāgara. Lord Gaṇeśa is on a thousand-petalled lotus.

(The spiritual meaning is that Brahman can be reached through the Sahasrāra Chakra after wading through the cerebral fluid that comes during intense meditation.)

 

 

ॐ चन्द्रमण्डलसन्दृश्यस्वरूपाय नमो नमः ॐ ॥७॥

oṃ candramaṇḍalasandṛśyasvarūpāya namo namaḥ oṃ 7

 

Salutations to the One whose very form is seen in the moon’s disc.

 

 

ॐ क्षीराब्धिमध्यकल्पद्रुमूलस्थाय नमो नमः ॐ ॥८॥

oṃ kṣīrābdhimadhyakalpadrumūlasthāya namo namaḥ oṃ 8

 

Salutations to the One who stands at the foot of the wish-fulfilling tree (Kalpataru), in the centre of the ocean of milk (kṣīrasāgara).

 

 

ॐ सुरापगासिताम्भोजसंस्थिताय नमो नमः ॐ ॥९॥

oṃ surāpagāsitāmbhojasaṃsthitāya namo namaḥ oṃ 9

 

Salutation to the One who stands on a white lotus in the river of the gods.

 

 

ॐ सदनीकृतमार्ताण्डमण्डलाय नमो नमः ॐ ॥१०॥

oṃ sadanīkṛtamārtāṇḍamaṇḍalāya namo namaḥ oṃ 10

 

Salutations to the One who has made the sun's disc his abode.

 

 

ॐ इक्षुसागरमध्यस्थमन्दिराय नमो नमः ॐ ॥११॥

oṃ ikṣusāgaramadhyasthamandirāya namo namaḥ oṃ 11

 

Salutations to the One whose abode is in the middle of an ocean filled with sugarcane juice.

 

 

ॐ चिन्तामणिपुराधीशसत्तमाय नमो नमः ॐ ॥१२॥

oṃ cintāmaṇipurādhīśasattamāya namo namaḥ oṃ12

 

Salutations to the excellent Lord, who’s the ruler of the city of Cintāmaṇi.

(The divine mother Śrī Lalitā Devī is also said to be the resident of Cintāmaṇi Gṛha or the house containing the wish fulfilling tree. The meaning here, is that Lord Gaṇeśa fulfills all wishes of the sincere devotee.)

 

 

ॐ जगत्सृष्टितिरोधानकारणाय नमो नमः ॐ ॥१३॥

oṃ jagatsṛṣṭitirodhānakāraṇāya namo namaḥ oṃ13

 

Salutations to the One, who’s the very cause of the universe and also for the reabsorption of the same.

(Brahman creates, sustains, destroys, dissolves and recreates everything including the universe and all beings. This reference is to these qualities of Brahman and to perceive Lord Gaṇeśa as Brahman Himself.)

 

 

ॐ क्रीडार्थसृष्टभुवनत्रितयाय नमो नमः ॐ ॥१४॥

oṃ krīḍārthasṛṣṭabhuvanatritayāya namo namaḥ oṃ 14

 

Salutations to the One who creates the worlds for fun.

 

 

ॐ शुण्डोद्धूतजलोद्भूतभुवनाय नमो नमः ॐ ॥१५॥

oṃ śuṇḍoddhūtajalodbhūtabhuvanāya namo namaḥ oṃ 15

 

Salutations to the One whose trunk has sprinkled and watered the lands of the worlds born of His creation.

 

 

ॐ चेतनाचेतनीभूतशरीराय नमो नमः ॐ ॥१६॥

oṃ cetanācetanībhūtaśarīrāya namo namaḥ oṃ 16

 

Salutations to the One whose body is made of pure consciousness and has the power to render consciousness.

 

 

ॐ अणुमात्रशरीरान्तर्लसिताय नमो नमः ॐ ॥१७॥

oṃ aṇumātraśarīrāntarlasitāya namo namaḥ oṃ 17

 

Salutations to the One present and shining inside even the subtlest of bodies and materials.

 

 

ॐ सर्ववश्यकरानन्तमन्त्रार्णाय नमो नमः ॐ ॥१८॥

oṃ sarvavaśyakarānantamantrārṇāya namo namaḥ oṃ 18

 

Salutations to the One whose phonemes or sounds of the syllables of His mantras, can entice all easily.

