Tantraloka

by Abhinavagupta

 

In Sanscrito:

 

CAP.1 - CAP.2 - CAP.3 - CAP.4 - CAP.5 - CAP.6 - CAP.7 - CAP.8 - CAP.9 - CAP.10

CAP.11 - CAP.12 - CAP.13 - CAP.14 - CAP.15 - CAP.16 - CAP.17 - CAP.18 - CAP.19 - CAP.20

CAP.21 - CAP.22 - CAP.23 - CAP.24 - CAP.25 - CAP.26 - CAP.27 - CAP.28 - CAP.29 - CAP.30 

CAP.31 - CAP.32 - CAP.33 - CAP.34 - CAP.35 - CAP.36 - CAP.37 - Testo translitterato

pdf: Testo in sanscrito - Testo translitterato - Tantraloka with commentary by Rajanaka Jayaratha Vol.1 - Vol.2 - Vol.3 - Vol.4 - Vol.5 - Vol.6

 

 

TANTRALOKA SANSCRITO

 

 

Capitolo 8

 

 

अथ श्रीतन्त्रालोके अष्टममाह्निकं

 

देशाध्वनोऽप्यथ समासविकासयोगात्संगीयते विधिरयं शिवशास्त्रदृष्टः ॥१॥

विचारितोऽयं कालाध्वा क्रियाशक्तिमयः प्रभोः

मूर्तिवैचित्र्यजस्तज्जो देशाध्वाथ निरूप्यते ॥२॥

अध्वा समस्त एवायं चिन्मात्रे संप्रतिष्ठितः

यत्तत्र नहि विश्रान्तं तन्नभःकुसुमायते ॥३॥

संविद्द्वारेण तत्सृष्टे शून्ये धियि मरुत्सु

नाडीचक्रानुचक्रेषु बर्हिर्देहे ̕ध्वसंस्थितिः ॥४॥

तत्राध्वैवं निरूप्योऽयं यतस्तत्प्रक्रियाक्रमम्

अनुसंदधदेव द्राग् योगी भैरवतां व्रजेत् ॥५॥

दिदृक्षयैव सर्वार्थान् यदा व्याप्यावतिष्ठते

तदा किं बहुनोक्तेन इत्युक्तं स्पन्दशासने ॥६॥

ज्ञात्वा समस्तमध्वानं तदीशेषु विलापयेत्

तान् देहप्राणधीचक्रे पूर्ववद् गालयेत्क्रमात् ॥७॥

तत्समस्तं स्वसंवित्तौ सा संविद्भरितात्मिका

उपास्यमाना संसारसागरप्रलयानलः ॥८॥

श्रीमहीक्षोत्तरे चैतानध्वेशान् गुरुरब्रवीत्

ब्रह्मानन्तात्प्रधानान्तं विष्णुः पुंसः कलान्तगम् ॥९॥

रुद्रो ग्रन्थौ मायायामीशः सादाख्यगोचरे

अनाश्रितः शिवस्तस्माद्व्याप्ता तद्व्यापकः परः ॥१०॥

एवं शिवत्वमापन्नमिति मत्वा न्यरूप्यत

प्रक्रियापरं ज्ञानमिति स्वच्छन्दशासने ११॥

त्रिशिरःशासने बोधो मूलमध्याग्रकल्पितः

षट्त्रिंशत्तत्त्वसंरम्भः स्मृतिर्भेदविकल्पना ॥१२॥

अव्याहतविभागो ̕स्मिभावो मूलं तु बोधगम्

समस्ततत्त्वभावोऽयं स्वात्मन्येवाविभागकः ॥१३॥

बोधमध्यं भवेत्किंचिदाधाराधेयलक्षणम्

तत्त्वभेदविभागेन स्वभावस्थितिलक्षणम् ॥१४॥

बोधाग्रं तत्तु विद्बोधं निस्तरङ्गं बृहत्सुखम्

संविदेकात्मतानीतभूतभावपुरादिकः ॥१५॥

अव्यवच्छिन्नसंवित्तिर्भैरवः परमेश्वरः

श्रीदेव्यायामले चोक्तं षट्त्रिंशत्तत्त्वसुन्दरम् ॥१६॥

अध्वानं षड्विधं ध्यायन्सद्यः शिवमयो भवेत्

यद्यप्यमुष्य नाथस्य संवित्त्यनतिरेकिणः ॥१७॥

पूर्णस्योर्ध्वादिमध्यान्तव्यवस्था नास्ति वास्तवी

तथापि प्रतिपत्तॄणां प्रतिपादयितुस्तथा ॥१८॥

स्वस्वरूपानुसारेण मध्यादित्वादिकल्पनाः

ततः प्रमातृसंकल्पनियमात् पार्थिवं विदुः ॥१९॥

तत्त्वं सर्वान्तरालस्थं यत्सर्वावरणैर्वृतम्

तदत्र पार्थिवे तत्त्वे कथ्यते भुवनस्थितिः ॥२०॥

नेता कटाहरुद्राणामनन्तः कामसेविनाम्

पोतारूढो जलस्यान्तर्मद्यपानविघूर्णितः ॥२१॥

देवं भैरवं ध्यायन् नागैश्च परिवारितः

कालाग्रेर्भुवनं चोर्ध्वे कोटियोजनमुच्छ्रितम् ॥२२॥

लोकानां भस्मसाद्भावभयान्नोर्ध्व वीक्षते

व्याप्तापि विश्वस्य यस्मात्प्लुष्यन्निमां भुवम् ॥२३॥

नरकेभ्यः पुरा व्यक्तस्तेनासौ तदधो मतः

दश कोट्यो विभोर्ज्वाला तदर्ध शून्यमूर्ध्वतः ॥२४॥

तदूर्ध्वे नरकाधीशाः क्रमाद्दुःखैकवेदनाः

श्धो मध्ये तदूर्ध्वे स्थिता भेदान्तरैर्वृताः ॥२५॥

अवीचिकुम्भीपाकाख्यरौरवास्तेष्वनुक्रमात्

एकादशैकादश दशेत्यन्तः शराग्नि तत् ॥२६॥

प्रत्येकमेषामेकोना कोटिरुच्छ्रितिरन्तरम्

लक्षमत्र खवेदास्यसंख्यानामन्तरा स्थितिः ॥२७॥

कूष्माण्ड ऊर्ध्वे लक्षोनकोटिस्थानस्तदीशिता

शास्त्रविरुद्धाचरणात् कृष्णं ये कर्म विदधते ॥२८॥

तत्र भीमैर्लोकपुरुषैः पीड्यन्ते भोगपर्यन्तम्

ये सकृदपि परमेशं शिवमेकाग्रेण चेतसा शरणम् ॥२९॥

यान्ति ते नरकयुजः कृष्णं तेषां सुखाल्पतादायि

सहस्रनवकोत्सेधमेकान्तरमथ क्रमात् ॥३०॥

पातालाष्टकमेकैकमष्टमे हाटकः प्रभुः

प्रतिलोकं नियुक्तात्मा श्रीकण्ठो हठतो बहूः ॥३१॥

सिद्धीर्ददात्यसावेवं श्रीमद्रौरवशासने

व्रतिनो ये चिकर्मस्था निषिद्धाचारकारिणः ॥३२॥

दीक्षिता अपि ये लुप्तसमया नच कुर्वते

प्रायश्चित्तांस्तथा तत्स्था वामाचारस्य दूषकाः ॥३३॥

देवाग्निद्रव्यवृत्त्यंशजीविनश्चोत्तमस्थिताः

अधःस्थगारुडाद्यन्यमन्त्रसेवापरायणाः ॥३४॥

ते हाटकविभोरग्रे किङ्करा विविधात्मकाः

ते तु तत्रापि देवेशं भक्त्या चेत्पर्युपासते ॥३५॥

तदीशतत्त्वे लीयन्ते क्रमाच्च परमे शिवे

अन्यथा ये तु वर्तन्ते तद्भोगनिरतात्मकाः ॥३६॥

ते कालवह्निसंतापदीनाक्रन्दपरायणाः

गुणतत्त्वे निलीयन्ते ततः सृष्टिमुखे पुनः ॥३७॥

पात्यन्ते मातृभिर्घोरयातनौघपुरस्सरम्

अधमाधमदेहेषु निजकर्मानुरूपतः ॥३८॥

