Tantraloka

by Abhinavagupta

 

In Sanscrito:

 

CAP.1 - CAP.2 - CAP.3 - CAP.4 - CAP.5 - CAP.6 - CAP.7 - CAP.8 - CAP.9 - CAP.10

CAP.11 - CAP.12 - CAP.13 - CAP.14 - CAP.15 - CAP.16 - CAP.17 - CAP.18 - CAP.19 - CAP.20

CAP.21 - CAP.22 - CAP.23 - CAP.24 - CAP.25 - CAP.26 - CAP.27 - CAP.28 - CAP.29 - CAP.30 

CAP.31 - CAP.32 - CAP.33 - CAP.34 - CAP.35 - CAP.36 - CAP.37 - Testo translitterato

pdf: Testo in sanscrito - Testo translitterato - Tantraloka with commentary by Rajanaka Jayaratha Vol.1 - Vol.2 - Vol.3 - Vol.4 - Vol.5 - Vol.6

 

 

TANTRALOKA SANSCRITO

 

 

Capitolo 11

 

 

अथ श्रीतन्त्रालोके एकादशमाह्निकम्

 

कलाध्वा वक्ष्यते श्रीमच्छांभवाज्ञानुसारतः ॥१॥

यथा पूर्वोक्तभुवनमध्ये निजनिजं गणम्

अनुयत्परतो भिन्नं तत्त्वं नामेति भण्यते ॥२॥

तथा तेष्वपि तत्त्वेषु स्ववर्गेऽनुगमात्मकम्

व्यावृत्तं परवर्गाच्च कलेति शिवशासने ॥३॥

केचिदाहुः पुनर्यासौ शक्तिरन्तः सुसूक्ष्मिका

तत्त्वानां सा कलेत्युक्ता धरण्यां धारिका यथा ॥४॥

अत्र पक्षद्वये वस्तु भिन्नं भासते यतः

अनुगामि सामान्यमिष्टं नैयायिकादिवत् ॥५॥

अन्ये वदन्ति दीक्षादौ सुखसंग्रहणार्थतः

शिवेन कल्पितो वर्गः कलेति समयाश्रयः ॥६॥

कृतश्च देवदेवेन समयोऽपरमार्थताम्

गच्छतीति नासत्यो चान्यसमयोदयः ॥७॥

निवृत्तिः पृथिवीतत्त्वे प्रतिष्ठाव्यक्तगोचरे

विद्या निशान्ते शान्ता शक्त्यन्ते ̕ण्डमिदं चतुः ॥८॥

शान्तातीता शिवे तत्त्वे कलातीतः परः शिवः

नह्यत्र वर्गीकरणं समयः कलनापि वा ॥९॥

युज्यते सर्वतोदिक्कं स्वातन्त्र्योल्लासधामनि

स्वातन्त्र्यात्तु निजं रूपं बोद्धृधर्मादविच्युतम् ॥१०॥

उपदेशतदावेशपरमार्थत्वसिद्धये

बोध्यतामानयन्देवः स्फुटमेव विभाव्यते ॥११॥

यतोऽतः शिवतत्त्वे ̕पि कलासंगतिरुच्यते

अण्डं नाम भुवनविभागस्थितिकारणम् ॥१२॥

प्राहुरावरणं तच्च शक्त्यन्तं यावदस्ति हि

यद्यपि प्राक् शिवाख्ये ̕पि तत्त्वे भुवनपद्धतिः ॥१३॥

उक्ता तथाप्यप्रतिघे नास्मिन्नावृतिसंभवः

नन्वेवं धरणीं मुक्त्वा शक्तौ प्रकृतिमाययोः ॥१४॥

अपि चाप्रतिघत्वे ̕पि कथमण्डस्य संभवः