 

 

ॐ कुष्ठाद्यामयसन्दोहशमनाय नमो नमः ॐ ॥१९॥

oṃ kuṣṭhādyāmayasandohaśamanāya namo namaḥ oṃ 19

 

Salutations to the One who through His power heals all diseases, including leprosy and other debilitating conditions and deformities of his sincere devotees.

 

 

ॐ प्रतिवादिमुखस्तम्भकारकाय नमो नमः ॐ ॥२०॥

oṃ prativādimukhastambhakārakāya namo namaḥ oṃ20

 

Salutations to the One who petrifies and stuns the tongues of the adversaries of His devotees.

 

 

ॐ पराभिचारदुष्कर्मनाशकाय नमो नमः ॐ ॥२१॥

oṃ parābhicāraduṣkarmanāśakāya namo namaḥ oṃ 21

 

Salutations to the One who destroys the bad luck and the magical charms of the enemies.

 

 

ॐ सकृन्मन्त्रजपध्यानमुक्तिदाय नमो नमः ॐ ॥२२॥

oṃ sakṛnmantrajapadhyānamuktidāya namo namaḥ oṃ22

 

Salutations to the One who liberates those who meditate and recite His mantras.

 

 

ॐ निजभक्तविपद्रक्षादीक्षिताय नमो नमः ॐ ॥२३॥

oṃ nijabhaktavipadrakṣādīkṣitāya namo namaḥ oṃ 23

 

Salutations to the one who initiates His sincere devotees by Himself, if needed and protects them.

 

 

ॐ ध्यानामृतरसास्वाददायकाय नमो नमः ॐ ॥२४॥

oṃ dhyānāmṛtarasāsvādadāyakāya namo namaḥ oṃ 24

 

Salutations to the One who grants the flavor of the quintessence of His Dhyāna or meditation to His devotees.

 

 

ॐ गुह्यपूजारताभीष्टफलदाय नमो नमः ॐ ॥२५॥

oṃ guhyapūjāratābhīṣṭaphaladāya namo namaḥ oṃ 25

 

Salutations to the One who grants every wish of his devotees, who sincerely perform His secret Pūjā (prayer) without ostentation.

 

 

ॐ रूपौदार्यगुणाकृष्टत्रिलोकाय नमो नमः ॐ ॥२६॥

oṃ rūpaudāryaguṇākṛṣṭatrilokāya namo namaḥ oṃ 26

 

Salutations to the One who attracts everyone in all the three realms (triloka) with His nobility and beauty.

 

 

ॐ अष्टद्रव्यहविःप्रीतमानसाय नमो नमः ॐ ॥२७॥

oṃ aṣṭadravyahaviḥprītamānasāya namo namaḥ oṃ27

 

Salutations to the One who’s pleased with the offerings of the eight essential materials in His Homa or fire ritual.

 

 

ॐ अवताराष्टकद्वन्द्वप्रदानाय नमो नमः ॐ ॥२८॥

oṃ avatārāṣṭakadvandvapradānāya namo namaḥ oṃ 28

 

Salutations to One of the most significant of His sixteen principal forms.

 

 

ॐ भारतालेखनोद्भिन्नरदनाय नमो नमः ॐ ॥२९॥

oṃ bhāratālekhanodbhinnaradanāya namo namaḥ oṃ29

 

Salutations to the One who broke one of his tusks, to write the epic Mahābhāratā.

 

 

ॐ नारदोद्गीतरुचिरचरिताय नमो नमः ॐ ॥३०॥

oṃ nāradodgītaruciracaritāya namo namaḥ oṃ 30

 

Salutations to the One whose deeds are extolled by the divine sage Nārada.

 

 

ॐ निखिलाम्नायसङ्गुष्ठवैभवाय नमो नमः ॐ ॥३१॥

oṃ nikhilāmnāyasaṅguṣṭhavaibhavāya namo namaḥ oṃ 31

 

Salutations to the One whose strength, especially the thumbs are extolled by all.

(Another meaning may be that Japa Mālā which does not involve the thumb is useless.)

 

 

ॐ बाणरावणचण्डीशपूजिताय नमो नमः ॐ ॥३२॥

oṃ bāṇarāvaṇacaṇḍīśapūjitāya namo namaḥ oṃ 32

 

Salutations to the One who is worshipped by the great and mightiest kings Bāṇa and Rāvaṇa and also the most revered Lord Caṇḍīśa (Śiva).