मानुषान्तेषु तत्रापि केचिन्मन्त्रविदः क्रमात्

मुच्यन्तेऽन्ये तु बध्यन्ते पूर्वकृत्यानुसारतः ॥३९॥

इत्येष गणवृत्तान्तो नाम्ना हुलहुलादिना

प्रोक्तं भगवता श्रीमदानन्दाधिकशासने ॥४०॥

पातालोर्ध्वे सहस्राणि विंशतिर्भूकटाहकः

सिद्धातन्त्रे तु पातालपृष्ठे यक्षीसमावृतम् ॥४१॥

भद्रकाल्याः पुरं यत्र ताभिः क्रीडन्ति साधकाः

ततस्तमस्तप्तभूमिस्ततःशून्यं ततोऽहयः ॥४२॥

एतानि यातनास्थानं गुरुमन्त्रादिदूषिणाम्

ततो भूम्यूर्ध्व [मध्य] तो मेरुः सहस्राणि षोडश ॥४३॥

मग्नस्तन्मूलविस्तारस्तद्द्वयेनोर्ध्वविस्तृतिः

सहस्राब्धिवसूच्छ्रायो हैमः सर्वामरालयः ॥४४॥

मध्योर्ध्वाधः समुद्वृत्तशरावचतुरश्रकः

भैरवीयं तल्लिङ्गं धरणी चास्य पीठिका ॥४५॥

सर्वे देवा निलीना हि तत्र तत्पूजितं सदा

मध्ये मेरुसभा धातुस्तदीशदिशि केतनम् ॥४६॥

ज्योतिष्कशिखरं शंभोः श्रीकण्ठांशश्च प्रभुः

अवरुह्य सहस्राणि मनोवत्याश्चतुर्दश ॥४७॥

चक्रवाटश्चतुर्दिक्को मेरुरत्र तु लोकपाः

अमरावतिकेन्द्रस्य पूर्वस्यां दक्षिणेन ताम् ॥४८॥

अत्सरःसिद्धसाध्यास्तामुत्तरेण विनायकाः

तेजोवती स्वदिश्यग्नेः पुरी तां पश्चिमेन तु ॥४९॥

विश्वेदेवा विश्वकर्मा क्रमात्तदनुगाश्च ये

याम्यां संयमनी तां तु पश्चिमेन क्रमात् स्थिताः ॥५०॥

मातृनन्दा स्वसंख्याता रुद्रास्तत्साधकास्तथा

कृष्णाङ्गारा निरृतिश्च तां पूर्वेण पिशाचकाः॥५१॥

रक्षांसि सिद्धगन्धर्वास्तूत्तरेणोत्तरेण ताम्

वारुणी शुद्धवत्याख्या भूतौघो दक्षिणेन ताम् ॥५२॥

उत्तरेणोत्तरेणैनां वसुविद्याधराः क्रमात्

वायोर्गन्धवती तस्या दक्षिणे किन्नराः पुनः ॥५३॥

वीणासरस्वती देवी नारदस्तुम्बुरुस्तथा

महोदयेन्दोर्गुह्याः स्युः पश्चिमेऽस्याः पुनः पुनः ॥५४॥

कुबेरः कर्मदेवाश्च तथा तत्साधका अपि

यशस्विनी महेशस्य तस्याः पश्चिमतो हरिः ॥५५॥

दक्षिणे दक्षिणे ब्रह्माश्विनौ धन्वन्तरिः क्रमात्

मैरवे चक्रवाटे ̕स्मिन्नेवं मुख्याः पुरोऽष्टधा ॥५६॥

अन्तरालगतास्त्वन्याः पुनः षड्विंशतिः स्मृताः

इष्टापूर्तरताः पुण्ये वर्षेये भारते नराः ॥५७॥

ते मेरुगाः सकृच्छम्भुं ये वार्चन्ति यथोचितम्

मेरोः प्रदक्षिणाप्योदग्दिक्षु विष्कम्भपर्वताः ॥५८॥

मन्दरो गन्धमादश्च विपुलो ̕ सुपार्श्वकः

सितपीतनीलरक्तास्ते क्रमात्पादपर्वताः ॥५९॥

एतैर्भुवमवष्टभ्य मेरुस्तिष्ठति निश्चलः

चैत्ररथनन्दनाख्ये वैश्राजं पितृवनं वनान्याहुः ॥६०॥

रक्तोदमानससितं भद्रं चैतच्चतुष्टयं सरसाम्

वृक्षाः कदम्बजम्ब्वश्वत्थन्यग्रोधकाः क्रमशः ॥६१॥

एषु चतुर्ष्वचलेषु त्रयं त्रयं क्रमश एतदाम्नातम्

मेर्वधो लवणाब्ध्यन्तं जम्बुद्वीपः समन्ततः ॥६२॥

लक्षमात्रः नवधा जातो मर्यादपर्वतैः

निषधो हेमकूटश्च हिमवान्दक्षिणे त्रयः ॥६३॥

लक्षं सहस्रनवतिस्तदशीतिरिति क्रमात्

नीलः श्वेतस्त्रिशृङ्गश्च तावन्तः सव्यतः पुनः ॥६४॥

मेरोः षडेते मर्यादाचलाः पूर्वापरायताः

पूर्वतो माल्यवान्पश्चाद्गन्धमादनसंज्ञितः ॥६५॥

सव्योत्तरायतौ तौ तु चतुस्त्रिंशत्सहस्रकौ

अष्टावेते ततो ̕प्यन्यौ द्वौ द्वौ पूर्वादिषु क्रमात् ॥६६॥

जाठरः कूटहिमवद्यात्रजारुधिशृङ्गिणः

एवं स्थितो विभागोऽत्र वर्षसिद्ध्यै निरूप्यते ॥६७॥

समन्ताच्चक्रवाटाधोऽनर्केन्दु चतुरश्रकम्

सहस्रनवविस्तीर्णमिलाख्यं त्रिमुखायुषम् ॥६८॥

मेरोः पश्चिमतो गन्धमादो यस्तस्य पश्चिमे

केतुमालं कुलाद्रीणां सप्तकेन विभूषितम् ॥६९॥

मेरोः पूर्व माल्यवान्यो भद्राश्वस्तस्य पूर्वतः

सहस्रदशकायुस्तत्सपञ्चकुलपर्वतम् ॥७०॥

पूर्वपश्चिमतः सव्योत्तरतश्च क्रमादिमे

द्वात्रिंशच्च चतुस्त्रिंशत्सहस्राणि निरूपिते ॥७१॥

मेरोरुदक् शृङ्गवान्यस्तद्बहिः कुरुवर्षकम्

चापवन्नवसाहस्रमायुस्तत्र त्रयोदश ॥७२॥

कुरुवर्षस्योत्तरेऽथ वायव्येऽब्धौ क्रमाच्छराः

दश चेति सहस्राणि द्वीपौ चन्द्रोऽथ भद्रकः ॥७३॥

यौ श्वेतशृङ्गिणौ मेरोर्वामे मध्ये हिरण्मयम्

तयोर्नवकविस्तीर्णमायुश्चार्धत्रयोदश ॥७४॥

तत्र वै वामतः श्वेतनीलयो रम्यकोऽन्तरे

सहस्रनवविस्तीर्णमायुर्द्वादश तानि ॥७५॥

मेरोर्दक्षिणतो हेमनिषधौ यौ तदन्तरे

हर्याख्यं नवसाहस्रं तत्सहस्राधिकायुषम् ॥७६॥

तत्रैव दक्षिणे हेमहिमवद्द्वितयान्तरे

कैन्नरं नवसाहस्रं तत्सहस्राधिकायुषम् ॥७७॥

तत्रैव दक्षिणे मेरोर्हिमवान्यस्य दक्षिणे

भारतं नवसाहस्रं चापवत्कर्मभोगभूः ॥७८॥

इलावृतं केतुभद्रं कुरुहैरण्यरम्यकम्

हरिकिन्नरवर्षे भोगभूर्न तु कर्मभूः ॥७९॥

अत्र बाहुल्यतः कर्मभूभावोऽत्राप्यकर्मणाम्

पशूनां कर्मसंस्कारः स्यात्तादृग्दृढसंस्कृतेः ॥८०॥

संभवन्त्यप्यसंस्कारा भारतेऽन्यत्र चापि हि

दृढप्राक्तनसंस्कारादीशेच्छातः शुभाशुभम् ॥८१॥

स्थानान्तरे ̕पि कर्मास्ति दृष्टं तच्च पुरातने

तत्र त्रेता सदा कालो भारते तु चतुर्युगम् ॥८२॥

भारते नवखण्डं सामुद्रेणाम्भसात्र