अत्रास्मद्गुरवः प्राहुर्यत्पृथिव्यादिपञ्चकम् ॥१५॥

प्रत्यक्षमिदमाभाति ततोऽन्यन्नास्ति किंचन

मेयत्वे स्थूलसूक्ष्मत्वान्मानत्वे करणत्वतः ॥१६॥

कर्तृतोल्लासतः कर्तृभावे स्फुटतयोदितम्

त्रिंशत्तत्त्वं विभेदात्म तदभेदो निशा मता ॥१७॥

कार्यत्वकरणत्वादिविभागगलने सति

विकासोत्कस्वतन्त्रत्वे शिवान्तं पञ्चकं जगुः ॥१८॥

श्रीमत्कालोत्तरादौ कथितं भूयसा तथा

पञ्चैतानि तु तत्त्वानि यैर्व्याप्तमखिलं जगत् ॥१९॥

पञ्चमन्त्रतनौ तेन सद्योजातादि भण्यते

ईशानान्तं तत्र तत्र धरादिगगनान्तकम् ॥२०॥

शिवतत्त्वमतः शून्यातिशून्यं स्यादनाश्रि[वृ]तम्

यत्तु सर्वाविभागात्म स्वतन्त्रं बोधसुन्दरम् ॥२१॥

सप्तत्रिंशं तु तत्प्राहुस्तत्त्वं परशिवाभिधम्

तस्याप्युक्तनयाद्वेद्यभावेऽत्र परिकल्पिते ॥२२॥

यदास्ते ह्यनवच्छिन्नं तदष्टात्रिंशमुच्यते

चानवस्था ह्येवं स्याद्दृश्यतां हि महात्मभिः ॥२३॥

यद्वेद्यं किंचिदाभाति तत्क्षये यत्प्रकाशते

तत्तत्त्वमिति निर्णीतं षट्त्रिंशं हृदि भासते ॥२४॥

तत्किं किंचिद्वा किंचिदित्याकाङ्क्षावशे वपुः

चिदानन्दस्वतन्त्रैकरूपं तदिति देशने ॥२५॥

सप्तत्रिंशं समाभाति तत्राकाङ्क्षा नापरा

तच्चापि क्लृप्तवेद्यत्वं यत्र भाति चिन्मयः ॥२६॥

अष्टात्रिंशत्तमः सो ̕पि भावनायोपदिश्यते

यदि नाम ततः सप्तत्रिंश एव पुनर्भवेत् ॥२७॥

अविभागस्वतन्त्रत्वचिन्मयत्वादिधर्मता

समैव वेद्यीकरणं केवलं त्वधिकं यतः ॥२८॥

धरायां गुणतत्त्वान्ते मायान्ते क्रमशः स्थिताः

गन्धो रसो रूपमन्तः सूक्ष्मभावक्रमेण तु ॥२९॥

इति स्थिते नये शक्तितत्त्वान्तेऽप्यस्ति सौक्ष्म्यभाक्

स्पर्शः कोऽपि सदा यस्मै योगिनः स्पृहयालवः ॥३०॥

तत्स्पर्शान्ते तु संवित्तिः शुद्धचिद्व्योमरूपिणी

यस्यां रूढः समभ्येति स्वप्रकाशात्मिकां पराम् ॥३१॥

अतो विन्दुरतो नादो रूपमस्मादतो रसः

इत्युक्तं क्षोभकत्वेन स्पन्दे स्पर्शस्तु नो तथा ॥३२॥

मतं चैतन्महेशस्य श्रीपूर्वे यदभाषत

धारिकाप्यायिनी बोद्ध्री पवित्री चावकाशदा ॥३३॥

एभिः शब्दैर्व्यवहरन् निवृत्त्यादेर्निजं वपुः

पञ्चतत्त्वविधिः प्रोक्तस्त्रितत्त्वमधुनोच्यते ॥३४॥

विज्ञानाकलपर्यन्तमात्मा विद्येश्वरान्तकम्

शेषे शिवस्त्रितत्त्वे स्यादेकतत्त्वे शिवः परम् ॥३५॥