 

 

ॐ इन्द्रादिदेवतावृन्दरक्षकाय नमो नमः ॐ ॥३३॥

oṃ indrādidevatāvṛndarakṣakāya namo namaḥ oṃ 33

 

Salutations to the One who protects the Devās like Indrā and his troops.

 

 

ॐ सप्तर्षिमानसालाननिश्चेष्टाय नमो नमः ॐ ॥३४॥

oṃ saptarṣimānasālānaniśceṣṭāya namo namaḥ oṃ 34

 

Salutations to the One who is imprinted in the minds of the Saptaṛṣis (the seven great sages).

 

 

ॐ आदित्यादिग्रहस्तोमदीपकाय नमो नमः ॐ ॥३५॥

oṃ ādityādigrahastomadīpakāya namo namaḥ oṃ 35

 

Salutations to the One who illuminates the sun, moon and all the planets.

 

 

ॐ मदनागमसत्तन्त्रपारगाय नमो नमः ॐ ॥३६॥

oṃ madanāgamasattantrapāragāya namo namaḥ oṃ 36

 

Salutations to the One who has overcome all desires, conjugal, material and spiritual, and has mastery over everything that’s inner and outer.

 

 

ॐ उज्जीवितेशसन्दग्धमदनाय नमो नमः ॐ ॥३७॥

oṃ ujjīviteśasandagdhamadanāya namo namaḥ oṃ 37

 

Salutations to the One who has revived the god of love Madanā, or Kāmā, who was burnt by Lord Śiva.

 

 

ॐ शमीमहीरुहप्रीतमानसाय नमो नमः ॐ ॥३८॥

oṃ śamīmahīruhaprītamānasāya namo namaḥ oṃ 38

 

Salutations to the One who’s very pleased with the offerings of the Śamī plant (Mimosa Pudica) leaves.

 

 

ॐ जलतर्पणसम्प्रीतहृदयाय नमो नमः ॐ ॥३९॥

oṃ jalatarpaṇasamprītahṛdayāya namo namaḥ oṃ 39

 

Salutations to the One whose pleased with the Tarpana or water offering rituals.

 

 

ॐ कन्दुकीकृतकैलासशिखराय नमो नमः ॐ ॥४०॥

oṃ kandukīkṛtakailāsaśikharāya namo namaḥ oṃ 40

 

Salutations to the One that plays ball on the top of the Kailāsa mountain.

 

 

ॐ अथर्वशीर्षकारण्यमयूराय नमो नमः ॐ ॥४१॥

oṃ atharvaśīrṣakāraṇyamayūrāya namo namaḥ oṃ 41

 

Salutations to the one who has the gait of a peacock wading through the forest of the Atharvaśīrṣa Upanishad.

 

 

ॐ कल्याणाचलशृङ्गाग्रविहाराय नमो नमः ॐ ॥४२॥

oṃ kalyāṇācalaśṛṅgāgravihārāya namo namaḥ oṃ 42

 

Salutations to the One who strolls on the peaks of the auspicious and most beautiful mount Meru, the mystical five peaked mountain that’s said to be the center of physical, metaphysical and spiritual worlds.

(Meru also translates to the spinal cord and the peak would be the Sahasrāra Chakra. The Śrī Chakra in a three-dimensional form is also called the Meru Chakra.)

 

 

ॐ आतुनैन्द्रादिसामसंस्तुताय नमो नमः ॐ ॥४३॥

oṃ ātunaindrādisāmasaṃstutāya namo namaḥ oṃ 43

 

Salutations to the One whose hailed as Lord Indra among the hymns of Sāma Veda.

 

 

ॐ ब्राह्म्यादिमातृनिवःपरीताय नमो नमः ॐ ॥४४॥

oṃ brāhmyādimātṛnivaḥparītāya namo namaḥ oṃ 44

 

Salutations to the One who’s surrounded by the eight mātṛkā devīs (forms of the Divine Mother Śrī Lalitā).

 

 

ॐ चतुर्थावरणारक्षिदिगीशाय नमो नमः ॐ ॥४५॥

oṃ caturthāvaraṇārakṣidigīśāya namo namaḥ oṃ 45

 

Salutations to the One whose surrounded by the lords of the cardinal directions in His fourth Āvaraṇa.