स्थलं पञ्चशती तद्वज्जलं चेति विभज्यते ॥८३॥

इन्द्रः कशेरुस्ताम्राभो नागीयः प्राग्गभस्तिमान्

सौम्यगान्धर्ववाराहाः कन्याख्यं चासमुद्रतः ॥८४॥

कन्याद्वीपे नवमे दक्षिणेनाब्धिमध्यगाः

उपद्वीपाः षट् कुलाद्रिसप्तकेन विभूषिते ॥८५॥

अङ्गयवमलयशङ्कुः कुमुदवराहौ मलयगो ̕गस्त्य

तत्रैव त्रिकूटे लङ्का षडमी ह्युपद्वीपाः ॥८६॥

द्वीपोपद्वीपगाः प्रायो म्लेच्छा नानाविधा जनाः

मुक्ताकाञ्चनरत्नाढ्या इति श्रीरुरुशासने ॥८७॥

भारते यत्कृतं कर्म क्षपितं वाप्यवीचितः

शिवान्तं तेन मुक्तिर्वा कन्याख्ये तु विशेषतः ॥८८॥

महाकालादिका रुद्रकोटिरत्रैव भारते

गङ्गादिपञ्चशतिका जन्म तेनात्र दुर्लभम् ॥८९॥

अन्यवर्षेषु पशुवद् भोगात्कर्मातिवाहनम्

प्राप्यं मनोरथातीतमपि भारतजन्मनाम् ॥९०॥

नानावर्णाश्रमाचारसुखदुःखविचित्रता

कन्याद्वीपे यतस्तेन कर्मभूः सेयमुत्तमा ॥९१॥

पुंसा सितासितान्यत्र कुर्वतां किल सिद्ध्यतः

परापरौ स्वर्निरयाविति रौरववार्तिके ॥९२॥

एवं मेरोरधो जम्बूरभितो यः विस्तरात्

स्यात् सप्तदशधा खण्डैर्नवभिस्तु समासतः ॥९३॥

मनोः स्वायंभुवस्यासन् सुता दश ततस्त्रयः

प्राव्रजन्नथ जम्ब्वाख्ये राजा योऽग्नीध्रनामकः ॥९४॥

तस्याभवन्नव सुतास्ततो ̕यं नवखण्डकः

नाभिर्यो नवमस्तस्य नप्ता भरत आर्षभिः ॥९५॥

तस्याष्टौ तनयाः साकं कन्यया नवमों ̕शकः

भुक्तैस्तैर्नवधा तस्माल्लक्षयोजनमात्रकात् ॥९६॥

लक्षैकमात्रो लवणस्तद्बाह्येऽस्य पुरो ̕द्रयः

ऋषभो दुन्दुभिर्धूम्रः कङ्कद्रोणेन्दवो ह्युदक् ॥९७॥

वराहनन्दनाशोकाः पश्चात् सहबलाहकौ

दक्षिण चक्रमैनाकौ वाडवो ̕न्तस्तयोः स्थितः ॥९८॥

अब्धेर्दक्षिणतः खाक्षिसहस्रातिक्रमाद् गिरिः

विद्युत्वांस्त्रिसहस्रोच्छ्रिदायामो ̕त्र फलाशिनः ॥९९॥

मलदिग्धा दीर्घकेशश्मश्रवो गोसधर्मकाः

नग्नाः संवत्सराशीतिजीविनस्तृणभोजिनः ॥१००॥

निर्यन्त्राणि सदा तत्र द्वाराणि बिलसिद्धये

इत्येतद् गुरुभिर्गीतं श्रीमद्रौरवशासने ॥१०१॥

इत्थं एष लवणसमुद्रः प्रतिपादितः

तद्बहिः षडमी द्वीपाः प्रत्येकं स्वार्णवैर्वृताः ॥१०२॥

क्रमद्विगुणिताः षड्भिर्मनुपुत्रैरधिष्ठिताः

शाककुशक्रौञ्चाः शल्मलिगोमेधाब्जमिति षड्द्वीपाः

क्षीरदधिसर्पिरैक्षवमदिरामधुराम्बुकाः षडम्बुधयः ॥१०३॥

मेधातिथिर्वपुष्माञ्ज्योतिष्मान्द्युतिमता हवी राजा

संवर इति शाकादिषु जम्बुद्वीपे न्यरूपि चाग्नीध्रः ॥१०४॥

गिरिसप्तकपरिकल्पिततावत्खण्डास्तु पञ्च शाकाद्याः

पुष्करसंज्ञो द्विदलो हरियमवरुणेन्दवोऽत्र पूर्वादौ ॥१०५॥

त्रिपञ्चाशच्च लक्षाणि द्विकोट्ययुतपञ्चकम्

स्वाद्वर्णवान्तं मेर्वर्धाद्योजननामियं प्रमा ॥१०६॥

सप्तमजलधेर्बाह्ये हैमी भूः कोटिदशकमथ लक्षम्

उच्छ्रित्या विस्तारादयुतं लोकेतराचलः कथितः ॥१०७॥

लोकालोकदिगष्टक संस्थं रुद्राष्टकं सलोकेशम्

केवलमित्यपि केचिल्लोकालोकान्तरे रविर्न बहिः ॥१०८॥

पितृदेवपथावस्योदग्दक्षिणगौ स्वजात्परे वीथ्यौ

भानोरुत्तरदक्षिणमयनद्वयमेतदेव कथयन्ति ॥१०९॥

सर्वेषामुत्तरो मेरुर्लोकालोकश्च दक्षिणः।

उदयास्तमयावित्थं सूर्यस्य परिभावयेत् ॥११०॥

अर्धरात्रो ̕मरावत्यां याम्यायामस्तमेव

मध्यन्दिनं तद्वारुण्यां सौम्ये सूर्योदयः स्मृतः ॥१११॥

उदयो योऽमरावत्यां सोऽर्धरात्रो यमालये

केऽस्तं सौम्ये मध्याह्न इत्थं सूर्यगतागते ॥११२॥

पञ्चत्रिं शत्कोटिसंख्या लक्षाण्येकोनविंशतिः

चत्वारिंशत्सहस्राणि ध्वान्तं लोकाचलाद्बहिः ॥११३॥

सप्तसागरमानस्तु गर्भोदाख्यः समुद्रराट्

लोकालोकस्य परतो यद्गर्भे निखिलैव भूः ॥११४॥

सिद्धातन्त्रेऽत्र गर्भाब्धेस्तीरे कौशेयसंज्ञितम्

मण्डलं गरुडस्तत्र सिद्धपक्षसमावृतः ॥११५॥

क्रीडन्तिं पर्वताग्रे ते नव चात्र कुलाद्रयः

तत उष्णोदकास्त्रिंशन्नद्यःपातालगास्ततः ॥११६॥

चतुर्दिङ्नैमिरोद्यानं योगिनीसेवितं सदा

ततो मेरुस्ततो नागा मेघा हेमाण्डकं ततः ॥११७॥

ब्रह्मणोऽण्डकटाहेन मेरोरर्धेन कोटयः

पञ्चाशदेवं दशसु दिचु भूर्लोकसंज्ञितम् ॥११८॥

पशुखगमृगतरुमानुषसरीसृपैः षड्भिरेष भूर्लोकः

व्याप्तः पिशाचरक्षोगन्धर्वाणां सयक्षाणाम् ॥११९॥

विद्याभृतां किं वा बहुना सर्वस्य भूतसर्गस्य

अभिमानतो यथेष्टं भोगस्थानं निवासश्च ॥१२०॥

भुवर्लोकस्तथा त्वार्काल्लक्षमेकं तदन्तरे

दश वायुपथास्ते प्रत्येकमयुतान्तराः ॥१२१॥

आद्यो वायुपथस्तत्र विततः परिचर्च्यते

पञ्चाशद्योजनोर्ध्वे स्यादृतर्द्धिर्नाम मारुतः ॥१२२॥

आप्यायकः जन्तूनां ततः प्राचेतसो भवेत्

पञ्चाशद्योजनादूर्ध्व तस्मादूर्ध्व शतेन तु ॥१२३॥

सेनानीवायुरत्रैते मूकमेघास्तडिन्मुचः

ये मह्याः क्रोशमात्रेण तिष्ठन्ति जलवर्षिणः ॥१२४॥

तेभ्य ऊर्ध्व शतान्मेघा भेकादिप्राणिवर्षिणः

पञ्चाशदूर्ध्वमोघो ̕त्र विषवारिप्रवर्षिणः ॥१२५॥

मेघाः स्कन्दोद्भवाश्चान्ये पिशाचा ओघमारुते

ततः पञ्चाशदूर्ध्वं स्युर्मेघा मारकसंज्ञकाः ॥१२६॥