इमौ भेदावुभौ तत्त्वभेदमात्रकृताविति

तत्त्वाध्वैवायमित्थं षडध्वस्थितेः क्षतिः ॥३६॥

प्रकृत् पुमान्यतिः कालो माया विद्येशसौशिवौ

शिवश्च नवतत्त्वे ̕पि विधौ तत्त्वाध्वरूपता ॥३७॥

एवमष्टादशाख्ये ̕पि विधौ न्यायं वदेत्सुधीः

यत्र यत्र हि भोगेच्छा तत्प्राधान्योपयोगतः ॥३८॥

अन्यान्तर्भावनातश्च दीक्षानन्तविभेदभाक्

तेन षट्त्रिंशतो यावदेकतत्त्वविधिर्भवेत् ॥३९॥

तत्त्वाध्वैव देवेन प्रोक्तो व्याससमासतः

एकतत्त्वविधिश्चैष सुप्रबुद्धं गुरुं प्रति ॥४०॥

शिष्यं गतभोगाशमुदितः शंभुना यतः

भेदं विस्फार्य विस्फार्य शक्त्या स्वच्छन्दरूपया ॥४१॥

स्वात्मन्यभिन्ने भगवान्नित्यं विश्रमयन् स्थितः

इत्थं त्र्यात्माध्वनो भेदः स्थूलसूक्ष्मपरत्वतः ॥४२॥

मेयभागगतः प्रोक्तः पुरतत्त्वकलात्मकः

अधुना मातृभागस्थं रूपं त्रेधा निरूप्यते ॥४३॥

यत्प्रमाणात्मकं रूपमध्वनो मातृभागगम्

पदं ह्यवगमात्मत्वसमावेशात्तदुच्यते ॥४४॥

तदेव पदं मन्त्रः प्रक्षोभात्प्रच्युतं यदा

गुप्तभाषी यतो माता तूष्णींभूतो व्यवस्थितः ॥४५॥

तथापि विमर्शात्म रूपं त्यजति तेन सः

प्रमाणात्मविमर्शात्मा मानवत्क्षोभभाङ्नतु ॥४६॥

मन्त्राणां पदानां तेनोक्तं त्रिकशासने

अभिन्नमेव स्वं रूपं निःस्पन्दक्षोभिते परम् ॥४७॥

औदासीन्यपरित्यागे प्रक्षोभानवरोहणे

वर्णाध्वा मातृभागे स्यात् पूर्वं या कथिता प्रमा ॥४८॥

सा तु पूर्णस्वरूपत्वादविभागमयी यतः

तत एकैकवर्णत्वं तत्त्वे तत्त्वे क्षमादितः ॥४९॥

कृत्वा शैवे परे प्रोक्ताः षोडशार्णा विसर्गतः

तत्र शक्तिपरिस्पन्दस्तावान् प्राक् निरूपितः ॥५०॥

संकलय्योच्यते सर्वमधुना सुखसंविदे

पदमन्त्रवर्णमेकं पुरषोडशकं धरेति निवृत्तिः

तत्त्वार्णमग्निनयनं रसशरपुरमस्त्रमन्त्रपदमन्या ॥५१॥

मुनितत्त्वार्णं द्विकपदमन्त्रं वस्वक्षिभुवनमपरकला

अग्न्यर्णतत्त्वमेककपदमन्त्रं सैन्यभुवनमिति तुर्या ॥५२॥

षोडश वर्णाः पदमन्त्रतत्त्वमेकं शान्त्यतीतेयम्

अभिनवगुप्तेनार्यात्रयमुक्तं संग्रहाय शिष्येभ्यः ॥५३॥

सोऽयं समस्त एवाध्वा भैरवाभेदवृत्तिमान्

तत्स्वातन्त्र्यात्स्वतन्त्रत्वमश्नुवानो ̕वभासते ॥५४॥

तथाहि मातृरूपस्थो मन्त्राध्वेति निरूपितः

तथाहि चिद्विमर्शेन ग्रस्ता वाच्यदशा यदा ॥५५॥