 

 

ॐ द्वाराविष्टनिधिद्वन्द्वशोभिताय नमो नमः ॐ ॥४६॥

oṃ dvārāviṣṭanidhidvandvaśobhitāya namo namaḥ oṃ 46

 

Salutations to the One whose door step is adorned with the Nidhis or wealth.

(The door worship of a Pūjā room, consists of worshipping Lord Gaṇeśa at the top of the door, and the Nidhis all around. This worship must be performed before entering the room and worshipping any deity, to obtain best results.)

 

 

ॐ अनन्तपृथिवीकूर्मपीठाङ्गाय नमो नमः ॐ ॥४७॥

oṃ anantapṛthivīkūrmapīṭhāṅgāya namo namaḥ oṃ 47

 

Salutations to the One who has the sky, earth and a tortoise as His throne.

 

 

ॐ तीव्रादियोगिनीवृन्दपीठस्थाय नमो नमः ॐ ॥४८॥

oṃ tīvrādiyoginīvṛndapīṭhasthāya namo namaḥ oṃ 48

 

Salutations to the One whose supported by all the Yoginīs, forming His pedestal.

 

 

ॐ जयादिनवपीठश्रीमण्डिताय नमो नमः ॐ ॥४९॥

oṃ jayādinavapīṭhaśrīmaṇḍitāya namo namaḥ oṃ49

 

Salutations to the One whose pleased with the wonderfully adorned pedestal of His Pīṭha Devatās.

 

 

ॐ पञ्चावरणमध्यस्थसदनाय नमो नमः ॐ ॥५०॥

oṃ pañcāvaraṇamadhyasthasadanāya namo namaḥ oṃ 50

 

Salutations to the One who has five enclosures or Āvaraṇas.

(The yantra of Śrī Ucchiṣṭa Gaṇeśa has five Āvaraṇas or coverings with deities occupying the corners.)

 

 

ॐ क्षेत्रपालगणेशादिद्वारपाय नमो नमः ॐ ॥५१॥

oṃ kṣetrapālagaṇeśādidvārapāya namo namaḥ oṃ51

 

Salutations to the One who has the door guardian Kṣetrapāla.

 

 

ॐ महीरतीरमागौरीपार्श्वकाय नमो नमः ॐ ॥५२॥

oṃ mahīratīramāgaurīpārśvakāya namo namaḥ oṃ 52

 

Salutations to the One who has the Goddesses Rati (consort of Kāmā or cupid), Mother Earth, Lakṣmī and Gaurī (Śakti), on his side.

 

 

ॐ मद्यप्रियादिविनयिविधेयाय नमो नमः ॐ ॥५३॥

oṃ madyapriyādivinayividheyāya namo namaḥ oṃ 53

 

Salutations to the One who is served by humble attendants like Madyapriya.

 

 

ॐ वाणीदुर्गांशभूतार्हकलत्राय नमो नमः ॐ ॥५४॥

oṃ vāṇīdurgāṃśabhūtārhakalatrāya namo namaḥ oṃ 54

 

Salutations to the One who has the power of Vāṇī (Sarasvati) and Durgā (combination of Pārvati or Śakti, Lakṣmī and Sarasvati).

 

 

ॐ वरहस्तिपिशाचीहृन्नन्दनाय नमो नमः ॐ ॥५५॥

oṃ varahastipiśācīhṛnnandanāya namo namaḥ oṃ 55

 

Salutations to the One who delights the heart of the beautiful Śakti called Hastipiśāci.

 

 

ॐ योगिनीशचतुष्षष्टिसंयुताय नमो नमः ॐ ॥५६॥

oṃ yoginīśacatuṣṣaṣṭisaṃyutāya namo namaḥ oṃ56

 

Salutations to the One whose accompanied by sixty-four Yoginīs.

 

 

ॐ नवदुर्गाष्टवसुभिस्सेविताय नमो नमः ॐ ॥५७॥

oṃ navadurgāṣṭavasubhissevitāya namo namaḥ oṃ 57

 

Salutations to the One served by the nine forms of Durgā and the eight Vasus (representing aspects of nature, elements and forces).

 

 

ॐ द्वात्रिंशद्भैरवव्यूहनायकाय नमो नमः ॐ ॥५८॥

oṃ dvātriṃśadbhairavavyūhanāyakāya namo namaḥ oṃ 58

 

Salutations to the One who leads the thirty-two Bhairavas and their armies.