तत्र स्थाने महादेवजन्मानस्ते विनायकाः

ये हरन्ति कृतं कर्म नराणामकृतात्मनाम् ॥१२७॥

पञ्चाशदूर्ध्वं वज्राङ्को वायुरत्रोपलाम्बुदाः

विद्याधराधमाश्चात्र वज्राङ्के संप्रतिष्ठिताः ॥१२८॥

ये विद्यापौरुषे ये श्मशानादिप्रसाधने

मृतास्तत्सिद्धिसिद्धास्ते वज्रांके मरुति स्थिताः ॥१२९॥

पञ्चाशदूर्ध्वं वज्रांकाद्वैद्युतोऽशनिवर्षिणः

अब्दा अप्सरसश्चात्र ये पुण्यकृतो नराः ॥१३०॥

भृगौ वह्नौ जले ये संग्रामे चानिवर्तिनः

गोग्रहे वध्यमोक्षे वा मृतास्ते वैद्युते स्थिताः ॥१३१॥

वैद्युताद्रैवतस्तावांस्तत्र पुष्टिवहाम्बुदाः

ऊर्ध्वं रोगाम्बुमुचः संवर्तास्तदनन्तरे ॥१३२॥

रोचनाञ्जनभस्मादिसिद्धास्तत्रैव रैवते

क्रोधोदकमुचां स्थानं विषावर्तः मारुतः ॥१३३॥

पञ्चाशदूर्ध्वं तत्रैव दुर्दिनाब्दा हुताशजाः

विद्याधरविशेषाश्च तथा ये परमेश्वरम् ॥१३४॥

गान्धर्वेण सदार्चन्ति विषावर्तेऽथ ते स्थिताः

विषावर्ताच्छतादूर्ध्व दुर्जयः श्वाससंभवः ॥१३५॥

ब्रह्मणोऽत्र स्थिता मेघाः प्रलये वातकारिणः

पुष्कराब्दा वायुगमा गन्धर्वाश्च परावहे ॥१३६॥

जीमूतमेघास्तत्संज्ञास्तथा विद्याधरोत्तमाः

ये रूपव्रता लोका आवहे ते प्रतिष्ठिताः ॥१३७॥

महावहे त्वीशकृताः प्रजाहितकराम्बुदाः

महापरिवहे मेघाः कपालोत्था महेशितुः ॥१३८॥

महापरिवहान्तोऽयमृतर्द्धेः प्राङ्मरुत्पथः

अग्निकन्या मातरश्च रुद्रशक्त्या त्वधिष्ठिताः ॥१३९॥

द्वितीये तत्परे सिद्धचारणा निजकर्मजाः

तुर्ये देवायुधान्यष्टौ दिग्गजाः पञ्चमे पुनः ॥१४०॥

षष्ठे गरुत्मानन्यस्मिङ्गङ्गान्यत्र वृषो विभुः

दक्षस्तु नवमे ब्रह्मशक्त्या समधिति[नि]ष्ठितः ॥१४१॥

दशमे वसवो रुद्रा आदित्याश्च मरुत्पथे

नवयोजनसाहस्रो विग्रहो ̕र्कस्य मण्डलम् ॥१४२॥

त्रिगुणं ज्ञानशक्तिः सा तपत्यर्कतया प्रभोः

स्वर्लोकस्तु भुवर्लोकाद्ध्रुवान्तं परिभाष्यते ॥१४३॥

सूर्याल्लक्षेण शीतांशुः क्रियाशक्तिः शिवस्य सा

चन्द्राल्लक्षेण नाक्षत्रं ततो लक्षद्वयेन तु ॥१४४॥

प्रत्येकं भौमतः सूर्यसुतान्ते पञ्चकं विदुः

सौराल्लक्षेण सप्तर्षिवर्गस्तस्माद्ध्रुवस्तथा ॥१४५॥

ब्रह्मैवापररूपेण ब्रह्मस्थाने ध्रुवोऽचलः

मेधीभूतो विमानानां सर्वेषामुपरि ध्रुवः ॥१४६॥

अत्र बद्धानि सर्वाण्यप्यूह्यन्ते ̕निलमण्डले

स्वस्सप्त मारुतस्कन्धा आमेघाद्याः प्रधानतः ॥१४७॥

इतश्च क्रतुहोत्रादि कृत्वा ज्ञानविवर्जिताः

स्वर्यान्ति तत्क्षये लोकं मानुष्यं पुण्यशेषतः ॥१४८॥

एवं भूमेर्ध्रुवान्तं स्याल्लक्षाणि दश पञ्च

द्वे कोटी पञ्च चाशीतिर्लक्षाणि स्वर्गतो महान् ॥१४९॥

मार्कण्डाद्या ऋषिमुनिसिद्धास्तत्र प्रतिष्ठिताः

निवर्तिताधिकाराश्च देवा महति संस्थिताः ॥१५०॥

महान्तराले तत्रान्ये त्वधिकारभुजो जनाः

अष्टौ कोट्यो महल्लोकाज्जनोऽत्र कपिलादयः ॥१५१॥

तिष्ठन्ति साध्यास्तत्रैव बहवः सुखभागिनः

जनात्तपोर्ककोट्योऽत्र सनकाद्या महाधियः ॥१५२॥

प्रजापतीनां तत्राधिकारो ब्रह्मात्मजन्मनाम्

ब्रह्मालयस्तु तपसः सत्यः षोडश कोटयः ॥१५३॥

तत्र स्थितः स्वयम्भूर्विश्वमाविष्करोत्यदः

सत्ये वेदास्तथा चान्ये कर्मध्यानेन भाविताः ॥१५४॥

आनन्दनिष्ठास्तत्रोर्ध्वेकोटिर्वैरिञ्चमासनम्

ब्रह्मासनात्कोटियुग्मं पुरं विष्णोर्निरूपितम् ॥१५५॥

ध्यानपूजाजपैर्विष्णोर्भक्ता गच्छन्ति तत्पदम्

वैष्णवात्सप्तकोटीभिर्भुवनं परमेशितुः ॥१५६॥

रुद्रस्य सृष्टिसंहारकर्तुर्ब्रह्माण्डवर्त्मनि

दीक्षाज्ञानविहीना ये लिङ्गाराधनतत्पराः ॥१५७॥

ते यान्त्यण्डान्तरे रौद्रं पुरं नाधः कदाचन

तत्स्थाः सर्वे शिवं यान्ति रुद्राः श्रीकण्ठदीक्षिताः ॥१५८॥

अधिकारक्षये साकं रुद्रकन्यागणेन ते

पुरं पुरं रुद्रोर्ध्वमुत्तरोत्तरवृद्धितः ॥१५९॥

ब्रह्माण्डाधश्च रुद्रोर्ध्व दण्डपाणेः पुरं

शिवेच्छया दृणात्यण्डं मोक्षमार्ग करोति ॥१६०॥

शर्वरुद्रौ भीमभवावुग्रो देवो महानथ

ईशान इति भूर्लोकात् सप्त लोकेश्वराः शिवाः ॥१६१॥

स्थूलैर्विशेषैरारब्धाः सप्त लोकाः परे पुनः

सूक्ष्मैरिति गुरुश्चैव रुरौ सम्यङ्न्यरूपयत् ॥१६२॥

ये ब्रह्मणादिसर्गे स्वशरीरान्निर्मिताः प्रभूताख्याः

स्थूलाः पञ्च विशेषाः सप्तामी तन्मया लोकाः ॥१६३॥

परतो लिङ्गाधारैः सूक्ष्मैस्तन्मात्रजैर्महाभूतैः

लोकानामावरणैर्विष्टभ्य परस्पेरण गन्धाद्यैः ॥१६४॥

कालाग्नेर्दण्डपाण्यन्तमष्टानवतिकोटयः

अत ऊर्ध्वं कटाहोऽण्डे घनः कोटियोजनम् ॥१६५॥

पञ्चाशत्कोटयश्चोर्ध्वं भूपृष्ठादधरं तथा

एवं कोटिशतं भूः स्यात् सौवर्णस्तण्डुलस्ततः ॥१६६॥

शतरुद्रावधिर्हुफट् भेदयेत्तत्तु दुःशमम्

प्रतिदिक्कं दश दशेत्येवं रुद्रशतं बहिः ॥१६७॥

ब्रह्माण्डाधारकं तच्च स्वप्रभावेण सर्वतः

अण्डस्वरूपं गुरुभिश्चोक्तं श्रीरौरवादिषु ॥१६८॥

व्यक्तेरभिमुखीभूतः प्रच्युतः शक्तिरूपतः

आवापवाननिर्भक्तो वस्तुपिण्डो ̕ण्ड उच्यते ॥१६९॥

