Tantraloka by Abhinavagupta
In Sanscrito:
CAP.1 - CAP.2 - CAP.3 - CAP.4 - CAP.5 - CAP.6 - CAP.7 - CAP.8 - CAP.9 - CAP.10 CAP.11 - CAP.12 - CAP.13 - CAP.14 - CAP.15 - CAP.16 - CAP.17 - CAP.18 - CAP.19 - CAP.20 CAP.21 - CAP.22 - CAP.23 - CAP.24 - CAP.25 - CAP.26 - CAP.27 - CAP.28 - CAP.29 - CAP.30 CAP.31 - CAP.32 - CAP.33 - CAP.34 - CAP.35 - CAP.36 - CAP.37 - Testo translitterato
TANTRALOKA SANSCRITO
अथ श्रीतन्त्रालोके चतुर्दशमाह्निकम्
तिरोभावस्वरूपं तु कथ्यमानं विविच्यताम् । स्वभावात् परमेशानो नियत्यनियतिक्रमम् ॥१॥ स्पृशन्प्रकाशते येन ततः स्वच्छन्द उच्यते । नियतिं कर्मफलयोराश्रित्यैष महेश्वरः ॥२॥ सृष्टिसंस्थितिसंहारान्विधत्तेऽवान्तरस्थितीन् । महासर्गे पुनः सृष्टिसंहारानन्त्यशालिनि ॥३॥ एकः स देवो विश्वात्मा नियतित्यागतः प्रभुः । अवान्तरे या च सृष्टिः स्थितिश्चात्राप्ययन्त्रितम् ॥४॥ नोज्झत्येष वपुस्त्यक्तनियतिश्च स्थितोऽत्र तत् । नियत्यैव यदा चैष स्वरूपाच्छादनक्रमात् ॥५॥ भुङ्क्ते दुःखविमोहादि तदा कर्मफलक्रमः । त्यक्त्वा तु नियमं कार्मं दुःखमोहपरीतताम् ॥६॥ बिभासयिषुरास्तेऽयं तिरोधानेऽनपेक्षकः । यथा प्रकाशस्वातन्त्र्यात् प्रतिबुद्धोऽप्यबुद्धवत् ॥७॥ आस्ते तद्वदनुत्तीर्णोऽप्युत्तीर्ण इव चेष्टते । यथा च बुद्धस्तां मूढचेष्टां कुर्वन्नपि द्विषन् ॥८॥ हृद्यास्ते मूढ एवं हि प्रबुद्धानां विचेष्टितम् । श्रीविद्याधिपतिश्चाह मानस्तोत्रे तदीदृशम् ॥९॥ ये यौष्माके शासनमार्गे कृतदीक्षाः संगच्छन्तो मोहवशाद्विप्रतिपत्तिम् । नूनं तेषा नास्ति भवद्भानुनियोगः सङ्कोचः किं सूर्यकरैस्तामरसानाम् ॥१०॥ ज्ञातज्ञेया धातृपदस्था अपि सन्तो ये त्वन्मार्गात्कापथगास्तेऽपि न सम्यक । प्रायस्तेषां लैङ्गिकबुद्ध्यादिसमुत्थो मिथ्याबोधः सर्पवसादीपजकल्पः ॥११॥ यस्माद्विद्धं सूतकमुख्येन नु ताम्रं तद्यद्भूयः स्वां प्रकृतिं नो समुपेयात् । नो तैः पीतं भूतलसंस्थैरमृतं तद्येषां तृट्क्षुद्दुःखविबाधाः पुनरस्मिन् ॥१२॥ ततः प्रबुद्धचेष्टासौ मन्त्रचर्यार्चनादिका । द्वेषेद्धान्तर्दहत्येनं दाहः शङ्कैव सा यतः ॥१३॥ न चास्य कर्ममहिमा तादृग्येनेत्थमास्त सः । किं हि तत्कर्म कस्माद्वा पूर्वेणात्र समो विधिः ॥१४॥ तस्मात्सा परमेशेच्छा ययायं मोहितस्तथा । अनन्तकालसंवेद्यदुःखपात्रत्वमीहते ॥१५॥ तत्रापि चेच्छावैचित्र्यादिहामुत्रोभयात्मकः । दुःखस्यापि विभेदो ̕स्ति चिरशैघ्र्यकृतस्तथा ॥१६॥ कालकामान्धकादीनां पौलस्त्यपुरवासिनाम् । तथान्येषां तिरोभावस्तावद्दुःखो ह्यमुत्र च ॥१७॥ अन्यो ̕पि च तिरोभावः समयोल्लङ्घनात्मकः । यदुक्तं परमेशेन श्रीमदानन्दगह्वरे ॥१८॥ समयोल्लङ्घनाद्देवि क्रव्यादत्वं शतं समाः । तत्रापि मन्दतीव्रादिभेदाद्बहुविधः क्रमः ॥१९॥ स्वातन्त्र्याच्च महेशस्य तिरोभूतो ̕प्यसौ स्वयम् । परद्वारेण वाभ्येति भूयोऽनुग्रहमप्यलम् ॥२०॥ भूयोऽनुग्रहतः प्रायश्चित्ताद्याचरणे सति । अनुसारेण दीक्षादौ कृते स्याच्छिवतामयः ॥२१॥ तिरोभूतः परेतासुरपि बन्धुसुहृद्गुरून् । आलम्ब्य शक्तिपातेन दीक्षाद्यैरनुगृह्यते ॥२२॥ तत्रापि कालशीघ्रत्वचिरत्वादिविभेदताम् । तथैति शक्तिपातोऽसौ येनायाति शिवात्मताम् ॥२३॥ इत्थं सृष्टिस्थितिध्वंसतिरोभावमनुग्रहः । इति पञ्चसु कर्तृत्वं शिवत्वं संविदात्मनः ॥२४॥ पञ्चकृत्यस्वतन्त्रत्वसंपूर्णस्वात्ममानिनः । योगिनोऽर्चाजपध्यानयोगाः संस्युः सदोदिताः ॥२५॥ ऐन्द्रजालिकवृत्तान्ते न रज्येत कदाचन । सादाशिवोऽपि यो भोगो बन्धः सोऽप्युचितात्मनाम् ॥२६॥ ज्ञातृत्वमेव शिवता स्वातन्त्र्यं तदिहोच्यते । कुलालवत्तु कर्तृत्वं न मुख्यं तदधिष्ठितेः ॥२७॥ इति ज्ञात्वा ग्रहीतव्या नैव जात्वपि खण्डना । शिवोऽहं चेन्मदिच्छानुवर्ति किं न जगत्त्विति ॥२८॥ ममेच्छामनुवर्तन्तामित्यत्राहंविदि स्फुरेत् । शिवो वा परमेशानो देहादिरथ निर्मितः ॥२९॥ शिवस्य तावदस्त्येतद्देहस्त्वेष तथा त्वया । कृतः कान्या देहतास्य तत्किं स्याद्वाच्यतापदम् ॥३०॥ उक्तं च सिद्धसन्तानश्रीमदूर्मिमहाकुले । पवनभ्रमणप्राणविक्षेपादिकृतश्रमाः ॥३१॥ कुहकादिषु ये भ्रान्तास्ते भ्रान्ताः परमे पदे । सर्वत्र बहुमानेन याप्युत्क्रान्तिर्विमुक्तये ॥३२॥ प्रोक्ता सा सारशास्त्रेषु भोगोपायतयोदिता । यदि सर्वगता देवो वदोत्क्रम्य क्व यास्यति ॥३३॥ अथासर्वगतस्तर्हि घटतुल्यस्तदा भवेत् । उत्क्रान्तिविधियोगोऽयमेकदेशेन कथ्यते ॥३४॥ निरंशे शिवतत्त्वे तु कथमुत्क्रान्तिसंगतिः । यथा धरादौ वाय्वन्ते भृग्वम्ब्वग्न्युपवासकैः ॥३५॥ आत्मनो योजनं व्योम्नि तद्वदुत्क्रान्तिवर्तना । तस्मान्नोत्क्रमयेज्जीवं परतत्त्वसमीहया ॥३६॥ श्रीपूर्वशास्त्रे तूक्तं यदुत्क्रान्तेर्लक्षणं न तत् । मुक्त्युपायतया किंतु भोगहान्यै तथैषणात् ॥३७॥ जपध्यानादिसंसिद्धः स्वातन्त्र्याच्छक्तिपाततः । भोगं प्रति विरक्तश्चेदित्थं देहं त्यजेदिति ॥३८॥ स्वच्छन्दमृत्योरपि यद् भीष्मादेः श्रूयते किल । भोगवैरस्यसंप्राप्तौ जीवितान्तोपसर्पणम् ॥३९॥ योगमन्त्रामृतद्रव्यवराद्यैः सिद्धिभाक्तनुः । हातुं नह्यन्यथा शक्या विनोक्तक्रमयोगतः ॥४०॥ उक्तं च मालिनीतन्त्रे परमेशेन तादृशम् । सर्वमप्यथवा भोगं मन्यमानो विरूपकम् ॥४१॥ इत्यादि वदता सर्वैरलक्ष्यान्तःसतत्त्वकम् । एवं सृष्ट्यादिकर्तव्यस्वस्वातन्त्र्योपदेशनम् ॥४२॥ यत्सैव मुख्यदीक्षा स्याच्छिष्यस्य शिवदायिनी । उक्तं श्रीनिशिचारे च भैरवीयेण तेजसा ॥४३॥ व्याप्तं विश्वं प्रपश्यन्ति विकल्पोज्झितचेतसः । विकल्पयुक्तचित्तस्तु पिण्डपाताच्छिवं व्रजेत् ॥४४॥ बाह्यदीक्षादियोगेन चर्यासमयकल्पनैः । अविकल्पस्तथाद्यैव जीवन्मुक्तो न संशयः ॥४५॥ संसारजीर्णतरुमूलकलापकल्पसंकल्पसान्तरतया परमार्थवह्नेः । स्युर्विस्फुलिङ्गकणिका अपि चेत्तदन्ते देदीप्यते विमलबोधहुताशराशिः ॥४६॥ इत्थं दीक्षोपक्रमोऽयं दर्शितः शास्त्रसंमतः ॥
अथ श्रीतन्त्रालोके पञ्चदशमाह्निकम्