शिवज्ञानक्रियायत्तमननत्राणतत्परा

अशेषशक्तिपटलीलीलालाम्पट्यपाटवात् ॥५६॥

च्युता मानमयाद्रूपात् संविन्मन्त्राध्वतां गता

प्रमाणरूपतामेत्य प्रयात्यध्वा पदात्मताम् ॥५७॥

तथा हि मातुर्विश्रान्तिर्वर्णान्संघट्य तान्बहून्

संघट्टनं क्रमिकं संजल्पात्मकमेव तत् ॥५८॥

विकल्पस्य स्वकं रूपं भोगावेशमयं स्फुटम्

अतः प्रमाणतारूपं पदमस्मद्गुरुर्जगौ ॥५९॥

प्रमाणरूपतावेशमपरित्यज्य मेयताम् ॥६०॥

गच्छन्कलनया योगादध्वा प्रोक्तः कलात्मकः

शुद्धे प्रमेयतायोगे सूक्ष्मस्थूलत्वभागिनि ॥६१॥

तत्त्वाध्वभुवनाध्वत्वे क्रमेणानुसरेद्गुरुः

प्रमेयमानमातॄणां यद्रूपमुपरि स्थितम् ॥६२॥

प्रमात्मात्र स्थितोऽध्वायं वर्णात्मा दृश्यतां किल

उच्छलत्संविदामात्रविश्रान्त्यास्वादयोगिनः ॥६३॥

सर्वाभिधानसामर्थ्यादनियन्त्रितशक्तयः

सृष्टाः स्वात्मसहोत्थेऽर्थे धरापर्यन्तभागिनि ॥६४॥

आमृशन्तः स्वचिद्भूमौ तावतो ̕र्थानभेदतः

वर्णौघास्ते प्रमारूपां सत्यां बिभ्रति संविदम् ॥६५॥

बालास्तिर्यक्प्रमातारो येऽप्यसंकेतभागिनः

तेऽप्यकृत्रिमसंस्कारसारामेनां स्वसंविदम् ॥६६॥

भिन्नभिन्नामुपाश्रित्य यान्ति चित्रां प्रमातृताम्

अस्या चाकृत्रिमानन्तवर्णसंविदि रूढताम् ॥६७॥

संकेता यान्ति चेत्ते ̕पि यान्त्यसंकेतवृत्तिताम्

अनया तु विना सर्वे संकेता बहुशः कृताः ॥६८॥

अविश्रान्ततया कुर्युरनवस्थां दुरुत्तराम्

बालो व्युत्पाद्यते येन तत्र संकेतमार्गणात् ॥६९॥

अङ्गुल्यादेशनेऽप्यस्य नाविकल्पा तथा मतिः

विकल्पः शब्दमूलश्च शब्दः संकेतजीवितः ॥७०॥

तेनानन्तो ह्यमायीयो यो वर्णग्राम ईदृशः

संविद्विमर्शसचिवः सदैव हि जृम्भते ॥७१॥

यत एव मायीया वर्णाः सूतिं वितेनिरे

ये मायीयवर्णेषु वीर्यत्वेन निरूपिताः ॥७२॥

संकेतनिरपेक्षास्ते प्रमेति परिगृह्यताम्

तथा हि परवाक्येषु श्रुतेष्वाव्रियते निजा ॥७३॥

प्रमा यस्य जडोऽसौ नो तत्रार्थेऽभ्येति मातृताम्

शुकवत्स पठत्येव परं तत्क्रमितैकभाक् ॥७४॥

स्वातन्त्र्यलाभतः स्वाक्यप्रमालाभे तु बोद्धृता

यस्य हि स्वप्रमाबोधो विपक्षोद्भेदनिग्रहात् ॥७५॥

वाक्यादिवर्णपुञ्जे स्वे प्रमाता वशीभवेत्

यथा यथा चाकृतकं तद्रूपमतिरिच्यते ॥७६॥

तथा तथा चमत्कारतारतम्यं विभाव्यते