तमोलेशानुविद्धस्य कपालं सत्त्वमुत्तरम्

रजोऽनुविद्धं निर्मृष्टं सत्त्वमस्याधरं तमः ॥१७०॥

वस्तुपिण्ड इति प्रोक्तं शिवशक्तिसमूहभाक्

अण्डः स्यादिति तद्व्यक्तौ संमुखीभाव उच्यते ॥१७१॥

तथापि शिवमग्नानां शक्तीनामण्डता भवेत्

तदर्थ वाक्यमपरं ता हि च्युतशक्तितः ॥१७२॥

तन्वक्षादौ मा प्रसाङ्क्षीदण्डतेति पदान्तरम्

तन्वक्षादिषु नैवास्ते कस्याप्यावापनं यतः ॥१७३॥

तन्वक्षसमुदायत्वे कथमेकत्वमित्यतः

अनिर्भक्त इति प्रोक्तं साजात्यपरिदर्शकम् ॥१७४॥

विनापि वस्तुपिण्डाख्यपदेनैकैकशो भवेत्

तत्त्वेष्वण्डस्वभावत्वं नन्वेवमपि किं तत् ॥१७५॥

गुणतन्मात्रभूतौघमये तत्त्वे प्रसज्यते

उच्यते वस्तुशब्देन तन्वक्षभुवनात्मकम् ॥१७६॥

रूपमुक्तं यतस्तेन तत्समूहो ̕ण्ड उच्यते

भवेच्च तत्समूहत्वं पत्युर्विश्ववपुर्भृतः ॥१७७॥

तदर्थ भेदकान्यन्यान्युपात्तानीति दर्शितम्

तावन्मात्रास्ववस्थासु मायाधीने ̕ध्वमण्डले ॥१७८॥

मा भूदण्डत्वमित्याहुरन्ये भेदकयोजनम्

इत्थमुक्तविरिञ्चाण्डमृतो रुद्राः शतं हि यत् ॥१७९॥

तेषां स्वे पतयो रुद्रा एकादश महार्चिषः

अनन्तोऽथ कपाल्याग्निर्यमनैरृतकौ बलः ॥१८०॥

शीघ्रो निधीशो विद्येशः शम्भुः सवीरभद्रकः

मधु मधुकृतः कदम्बं केसरजालानि यद्वदावृणते ॥१८१॥

तद्वत्ते शिवरुद्रा ब्रह्माण्डमसंख्यपरिवाराः

शराष्टनियुतं कोटिरित्येषां सन्निवेशनम् ॥१८२॥

श्रीकण्ठाधिष्ठितास्ते सृजन्ति संहरन्ति

ईश्वरत्वं दिविषदामिति रौरववार्तिके ॥१८३॥

सिद्धातन्त्रे तु हेमाण्डाच्छतकोटेर्बहिः शतम्

अण्डानां क्रमशो द्विद्विगुणं रूप्यादियोजितम् ॥१८४॥

तेषु क्रमेण ब्रह्माणः संस्युर्द्विगुणजीविताः

क्षीयन्ते क्रमशस्ते तदन्ते तत्त्वमम्मयम् ॥१८५॥

धरातो ̕त्र जलादि स्यादुत्तरोत्तरतः क्रमात्

दशधाहङ्कृतान्तं धीस्तस्याः स्याच्छतधा ततः ॥१८६॥

सहस्रधा व्यक्तमतः पौंस्नं दशसहस्रधा

नियतिर्लक्षधा तस्मात्तस्यास्तु दशलक्षधा ॥१८७॥

कलान्तं कोटिधा तस्मान्माया विद्दशकोटिधा

ईश्वरः शतकोटिः स्यात्तस्मात्कोटिसहस्रधा ॥१८८॥

सादाख्यं व्यश्नुते तच्च शक्तिर्वृन्देन संख्यया

व्यापिनी सर्वमध्वानं व्याप्यदेवी व्यवस्थिता ॥१८९॥

अप्रमेयं ततः शुद्धं शिवतत्त्वं परं विदुः

जलादेः शिवतत्त्वान्तं दृष्टं केनचिच्छिवात् ॥१९०॥

ऋते ततः शिवज्ञानं परमं मोक्षकारणम्

तथा चाह महादेवः श्रीमत्स्वच्छन्दशासने ॥१९१॥

नान्यथा मोक्षमायाति पशुर्ज्ञानशतैरपि

शिवज्ञानं भवति दीक्षामप्राप्य शाङ्करीम् ॥१९२॥

प्राक्तनी पारमेशी सा पौरुषेयी सा पुनः

शतरुद्रोर्ध्वतो भद्रकाल्या नीलप्रभं जयम् ॥१९३॥

यज्ञदानतपसा प्राप्यं काल्याः पुरं जयम्

तद्भक्तास्तत्र गच्छन्ति तन्मण्डलसुदीक्षिताः ॥१९४॥

निर्बीजदीक्षया मोक्षं ददाति परमेश्वरी

विद्येशावरणे दीक्षां यावतीं कुरुते नृणाम् ॥१९५॥

तावतीं गतिमायान्ति भुवनेऽत्र निवेशिताः

ततः कोट्या वीरभद्रो युगान्ताग्निसमप्रभः ॥१९६॥

विजयाख्यं पुरं चास्य ये स्मरन्तो महेश्वरम्

जलेषु मरुषु चाग्नौ शिरश्छेदेन वा मृताः ॥१९७॥

ते यान्ति बोधमैशानं वीरभद्रं महाद्युतिम्

वैरभद्रोर्ध्वतः कोटिर्विष्कम्भाद्विस्तृतं त्रिधा ॥१९८॥

रुद्राण्डं सालिलं त्वण्डं शक्रचापाकृति स्थितम्

वीरभद्रभुवनाद्भद्रकाल्यालयात्तथा ॥१९९॥

त्रयोदशभिरन्यैश्च भुवनैरुपशोभितम्

ततो भुवः सहाद्रेः पूर्गन्धतन्मात्रधारणात् ॥२००॥

मृता गच्छन्ति तां भूमिं धरित्र्याः परमां बुधाः

अब्धेः पुरं ततस्त्वाप्यं रसतन्मात्रधारणात् ॥२०१॥

ततः श्रियः पुरं रुद्रक्रीडावतरणेष्वथ

प्रयागादौ श्रीगिरौ विशेषान्मरणेन तत् ॥२०२॥

सारस्वतं पुरं तस्माच्छब्दब्रह्मविदां पदम्

रुद्रोचितास्ता मुख्यत्वाद्रुद्रेभ्योऽन्यास्तथा स्थिताः ॥२०३॥

पुरेषु बहुधा गङ्गा देवादौ श्रीः सरस्वती

लकुलाद्यमरेशान्ता अष्टावप्सु सुराधिपाः ॥२०४॥

ततस्तु तैजसं तत्त्वं शिवाग्नेरत्र संस्थितिः

ते चैनं वह्निमायान्ति वाह्नीं ये धारणां श्रिताः ॥२०५॥

भैरवादिहरीन्द्वन्तं तैजसे नायकाष्टकम्

प्राणस्य भुवनं वायोर्दशधा दशधा तु तत् ॥२०६॥

ध्यात्वा त्यक्त्वाथ वा प्राणान् कृत्वा तत्रैव धारणाम्

तं विशन्ति महात्मानो वायुभूताः खमूर्तयः ॥२०७॥

भीमादिगयपर्यन्तमष्टकं वायुतत्त्वगम्

खतत्त्वे भुवनं व्योम्नः प्राप्यं तद्व्योमधारणात् ॥२०८॥

वस्त्रापदान्तं स्थाण्वादि व्योमतत्त्वे सुराष्टकम्

अदीक्षिता ये भूतेषु शिवतत्त्वाभिमानिनः ॥२०९॥

ज्ञानहीना अपि प्रौढधारणास्तेऽण्डतो बहिः

धराब्धितेजो ̕निलखपुरगा दीक्षिताश्च वा ॥२१०॥

तावत्संस्कारयोगार्थं परं पदमीहितुम्

तथाविधावतारेषु मृताश्चायतनेषु ये ॥२११॥

तत्पदं ते समासाद्य क्रमाद्यान्ति शिवात्मताम्

पुनः पुनरिदं चोक्तं श्रीमद्देव्याख्ययामले ॥२१२॥

श्रीकामिकायां कश्मीरवर्णने चोक्तवान्विभुः

सुरेश्वरीमहाधाम्नि ये म्रियन्ते तत्पुरे ॥२१३॥