अथैतदुपयोगाय यागस्तावन्निरूप्यते । तत्र दीक्षैव भोगे च मुक्तौ चायात्युपायताम् ॥१॥ स्वयं संस्कारयोगाद्वा तदङ्गं तत्प्रदर्श्यते । यो यत्राभिलषेद्भोगान् स तत्रैव नियोजितः ॥२॥ सिद्धिभाङ्मन्त्रशक्त्येति श्रीमत्स्वायंभुवे विभुः । योग्यतावशतो यत्र वासना यस्य तत्र सः ॥३॥ योज्यो न च्यवते तस्मादिति श्रीमालिनीमते । वदन्भोगाद्युपायत्वं दीक्षायाः प्राह नो गुरुः ॥४॥ न चाधिकारिता दीक्षां विना योगे ̕स्ति शाङ्करे । न च योगाधिकारित्वमेकमेवानया भवेत् ॥५॥ अपि मन्त्राधिकारित्वं मुक्तिश्च शिवदीक्षया । इत्यस्मिन्मालिनीवाक्ये साक्षान्मोक्षाभ्युपायता ॥६॥ दीक्षायाः कथिता प्राच्यग्रन्थेन पुनरुच्यते । पारम्पर्येण संस्कृत्या मोक्षभोगाभ्युपायता ॥७॥ येषामध्यवसायो ̕स्ति न विद्यां प्रत्यशक्तितः । सुखोपायमिदं तेषां विधानमुदितं गुरोः ॥८॥ इति श्रीमन्मतङ्गाख्ये ह्युक्ता मोक्षाभ्युपायता । सम्यग्ज्ञानस्वभावा हि विद्या साक्षाद्विमोचिका ॥९॥ उक्तं तत्रैव तत्त्वानां कार्यकारणभावतः । हेयादेयत्वकथने विद्यापाद इति स्फुटम् ॥१०॥ तत्राशक्तास्तु ये तेषां दीक्षाचर्यासमाधयः । ते विद्यापूर्वका यस्मात्तस्माज्ज्ञान्युत्तमोत्तमः ॥११॥ ज्ञानं च शास्त्रात्तच्चापि श्राव्यो नादीक्षितो यतः । अतोऽस्य संस्क्रियामात्रोपयोगो दीक्षया कृतः ॥१२॥ यत्र तत्रास्तु गुरुणा योजितोऽसौ फलं पुनः । स्वविज्ञानोचितं याति ज्ञानीत्युक्तं पुरा किल ॥१३॥ यस्य त्वीशप्रसादेन दिव्या काचन योग्यता । गुरोः शिशोश्च तौ नैव प्रति दीक्षोपयोगिता ॥१४॥ ज्ञानमेव तदा दीक्षा श्रीत्रैशिकनिरूपणात् । सर्वशास्त्रार्थवेत्तृत्वमकस्माच्चास्य जायते ॥१५॥ इति श्रीमालिनीनीत्या यः सांसिद्धिकसंविदः । स उत्तमाधिकारी स्याज्ज्ञानवान्हि गुरुर्मतः ॥१६॥ आत्मने वा परेभ्यो वा हितार्थी चेतयेदिदम् । इत्युक्त्या मालिनीशास्त्रे तत्सर्वं प्रकटीकृतम् ॥१७॥ ज्ञानयोग्यास्तथा केचिच्चर्यायोग्यास्तथापरे । दीक्षायोग्या योगयोग्या इति श्रीकैरणे विधौ ॥१८॥ तत्रोक्तलक्षणः कर्मयोगज्ञानविशारदः । उत्तरोत्तरताभूम्युत्कृष्टो गुरुरुदीरितः ॥१९॥ स च प्रागुक्तशक्त्यन्यतमपातपवित्रितम् । परीक्ष्य पृष्ट्वा वा शिष्यं दीक्षाकर्म समाचरेत् ॥२०॥ उक्तं स्वच्छन्दशास्त्रे च शिष्यं पृच्छेद्गुरुः स्वयम् । फलं प्रार्थयसे यादृक्तादृक्साधनमारभे ॥२१॥ वासनाभेदतः साध्यप्राप्तिर्मन्त्रप्रचोदिता । मन्त्रमुद्राध्वद्रव्याणां होमे साधारणा स्थितिः ॥२२॥ वासनाभेदतो भिन्नं शिष्याणां च गुरोः फलम् । साधको द्विविधः शैवधर्मा लोकोज्झितस्थितिः ॥२३॥ लोकधर्मी फलाकांक्षी शुभस्थश्चाशुभोज्झितः । द्विधा मुमुक्षुर्निर्बीजः समयादिविवर्जितः ॥२४॥ बालबालिशवृद्धस्त्रीभोगभुग्व्याधितादिकः । अन्यः सबीजो यस्येत्थं दीक्षोक्ता शिवशासने ॥२५॥ विद्वद्द्वन्द्वसहानां तु सबीजा समयात्मिका । दीक्षानुग्राहिका पाल्या विशेषसमयास्तु तैः ॥२६॥ अभावं भावयेत्सम्यक्कर्मणां प्राच्यभाविनाम् । मुमुक्षोर्निरपेक्षस्य प्रारब्ध्रेकं न शाधयेत् ॥२७॥ साधकस्य तु भूत्यर्थमित्थमेव विशोधयेत् । शिवधर्मिण्यसौ दीक्षा लोकधर्मापहारिणी ॥२८॥ अधर्मरूपिणामेव न शुभानां तु शोधनम् । लोकधर्मिण्यसौ दीक्षा मन्त्राराधनवर्जिता ॥२९॥ प्रारब्धदेहभेदे तु भुङ्क्तेऽसावणिमादिकम् । भुक्त्वोर्ध्वं याति यत्रैष युक्तोऽथ सकलेऽकले ॥३०॥ समयाचारपाशं तु निर्बीजायां विशोधयेत् । दीक्षामात्रेण मुक्तिः स्याद्भक्त्या देवे गुरौ सदा ॥३१॥ सद्योनिर्वाणदा सेयं निर्बीजा येति भण्यते । अतीतानागतारब्धपाशत्रयवियोजिका ॥३२॥ दीक्षावसाने शुद्धस्य देहत्यागे परं पदम् । देहत्यागे सबीजायां कर्माभावाद्विपद्यते ॥३३॥ समयाचारपाशं तु दीक्षितः पालयेत्सदा । एवं पृष्ट्वा परिज्ञाय विचार्य च गुरुः स्वयम् ॥३४॥ उचितां संविधित्सुस्तां वासनां तादृशीं श्रयेत् । आयातशक्तिपातस्य दीक्षां प्रति न दैशिकः ॥३५॥ अवज्ञां विदधीतेति शंभुनाज्ञा निरूपिता । स्वधनेन दरिद्रस्य कुर्याद्दीक्षां गुरुः स्वयम् ॥३६॥ अपि दूर्वाम्बुभिर्यद्वा दीक्षायै भिक्षते शिशुः । भिक्षोपात्तं निजं वाथ धनं प्राग्गुरवे शिशुः ॥३७॥ दद्याद्येन विशुद्धं तद्यागयोग्यत्वमश्नुते । तत्रादौ शिवतापत्तिस्वातन्त्र्यावेश एव यः ॥३८॥ स एव हि गुरुः कार्यस्ततोऽसौ दीक्षणे क्षमः । शिवतावेशिता चास्य बहूपाया प्रदर्शिता ॥३९॥ क्रमिका बाह्यरूपा तु स्नानन्यासार्चनादिभिः । बह्वीषु तासु तास्वेष क्रियासु शिवतां हृदि ॥४०॥ संदधद्दृढमभ्येति शिवभावं प्रसन्नधीः । शिवीभूतो यद्यदिच्छेत्तत्तत्कर्तुं समीहते ॥४१॥ शिवाभिमानितोपायो बाह्यो हेतुर्न मोक्षदः । शिवोऽयं शिव एवास्मीत्येवमाचार्यशिष्ययोः ॥४२॥ हेतुतद्वत्तया दार्ढ्याभिमानो मोचको ह्यणोः । नाध्यात्मेन विना बाह्यं नाध्यात्मं बाह्यवर्जितम् ॥४३॥ सिद्ध्येज्ज्ञानक्रियाभ्यां तद्द्वितीयं संप्रकाशते । श्रीब्रह्मयामले देव इति तेन न्यरूपयत् ॥४४॥ श्रीमदानन्दशास्त्रे च नाशुद्धिः स्याद्विपश्चितः । किन्तु स्नानं सुवस्त्रत्वं तुष्टिसंजननं भवेत् ॥४५॥ तत्र प्रसिद्धदेहादिमातृनिर्मलताक्रमात् । अयत्नतोऽन्तरन्तः स्यान्नैर्मल्य स्नायतां ततः ॥४६॥ स्नानं च देवदेवस्य यन्मूर्त्यष्टकमुच्यते । तत्रैवं मन्त्रदीप्तेऽन्तर्मलदाहे निमज्जनम् ॥४७॥ तत्रेष्टमन्त्रहृदयो गोरजोऽन्तः पदत्रयम् । गत्वागत्य भजेत्स्नानं पार्थिवं धृतिदायकम् ॥४८॥ अस्त्रमन्त्रितमृद्धूतमलः पञ्चाङ्गमन्त्रितैः । जलैर्मूर्धादिपादान्तं क्रमादाक्षालयेत्ततः ॥४९॥ निमज्जेत्साङ्गमूलाख्यं जपन्ना तन्मयत्वतः । उत्थायाशेषसज्ज्योतिर्देवतागर्भमम्बरे ॥५०॥ सूर्यं जलेन मालिन्या तर्पयेद्विश्वतर्पकम् । देवान्पितॄन्मुनीन्यक्षान् रक्षांस्यन्यच्च भौतिकम् ॥५१॥ सर्वं संतर्पयेत्प्राणो वीर्यात्मा स च भास्करः । ततो जपेत्परामेकां प्रागुक्तोच्चारयोगतः ॥५२॥ आ तन्मयत्वसंवित्तेर्जलस्नानमिदं मतम् । अग्न्युत्थं भस्म शस्त्रेण जप्त्वा मलनिवर्हणम् ॥५३॥ कवक्त्रहृद्गुह्यपदे पञ्चाङ्गैर्भस्म मन्त्रितम् । भस्ममुष्टिं साङ्गमूलजप्तां मूर्ध्नि क्षिपेत्ततः ॥५४॥ हस्तपादौ जलेनैव प्रक्षाल्याचमनादिकम् । तर्पणं जप इत्येवं भस्मस्नानं हि तैजसम् ॥५५॥ गोरजोवत्यनुद्रिक्ते वायौ ह्लादिनि मन्त्रवाक् । गत्यागतिप्रयोगे वा वायव्यं स्नानमाचरेत् ॥५६॥ अमले गगने व्यापिन्येकाग्रीभूतदृष्टिकः । स्मरन्मन्त्रं यदासीत कान्या निर्मलता ततः ॥५७॥ यदि वा निर्मलाद्व्योम्नः पतता वारिणा तनुम् । स्पर्शयेन्मन्त्रजपयुङ् नाभसं स्नानमीदृशम् ॥५८॥ एवं सोमार्कतेजःसु शिवभावेन भावनात् । निमज्जन्धौतमालिन्यः क्व वा योग्यो न जायते ॥५९॥ आत्मैव परमेशानो निराचारमहाह्रदः । विश्वं निमज्ज्य तत्रैव तिष्ठेच्छुद्धश्च शोधकः ॥६०॥ इति स्नानाष्टकं शुद्धावुत्तरोत्तरमुत्तमम् । सर्वत्र पश्चात्तं मन्त्रमेकीभूतमुपाहरेत् ॥६१॥ घृत्याप्यायमलप्लोषवीर्यव्याप्तिमृजिस्थितीः । अभेदं च क्रमादेति स्नानाष्टकपरो मुनिः ॥६२॥ एता ह्यनुग्रहात्मानो मूर्तयोऽष्टौ शिवात्मिकाः । स्वरूपशिवरूपाभ्यां ध्यानात्तत्तत्फलप्रदाः ॥६३॥ अनेन विधिनार्चायां कन्दाधारादियोजनाम् । कुर्वन्व्याससमासाभ्यां धरादेस्तत्फलं भजेत् ॥