 

 

ॐ ऐरावतादिदिग्दन्तिसंवृताय नमो नमः ॐ ॥५९॥

oṃ airāvatādidigdantisaṃvṛtāya namo namaḥ oṃ 59

 

Salutations to the One who is surrounded and served by the celestial elephant Airāvatā, the vehicle of Lord Indra and by seven other celestial elephants.

 

 

ॐ कण्ठीरवमयूराखुवाहनाय नमो नमः ॐ ॥६०॥

oṃ kaṇṭhīravamayūrākhuvāhanāya namo namaḥ oṃ 60

 

Salutations to the One, who has a lion, peacock and a rat as vehicles.

 

 

ॐ मूषकाङ्कमहारक्तकेतनाय नमो नमः ॐ ॥६१॥

oṃ mūṣakāṅkamahāraktaketanāya namo namaḥ oṃ 61

 

Salutations to the One whose flag is red in color and adorned by his favorite vehicle, the rat Mūṣakāsurā.

 

 

ॐ कुम्भोदरकरन्यस्तपादाब्जाय नमो नमः ॐ ॥६२॥

oṃ kumbhodarakaranyastapādābjāya namo namaḥ oṃ 62

 

Saluations to the One whose lotus feet are placed on the hands of Kumbhodara, the lion faced Gaṇa.

(Lord Śiva places His lotus feet on his attendant called Kumbhodara, a lion faced Gaṇa. Lord Śiva has lordship over the Gaṇas, a celestial race of beings known for creating obstacles in one’s progress. The Gaṇas fulfill the karmic actions destined to the individual jīvās or souls.

This action is symbolic of Lord Gaṇeśa in His aspect as Lord Śiva controlling His cravings. To the individuals, it’s symbolic of controlling hunger, desires, lust etc. by focusing on higher pursuits that are the domain of Lord Gaṇeśa.)

 

 

ॐ कान्ताकान्ततराङ्गस्थकराग्राय नमो नमः ॐ ॥६३॥

oṃ kāntākāntatarāṅgasthakarāgrāya namo namaḥ oṃ 63

 

Salutations to the One who places the tip of his trunk on the body of His beloved.

 

 

ॐ अन्तस्थभुवनस्फीतजठराय नमो नमः ॐ ॥६४॥

oṃ antasthabhuvanasphītajaṭharāya namo namaḥ oṃ 64

 

Salutations to the One whose stomach is enlarged by the worlds contained within.

 

 

ॐ कर्पूरवीटिकासाररक्तोष्ठाय नमो नमः ॐ ॥६५॥

oṃ karpūravīṭikāsāraraktoṣṭhāya namo namaḥ oṃ 65

 

Salutations to the One whose lips are reddened by the camphored betel offered to Him in prayers.

 

 

ॐ श्वेतार्कमालासन्दीप्तकन्धराय नमो नमः ॐ ॥६६॥

oṃ śvetārkamālāsandīptakandharāya namo namaḥ oṃ 66

 

Salutations to the One whose neck is adorned by a garland of Śvetārka flowers (Calotropis gigantea).

 

 

ॐ सोमसूर्यबृहद्भानुलोचनाय नमो नमः ॐ ॥६७॥

oṃ somasūryabṛhadbhānulocanāya namo namaḥ oṃ 67

 

Salutations to the One whose eyes represent the sun, moon and fire.

 

 

ॐ सर्वसम्पत्प्रदामन्दकटाक्षाय नमो नमः ॐ ॥६८॥

oṃ sarvasampatpradāmandakaṭākṣāya namo namaḥ oṃ 68

 

Salutations to the One whose mere glance can provide all the riches that an individual can seek and more.

 

 

ॐ अतिवेलमदारक्तनयनाय नमो नमः ॐ ॥६९॥

oṃ ativelamadāraktanayanāya namo namaḥ oṃ 69

 

Salutations to the One whose eyes are red with emotion due to His excitement and rapture.

 

 

ॐ शशाङ्कार्धसमादीप्तमस्तकाय नमो नमः ॐ ॥७०॥

oṃ śaśāṅkārdhasamādīptamastakāya namo namaḥ oṃ 70

 

Salutations to the One whose head is brightened by the crescent moon adorned around his head, producing a very bright aura.