ब्राह्मणाद्याः सङ्करान्ताः पशवः स्थावरान्तगाः

रुद्रजातय एवैते इत्याह भगवाञ्छिवः ॥२१४॥

आकाशावरणादूर्ध्वमहङ्कारादधः प्रिये

तन्मात्रादिमनोऽन्तानां पुराणि शिवशासने ॥२१५॥

पञ्चवर्णयुतं गन्धतन्मात्रमण्डलं महत्

आच्छाद्य योजनानेककोटिभिः स्थितमन्तरा ॥२१६॥

एवं रसादिमात्राणां मण्डलानि स्ववर्णत

शर्वो भवः पशुपतिरीशो भीम इति क्रमात् ॥२१७॥

तन्मात्रेशा यदिच्छातः शब्दाद्याः खादिकारिणः

ततः सूर्येन्दुवेदानां मण्डलानि विभुर्महान् ॥२१८॥

उग्रश्चेत्येषु पतयस्तेभ्यो ̕र्केन्दू सयाजकौ

इत्यष्टौ तनवः शंभोर्याः पराः परिकीर्तिताः ॥२१९॥

अपरा ब्रह्मणोऽण्डे ता व्याप्य सर्वं व्यवस्थिताः

कल्पे कल्पे प्रसूयन्ते धराद्यास्ताभ्य एव तु ॥२२०॥

ततो वागादिकर्माक्षयुक्तं करणमण्डलम्

अग्नीन्द्रविष्णुमित्राः सब्रह्माणस्तेषु नायकाः ॥२२१॥

प्रकाशमण्डलं तस्माच्छ्रुतं बुद्ध्यक्षपञ्चकम्

दिग्विद्युदर्कवरुणभुवः श्रोत्रादिदेवताः ॥२२२॥

प्रकाशमण्डलादूर्ध्वं स्थितं पञ्चार्थमण्डलम्

मनोमण्डलमेतस्मात् सोमेनाधिष्ठितं यतः ॥२२३॥

बाह्यदेवेष्वधिष्ठाता साम्यैश्वर्यसुखात्मकः

मनोदेवस्ततो दिव्यः सोमो विभुरुदीरितः ॥२२४॥

ततोऽपि सकलाक्षाणां योनेर्बुद्ध्यक्षजन्मनः

स्थूलादिच्छगलान्ताष्टयुक्तं चाहङ्कृतेः पुरम् ॥२२५॥

बुद्धितत्त्वं ततो देवयोन्यष्टकपुराधिपम्

पैशाचप्रभृतिब्राह्मपर्यन्तं तच्च कीर्तितम् ॥२२६॥

एतानि देवयोनीनां स्थानान्येव पुराण्यतः

अवतीर्यात्मजन्मानं ध्यायन्तः संभवन्ति ते ॥२२७॥

परमेशनियोगाच्च चोद्यमानाश्च मायया

नियामिता नियत्या ब्रह्मणोऽव्यक्तजन्मनः ॥२२८॥

व्यज्यन्ते तेन सर्गादौ नामरूपैरनेकधा

स्वांशनैव महात्मानो त्यजन्ति स्वकेतनम् ॥२२९॥

उक्तं शिवतनाविदमधिकारपदस्थितेन गुरुणा नः

अष्टानां देवानां शक्त्याविर्भावयोनयो ह्येताः ॥२३०॥

तनुभोगाः पुनरेषामधः प्रभूतात्मकाः प्रोक्ताः

चत्वारिंशत्तुल्योपभोगदेशाधिकानि भुवनानि ॥२३१॥

साधनभेदात्केवलमष्टकपञ्चकतयोक्तानि

एतानि भक्तियोगप्राणत्यागादिगम्यानि ॥२३२॥

तेषूमापतिरेव प्रभुः स्वतन्त्रेन्द्रियो विकरणात्मा

तरतमयोगेन ततोऽपि देवयोन्यष्टकं लक्ष्यं तु ॥२३३॥

लोकानामक्षाणि विषयपरिच्छित्तिकरणानि

गन्धादेर्महदन्तादेकाधिक्येन जातमैश्वर्यम् ॥२३४॥

अणिमाद्यात्मकमस्मिन्पैशाचाद्ये विरिञ्चान्ते

ज्ञात्वैवं शोधयेद्बुद्धिं सार्धं पुर्यष्टकेन्द्रियैः ॥२३५॥

क्रोधेशाष्टकमानीलं संवर्ताद्यं ततो विदुः

तेजोष्टकं बलाध्यक्षप्रभृतिक्रोधनाष्तकात् ॥२३६॥

अकृतादि ततो बुद्धौ योगाष्टकमुदाहृतम्

स्वच्छन्दशासने तत्तु मूले श्रीपूर्वशासने ॥२३७॥

योगाष्टकपदे यत्तु सोमे श्रैकण्ठमेव

ततो मायापुरं भूयः श्रीकण्ठस्य कथ्यते ॥२३८॥

तेन द्वितीयं भुवनं तयोः प्रत्येकमुच्यते

तत्र मायापुरं देव्या यया विश्वमधिष्ठितम् ॥२३९॥

प्रतिकल्पं नामभेदैर्भण्यते सा महेश्वरी

उमापतेः पुरं पश्चान्मातृभिः परिवारितम् ॥२४०॥

श्रीकण्ठ एव परया मूर्त्योमापतिरुच्यते

ब्राह्म्यैशी स्कन्दजा हारी वाराह्यैन्द्री सविच्चिका [चर्चिका] ॥२४१॥

पीता शुक्ला पीतनीले नीला शुक्लारुणा क्रमात्

अग्नीशसौम्ययाम्याप्यपूर्वनैरृतगास्तु ताः ॥२४२॥

अंशेन मानुषे लोके धात्रा ता ह्यवतारिताः

स्वच्छन्दास्ताः पराश्चान्याः परे व्योम्नि व्यवस्थिताः ॥२४३॥

स्वच्छन्दं ता निषेवन्ते सप्तधेयमुमा यतः

उमापतिपुरस्योर्ध्व स्थितं मूर्त्यष्टकं परम् ॥२४४॥

शर्वादिकं यस्य सृष्टिर्धराद्या याजकान्ततः

ताभ्य ईशानमूर्तिर्या सा मेरौ संप्रतिष्ठिता ॥२४५॥

श्रीकण्ठः स्फटिकाद्रौ सा व्याप्ता तन्वष्टकैर्जगत्

ये योगं सगुणं शम्भोः संयताः पर्युपासते ॥२४६॥

तन्मण्डलं वा दृष्ट्वैव मुक्तद्वैता हृतत्रयाः

गुणानामाधरौत्तर्याच्छुद्धाशुद्धत्वसंस्थितेः ॥२४७॥

तारतम्याच्च योगस्य भेदात्फलविचित्रता

ततो भोगफलावाप्तिभेदाद्भेदो ̕यमुच्यते ॥२४८॥

मूर्त्यष्टकोपरिष्टात्तु सुशिवा द्वादशोदिताः

वामाद्येकशिवान्तास्ते कुङ्कुमाभाः सुतेजसः ॥२४९॥

तदूर्ध्व वीरभद्राख्यो मण्डलाधिपतिः स्थितः

यत्त [स्त] त्सायुज्यमापन्नः तेन सह मोदते ॥२५०॥

ततो ̕प्यङ्गुष्ठमात्रान्तं महादेवाष्टकं भवेत्

बुद्धितत्त्वमिदं प्रोक्तं देवयोन्यष्टकादितः ॥२५१॥

महादेवाष्टकान्ते तद् योगाष्टकमिहोदितम्

तत्र श्रैकण्ठमुक्तं यत् तस्यैवोमापतिस्तथा ॥२५२॥

मूर्तयः सुशिवा वीरो महादेवाष्टकं वपुः

उपरिष्टाद्धियोऽधश्च प्रकृतेर्गुणसंज्ञितम् ॥२५३॥

तत्त्वं तत्र तु संक्षुब्धा गुणाः प्रसुवते धियम्

वैषम्यमनापन्नं कारणं कार्यसूतये ॥२५४॥

गुणसाम्यत्मिका तेन प्रकृतिः कारणं भवेत्

नन्वेवं सापि संक्षोभं विना तान्विषमान्गुणान् ॥२५५॥

कथं सुवीत तत्राद्ये क्षोभे स्यादनवस्थितिः

सांख्यस्य दोष एवायं यदि वा तेन ते गुणाः ॥२५६॥

अव्यक्तमिष्टाः साम्यं तु सङ्गमात्रं चेतरत्