६४॥ तथाहि योगसंचारे मन्त्राः स्युर्भुवि पार्थिवाः । आप्ये आप्या यावदमी शिवे शिवमया इति ॥६५॥ श्रीनिर्मर्यादशास्त्रे ̕पि तदित्थं सुनिरूपितम् । धरादेश्च विशेषो ̕स्ति वीरसाधकसंमतः ॥६६॥ रणरेणुर्वीरजलं वीरभस्म महामरुत् । श्मशानारण्यगगनं चन्द्रार्कौ तदुपाहितौ ॥६७॥ आत्मा निर्धूतनिःशेषविकल्पातङ्कसुस्थितः । स्नानार्चादावित्युपास्यं वीराणां विग्रहाष्टकम् ॥६८॥ श्रीमन्त्रिशिरसि प्रोक्तं मद्यशीधुसुरादिना । सुस्वादुना प्रसन्नेन तनुना सुसुगन्धिना ॥६९॥ कन्दलादिगतेनान्तर्बहिः संस्कारपञ्चकम् । कृत्वा निरीक्षणं प्रोक्ष्य ताडनाप्यायगुण्ठनम् ॥७०॥ मन्त्रचक्रस्य तन्मध्ये पूजां विप्रुट्प्रतर्पणम् । तेनात्मसेकः कलशमुद्रया चाभिषेचनम् ॥७१॥ देवतातर्पणं देहप्राणोभयपथाश्रितम् । सर्वतीर्थतपोयज्ञदानादि फलमश्नुते ॥७२॥ मद्यस्नाने साधकेन्द्रो मुमुक्षुः केवलीभवेत् । यतः शिवमयं मद्यं सर्वे मन्त्राः शिवोद्भवाः ॥७३॥ शिवशक्त्योर्न भेदो ̕स्ति शक्त्युत्थास्तु मरीचयः । तासामानन्दजनकं मद्यं शिवमयं ततः ॥७४॥ प्रबुद्धे संविदः पूर्णे रूपे ̕धिकृतिभाजनम् । मन्त्रध्यानसमाधानभेदात्स्नानं तु यन्न तत् ॥७५॥ युक्तं स्नानं यतो न्यासकर्मादौ योग्यतावहम् । अस्य स्नानाष्टकस्यास्ति बाह्यान्तरतया द्विता ॥७६॥ आन्तरं तद्यथोर्ध्वेन्दुधारामृतपरिप्लवः । यतो रन्ध्रोर्ध्वगाः सार्धमङ्गुलं व्याप्य संस्थिताः ॥७७॥ मूर्तयोऽष्टावपि प्रोक्ताः प्रत्येकं द्वादशान्ततः । एषामेकतमं स्नानं कुर्याद्द्वित्र्यादिशो ̕पिवा ॥७८॥ इति स्नानविधिः प्रोक्तो भैरवेणामलीकृतौ । स्नानानन्तरकर्तव्यमथेदमुपदिश्यते ॥७९॥ भावं प्रसन्नमालोच्य व्रजेद्यागगृहं ततः । पर्वताग्रनदीतीरैकलिङ्गादि यदुच्यते ॥८०॥ तद्बाह्यमिह तत्सिद्धिविशेषाय न मुक्तये । आभ्यन्तरं नगाग्रादि देहान्तः प्राणयोजनम् ॥८१॥ साधकानामुपायः स्यात्सिद्धये नतु मुक्तये । पीठस्थानं सदा यागयोग्यं शास्त्रेषु भण्यते ॥८२॥ तच्च बाह्यान्तराद्रूपाद्बहिर्देहे च सुस्फुटम् । यतः श्रीनैशसञ्चारे परमेशो न्यरूपयत् ॥८३॥ तस्येच्छा पीठमाधारो यत्रस्थं सचराचरम् । अग्र्यं तत्कामरूपं स्याद्बिन्दुनादद्वयं ततः ॥८४॥ नादपीठं पूर्णगिरिर्दक्षिणे वामतः पुनः । पीठमुड्डयनं बिन्दुर्मुख्यं पीठत्रयं त्विदम् ॥८५॥ ज्ञेयं संकल्पनारूपमर्धपीठमतः परम् । शाक्तं कुण्डलिनी वेदकलं च त्र्युपपीठकम् ॥८६॥ देवीकोट्टोज्जयिन्यौ द्वे तथा कुलगिरिः परः । लालनं बैन्दवं व्याप्तिरिति संदोहकत्रयम् ॥८७॥ पुण्ड्रवर्धनवारेन्द्रे तथैकाम्रमिदं बहिः । नवधा कथितं पीठमन्तर्बाह्यक्रमेण तत् ॥८८॥ क्षेत्राष्टकं क्षेत्रविदो हृदम्भोजदलाष्टकम् । प्रयागो वरणा पश्चादट्टहासो जयन्तिका ॥८९॥ वाराणसी च कालिङ्गं कुलूता लाहुला तथा । उपक्षेत्राष्टकं प्राहुर्हृत्पद्माग्रदलाष्टकम् ॥९०॥ विरजैरुडिका हाला एला पूः क्षीरिका पुरी । मायाख्या मरुदेशश्च बाह्याभ्यन्तररूपतः ॥९१॥ हृत्पद्मदलसन्धीनामुपसंदोहकाष्टता । जालन्धरं च नैपालं कश्मीरा गर्गिका हरः ॥९२॥ म्लेच्छदिग्द्वारवृत्तिश्च कुरुक्षेत्रं च खेटकम् । द्विपथं द्वयसंघट्टात्त्रिपथं त्रयमेलकात् ॥९३॥ चतुष्पथं शक्तिमतो लयात्तत्रैव मन्वते । नासान्ततालुरन्ध्रान्तमेतद्देहे व्यवस्थितम् ॥९४॥ भ्रूमध्यकण्ठहृत्संज्ञं मध्यमं तदुदाहृतम् । नाभिकन्दमहानन्दधाम तत्कौलिकं त्रयम् ।९५॥ पर्वताग्रं नदीतीरमेकलिङ्गं तदेव च । किं वातिबहुना सर्वं संवित्तौ प्राणगं ततः ॥९६॥ ततो देहस्थितं तस्माद्देहायतनगो भवेत् । बाह्ये तु तादृशान्तःस्थयोगमार्गविशारदाः ॥९७॥ देव्यः स्वभावाज्जायन्ते पीठं तद्वाह्यमुच्यते । यथा स्वभावतो म्लेच्छा अधर्मपथवर्तिनः ॥९८॥ तत्र देशे नियत्येत्थं ज्ञानयोगौ स्थितौ क्वचित् । यथाचातन्मयोऽप्येति पापितां तैः समागमात् ॥९९॥ तथा पीठस्थितोऽप्येति ज्ञानयोगादिपात्रताम् । मुख्यत्वेन शरीरेऽन्तः प्राणे संविदि पश्यतः ॥१००॥ विश्वमेतत्किमन्यैः स्याद्बहिर्भ्रमणडम्बरैः । इत्येवमन्तर्बाह्ये च तत्तच्चक्रफलार्थिनाम् ॥१०१॥ स्थानभेदो विचित्रश्च स शास्त्रे संख्ययोज्झितः । श्रीवीरावलिहृदये सप्त स्थानानि शक्तिकमलयुगम् ॥१०२॥ सुरपथचतुष्पथाख्यश्मशानमेकान्तशून्यवृक्षौ च । इति निर्वचनगुणस्थित्युपचारदृशा विबोध एवोक्तः ॥१०३॥ तदधिष्ठिते च चक्रे शारीरे बहिरथो भवेद्यागः । मुक्तये तन्न यागस्य स्थानभेदः प्रकल्प्यते ॥१०४॥ देशोपाया न सा यस्मात्सा हि भावप्रसादतः । उक्तं च श्रीनिशाचारे सिद्धिसाधनकाङ्क्षिणाम् ॥१०५॥ स्थानं मुमुक्षुणा त्याज्यं सर्पकञ्चुकवत्त्विदम् । मुक्तिर्न स्थानजनिता यदा श्रोत्रपथं गतम् ॥१०६॥ गुरोस्तत्त्वं तदा मुक्तिस्तद्दार्ढ्याय तु पूजनम् । यत्र यत्र हृदम्भोजं विकासं प्रतिपद्यते ॥१०७॥ तत्रैव धाम्नि बाह्येऽन्तर्यागश्रीः प्रतितिष्ठति । नान्यत्रगत्या मोक्षो ̕स्ति सोऽज्ञानग्रन्थिकर्तनात् ॥१०८॥ तच्च संविद्विकासेन श्रीमद्वीरावलीपदे । गुरवस्तु विमुक्तौ वा सिद्धौ वा विमला मतिः ॥१०९॥ हेतुरित्युभयत्रापि यागौको यन्मनोरमम् । नियतिप्राणतायोगात्सामग्रीतस्तु यद्यपि ॥११०॥ सिद्धयो भाववैमल्यं तथापि निखिलोत्तमम् । विमलीभूतहृदयो यत्तत्र प्रतिबिम्बयेत् ॥१११॥ साध्यं तदस्य दार्ढ्येन सफलत्वाय कल्पते । उक्तं श्रीसारशास्त्रे च निर्विकल्पो हि सिध्यति ॥११२॥ क्लिश्यन्ते सविकल्पास्तु कल्पोक्तेऽपि कृते सति । तदाक्रम्य बलं मन्त्रा अयमेवोदयः स्फुटः ॥११३॥ इत्यादिभिः स्पन्दवाक्यैरेतदेव निरूपितम् । तस्मात्सिद्ध्यै विमुक्त्यै वा पूजाजपसमाधिषु ॥११४॥ तत्स्थानं यत्र विश्रान्तिसुन्दरं हृदयं भवेत् । यागौकः प्राप्य शुद्धात्मा बहिरेव व्यवस्थितः ॥११५॥ न्यासं सामान्यतः कुर्याद्बहिर्यागप्रसिद्धये । मातृकां मालिनीं वाथ द्वितयं वा क्रमाक्रमात् ॥११६॥ सृष्ट्यप्ययद्वयैः कुर्यादेकैकं संघशो द्विशः । ललाटवक्त्रे दृक्कर्णनासागण्डरदौष्ठगे ॥११७॥ द्वये द्वये शिखाजिह्वे विसर्गान्तास्तु षोडश । दक्षान्ययोः स्कन्धबाहुकराङ्गुलिनखे कचौ ॥११८॥ वर्गौ टतौ क्रमात्कट्यामूर्वादिषु नियोजयेत् । पवर्गं पार्श्वयोः पृष्ठे जठरे हृद्यथो नव ॥११९॥ त्वग्रक्तमांससूत्रास्थिवसाशुक्रपुरोगमान् । इत्येष मातृकान्यासो मालिन्यास्तु निरूप्यते ॥१२०॥ न शिखा ऋ ॠ ऌ ऌऌ च शिरोमाला थ मस्तकम् । नेत्राणि चोर्ध्वे धोऽन्ये ई घ्राणं मुद्रे णु णू श्रुती ॥१२१॥ बकवर्गैआ वक्त्रदन्तजिह्वागिरि क्रमात् । वभयाः कण्ठदक्षादिस्कन्धयोर्भुजयोर्डढौ ॥१२२॥ ठो हस्तयोर्झञौ शाखा ज्रटौ शूलकपालके । प हृच्छलौ स्तनौ क्षीरमा स जीवो विसर्गयुक् ॥