आद्यामायीयवर्णान्तर्निमग्ने चोत्तरोत्तरे ॥७७॥

सकेते पूर्वपूर्वांशमज्जने प्रतिभाभिदः

आद्योद्रेकमहत्त्वे ̕पि प्रतिभात्मनि निष्ठिताः ॥७८॥

ध्रुवं कवित्ववक्तृत्वशालितां यान्ति सर्वतः

यावद्धामनि संकेतनिकारकलनोज्झिते ॥७९॥

विश्रान्तश्चिन्मये किं किं वेत्ति कुरुते वा

अत एव हि वाक्सिद्धौ वर्णानां समुपास्यता ॥८०॥

सर्वज्ञत्वादिसिद्धौ वा का सिद्धिर्या तन्मयी

तदुक्तं वरदेन श्रीसिद्धयोगीश्वरीमते ॥८१॥

तेन गुप्तेन गुप्तास्ते शेषा वर्णास्त्विति स्फुटम्

एवं मामातृमानत्वमेयत्वैर्योऽवभासते ॥८२॥

षड्विधः स्ववपुःशुद्धौ शुद्धिं सो ̕ध्वाधिगच्छति

एकेन वपुषा शुद्धौ तत्रैवान्यप्रकारताम् ॥८३॥

अन्तर्भाव्याचरेच्छुद्धिमनुसंधानवान् गुरुः

अनन्तर्भावशक्तौ तु सूक्ष्मं सूक्ष्मं तु शोधयेत् ॥८४॥

तद्विशुद्धं बीजभावात् सूते नोत्तरसंततिम्

शोधनं बहुधा तत्तद्भोगप्राप्त्येकतानता ॥८५॥

तदाधिपत्यं तत्त्यागस्तच्छिवात्मत्ववेदनम्

तल्लीनता तन्निरासः सर्वं चैतत्क्रमाक्रमात् ॥८६॥

अत एव ते मन्त्राः शोधकाश्चित्ररूपिणः

सिद्धान्तवामदक्षादौ चित्रां शुद्धिं वितन्वते ॥८७॥

अनुत्तरत्रिकानामक्रममन्त्रास्तु ये किल

ते सर्वे सर्वदाः किन्तु कस्याचित् क्वापि मुख्यता ॥८८॥

अतः शोधकभावेन शास्त्रे श्रीपूर्वसंज्ञिते

परापरादिमन्त्राणामध्वन्युक्ता व्यवस्थितिः ॥८९॥

शोधकत्वं मालिन्या देवीनां त्रितयस्य

देवत्रयस्य वक्त्राणामङ्गानामष्टकस्य ॥९०॥

किं वातिबहुना द्वारवास्त्वाधारगुरुक्रमे

लोकपास्त्रविधौ मन्त्रान् मुक्त्वा सर्वं विशोधकम् ॥९१॥

यच्चैतदध्वनः प्रोक्तं शोध्यत्वं शोद्धृता या

सा स्वातन्त्र्याच्छिवाभेदे युक्तेत्युक्तं शासने ॥९२॥

सर्वमेतद्विभात्येव परमेशितरि ध्रुवे

प्रतिबिम्बस्वरूपेण तु बाह्यतया यतः ॥९३॥

चिद्व्योम्न्येव शिवे तत्तद्देहादिमतिरीदृशी

भिन्ना संसारिणां रज्जौ सर्पस्रग्वीचिबुद्धिवत् ॥९४॥

यतः प्राग्देहमरणसिद्धान्तः स्वप्नगोचरः

देहान्तरादिर्मरणे कीदृग्वा देहसंभवः ॥९५॥

स्वप्नेऽपि प्रतिभामात्रसामान्यप्रथनाबलात्

विशेषाः प्रतिभासन्ते भाव्यन्तेऽपि ते यथा ॥९६॥

शालग्रामोपलाः केचिच्चित्राकृतिभृतो यथा

तथा मायादिभूम्यन्तलेखाचित्रहृदश्चितः ॥९७॥