अस्माकं तु स्वतन्त्रेशतथेच्छाक्षोभसंगतम् ॥२५७॥

अव्यक्तं बुद्धितत्त्वस्य कारणं क्षोभिता गुणाः

ननु तत्त्वेश्वरेच्छातो यः क्षोभः प्रकृतेः पुरा ॥२५८॥

तदेव बुद्धितत्त्वं स्यात् किमन्यैः कल्पितैर्गुणैः

नैतत्कारणतारूपपरामर्शावरोधि यत् ॥२५९॥

क्षोभान्तरं ततः कार्य बीजोच्छूनाङ्कुरादिवत्

क्रमात्तमोरजःसत्त्वे गुरूणां पङ्क्तयः स्थिताः ॥२६०॥

तिस्रो द्वात्रिंशदेकातस्त्रिंशदप्येकविंशतिः

स्वज्ञनयोगबलतः क्रीडन्तो दैशिकोत्तमाः ॥२६१॥

त्रिनेत्राः पाशनिर्मुक्तास्तेऽत्रानुग्रहकारिणः

बुद्धेश्च गुणपर्यन्तमुभे सप्ताधिके शते ॥२६२॥

रुद्राणां भुवनानां मुख्यतो ̕न्ये तदन्तरे

योगाष्टकं गुणस्कन्धे प्रोक्तं शिवतनौ पुनः ॥२६३॥

योनीरतीत्य गौणे स्कन्धे स्युर्योगदातारः

अकृतकृतविभुविरिञ्चा हरिर्गुहः क्रमवशात्ततो देवी ॥२६४॥

करणान्यणिमादिगुणाः कार्याणि प्रत्ययप्रपञ्चश्च

अव्यक्तादुत्पन्ना गुणाश्च सत्त्वादयोऽमीषाम् ॥२६५॥

धर्मज्ञानविरागानैश्वर्यं तत्फलानि विविधानि

यच्छन्ति गुणेभ्योऽमी पुरुषेभ्यो योगदातारः ॥२६६॥

तेभ्यः परतो भुवनं सत्त्वादिगुणासनस्य देवस्य

सकलजगदेकमातुर्भर्तुः श्रीकण्ठनाथस्य ॥२६७॥

येनोमागुहनीलब्रह्मऋभुक्षकृताकृतादिभुवनेषु

ग्रहरूपिण्या शक्त्या प्राभ्व्याधिष्ठानि भूतानि ॥२६८॥

उपसंजिहीर्षुरिह यश्चतुराननपङ्कजं समाविश्य

दग्ध्वा चतुरो लोकाञ्जनलोकान्निर्मिणोति पुनः ॥२६९॥

यस्येच्छातः सत्त्वादिगुणशरीरा विसृजति रुद्राणी

अनुकल्पो रुद्राण्या वेदी तत्रेज्यते ̕नुकल्पेन ॥२७०॥

पशुपतिरिन्द्रोपेन्द्रविरिञ्चैरथ तदुपलम्भतो देवैः

गन्धर्वयक्षराक्षसपितृमुनिभिश्चित्रितास्तथा यागाः ॥२७१॥

गुणानां यत्परं साम्यं तदव्यक्तं गुणोर्ध्वतः

क्रोधेशचण्डसंवर्ता ज्योतिःपिङ्गलसूरकौ ॥२७२॥

पञ्चान्तकैकवीरौ शिखोदश्चाष्ट तत्र ते

गहनं पुरुषनिधानं प्रकृतिर्मूलं प्रधानमव्यक्तम् ॥२७३॥

गुणकारणमित्येते मायाप्रभवस्य पर्यायाः

यावन्तः क्षेत्रज्ञाः सहजागन्तुकमलोपदिग्धचितः ॥२७४॥

ते सर्वेऽत्र विनिहिता रुद्राश्च तदुत्थभोगभुजः

मूढविवृत्तविलीनैः करणैः केचित्तु विकरणकाः ॥२७५॥

अकृताधिष्ठानतया कृत्याशक्तानि मूढानि

प्रतिनियतविषयभाञ्जि स्फुटानि शास्त्रे विवृत्तानि ॥२७६॥

भग्नानि महाप्रलये सृष्टौ नोत्पादितानि लीनानि

इच्छाधीनानि पुनर्विकरणसंज्ञानि कार्यमप्येवम् ॥२७७॥

पुंस्तत्त्वे तुष्टिनवकं सिद्धयोऽष्टौ तत्पुरः

तावत्य एवाणिमादिभुवनाष्टकमेव ॥२७८॥

अतत्त्वे तत्त्वबुद्ध्या यः सन्तोषस्तुष्टिरत्र सा

हेयेऽप्यादेयधीः सिद्धिः तथा चोक्तं हि कापिलैः ॥२७९॥

आध्यात्मिकाश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः

पञ्च विषयोपरमतोऽर्जनरक्षासङ्गसंक्षयविघातैः ॥२८०॥

ऊहः शब्दो ̕ध्ययनं दुःखविघातास्त्रयः सुहृत्प्राप्तिः

दानं सिद्धयोऽष्टौ सिद्धेः पूर्वोऽङ्कुशस्त्रिविधः ॥२८१॥

अणिमाद्यूर्ध्वतस्तिस्रः पङ्क्तयो गुरुशिष्यगाः

तत्रापि त्रिगुणच्छायायोगात् त्रित्वमुदाहृतम् ॥२८२॥

नाडीविद्याष्टकं चोर्ध्वं पङ्क्तीनां स्यादिडादिकम्

पुंसि नादमयी शक्तिः प्रसराख्या यत्स्थिता ॥२८३॥

ह्यकर्ता पुमान्कर्तुः कारणत्वं संस्थितम्

अकर्तर्यपि वा पुंसि सहकारितया स्थिते ॥२८४॥

शेषकार्यात्मतैष्टव्यान्यथा सत्कार्यहानितः

तस्मात्तथाविधे कार्ये या शक्तिः पुरुषस्य सा ॥२८५॥

तावन्ति रूपाण्यादाय पूर्णतामधिगच्छति

नाड्यष्टकोर्ध्वे कथितं विग्रहाष्टकमुच्यते ॥२८६॥

कार्यं हेतुर्दुःखं सुखं विज्ञानसाध्यकरणानि

साधनमिति विग्रहतायुगष्टकं भवति पुंस्तत्त्वे ॥२८७॥

भुवनं देहधर्माणां दशानां विग्रहाष्टकात्

अहिंसा सत्यमस्तेयं ब्रह्माकल्काक्रुधो गुरोः ॥२८८॥

शुश्रूषाशौचसन्तोषा ऋजुतेति दशोदिताः

पुंस्तत्त्व एव गन्धान्तं स्थितं षोडशकं पुनः ॥२८९॥

आरभ्य देहपाशाख्यं पुरं बुद्धिगुणास्ततः

तत्रैवाष्टावहंकारस्त्रिधा कामादिकास्तथा ॥२९०॥

पाशा आगन्तुकगाणेशवैद्येश्वरभेदिताः

त्रिविधास्ते स्थिताः पुंसि मोक्षमार्गोपरोधकाः ॥२९१॥

यत्किंचित्परमाद्वैतसंवित्स्वातन्त्र्यसुन्दरात्

पराच्छिवादुक्तरूपादन्यत्तत्पाश उच्यते ॥२९२॥

तदेवं पुंस्त्वमापन्ने पूर्णे ̕पि परमेश्वरे

तत्स्वरूपापरिज्ञानं चित्रं हि पुरुषास्ततः ॥२९३॥

उक्तानुक्तास्तु ये पाशाः परतन्त्रोक्तलक्षणाः

ते पुंसि सर्वे तांस्तत्र शोधयन्मुच्यते भवात् ॥२९४॥

पुंस ऊर्ध्व तु नियतिस्तत्रस्थाः शंकरा दश

हेमाभाः सुसिताः कालतत्त्वे तु दश ते शिवाः ॥२९५॥

कोटिः षोडशसाहस्रं प्रत्येकं परिवारिणः

रागे वीरेशभुवनं गुर्वन्तेवासिनां पुरम् ॥२९६॥

पुरं चाशुद्धविद्यायां स्याच्छक्तिनवकोज्ज्वलम्

मनोन्मन्यन्तगास्ताश्च वामाद्याः परिकीर्तिताः ॥२९७॥

कलायां स्यान्महादेवत्रयस्य पुरमुत्तमम्

ततो माया त्रिपुटिका मुख्यतोऽनन्तकोटिभिः ॥२९८॥