१२३॥ प्राणो हवर्णः कथितः षक्षावुदरनाभिगौ । मशान्ता कटिगुह्योरुयुग्मगा जानुनी तथा ॥१२४॥ एऐकारौ तत्परौ तु जङ्घे चरणगौ दफौ । इत्येषा मालिनी देवी शक्तिमत्क्षोभिता यतः ॥१२५॥ कृत्यावेशात्ततः शाक्ती तनुः सा परमार्थतः । अन्योन्यं बीजयोनीनां क्षोभाद्वैसर्गिकोदयात् ॥१२६॥ कां कां सिद्धिं न वितरेत्किं वा न्यूनं न पूरयेत् । योनिबीजार्णसांकर्यं बहुधा यद्यपि स्थितम् ॥१२७॥ तथापि नादिफान्तोऽयं क्रमो मुख्यः प्रकीर्तितः । फकारादिसमुच्चारान्नकारान्तेऽध्वमण्डलम् ॥१२८॥ संहृत्य संविद्या पूर्णा सा शब्दैर्वर्ण्यते कथम् । अतः शास्त्रेषु बहुधा कुलपुत्तलिकादिभिः ॥१२९॥ भेदैर्गीता हि मुख्येयं नादिफान्तेति मालिनी । शब्दराशेर्भैरवस्य यानुच्छूनतयान्तरी ॥१३०॥ सा मातेव भविष्यत्त्वात्तेनासौ मातृकोदिता । मालिनी मालिता रुद्रैर्धारिका सिद्धिमोक्षयोः ॥१३१॥ फलेषु पुष्पिता पूज्या संहारध्वनिषट्पदी । संहारदानादानादिशक्तियुक्ता यतो रलौ ॥१३२॥ एकत्वेन स्मरन्तीति शंभुनाथो निरूचिवान् । शब्दराशिर्मालिनी च शिवशक्त्यात्मकं त्विदम् ॥१३३॥ एकैकत्रापि पूर्णत्वाच्छिवशक्तिस्वभावता । तेन भ्रष्टे विधौ वीर्ये स्वरूपे वानया परम् ॥१३४॥ मन्त्रा न्यस्ताः पुनर्न्यासात्पूर्यन्ते तत्फलप्रदाः । उक्तं श्रीपूर्वतन्त्रे च विशेषविधिहीनिते ॥१३५॥ न्यस्येच्छाक्तशरीरार्थं भिन्नयोनि तु मालिनीम् । विशेषणमिदं हेतौ हेत्वर्थश्च निरूपितः ॥१३६॥ यथेष्टफलसिद्ध्यै चेत्यत्रैवेदमभाषत । साञ्जना अपि ये मन्त्रा गारुडाद्या न ते परम् ॥१३७॥ मालिन्या पूरिताः सिध्द्यै बलादेव तु मुक्तये । तस्मात्फलेप्सुरप्यन्य मन्त्रं न्यस्यात्र मालिनीम् ॥१३८॥ न्यस्येज्जप्त्वापिच जपेदयत्नादपवृक्तये । इत्येवं मातृकां न्यस्येन्मालिनीं वा क्रमाद्द्वयम् ॥१३९॥ सिद्धिमुक्त्यनुसाराद्वा वर्णान्वा युगपद्द्वयोः । अक्षह्रीं नफह्रीमेतौ पिण्डौ संघाविहानयोः ॥१४०॥ वाचकौ न्यास एताभ्यां कृते न्यासे ̕थवैककः । एष चाङ्गतनुब्रह्मयुक्तो वा तद्विपर्ययः ॥१४१॥ सामुदायिकविन्यासे पृथक् पिण्डाविमौ क्रमात् । अक्रमादथवा न्यस्येदेकमेवाथ योजयेत् ॥१४२॥ क्रियया सिद्धिकामो यः स क्रियां भूयसीं चरेत् । अनीप्सुरपि यस्तस्मै भूयसे स्वफलाय सा ॥१४३॥ यस्तु ध्यानजपाभ्यासैः सिद्धीप्सुः स क्रियां परम् । संस्कृत्यै स्वेच्छया कुर्यात् प्राङ्नयेनाथ भूयसीम् ॥१४४॥ मुमुक्षुरथ तस्मै वा यथाभीष्टं समाचरेत् । शिवतापत्तिरेवार्थो ह्येषां न्यासादिकर्मणाम् ॥१४५॥ एवं न्यासं विधायार्घपात्रे विधिमुपाचरेत् । उक्तनीत्यैव तत्पश्चात् पूजयेन्न्यस्तवाचकैः ॥१४६॥ यतः समस्तभावानां शिवात्सिद्धिमयादथो । पूर्णादव्यतिरेकित्वं कारकाणामिहार्चया ॥१४७॥ समस्तं कारकव्रातं शिवाभिन्नं प्रदर्शितम् । पूजोदाहरणे सर्वं व्यश्नुते गमनाद्यपि ॥१४८॥ यथाहि वाहकटकभ्रमस्वातन्त्र्यमागतः । अश्वः संग्रामरूढो ̕पि तां शिक्षां नातिवर्तते ॥१४९॥ तथार्चनक्रियाभ्यासशिवीभावितकारकः । गच्छंस्तिष्ठन्नपि द्वैतं कारकाणां व्यपोज्झति ॥१५०॥ तथैक्याभ्यासनिष्ठस्याक्रमाद्विश्वमिदं हठात् । संपूर्णशिवताक्षोभनरीनर्तदिव स्फुरेत् ॥१५१॥ उवाच पूजनस्तोत्रे ह्यस्माकं परमो गुरुः । अहो स्वादुरसः को ̕पि शिवपूजामयोत्सवः ॥१५२॥ षट्त्रिंशतो ̕पि तत्त्वानां क्षोभो यत्रोल्लसत्यलम् । तदेतादृक्पूर्णशिवविश्वावेशाय येऽर्चनम् ॥१५३॥ कुर्वन्ति ते शिवा एव तान्पूर्णान्प्रति किं फलम् । विनापि ज्ञानयोगाभ्यां क्रिया न्यासार्चनादिका ॥१५४॥ इत्थमैक्यसमापत्तिदानात्परफलप्रदा । साधकस्यापि तत्सद्विप्रदमन्त्रैकतां गतम् ॥१५५॥ विश्वं व्रजदविघ्नत्वं स्वां सिद्धिं शीघ्रमावहेत् । उक्तं च परमेशेन न विधिर्नार्चनक्रमः ॥१५६॥ केवलं स्मरणात्सिद्धिर्वाञ्छितेति मतादिषु । तदेवं तन्मयीभावदायिन्यर्चाक्रिया यतः ॥१५७॥ समस्तकारकैकात्म्यं तेनास्याः परमं वपुः । यष्ट्राधारस्य तादात्म्यं स्थानशुद्धिविधिक्रमात् ॥१५८॥ यष्टृयाज्यतदाधारकरणादानसंप्रदाः । न्यासक्रमेण शिवतातादात्म्यमधिशेरते ॥१५९॥ अर्घपात्रमपादानं तस्मादादीयते यतः । यच्च तत्स्थं जलाद्येतत्करणं शोधनेऽर्चने ॥१६०॥ अर्घपात्राम्बुविप्रुड्भिः स्पृष्टं सर्वं हि शुध्यति । शिवार्ककरसंस्पर्शात्कान्या शुद्धिर्भविष्यति ॥१६१॥ ऊचे श्रीपूर्वशास्त्रे तदर्घपात्रविधौ विभुः । न चासंशोधितं वस्तु किंचिदप्युपकल्पयेत् ॥१६२॥ तेन शुद्धं तु सर्वं यदशुद्धमपि तच्छुचि । अशुद्धता च विज्ञेया पशुतच्छासनाशयात् ॥१६३॥ स्वतादवस्थ्यात्पूर्वस्मादथवाप्युपकल्पितात् । तेन यद्यदिहासन्नं संविदश्चिदनुग्रहात् ॥१६४॥ कियतोऽपि तदत्यन्तं योग्यं यागेऽत्र जीववत् । अनेन नययोगेन यदासत्तिविदूरते ॥१६५॥ संविदेति तदा तत्र योग्यायोग्यत्वमादिशेत् । वीराणामत एवेह मिथः स्वप्रतिमामृतम् ॥१६६॥ तत्तद्यागविधाविष्टं गुरुभिर्भावितात्मभिः । उन्मज्जयति निर्मग्नां संविदं यत्तु सुष्ठु तत् ॥१६७॥ अर्चायै योग्यमानन्दो यस्मादुन्मग्नता चितः । तेनाचिद्रूपदेहादिप्राधान्यविनिमज्जकम् ॥१६८॥ आनन्दजननं पूजायोग्यं हृदयहारि यत् । अतः कुलक्रमोत्तीर्णत्रिकसारमतादिषु ॥१६९॥ मद्यकादम्बरीशीधुद्रव्यादेर्महिमा परम् । लोकस्थितिं रचयितुं मद्यादेः पशुशासने ॥१७०॥ प्रोक्ता ह्यशुद्धिस्तत्रैव तस्य क्वापि विशुद्धता । पञ्चगव्ये पवित्रत्वं सोमचर्णनपात्रयोः ॥१७१॥ विधिश्चावभृथस्नानं हस्ते कृष्णविषाणिता । न पत्न्या च विना यागः सर्वदैवततुल्यता ॥१७२॥ सुराहुतिर्ब्रह्मसत्रे वपान्त्रहृदयाहुतिः । पाशवेष्वपि शास्त्रेषु तददर्शि महेशिना ॥१७३॥ घोरान्ध्यहैमननिशामध्यगाचिरदीप्तिवत् । भक्ष्यो हंसो न भक्ष्योऽसाविति रिप्रतिपत्तिषु ॥१७४॥ स्मार्तीषु विजयत्येको यः शिवाभेदशुद्धिकः । अज्ञत्ववेदादर्शित्वरागद्वेषादयो ह्यमी ॥१७५॥ मुनीनां वचसि स्वस्मिन्प्रामाण्योन्मूलनक्षमाः । वेदे ̕पि यदभक्ष्यं तद्भक्ष्यमित्युपदिश्यते ॥१७६॥ न विधिप्रतिषेधाख्यधर्मयोरेकमास्पदम् । अथ तत्र न तद्भक्ष्यं तदा तेन तथा ततः ॥१७७॥ एवं विषयभेदान्नो शिवोक्तेर्बाधिका श्रुतिः । क्वचिद्विषयतुल्यत्वाद्बाध्यबाधकता यदि ॥१७८॥ तद्बाध्या श्रुतिरेवेति प्रागेवैतन्निरूपितम् । प्रकृतं ब्रूमहे कृत्वा न्यासं देहार्घपात्रयोः ॥१७९॥ सामान्यमर्घपात्राम्भोविप्रुड्भिः प्रोक्ष्य चाखिलम् । यागोपकरणं पश्चाद्बाह्ययागं समाचरेत् ॥१८०॥ प्रभामण्डलके खे वा सुलिप्तायां च वा भुवि । त्रिशूलार्कवृषान्दिकस्था मातरः क्षेत्रपं यजेत् ॥१८१॥ योगिनीश्च पृथङ्मन्त्रैरोंनमोनामयोजितैः । एकोच्चारेण वा बाह्यपरिवारेतिशब्दिताः ॥