 

 

ॐ सर्पोपवीतहारादिभूषिताय नमो नमः ॐ ॥७१॥

oṃ sarpopavītahārādibhūṣitāya namo namaḥ oṃ 71

 

Salutations to the One whose decorated with a serpent as a sacred thread and adorned with precious gems such as pearls etc.

 

 

ॐ सिन्दूरितमहाकुम्भसुवेषाय नमो नमः ॐ ॥७२॥

oṃ sindūritamahākumbhasuveṣāya namo namaḥ oṃ 72

 

Salutations to the One with beautiful frontal lobes resembling large ornaments and anointed with Sindūr.

 

 

ॐ आशावसनतादृश्यसौन्दर्याय नमो नमः ॐ ॥७३॥

oṃ āśāvasanatādṛśyasaundaryāya namo namaḥ oṃ 73

 

Salutations to the One whose beauty is visible from all directions and is also very well dressed.

 

 

ॐ कान्तालिङ्गनसञ्जातपुलकाय नमो नमः ॐ ॥७४॥

oṃ kāntāliṅganasañjātapulakāya namo namaḥ oṃ 74

 

Salutations to the One who appears ecstatic when in embrace with his beloved.

 

 

ॐ पाशाङ्कुशधनुर्बाणमण्डिताय नमो नमः ॐ ॥७५॥

oṃ pāśāṅkuśadhanurbāṇamaṇḍitāya namo namaḥ oṃ 75

 

Salutations to the One who’s adorned with a goad, noose, bow and arrow.

 

 

ॐ दिगन्तव्याप्तदानाम्बुसौरभाय नमो नमः ॐ ॥७६॥

oṃ digantavyāptadānāmbusaurabhāya namo namaḥ oṃ 76

 

Salutations to the One whose exudations of fragrant water spread in all directions to the ends of all worlds.

 

 

ॐ सायन्तनसहस्रांशुरक्ताङ्गाय नमो नमः ॐ ॥७७॥

oṃ sāyantanasahasrāṃśuraktāṅgāya namo namaḥ oṃ 77

 

Salutations to the One who’s red in color and shines like the evening sun, a thousand fold.

 

 

ॐ सम्पूर्णप्रणवाकारसुन्दराय नमो नमः ॐ ॥७८॥

oṃ sampūrṇapraṇavākārasundarāya namo namaḥ oṃ 78

 

Salutations to the One whose wondrous form, represents the Praṇava Mantra “Oṃ” and is the very embodiment of the same.

 

 

ॐ ब्रह्मादिकृतयज्ञाग्निसम्भूताय नमो नमः ॐ ॥७९॥

oṃ brahmādikṛtayajñāgnisambhūtāya namo namaḥ oṃ 79

 

Salutations to the One who was born out of the Yajñā or fire ritual, performed by the creator Brahmā.

 

 

ॐ सर्वामरप्रार्थनात्तविग्रहाय नमो नमः ॐ ॥८०॥

oṃ sarvāmaraprārthanāttavigrahāya namo namaḥ oṃ 80

 

Salutations to the One who’s worshipped first and also assumes form at the prayer rituals of all gods.

 

 

ॐ जनिमात्रसुरत्रासनाशकाय नमो नमः ॐ ॥८१॥

oṃ janimātrasuratrāsanāśakāya namo namaḥ oṃ 81

 

Salutations to the One, whose very birth has destroyed the fears of all suras, the celestial race of beings hailed as gods.

 

 

ॐ कलत्रीकृतमातङ्गकन्यकाय नमो नमः ॐ ॥८२॥

oṃ kalatrīkṛtamātaṅgakanyakāya namo namaḥ oṃ 82

 

Salutations to the One who’s taken as His wife Nīla Sarasvati, the daughter of Brahma (Mātaṅga) and Sarasvati.

 

 

ॐ विद्यावदसुरप्राणनाशकाय नमो नमः ॐ ॥८३॥

oṃ vidyāvadasuraprāṇanāśakāya namo namaḥ oṃ 83

 

Salutations to the One who has killed the Asura Vidyāvat.

 

 

ॐ सर्वमन्त्रसमाराध्यस्वरूपाय नमो नमः ॐ ॥८४॥

oṃ sarvamantrasamārādhyasvarūpāya namo namaḥ oṃ 84

 

Salutations to the One whose form is worshipped with all other mantras.