नगरार्णवशैलाद्यास्तदिच्छानुविधायिनः

स्वयं सदसन्तो नो कारणाकारणात्मकाः ॥९८॥

नियतेश्चिररूढायाः समुच्छेदात्प्रवर्तनात्

अरूढायाः स्वतन्त्रोऽयं स्थितश्चिद्व्योमभैरवः ॥९९॥

एकचिन्मात्रसंपूर्णभैरवाभेदभागिनि

एवमस्मीत्यनामर्शो भेदको भावमण्डले ॥१००॥

सर्वप्रमाणैर्नो सिद्धं स्वप्ने कर्त्रन्तरं यथा

स्वसंविदः स्वसिद्धायास्तथा सर्वत्र बुद्ध्यताम् ॥१०१॥

चित्तचित्रपुरोद्याने क्रीडेदेवं हि वेत्ति यः

अहमेव स्थितो भूतभावतत्त्वपुरैरिति ॥१०२॥

एवं जातो मृतोऽस्मीति जन्ममृत्युविचित्रताः

अजन्मन्यमृतौ भान्ति चित्तभित्तौ स्वनिर्मिताः ॥१०३॥

परेहसंविदामात्रं परलोकेहलोकते

वस्तुतः संविदो देशः कालो वा नैव किंचन ॥१०४॥

अभविष्यदयं सर्गो मूर्तश्चेन्न तु चिन्मयः

तदवेक्ष्यत तन्मध्यात् केनैको ̕पि धराधरः ॥१०५॥

भूततन्मात्रवर्गादेराधाराधेयताक्रमे

अन्ते संविन्मयी शक्तिः शिवरूपैव धारिणी ॥१०६॥

तस्मात्प्रतीतिरेवेत्थं कर्त्री धर्त्री सा शिवः

ततो भावास्तत्र भावाः शक्तिराधारिका ततः ॥१०७॥

सांकल्पिकं निराधारमपि नैव पतत्यधः

स्वाधारशक्तौ विश्रान्तं विश्वमित्थं विमृश्यताम् ॥१०८॥

अस्या घनाहमित्यादिरूढिरेव धरादिता

यावदन्ते चिदस्मीति निर्वृत्ता भैरवात्मता ॥१०९॥

मणाविन्द्रायुधे भास इव नीलादयः शिवे

परमार्थत एषां तु नोदयो व्ययः क्वचित् ॥११०॥

देशे कालेऽत्र वा सृष्टिरित्येतदसमञ्जसम्

चिदात्मना हि देवेन सृष्टिर्दिक्कालयोरपि ॥१११॥

जागराभिमते सार्धहस्तत्रितयगोचरे

प्रहरे पृथक् स्वप्नाश्चित्रदिक्कालमानिनः ॥११२॥

अत एव क्षणं नाम किंचिदपि मन्महे

क्रियाक्षणे वाप्येकस्मिन् बह्व्यः संस्युर्द्रुताः क्रियाः ॥११३॥

तेन ये भावसंकोचं क्षणान्तं प्रतिपेदिरे

ते नूनमेनया नाड्या शून्यदृष्ट्यवलम्बिनः ॥११४॥

तद्य एष सतो भावाञ् शून्यीकर्तुं तथासतः

स्फुटीकर्तुं स्वतन्त्रत्वादीशः सोऽस्मत्प्रभुः शिवः ॥११५॥

तदित्थं परमेशानो विश्वरूपः प्रगीयते

तु भिन्नस्य कस्यापि धरादेरुपपन्नता ॥११६॥

उक्तं चैतत्पुरैवेति भूयः प्रविविच्यते

भूयोभिश्चापि बाह्यार्थदूषणैः प्रव्यरम्यत ॥११७॥

तदित्थमेष निर्णीतः कलादेर्विस्तरोऽध्वनः ॥११८॥

 

 


 

Capitolo 12

 

 

अथ श्रीतन्त्रालोके द्वादशमाह्निकम्

 