१८२॥ तारो नाम चतुर्थ्यन्तं नमश्चेत्यर्चने मनुः । एवं बहिः पूजयित्वा द्वारं प्रोक्ष्य प्रपूजयेत् ॥१८३॥ त्रिशिरःशासनादौ च स दृष्टो विधिरुच्यते । गणेशलक्ष्म्यौ द्वारोर्ध्वे दक्षे वामे तयोः पुनः ॥१८४॥ मध्ये वागीश्वरीं दिण्डिमहोदरयुगं तथा । क्रमात्स्वदक्षवामस्थं तथैतेन क्रमेण च ॥१८५॥ एकैकं पूजयेत्सम्यङ् नन्दिकालौ त्रिमार्गगाम् । कालिन्दीं छागमेषास्यौ स्वदक्षाद्द्वाःस्थशाखयोः ॥१८६॥ अधोदेहल्यनन्तेशाधारशक्तीश्च पूजयेत् । द्वारमध्ये सरस्वत्या महास्त्रं पूजयेदमी ॥१८७॥ पद्माधारगताः सर्वेऽप्युदिता विघ्ननाशकाः । पूजने पूर्ववन्मन्त्रो दीपकद्वयकल्पितः ॥१८८॥ अर्घपुष्पसमालम्भधूपनैवेद्यवन्दनैः । पूजां कुर्यादिहार्घश्चाप्युत्तमद्रव्ययोजितः ॥१८९॥ एकोच्चारेण वा कुर्याद्द्वाःस्थदैवतपूजनम् । रहस्यपूजां चेत्कुर्यात्तद्बाह्यपरिवारकम् ॥१९०॥ द्वाःस्थांश्च पूजयेदन्तर्देवाग्रे कल्पनाक्रमात् । क्षिप्त्वास्त्रजप्तं कुसुमं ज्वलद्वेश्मनि व्घ्ननुत् ॥१९१॥ प्रविश्य शिवरश्मीद्धदृशा वेश्मावलोकयेत् । दिशोऽस्त्रेण च बध्नीयाच्छादयेद्वर्मणाखिलाः ॥१९२॥ तत्रोत्तराशाभिमुखो मुमुक्षुस्तादृशाय वा । विशेत्तथा ह्यघोराग्निः पाशान्प्लुष्यति बन्धकान् ॥१९३॥ यद्यप्यस्ति न दिङ्नाम काचित्पूर्वापरादिका । प्रत्ययो हि न तस्याः स्यादेकस्या अनुपाहितेः ॥१९४॥ उपाधिः पूर्वतादिष्ट इति चेत्तत्कृतं दिशा । उपाधिमात्रं तु तथा वैचित्र्याय कथं भवेत् ॥१९५॥ तस्मात्संवित्प्रकाशोऽयं मूर्त्याभासनभागतः । पूर्वादिदिग्विभागाख्यवैचित्र्योल्लेखदुर्मदः ॥१९६॥ तत्र यद्यत्प्रकाशेन सदा स्वीकरणे क्षमम् । तदेवोर्ध्वं प्रकाशात्म स्पर्शायोग्यमधः पुनः ॥१९७॥ किंचित्प्रकाशता मध्यं ततो वै दिक्समुद्भवः । किंचित्प्रकाशयोग्यस्य संमुखं प्रसरत्पुरः ॥१९८॥ पराङ्मुखं तु तत्पश्चादिति दिग्द्वयमागतम् । प्रकाशः संमुखं वस्तु गृहीत्वोद्रिक्तरश्मिकः ॥१९९॥ यत्र तिष्ठोद्दक्षिणं तत्प्रकाशस्यानुकूल्यतः । दक्षिणस्य पुरःसंस्थं वाममित्युपदिश्यते ॥२००॥ तत्प्रकाशितमेयेन्दुस्पर्शसौम्यं तदेव हि । एवमाशाचतुष्के ̕स्मिन्मध्यविश्रान्तियोगतः ॥२०१॥ चतुष्कमन्यत्तेनाष्टौ दिशस्तत्तदधिष्ठिताः । एवं प्रकाशमात्रे ̕स्मिन्वरदे परमे शिवे ॥२०२॥ दिग्विभागः स्थितो लोके शास्त्रे ̕पिच तथोच्यते । क्रमात्सदाशिवाधीशः पञ्चमन्त्रतनुर्यतः ॥२०३॥ ईशन्रघोरवामाख्यसद्योऽधोभेदतो दिशः । ईश ऊर्ध्वं प्रकाशत्वात्पूर्वं वक्त्रं प्रसारि यत् ॥२०४॥ पुरुषो दक्षिणाचण्डो वामा वामस्तु सौम्यकः । पराङ्मुखतया सद्यः पश्चिमा परिभाष्यते ॥२०५॥ पातालवक्त्रमधरमप्रकाशतया स्थितेः । खमरुद्वह्निजलभूखानि वक्त्राण्यमुष्य हि ॥२०६॥ मुख्यत्वेन खमेवोर्ध्वं प्रकाशमयमुच्यते । तदेव मुख्यतो ̕धस्तादप्रकाशं यतः स्फुटम् ॥२०७॥ मध्ये तु यत्प्रकाशं तन्न प्रकाश्यं न चेतरत् । प्रकाशत्वाद्दिश्यमानमतो ̕स्मिन्दिक्चतुष्टयम् ॥२०८॥ पञ्चमन्त्रतनुर्नाथ इत्थं विश्वदिगीश्वरः । ततोऽपीशस्तथा रुद्रो विष्णुर्ब्रह्मा तथा स्थितः ॥२०९॥ ऊर्ध्वाभिव्यक्त्ययोग्यत्वाद्विष्णोर्धातुश्च पञ्चमम् । न वक्त्रं तौ भेदमयौ सृष्टिस्थितिप्रभू यतः ॥२१०॥ दिग्विभागस्तु तज्जो ̕स्ति वदनानां चतुष्टयात् । पञ्चमस्य युजित्वे तौ परित्यक्तनिजात्मकौ ॥२११॥ ततो ब्रह्माण्डमध्ये ̕पि ज्ञानशक्तिर्विभो रविः । दिशां विभागं कुरुते प्रकाशघनवृत्तिमान् ॥२१२॥ तथाहि विषुवद्योगे यतः पूर्वं प्रदृश्यते । तत्पूर्व यत्र तच्छाया तत्पश्चिममुदाहृतम् ॥२१३॥ तस्मिञ्जिगमिषोरस्य यत्सव्यं तत्तु दक्षिणम् । तत्रैष चण्डतेजोभिर्भाति जाज्वल्यमानवत् ॥२१४॥ तत्पुरोवर्ति वामं तु तद्भासा खचितं मनाक् । तत एव हि सोम्यं तन्नचापि ह्यप्रकाशकम् ॥२१५॥ यत्रासावस्तमभ्येति तत्पश्चिममिति स्थितिः । तत्रैव पश्चिमे येषां प्राक्प्रकाशावलोकनम् ॥२१६॥ तदेव पूर्वमेतेषां यथाध्वनि निरूपितम् । सा सा दिक्च तथा तस्य फलदापि विपर्यये ॥२१७॥ विचित्रे फलसंपत्तिः प्रकाशाधीनिका यतः । इत्थं सूर्याश्रया दिक्स्यात्सा विचित्रापि तादृशी ॥२१८॥ अधिष्ठिता महेशेन चित्रतद्रूपधारिणा । किं वातिबहुना यो ̕सौ यष्टा तत्संमुखादितः ॥२१९॥ दिशो ̕पि प्रविभज्यन्ते प्राक्सव्योत्तरपश्चिमाः । स्वानुसारकृतं तं च दिग्विभागं सदा शिवः ॥२२०॥ अधितिष्ठत्यर्कमिव स विचित्रवपुर्यतः । स्वोत्था अपि दिशः स्वेशाः शक्राद्या ह्यधिशेरते ॥२२१॥ ते हि प्रकाशशक्त्यंशाः प्रकाशानुविधायिनः । प्रकाशस्य यदैश्वर्यं स इन्द्रो यत्तु तन्महः ॥२२२॥ सो ̕ग्निर्यन्तृत्वभीमत्वे यमो रक्षस्तदूनिमा । प्रकाश्यं वरुणस्तच्च चाञ्चल्याद्वायुरुच्यते ॥२२३॥ भावसञ्चययोगेन वित्तेशस्तत्क्षये विभुः । अदृष्टविग्रहोऽनन्तो ब्रह्मोर्ध्वे वृंहको विभुः ॥२२४॥ प्रकाशस्यैव शक्त्यंशा लोकपास्तेन कीर्तिताः । इत्थं स्वाधीनरूपापि दिक्सौरी तूपदिश्यते ॥२२५॥ तत्र सर्वो हि निष्कम्पं प्रकाशत्वं प्रपद्यते । सर्वगोऽप्यनिलो यद्वद्व्यजनेनोपवीजितः ॥२२६॥ प्रबुद्धः स्वां क्रियां कुर्याद्धर्मनिर्णोदनादिकाम् । तद्वत्सर्वगताः सर्वा ऐन्द्याद्याः शक्तयः स्फुटम् ॥२२७॥ साधकाश्वाससंबुद्धास्तत्तत्स्वेष्टफलप्रदाः । एवं सौरी दिगीशानब्रह्मविष्ण्वीशसौशिवैः ॥२२८॥ अधिष्ठिता समाश्वासदार्ढ्यात्तत्तत्फलप्रदा । साधको यच्च वा क्षेत्रं मण्डलं वेश्म वा भजेत् ॥२२९॥ स्थितस्तदनुसारेण मध्यीभवति शंकरः । स हि सर्वमधिष्ठाता माध्यस्थ्येनेति तस्य यः ॥२३०॥ सौरः प्रकाशस्तत्पूर्वमित्थं स्याद्दिग्व्यवस्थितिः । तन्मध्यस्थितनाथस्य ग्रहीतुं दक्षिणं महः ॥२३१॥ उदङ्मुखः स्यात् पाश्चात्यं ग्रहीतुं पूर्वतोमुखः । उपविश्य निजस्थाने देहशुद्धिं समाचरेत् ॥२३२॥ अङ्गुष्ठाग्रात्कालवह्निज्वालाभास्वरमुत्थितम् । अस्त्रं ध्यात्वा तच्छिखाभिर्बहिरन्तर्दहेत्तनुम् ॥२३३॥ दाहश्च ध्वंस एवोक्तो ध्वंसकं मन्त्रसंज्ञितम् । तेजस्तथाभिलापाख्यस्वविकल्परसोम्भितम् ॥२३४॥ तेन मन्त्राग्निना दाहो देहे पुर्यष्टके तथा । देहपुर्यष्टकाहन्ताविध्वंसादेव जायते ॥२३५॥ नहि सद्भावमात्रेण देहोऽसावन्यदेहवत् । अहन्तायां हि देहत्वं सा ध्वस्ता तद्दहेद्ध्रुवम् ॥२३६॥ तद्देहसंस्कारभरो भस्मत्वेनाथ यः स्थितः । तं वर्मवायुनाधूय तिष्ठेच्छुद्धचिदात्मनि ॥२३७॥ तस्मिन्ध्रुवे निस्तरङ्गे समापत्तिमुपागतः । संविदः सृष्टिधर्मित्वादाद्यामेति तरङ्गिताम् ॥२३८॥ सैव मूर्तिरिति ख्याता तारसद्बिन्दुहात्मिका । ततो नवात्मदेवेन न्यासस्तत्त्वोदयात्मकः ॥२३९॥ अङ्गवक्त्राणि तस्यैव स्वस्थानेषु नियोजयेत् । अथ मातृकया प्राग्वत्तत्तत्त्वस्फुटतात्मकः ॥२४०॥ त्रितत्त्वन्यासता चास्य पृष्ठे कक्ष्यात्रयागते । ततोऽघोराष्टकन्यासः शिरस्तच्चरणात्मकम् ॥२४१॥ ततो ̕पि शिवसद्भावन्यासः स्वांगस्य संयुतः । इत्थ कृते पञ्चके ̕स्मिन्यत्तन्मुख्यतया भवेत् ॥२४२॥ उपास्यमर्च्यं तत्साङ्गं षष्ठे न्यासे नियोजयेत् । तेनात्र न्यासयोग्योऽसौ भगवान्रतिशेखरः ॥२४३॥ ऊर्ध्वे न्यास्यो नवाख्यस्य मुख्यत्वेऽन्योन्यधामता । एवं भैरवसद्भावनाथे मुख्यतया यदि ॥२४४॥ उपास्यता तत्तत्स्थान प्राङ्न्यास्यो रतिशेखरः । इत्थं श्रीपूर्वशास्त्रे मे संप्रदायं न्यरूपयत् ॥२४५॥ शंभुनाथो न्यासविधौ देवो हि कथमन्यथा । न्यास विवर्ज्यते ̕मुष्मिन्नङ्गान्यप्यस्य सन्ति हि ॥२४६॥ मूर्तिः सृष्टिस्त्रितत्त्वं चेत्यष्टौ मूर्त्यङ्गसंयुताः । शिवः साङ्गश्च विज्ञेयो न्यासः षोढा प्रकीर्तितः ॥२४७॥ अस्योपरि ततः शाक्तं न्यासं कुर्याच्च षड्विधम् । परापरां सवक्त्रां प्राक्ततः प्रागिति मालिनीम् ॥२४८॥ पश्चात्परादित्रितयं शिखाहृत्पादगं क्रमात् । ततः कवक्त्रकण्ठेषु हृन्नाभीगुह्य-ऊरुतः ॥२४९॥ जानुपादे ̕प्यघोर्याद्यं ततो विद्याङ्गपञ्चकम् । ततस्त्वावाहयेच्छक्तिं मातृसद्भावरूपिणीम् ॥२५०॥ योगेश्वरीं परां पूर्णां कालसंकर्षिणीं ध्रुवाम् । अङ्गवक्त्रपरीवारशक्तिद्वादशकाधिकाम् ॥२५१॥ साध्यानुष्ठानभेदेन न्यासकाले स्मरेद्गुरुः । परैव देवीत्रितयमध्ये याभेदिनी स्थिता ॥२५२॥ सानवच्छेदचिन्मात्रसद्भावेयं प्रकीर्तिता । सारशास्त्रे यामले च देव्यास्तेन प्रकीर्तितः ॥२५३॥ मूर्तिः सवक्त्रा शक्तिश्च शक्तित्रयमथाष्टकम् । पञ्चाङ्गानि परा शक्तिर्न्यासः शाक्तोऽपि षड्विधः ॥२५४॥ यामलोऽयं महान्यासः सिद्धिमुक्तिफलप्रदः । मुक्त्येकार्थी पुनः पूर्वं शाक्तं न्यासं समाचरेत् ॥२५५॥ गुरवस्त्वाहुरित्थं यन्न्यासद्वयमुदाहृतम् । मुमुक्षुणा तु पादादि तत्कार्यं संहृतिक्रमात् ॥२५६॥ यावन्तः कीर्तिता भेदाः शंभुशक्त्यणुवाचकाः । तावत्स्वप्येषु मन्त्रेषु न्यासः षोढैव कीर्तितः ॥२५७॥ किंत्वावाह्यस्तु यो मन्त्रः स तत्राङ्गसमन्वितः । षष्ठः स्यादिति सर्वत्र षोढैवायमुदाहृतः ॥२५८॥ मुद्राप्रदर्शनं पश्चात्कायेन मनसा गिरा । पञ्चावस्था जाग्रदाद्याः षष्ठ्यनुत्तरनामिका ॥२५९॥ षट्कारणषडात्मत्वात्षट्त्रिंशत्तत्त्वयोजनम् । एवं षोढामहान्यासे कृते विश्वमिदं हठात् ॥२६०॥ देहे तादात्म्यमापन्नं शुद्धां सृष्टिं प्रकाशयेत् । मूर्तिन्यासात्समारभ्य या सृष्टिः प्रसृतात्र सा ॥२६१॥ अभेदमानीय कृता शुद्धा न्यासबलक्रमात् । तेन येऽचोदयन्मूढाः पाशदाहविधूनने ॥२६२॥ कृते शान्ते शिवे रूढः पुनः किमवरोहति । इति ते दूरतो ध्वस्ताः परमार्थं हि शांभवम् ॥२६३॥ न विदुस्त स्वसंवित्तिस्फुरत्तासारवर्जिताः । न खल्वेष शिवः शान्तो नाम कश्चिद्विभेदवान् ॥२६४॥ सर्वेतराध्वव्यावृत्तो घटतुल्यो ̕स्ति कुत्रचित् । महाप्रकाशरूपा हि येयं संविद्विजृम्भते ॥२६५॥ स शिवः शिवतैवास्य वैश्वरूप्यावभासिता । तथाभासनयोगोऽतः स्वरसेनास्य जृम्भते ॥२६६॥ भास्यमानोऽत्र चाभेदः स्वात्मनो भेद एव च । भेदे विजृम्भिते माया मायामातुर्विजृम्भते ॥२६७॥ अभेदे जृम्भतेऽस्यैव मायामातुः शिवात्मता । मायाप्रमाता तद्रूपविकल्पाभ्यासपाटवात् ॥२६८॥ शिव एव तदभ्यासफलं न्यासादि कीर्तितम् । यथाहि दुष्टकर्मास्मीत्येवं भावयतस्तथा ॥२६९॥ तथा शिवोऽहं नान्योऽस्मीत्येवं भावयतस्तथा । एतदेवोच्यते दार्ढ्यं विमर्शहृदयङ्गमम् ॥२७०॥ शिवैकात्म्यविकल्पौघद्वारिका निर्विकल्पता । अन्यथा तस्य शुद्धस्य विमर्शप्राणवर्तिनः ॥२७१॥ कथं नामाविमृष्टं स्याद्रूपं भासनधर्मणः । तेनातिदुर्घटघटास्वतन्त्रेच्छावशादयम् ॥२७२॥ भानपि प्राणबुद्ध्यादिः स्वं तथा न विकल्पयेत् । प्रत्युतातिस्वतन्त्रात्मविपरीतस्वधर्मताम् ॥२७३॥ विनाश्यनीशायत्तत्वरूपां निश्चित्य मज्जति । ततः संसारभागीयतथानिश्चयशातिनीम् ॥२७४॥ नित्यादिनिश्चयद्वारामविकल्पां स्थितिं श्रयेत् । ये तु तीव्रतमोद्रिक्तशक्तिनिर्मलताजुषः ॥२७५॥ न ते दीक्षामनुन्यासकारिणश्चेति वर्णितम् । एवं विश्वशरीरः सन्विश्वात्मत्वं गतः स्फुटम् ॥२७६॥ न्यासमात्रात् तथाभूतं देहं पुष्पादिनार्चयेत् । पृथङ्मन्त्रैर्विस्तरेण संक्षेपान्मूलमन्त्रतः ॥२७७॥ धूपनैवेद्यतृप्त्याद्यैस्तथा व्याससमासतः । संसारवामाचारत्वात्सर्वं वामकरेण तु ॥२७८॥ कुर्यात्तर्पणयोगं च दैशिकस्तदनामया । वामशब्देन गुह्यं श्रीमतङ्गादावपीरितम् ॥२७९॥ वामाचारपरो मन्त्री यागं कुर्यादिति स्फुटम् । श्रीमद्भर्गशिखाशास्त्रे तथा श्रीगमशासने ॥२८०॥ सर्वतीर्थेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् । तत्फलं कोटिगुणितमनामातर्पणात्प्रिये ॥२८१॥ श्रीमन्नन्दिशिखायां च श्रीमदानन्दशासने । तदुक्तं स्रुक्च पूर्णायां स्रुवश्वाज्याहुतौ भवेत् ॥२८२॥ शेषं वामकरेणैव पूजाहोमजपादिकम् । एवमानन्दसंपूर्णं सर्वौन्मुख्यविवर्जितम् ॥२८३॥ यागेन देहं मिष्पाद्य भावयेत शिवात्मकम् । गलिते विषयौन्मुख्ये पारिमित्ये विलापिते ॥२८४॥ देहे किमवशिष्येत शिवानन्दरसादृते । शिवानन्दरसापूर्णं षट्त्रिंशत्तत्त्वनिर्भरम् ॥२८५॥ देहं दिवानिशं पश्यन्नर्चयन्स्याच्छिवात्मकः । विश्वात्मदेहविश्रान्तितृप्तस्तल्लिङ्गनिष्ठितः ॥२८६॥ बाह्यं लिङ्गव्रतक्षेत्रचर्यादि नहि वाञ्छति । तावन्मात्रात्त्वविश्रान्तेः संविदः कथिताः क्रियाः ॥२८७॥ उत्तरा बाह्ययागान्ताः साध्या त्वत्र शिवात्मता । ततोऽर्घपात्रं कर्तव्यं शिवाभेदमयं परम् ॥२८८॥ आनन्दरससंपूर्णं विश्वदैवततर्पणम् । यथैव देहे दाहादिपूजान्तं तद्वदेव हि ॥२८९॥ अर्घपात्रेऽपि कर्तव्यं समासव्यासयोगतः । कानि द्रव्याणि यागाय को न्वर्घ इति नोदितम् ॥२९०॥ सिद्धिकामस्य तत्सिद्धौ साधनैव हि कारणम् । मुक्तिकामस्य नो किंचिन्निषिद्धं विहितं च नो ॥२९१॥ यदेव हृद्यं तद्योग्यं शिवसंविदभेदने । कृत्वार्घपात्रं तद्विप्रुट्प्रोक्षितं कुसुमादिकम् ॥२९२॥ कृत्वा च तेन स्वात्मानं पूजयेत्परमं शिवम् । अर्घपात्रार्चनादत्तपुष्पसंकीर्णताभयात् ॥२९३॥ नार्घपात्रेऽत्र कुसुमं कुर्याद्देवार्चनाकृते । अर्घपात्रे तदमृतीभूतमम्ब्वेव पूजितम् ॥२९४॥ मन्त्राणां तृप्तये यागद्रव्यशुद्ध्यै च केवलम् । एवं देहं पूजयित्वा प्राणधीशून्यविग्रहान् ॥२९५॥ अन्योन्यतन्मयीभूतान् पूजयेच्छिवतादृशे । तत्र प्राणाश्रये नयासे बुद्ध्या विरचिते सति ॥२९६॥ शून्याधिष्ठानतः सर्वमेकयत्नेन पूज्यते । न्यस्येदाधारशक्तिं तु नाभ्यधश्चतुरङ्गुलाम् ॥२९७॥ धरां सुरोदं तेजश्च मेयपारप्रतिष्ठितेः । पोतरूपं मरुत्कन्दस्वभावं विश्वसूत्रणात् ॥२९८॥ प्रत्येकमङ्गुलं न्यस्येच्चतुष्कं व्योमगर्भकम् । ईषत्समन्तादमलमिदमामलसारकम् ॥२९९॥ ततो दण्डमनन्ताख्यं कल्पयेल्लम्बिकावधि । तन्मात्रादिकलान्तं तदूर्ध्वे ग्रन्थिर्निशात्मकः ॥३००॥ तत्र मायामये ग्रन्थौ धर्माधर्माद्यमष्टकम् । वह्निप्रागादि माया हि तत्सूतिर्विभवस्तु धीः ॥३०१॥ मायाग्रन्थेरूर्ध्वभूमौ त्रिशूलाधश्चतुष्किकाम् । शुद्धविद्यात्मिकां ध्यायेच्छदनद्वयसंयुताम् ॥३०२॥ तच्च तत्त्वं स्थितं भाव्यं लम्बिकाब्रह्मरन्ध्रयोः । प्रकाशयोगो ह्यत्रैवं दृक्श्रोत्ररसनादिकः ॥३०३॥ दक्षान्यावर्ततो न्यस्येच्छक्तीनां नवकद्वयम् । विद्यापद्मेऽत्र तच्चोक्तमपि प्राग्दर्श्यते पुनः ॥३०४॥ वामा ज्येष्ठा रौद्री काली कलबलविकरिके बलमथनी । भूतदमनी च मनोन्मनिका शान्ता शक्रचापरुचिरत्र स्यात् ॥३०५॥ विभ्वी ज्ञप्तिकृतीच्छा वागीशी ज्वालिनी तथा वामा । ज्येष्ठा रौद्रीत्येताः प्राग्दलतः कालदहनवत्सर्वाः ॥३०६॥ दलकेसरमध्येषु सूर्येन्दुदहनत्रयम् । निजाधिपैर्ब्रह्मविष्णुहरैश्चाधिष्ठितं स्मरेत् ॥३०७॥ मायोत्तीर्णं हि यद्रूपं ब्रह्मादीनां पुरोदितम् । आसनं त्वेतदेव स्यान्नतु मायाञ्जनाञ्जितम् ॥३०८॥ रुद्रोर्ध्वे चेश्वरं देवं तदूर्ध्वे च सदाशिवम् । न्यस्येत्स च महाप्रेत इति शास्त्रेषु भण्यते ॥३०९॥ समस्ततत्त्वव्याप्तृत्वान्महाप्रेतः प्रबोधतः । प्रकर्षगमनाच्चैष लीनो यन्नाधरं व्रजेत् ॥३१०॥ विद्याविद्येशिनः सर्वे ह्युत्तरोत्तरतां गताः । सदाशिवीभूय ततः परं शिवमुपाश्रिताः ॥३११॥ अतः सदाशिवो नित्यमूर्ध्वदृग्भास्वरात्मकः । कृशो मेयत्वदौर्बल्यात्प्रेतोऽट्टहसनादितः ॥३१२॥ तस्य नाभ्युत्थितं मूर्धरन्ध्रत्रयविनिर्गतम् । नादान्तात्म स्मरेच्छक्तिव्यापिनीसमनोज्ज्वलम् ॥३१३॥ अरात्रयं द्विषट्कान्तं तत्राप्यौन्मनसं त्रयम् । पङ्कजानां सितं सप्तत्रिंशदात्मेदमासनम् ॥३१४॥ अत्र सर्वाणि तत्त्वानि भेदप्राणानि यत्ततः । आसनत्वेन भिन्नं हि संविदो विषयः स्मृतः ॥३१५॥ एतान्येव तु तत्त्वानि लीनानि परभैरवे । तादात्म्येनाथ सृष्टानि भिदेवार्च्यत्वयोजने ॥३१६॥ श्रीमद्भैरवबोधैक्यलाभस्वातन्त्र्यवन्ति तु । एतान्येव तु तत्त्वानि पूजकत्वं प्रयान्त्यलम् ॥३१७॥ पूजकः परतत्त्वात्मा पूज्यं तत्त्वं परापरम् । सृष्टत्वादपरं तत्त्वजालमासनतास्पदम् ॥३१८॥ विद्याकलान्तं सिद्धान्ते वामदक्षिणशास्त्रयोः । सदाशिवान्तं समनापर्यन्तं मतयामले ॥३१९॥ उन्मनान्तमिहाख्यातमित्येतत्परमासनम् । अर्चयित्वासनं पूज्या गुरुपङ्क्तिस्तु भाविवत् ॥३२०॥ तत्रासने पुरा मूर्तिभूतां सार्धाक्षरां द्वयीम् । न्यस्येद्व्याप्तृतयेत्युक्तं सिद्धयोगीश्वरीमते ॥३२१॥ सदाशिवं महाप्रेतं मूर्तिं सार्धाक्षरां यजेत् । परत्वेन परामूर्ध्वे गन्धपुष्पादिभिस्त्विति ॥३२२॥ विद्यामूर्तिमथात्माख्यां द्वितीयां परिकल्पयेत् । मध्ये भैरवसद्भावं दक्षिणे रतिशेखरम् ॥३२३॥ नवात्मानं वामतस्तद्देवीवद्भैरवत्रयम् । मध्ये परां पूर्णचन्द्रप्रतिमां दक्षिणे पुनः ॥३२४॥ परापरां रक्तवर्णां किंचिदग्रां न भीषणाम् । अपरां वामशृङ्गे तु भीषणां कृष्णपिङ्गलाम् ॥३२५॥ प्राग्वद्द्विधात्र षोढैव न्यासो देहे यथा कृतः । ततः सांकल्पिकं युक्तं वपुरासां विचिन्तयेत् ॥३२६॥ कृत्यभेदानुसारेण द्विचतुःषड्भुजादिकम् । कपालशूलखट्वाङ्गवराभयघटादिकम् ॥३२७॥ वामदक्षिणसंस्थानचित्रत्वात्परिकल्पयेत् । वस्तुतो विश्वरूपास्ता देव्यो बोधात्मिका यतः ॥३२८॥ अनवच्छिन्नचिन्मात्रसाराः स्युरपवृक्तये । सर्वं ततो ̕ङ्गवक्त्रादि लोकपालास्त्रपश्चिमम् ॥३२९॥ मध्ये देव्यभिधा पूज्या त्रयं भवति पूजितम् । ततो मध्यगतात्तस्माद्बोधराशेः सदैवतात् ॥३३०॥ अङ्गादि निःसृतं पूज्यं विस्फुलिङ्गात्मकं पृथक् । मध्यगा किल या देवी सैव सद्भावरूपिणी ॥३३१॥ कालसंकर्षिणी घोरा शान्ता मिश्रा च सर्वतः । सिद्धातन्त्रे च सैकार्णा परा देवीति कीर्तिता ॥३३२॥ परा तु मातृका देवी मालिनी मध्यगोदिता । मध्ये न्यस्येत्सूर्यरुचिं सर्वाक्षरमयीं पराम् ॥३३३॥ तस्याः शिखाग्रे त्वैकार्णां तस्याश्चाङ्गादिकं त्विति । ततो विश्वं विनिष्क्रान्तं पूजितं दक्षिणोत्तरे ॥३३४॥ स्यादेव पूजितं तेन सकृन्मध्ये प्रपूजयेत् । श्रीदेव्यायामले चोक्तं यागे डामरसंज्ञिते ॥३३५॥ नासाग्रे त्रिविधं कालं कालसंकर्षिणी सदा । मुखस्था श्वासनिःश्वासकलनी हृदि कर्षति ॥३३६॥ पूरकैः कुम्भकैर्धत्ते ग्रसते रेचकेन तु । कालं संग्रसते सर्वं रेचकेनोत्थिता क्षणात् ॥३३७॥ इच्छाशक्तिः परा नाम्ना शक्तित्रितयबोधिनी । याज्या कर्षति यत्सर्वं कालाधारप्रभञ्जनम् ॥३३८॥ इह किल दृक्कर्मेच्छाः शिव उक्तास्तास्तु वेद्यखण्डनके । स्थूले सूक्ष्मे क्रमशः सकलप्रलयाकलौ भवतः ॥३३९॥ शुद्धा एव तु सुप्ता ज्ञानाकलतां गताः प्रबुद्धास्तु । प्रविभिन्नकतिपयात्मकवेद्यविदो मन्त्र उच्यन्ते ॥३४०॥ भिन्ने त्वखिले वेद्ये मन्त्रेशास्तन्महेशास्तु । भिन्नाभिन्ने तदियान् सुशिवान्तो ̕ध्वोदितः प्रेते ॥३४१॥ ता एव गलति भेदप्रसरे क्रमशो विकासमायान्त्यः । अन्योन्यासंकीर्णास्त्वरात्रयं गलितभेदिकास्तु ततः ॥३४२॥ पद्मत्रय्यौन्मनसी तदिदं स्यादासनत्वेन । ता एवान्योन्यात्मकभेदावच्छेदनाजिहासुतया ॥३४३॥ किल शक्तितद्वदादिप्रभिदा पूज्यत्वमायाताः । भेदगलनाद्यकोटेरारभ्य यतो निजं निजं रूपम् ॥३४४॥ बिभ्रति तास्तु त्रित्वं तासां स्फुटमेव लक्ष्येत । संभाव्यवेद्यकालुष्ययोगतोऽन्योन्यलब्धसंकरतः ॥३४५॥ प्राक् प्रस्फुटं त्रिभावं नागच्छन्नत्र तु तथा न । अन्योन्यात्मकभेदावच्छेदनकलनसंग्रसिष्णुतया । स्वातन्त्र्यमात्रसारा संवित्सा कालकर्षिणी कथिता ॥३४६॥ सैव च भूयः स्वस्मात्संकर्षति कालमिह बहिष्कुरुते । संकर्षिणीति कथिता मातृष्वेतेषु सद्भावः ॥३४७॥ तत्त्वं सत्ता प्राप्तिर्मातृषु मेयो ̕नया संश्च । विश्वजननीषु शक्तिषु परमार्थो हि स्वतन्त्रतामात्रम् ॥३४८॥ एषणविदिक्रियात्मकमेतत्पूज्यं यतोऽनवच्छिन्नम् । यस्मिन्सर्वावच्छेददिशो ̕पि स्युः समाक्षिप्ताः ॥३४९॥ अविकल्पमिह न याति हि पूज्यत्वं नच विकल्प एकत्र । बहवो धर्मास्तस्माद् यो धर्मस्तावतो धर्मान् ॥३५०॥ आक्षिपति तत्र रूढः सर्वोत्कृष्टोऽधरस्थितास्त्वन्ये । इति भैरवपरपूजातत्त्वं श्रीडामरे महायागे ॥३५१॥ स्वयमेव सुप्रसन्नः श्रीमान् शंभुर्ममादिक्षत् । बाह्ययागे तु पद्मानां त्रितयेऽपि प्रपूजयेत् ॥३५२॥ अस्त्रान्तं परिवारौघमिति नो दैशिकागमः । अग्नीशरक्षोवाय्वन्तदिक्षु विद्याङ्गपञ्चकम् ॥३५३॥ शक्त्यङ्गानि शिवाङ्गानि तथैवात्र पुनर्द्वये । अस्त्रं न्यस्येच्चतुर्दिक्कं मध्ये लोचनसंज्ञकम् ॥३५४॥ पत्राष्टकेऽष्टकयुगमघोरादेः स्वयामलम् । तथा द्वादशकं षट्कं चतुष्कं मिश्रितं द्विशः ॥३५५॥ सर्वशो द्विगुणादीत्थमावृतित्वेन पूजयेत् । लोकपालांस्ततः सास्त्रान्स्वदिक्षु दशसु क्रमात् ॥३५६॥ इत्थं त्रिशूलपर्यन्तदेवीतादात्म्यवृत्तितः । तिष्ठन्नत्रार्पयन्विश्वं तर्पयेद्देवतागणम् ॥३५७॥ ततो जपं प्रकुर्वीत प्रतिमन्त्रं द्विपञ्चधा । एकैकस्य त्र्यात्मकत्वादभेदाच्चापि सर्वशः ॥३५८॥ नाभिहृत्कण्ठतालूर्ध्वकुण्डे ज्वलनवत्स्मरन् । मन्त्रचक्रं तत्र विश्वं ज्वह्वन्संपादयेद्धुतिम् ॥३५९॥ दीक्षाकर्मणि कर्तव्ये दीक्षां येनाध्वना गुरुः । चिकीर्षुर्देह एवादौ भूयस्तं मुख्यतो ̕र्पयेत् ॥३६०॥ द्वादशान्तमिदं प्राग्रं त्रिशूलं मूलतः स्मरन् । देवीचक्राग्रगं त्यक्तक्रमः खेचरतां व्रजेत् ॥३६१॥ मूलाधाराद्द्विषट्कान्तव्योमाग्रापूरणात्मिका । खेचरीयं खसंचारस्थितिभ्यां खामृताशनात् ॥३६२॥ अमुष्माच्छाम्भवाच्छूलाद्ध्रासयेच्चतुरङ्गुलम् । शाक्ते ततोऽप्याणवे तत्त्रिशूलत्रितयं स्थितम् ॥३६३॥ तत्त्रिशूलत्रयोर्ध्वोर्ध्वदेवीचक्रार्पितात्मकः । किं किं न जायते किं वा न वेत्ति न करोति वा ॥३६४॥ एकैकामथवा देवीं मन्त्रं वा पद्मगं यजेत् । यामलैक्याङ्गवक्त्रादिसदसत्ताविकल्पतः ॥३६५॥ इत्थं प्राणाद्व्योमपदपर्यन्तं चेतनं निजम् । शिवीभाव्यार्चनायोगात्ततो बाह्यं विधिं चरेत् ॥३६६॥ बहिर्यागस्य मुख्यत्वे सिद्ध्यादिपरिकल्पिते । अन्तर्यागः संस्क्रियायै ह्यन्यथार्चयिता पशुः ॥३६७॥ यस्तु सिद्ध्यादिविमुखः स बहिर्यजति प्रभुम् । अन्तर्महायागरूढ्यै तयैवासौ कृतार्थकः ॥३६८॥ कृत्वान्तर्यागमादाय धान्याद्यस्त्रेण मन्त्रितम् । दिक्षु क्षिपेद्विघ्ननुदे संहृत्यैशीं दिशं नयेत् ॥३६९॥ निरीक्षणं प्रोक्षणं च ताडनाप्यायने तथा । विगुण्ठनं च संस्काराः साधारास्त्रिशिरोमते ॥३७०॥ गोमूत्रगोमयदधिक्षीराज्यं मन्त्रयेन्मुखैः । ऊर्ध्वान्तैरङ्गषट्केन कुशाम्ब्वेतेन चोक्षयेत् ॥३७१॥ भूमिं शेषं च शिष्यार्थं स्थापयेत्पञ्चगव्यकम् । पञ्च गव्यानि यत्रास्मिन्कुशाम्बुनि तदुच्यते ॥३७२॥ पञ्चगव्यं जलं शास्त्रे बाह्याशुद्धिविमर्दकम् । लौकिक्यामविशुद्धौ हि मृदितायामथान्तरीम् ॥३७३॥ अशुद्धिं दग्धुमास्थेयं मन्त्रादि यदलौकिकम् । फादिनान्तां स्मरेद्देवीं पृथिव्यादिशिवान्तगाम् ॥३७४॥ पुष्पाञ्जलिं क्षिपेन्मध्ये धूपगन्धासवादि च । तथैव दद्याद्यागौकोमध्ये तेनाशु विग्रहम् ॥३७५॥ समस्तं देवताचक्रमधिष्ठातृ प्रकल्प्यते । अनन्तनाले धर्मादिपत्रे सद्वैद्यकर्णिके ॥३७६॥ षडुत्थे गन्धपुष्पाद्यैर्गणेशं ह्यैशगं यजेत् । अत्थितं विघ्नसंशान्त्यै पूजयित्वा विसर्जयेत् ॥३७७॥ (…) । ततः कुम्भं परामोदिद्रवद्रव्यप्रपूरितम् ॥३७८॥ पूजितं चर्चितं मूलमनुना मन्त्रयेच्छतम् । असिना कर्करीं पूर्वमस्त्रयागो न चेत्कृतः ॥३७९॥ तमैशान्यां यजेत्कुम्भं वामस्थकलशान्वितम् । ततः सौरदिगाश्रित्या सास्त्रांल्लोकेश्वरान्यजेत् ॥३८०॥ गन्धपुष्पोपहाराद्यैर्विधिना मन्त्रपूर्वकम् । ततः शिष्यो ̕सिकलशीहस्तो धारां प्रपातयन् ॥३८१॥ गुरुणा कुम्भहस्तेनानुव्रज्यो वदता त्विदम् । भो भोः शक्र त्वया स्वस्यां दिशि विघ्नप्रशान्तये ॥३८२॥ सावधानेन कर्मान्तं भवितव्यं शिवाज्ञया । त्र्यक्षरे निरृतिप्राये नाम्नि भोःशब्दमेककम् ॥३८३॥ अपासयेद्यतो मन्त्रश्छन्दोबद्धो ̕यमीरितः । तत ऐश्यां दिशि स्थाप्यः स कुम्भो विकिरोपरि ॥३८४॥ दक्षिणे चास्त्रवार्धानी स्थाप्या कुम्भस्य सांप्रतम् । कुम्भस्थाम्बुसमापत्तिवृंहितं मन्त्रवृन्दकम् ॥३८५॥ तेजोमात्रात्मना ध्यातं सर्वमाप्याययेद्विधिम् । अतः कुम्भे मन्त्रगणं सर्वं संपूजयेद्गुरुः ॥३८६॥ पूर्वेण विधिनास्त्रं च कर्कर्यां विघ्ननुद्यजेत् । मध्येगृहं ततो गन्धमण्डले पूजयेद्गुरुः ॥३८७॥ त्रिकं यामलतैक्याभ्यामेकं वा मन्त्रदैवतम् । अग्निकार्यविधानाय ततः कुण्डं प्रकल्पयेत् ॥३८८॥ शुद्धमन्त्रादिसंजल्पसंकल्पोत्थमपूर्वकम् । शिवस्य या क्रियाशक्तिस्तत्कुण्डमिति भावनात् ॥३८९॥ परमः खलु संस्कारो विनाप्यन्यैः क्रियाक्रमैः । एवं देहे स्थण्डिले वा लिङ्गे पात्रे जलेऽनले ॥३९०॥ पुष्पादिषु शिशौ मुख्यः संस्कारः शिवतादृशे । उक्तं श्रीयोगसंचारे तथाहि परमेशिना ॥३९१॥ चतुर्दशविधे भूते पुष्पे धूपे निवेदने । दीपे जपे तथा होमे सर्वत्रैवात्र चण्डिका ॥३९२॥ जुहोति जपति प्रेद्धे पूजयेद्विहसेद्व्रजेत् । आहारे मैथुने सैव देहस्था कर्मकारिणी ॥३९३॥ तादृशीं ये तु नो रूढां संवित्तिमधिशेरते । अक्रमात्तत्प्रसिद्ध्यर्थं क्रमिको विधिरुच्यते ॥३९४॥ अहं शिवो मन्त्रमयः संकल्पा मे तदात्मकाः । तज्जं च कुण्डवह्न्यादि शिवात्मेति स्फुटं स्मरेत् ॥३९५॥ अत एव हि तत्रापि दार्ढ्यादार्ढ्यावलोकनात् । क्रियमाणे कृते वापि संस्क्रियाल्पेतरापिवा ॥३९६॥ यथाहि कश्चित्प्रतिभादरिद्रोऽभ्यासपाटवात् । वाक्यं गृह्णाति को ̕प्यादौ तथात्राप्यवबुध्यताम् ॥३९७॥ उल्लेखसेककुट्टनलेपचतुर्मार्गमक्षवृतिपरिकलनम् । स्तरपरिधिविष्टरस्थितिसंस्कारा दशास्त्रतः कुण्डगताः ॥३९८॥ मध्यग्रहणं दर्भद्वयेन कुशसंवृतिश्च भित्तीनाम् । प्राङ्मुखरेखात्रितयोर्ध्वरेखिकाः कुशसमावृतिश्च बहिः ॥३९९॥ शस्तलताश्चतुरश्रं दशलोकेशार्चनासनविधिश्च । सद्मासादनमस्त्राग्नितेजसा रक्षणं च कुण्डस्य ॥४००॥ भूमेः शिवाग्निधृत्यै शक्तिर्विघ्नापसारणं चार्थाः । ततस्तु पूजिते कुण्डे क्रियाशक्तितया स्फुटम् ॥४०१॥ मातृकां मालिनीं वापि न्यस्येत्संकल्परूपिणीम् । संकल्पदेव्या यत्सृष्टिधाम त्र्यश्रं क्रियात्मकम् ॥४०२॥ ज्ञानशुक्रकणं तत्र त्रिः प्रक्षोभ्य विनिक्षिपेत् । इच्छातः क्षुभितं ज्ञानं विमर्शात्मक्रियापदे ॥४०३॥ रूढं ज्ञत्वादिपञ्चाङ्गविस्पष्टं जाज्वलीत्यलम् । तेनाङ्गपञ्चकैरेव हुतिं दद्यात्सकृत्सकृत् ॥४०४॥ जन्माद्यखिलसंस्कारशुद्धो ̕ग्निस्तावता भवेत् । पञ्चाङ्गमेव पृथ्व्यादिरूपं कठिनतादिकाः ॥४०५॥ शक्तीर्दधद्वह्निगताः कुर्याद्गर्भादिकाः क्रियाः । ततो ̕खिलाध्वसद्देवीचक्रगर्भां परापराम् ॥४०६॥ स्मरन्पूर्णाहुतिवशात्पूरयेदग्निसंस्क्रियाः । तथा मन्त्रेशयुक्सत्यसंकल्पमहसा ज्वलन् ॥४०७॥ वह्निस्तच्छिवसंकल्पतादात्म्याच्छिवतात्मकः । इत्येतत्संस्क्रियातत्त्वं श्रीशंभुर्मे न्यरूपयत् ॥४०८॥ मयापि दर्शितं शुद्धबुद्धयः प्रविविञ्चताम् । तेनात्र ये चोदयन्ति यथा बालस्य संस्क्रिया ॥४०९॥ बह्नौ वह्नेस्तथान्यत्रेत्यनवस्थैव संस्कृतेः । ते निरुत्थानविहता नये ̕स्मिन |