(Lord Gaṇeśa must be invoked and worshipped prior to the worship of any god or mantras.)

 

 

ॐ षट्कोणयन्त्रपीठान्तर्लसिताय नमो नमः ॐ ॥८५॥

oṃ ṣaṭkoṇayantrapīṭhāntarlasitāya namo namaḥ oṃ 85

 

Salutations to the One who shines forth on the pedestal of His Yantra (Maṇḍala), formed of six corners by the intersection of two triangles, inverse of each other.

 

 

ॐ चतुर्नवतिमन्त्रात्मविग्रहाय नमो नमः ॐ ॥८६॥

oṃ caturnavatimantrātmavigrahāya namo namaḥ oṃ 86

 

Salutations to the One who has the body made up of ninety-four mantras.

 

 

ॐ हुं गं क्लां ग्लां मुखानेकबीजार्णाय नमो नमः ॐ ॥८७॥

oṃ huṃ gaṃ klāṃ glāṃ mukhānekabījārṇāya namo namaḥ oṃ 87

 

Salutations to the One who has several phonemes or Bījās, such as Oṃ Huṃ Gaṃ Klāṃ Glāṃ etc.

 

 

ॐ बीजाक्षरत्रयान्तस्थशरीराय नमो नमः ॐ ॥८८॥

oṃ bījākṣaratrayāntasthaśarīrāya namo namaḥ oṃ 88

 

Salutations to the One whose body stands in between the three phonemes or Bījās A U M.

 

 

ॐ हृल्लेखागुह्यमन्त्रान्तर्भाविताय नमो नमः ॐ ॥८९॥

oṃ hṛllekhāguhyamantrāntarbhāvitāya namo namaḥ oṃ 89

 

Salutations to the One who represents the secret mantra Hrīṃ derived from the mantra Hṛllekhā.

 

 

ॐ स्वाहान्तमातृकामालारूपाध्याय नमो नमः ॐ ॥९०॥

oṃ svāhāntamātṛkāmālārūpādhyāya namo namaḥ oṃ 90

 

Salutations to the One who is adorned by the garland of letters of the Sanskrit alphabet.

 

 

ॐ द्वात्रिंशदक्षरमयप्रतीकाय नमो नमः ॐ ॥९१॥

oṃ dvātriṃśadakṣaramayapratīkāya namo namaḥ oṃ 91

 

Salutations to the One whose thirty-two syllabled mantra defines His magnificent form.

 

 

ॐ शोधनानर्थसन्मन्त्रविशेषाय नमो नमः ॐ ॥९२॥

oṃ śodhanānarthasanmantraviśeṣāya namo namaḥ oṃ 92

 

Salutations to the One whose correct mantras do not require any purification rituals or verification.

 

 

ॐ अष्टाङ्गयोगिनिर्वाणदायकाय नमो नमः ॐ ॥९३॥

oṃ aṣṭāṅgayoginirvāṇadāyakāya namo namaḥ oṃ 93

 

Salutations to the One who grants liberation to those practicing Aṣṭāṅga Yogā, or the eight-fold path of yoga.

 

 

ॐ प्राणेन्द्रियमनोबुद्धिप्रेरकाय नमो नमः ॐ ॥९४॥

oṃ prāṇendriyamanobuddhiprerakāya namo namaḥ oṃ 94

 

Salutations to the One who sets the breath, mind, intellect and all organs in motion.

 

 

ॐ मूलाधारवरक्षेत्रनायकाय नमो नमः ॐ ॥९५॥

oṃ mūlādhāravarakṣetranāyakāya namo namaḥ oṃ 95

 

Salutations to the One who governs the Mūlādhāra Chakra.

 

 

ॐ चतुर्दलमहापद्मसंविष्टाय नमो नमः ॐ ॥९६॥

oṃ caturdalamahāpadmasaṃviṣṭāya namo namaḥ oṃ 96

 

Salutations to the One who’s seated on the mystical four petalled lotus (Mūlādhāra Chakra).

 

 

ॐ मूलत्रिकोणसंशोभिपावकाय नमो नमः ॐ ॥९७॥

oṃ mūlatrikoṇasaṃśobhipāvakāya namo namaḥ oṃ 97

 

Salutations to the One shining bright like a fire adorning the triangle (of Mūlādhāra Chakra).