अथाध्वनोऽस्य प्रकृत उपयोगः प्रकाश्यते ॥१॥

इत्थमध्वा समस्तोऽयं यथा संविदि संस्थितः

तद्द्वारा शून्यधीप्राणनाडीचक्रतनुष्वथो ॥२॥

बहिश्च लिङ्गमूर्त्यग्निस्थण्डिलादिषु सर्वतः

तथा स्थितः समस्तश्च व्यस्तश्चैष क्रमाक्रमात् ॥३॥

आसंवित्तत्त्वमाबाह्यं योऽयमध्वा व्यवस्थितः

तत्र तत्रोचितं रूपं स्वं स्वातन्त्र्येण भासयेत् ॥४॥

सर्वं सर्वत्र रूपं तस्यापि भासते

नह्यवच्छेदितां क्वापि स्वप्ने ̕पि विषहामहे ॥५॥

एवं विश्वाध्वसंपूर्णं कालव्यापारचित्रितम्

देशकालमयस्पन्दसद्म देहं विलोकयेत् ॥६॥

तथा विलोक्यमानोऽसौ विश्वान्तर्देवतामयः

ध्येयः पूज्यश्च तर्प्यश्च तदाविष्टो विमुच्यते ॥७॥

इत्थं घटं पटं लिङ्गं स्थण्डिलं पुस्तकं जलम्

यद्वा किंचित्क्वचित्पश्येत्तत्र तन्मयतां व्रजेत् ॥८॥

तत्रार्पणं हि वस्तूनामभेदेनार्चनं मतम्

तथा संपूर्णरूपत्वानुसंधिर्ध्यानमुच्यते ॥९॥

संपूर्णत्वानुसंधानमकम्पं दार्ढ्यमानयन्

तथान्तर्जल्पयोगेन विमृशञ्जपभाजनम् ॥१०॥

तत्रार्पितानां भावानां स्वकभेदविलापनम्

कुर्वंस्तद्रश्मिसद्भावं दद्याद्धोमक्रियापरः ॥११॥

तथैवंकुर्वतः सर्वं समभावेन पश्यतः

निष्कम्पता व्रतं शुद्धं साम्यं नन्दिशिखोदितम् ॥१२॥

तथार्चनजपध्यानहोमव्रतविधिक्रमात्

परिपूर्णां स्थितिं प्राहुः समाधिं गुरवः पुरा ॥१३॥

अत्र पूजाजपाद्येषु बहिरन्तर्द्वयस्थितौ

द्रव्यौघे विधिः कोऽपि कापि प्रतिषिद्धता ॥१४॥

कल्पनाशुद्धिसंध्यादेर्नोपयोगोऽत्र कश्चन

उक्तं श्रीत्रिकसूत्रे जायते यजनं प्रति ॥१५॥

अविधिज्ञो विधिज्ञश्चेत्येवमादि सुविस्तरम्

यदा यथा येन यत्र स्वा सम्वित्तिः प्रसीदति ॥१६॥

तदा तथा तेन तत्र तत्तद्भोग्यं विधिश्च सः

लौकिकालौकिकं सर्वं तेनात्र विनियोजयेत् ॥१७॥

निष्कम्पत्वे सकम्पस्तु कम्पं निर्ह्रासयेद्बलात्

यथा येनाभ्युपायेन क्रमादक्रमतोऽपि वा ॥१८॥

विचिकित्सा गलत्यन्तस्तथासौ यत्नवान्भवेत्

धीकर्माक्षगता देवीर्निषिद्धैरेव तर्पयेत् ॥१९॥

वीरव्रतं चाभिनन्देदिति भर्गशिखावचः

तथाहि शङ्का मालिन्यं ग्लानिः संकोच इत्यदः ॥२०॥

संसारकारागारान्तः स्थूलस्थूणाघटायते

मन्त्रा वर्णस्वभावा ये द्रव्यं यत्पाञ्चभौतिकम् ॥२१॥

यच्चिदात्म प्राणिजातं तत्र कः संकरः कथम्

संकराभावतः केयं शङ्का तस्यामपि स्फुटम् ॥२२॥

शङ्केत तथा शङ्का विलीयेतावहेलया

श्रीसर्वाचारवीरालीनिशाचरक्रमादिषु ॥२३॥

शास्त्रेषु विततं चैतत्तत्र तत्रोच्यते यतः

शङ्कया जायते ग्लानिः शङ्कया विघ्नभाजनम् ॥२४॥

उवाचोत्पलदेवश्च श्रीमानस्मद्गुरोर्गुरुः

सर्वाशङ्काशनिं मार्गं नुमो माहेश्वरं त्विति ॥२५॥

अनुत्तरपदाप्तये तदिदमाणवं दर्शिताभ्युपायमतिविस्तरान्ननु विदांकुरुध्वं बुधाः ॥२६॥

 

 


 

     Bookmark and Share

 

 

Creative Commons License

Precedente Home Successiva

AGHORI BREVE STORIA GRANDE MADRE SADHANA CHAKRA AYURVEDA CORSO DI YOGA EVENTI GALLERIA SITI CONSIGLIATI CONTATTACI GUESTBOOK SITE MAP PDF IN ITA

Privacy Policy