 

 

ॐ सुषुम्नारन्ध्रसञ्चारदेशिकाय नमो नमः ॐ ॥९८॥

oṃ suṣumnārandhrasañcāradeśikāya namo namaḥ oṃ 98

 

Salutations to the One who facilitates the opening of the Suṣumnā (located on the spine).

 

 

ॐ षट्ग्रन्थिनिम्नतटिनीतारकाय नमो नमः ॐ ॥९९॥

oṃ ṣaṭgranthinimnataṭinītārakāya namo namaḥ oṃ 99

 

Salutations to the One who facilitates the opening of the six Chakras by breaking the knots.

 

 

ॐ दहराकाशसंशोभिशशाङ्काय नमो नमः ॐ ॥१००॥

oṃ daharākāśasaṃśobhiśaśāṅkāya namo namaḥ oṃ 100

 

Salutations to the One who illuminates the cavity of the heart (Anāhata Chakra) like the brightness of the moon.

 

 

ॐ हिरण्मयपुराम्भोजनिलयाय नमो नमः ॐ ॥१०१॥

oṃ hiraṇmayapurāmbhojanilayāya namo namaḥ oṃ 101

 

Salutations to the One who resides in the region of the golden lotus (Anāhata Chakra).

 

 

ॐ भ्रूमध्यकोमलारामकोकिलाय नमो नमः ॐ ॥१०२॥

oṃ bhrūmadhyakomalārāmakokilāya namo namaḥ oṃ 102

 

Salutations to the One who’s like a gentle cuckoo, residing between the eyebrows (Ājñā Chakra).

  

 

ॐ षण्णवद्वादशान्तस्थमार्ताण्डाय नमो नमः ॐ ॥१०३॥

oṃ ṣaṇṇavadvādaśāntasthamārtāṇḍāya namo namaḥ oṃ 103

 

Salutations to the One who’s found on the points six, nine and twelve inches above the head (Sahasrārā Chakra).

 

 

ॐ मनोन्मणीसुखावासनिर्वृताय नमो नमः ॐ ॥१०४॥

oṃ manonmaṇīsukhāvāsanirvṛtāya namo namaḥ oṃ 104

 

Salutations to the One who resides comfortably in the Manonmaṇī Chakra (located in the pineal gland).

 

 

ॐ षोडशान्तमहापद्ममधुपाय नमो नमः ॐ ॥१०५॥

oṃ ṣoḍaśāntamahāpadmamadhupāya namo namaḥ oṃ 105

 

Salutations to the One who resembles a bee, situated on the great lotus located sixteen inches above the head (the Chakras above the Sahasrārā in the astral and causal planes).

 

 

ॐ सहस्रारसुधासारसेचिताय नमो नमः ॐ ॥१०६॥

oṃ sahasrārasudhāsārasecitāya namo namaḥ oṃ 106

 

Salutations to the One who is sprinkled by the shower of nectar of the lotus with a thousand petals (Sahasrārā Chakra).

 

 

ॐ नादबिन्दुद्वयातीतस्वरूपाय नमो नमः ॐ ॥१०७॥

oṃ nādabindudvayātītasvarūpāya namo namaḥ oṃ 107

 

Salutations to the One whose own form is beyond the pair of Bindus and Nāda.

 

 

ॐ उच्छिष्टगणनाथायमहेशाय नमो नमः ॐ ॥१०८॥

oṃ ucchiṣṭagaṇanāthāyamaheśāya namo namaḥ oṃ 108

 

Salutations to the Great Lord Ucchiṣṭa Gaṇanāthā, the master of superior Yogis and Maheśa (Shiva) Himself.

 

 

 


 

     Bookmark and Share

 

 

Creative Commons License

 

AGHORI HISTORY DATTA 24 GURU MANOHAR DAS KISHAN DAS GOVINDA DAS RADHIKA DASI SARASVATI DEVI GREAT MOTHER SADHANA YANTRA MANTRA TANTRA MUDRA PŪJĀ HAVAN RUDRAKSHA HYMNS & STOTRAM AARTI & BHAJAN HINDU FESTIVITIES MYTHOLOGY CHAKRA AYURVEDA YOGA COURSE GALLERY LINKS CONTACT US SITE MAP

Privacy Policy