आक्रान्ता सा भगबिलैः प्रोक्तं शैव्यां तनौ पुनः

अङ्गुष्ठमात्रपर्यन्तं महादेवाष्टकं निशि ॥२९९॥

चक्राष्टकाधिपत्येन तथा श्रीमालिनीमते

वामाद्याः पुरुषादौ ये प्रोक्ताः श्रीपूर्वशासने ॥३००॥

ते मायातत्त्व एवोक्तास्तनौ शैव्यामनन्ततः

कपालव्रतिनः स्वाङ्गहोतारः कष्टतापसाः ॥३०१॥

सर्वाभयाः खड्गधाराव्रतास्तत्तत्त्ववेदिनः

क्रमात्तत्तत्त्वमायान्ति यत्रेशोऽनन्त उच्यते ॥३०२॥

उक्तं तस्य परतः स्थानमनन्ताधिपस्य देवस्य

स्थितिविलयसर्गकर्तुर्गुहाभगद्वारपालस्य ॥३०३॥

धर्मानणिमादिगुणाञ्ज्ञानानि तपःसुखानि योगांश्च

मायाबिलात्प्रदत्ते पुंसां निष्कृष्य निष्कृष्य ॥३०४॥

तच्छक्तीद्धस्वबला गुहाधिकारान्धकारगुणदीपाः

सर्वे ̕नन्तप्रमुखा दीप्यन्ते शतभवप्रमुखान्ताः ॥३०५॥

सो ̕व्यक्तमधिष्ठाय प्रकरोति जगन्नियोगतः शम्भोः

शुद्धाशुद्धस्रोतो ̕धिकारहेतुः शिवो यस्मात् ॥३०६॥

शिवगुणयोगे तस्मिन् महति पदे ये प्रतिष्ठिताः प्रथमम्

तेऽनन्तादेर्जगतः सर्गस्थितिविलयकर्तारः ॥३०७॥

मायाबिलमिदमुक्तं परतस्तु गुहा जगद्योनिः

उत्पत्त्या तेष्वस्याः पतिशक्तिक्षोभमनुविधीयमानेषु ॥३०८॥

योनिविवरेषु नानाकामसमृद्धेषु भगसंज्ञा

कामयते पतिरेनामिच्छानुविधायिनीं यदा देवीम् ॥३०९॥

प्रतिभगमव्यक्ताद्याः प्रजास्तदास्याः प्रजायन्ते

तेषामतिसूक्ष्माणामेतावत्त्वं वर्ण्यते विधिषु ॥३१०॥

अववरकाण्येकस्मिन्यद्वत्साले बहूनि बद्धानि

योनिबिलान्येकस्मिंस्तद्वन्मायाशिरःसाले ॥३११॥

मायापटलैः सूक्ष्मैः कुड्यैः पिहिताः परस्परमदृश्याः

निवसन्ति तत्र रुद्राः सुखिनः प्रतिबिलमसंख्याताः ॥३१२॥

स्थाने सायुज्यगताः सामीप्यगताः परे सलोकस्थाः

प्रतिभुवनमेवमयं निवासिनां गुरुभिरुद्दिष्टः ॥३१३॥

अपि सर्वसिद्धवाचः क्षीयेरन्दीर्घकालमुद्गीर्णाः

पुनर्योन्यानन्त्यादुच्यन्ते स्रोतसां संख्याः ॥३१४॥

तस्मान्निरयाद्येकं यत्प्रोक्तं द्वारपालपर्यन्तम्

स्रोतस्तेनान्यान्यपि तुल्यविधानानि वेद्यानि ॥३१५॥

अव्यक्तकले गुहया प्रकृतिकलाभ्यां विकार आत्मीयः

ओतः प्रोतो व्याप्तः कलितः पूर्णः परिक्षिप्तः ॥३१६॥

मध्ये पुटत्रयं तस्या रुद्राः षडधरेऽन्तरे

एक ऊर्ध्वे पञ्चेति द्वादशैते निरूपिताः ॥३१७॥

गहनासाध्यौ हरिहरदशेश्वरौ त्रिकलगोपती षडिमे

मध्येऽनन्तः क्षेमो द्विजेशविद्येशविश्वशिवाः ॥३१८॥

इति पञ्च तेषु पञ्चसु षट्सु पुटगेषु तत्परावृत्त्या

परिवर्त्तते स्थितिः किल देवो ̕नन्तस्तु सर्वथा मध्ये ॥३१९॥

ऊर्ध्वाधरगकपालकपुटषट्कयुगेन तत्परावृत्त्या

मध्यतोऽष्टाभिर्दिक्स्थैर्व्याप्तो ग्रन्थिर्मतङ्गशास्त्रोक्तः ॥३२०॥

श्रीसारशासने पुनरेषा षट्पुटतया विनिर्दिष्टा

ग्रन्थ्याख्यमिदं तत्त्वं मायाकार्यं ततो माया ॥३२१॥

मायातत्त्वं विभु किल गहनमरूपं समस्तविलयपदम्

तत्र भुवनविभागो युक्तो ग्रन्थावसौ तस्मात् ॥३२२॥

मायातत्त्वाधिपतिः सोऽनन्तः समुदितान्विचार्याणून्

युगपत्क्षोभयति निशां सा सूते संपुटैरनन्तैः स्वैः ॥३२३॥

तेन कलादिधरान्तं यदुक्तमावरणजालमखिलं तत्

निःसंख्यं विचित्रं मायैवैका त्वभिन्नेयम् ॥३२४॥

उक्तं श्रीपूर्वशास्त्रे धराव्यक्तात्मकं द्वयम्

असंख्यातं निशाशक्तिसंज्ञं त्वेकस्वरूपकम् ॥३२५॥

पाशाः पुरोक्ताः प्रणवाः पञ्चमानाष्टकं मुनेः

कुलं योनिश्च वागीशी यस्यां जातो जायते ॥३२६॥

दीक्षाकाले ̕धराध्वस्थशुद्धौ यच्चाधराध्वगम्

अनन्तस्य समीपे तु तत्सर्वं परिनिष्ठितम् ॥३२७॥

साध्यो दाता दमनो ध्यानो भस्मेति बिन्दवः पञ्च

पञ्चार्थगुह्यरुद्राङ्कुशहृदयलक्षणं सव्यूहम् ॥३२८॥

आकर्षादर्शौ चेत्यष्टकमेतत्प्रमाणानाम्

अलुप्तविभवाः सर्वे मायातत्त्वाधिकारिणः ॥३२९॥

मायामयशरीरास्ते भोगं स्वं परिभुञ्जते

प्रलयान्ते ह्यनन्तेन संहृतास्ते त्वहर्मुखे ॥३३०॥

अन्यानन्तप्रसादेन विबुधा अपि तं परम्

सुप्तबुद्धं मन्यमानाः स्वतन्त्रम्मन्यताजडाः ॥३३१॥

स्वात्मानमेव जानन्ति हेतुं मायान्तरालगाः

अतः परं स्थिता माया देवी जन्तुविमोहिनी ॥३३२॥

देवदेवस्य सा शक्तिरतिदुर्घटकारिता

निर्वैरपरिपन्थिन्या तया भ्रमितबुद्धयः ॥३३३॥

इदं तत्त्वमिदं नेति विवदन्तीह वादिनः

गुरुदेवाग्निशास्त्रेषु ये भक्ता नराधमाः ॥३३४॥

सत्पथं तान्परित्याज्य सोत्पथं नयति ध्रुवम्

असद्युक्तिविचारज्ञाञ्छुष्कतर्कावलम्बिनः ॥३३५॥

भ्रमयत्येव तान्माया ह्यमोक्षे मोक्षलिप्सया

शिवदीक्षासिना च्छिन्ना शिवज्ञानासिना तथा ॥३३६॥

प्ररोहेत्पुनर्नान्यो हेतुस्तच्छेदनं प्रति

महामायोर्ध्वतः शुद्धा महाविद्याथ मातृका ॥३३७॥

वागीश्वरी तत्रस्थं वामादिनवसत्पुरम्

वामा ज्येष्ठा रौद्री काली कलविकरणीबलविकारिके तथा ॥३३८॥

मथनी दमनी मनोन्मनी त्रिदृशः पीताः समस्तास्ताः

सप्तकोट्यो मुख्यमन्त्रा विद्यातत्त्वेऽत्र संस्थिताः ॥३३९॥

एकैकार्बुदलक्षांशाः पद्माकारपुरा इह

विद्याराज्ञ्यस्त्रिगुण्याद्याः सप्त सप्तार्बुदेश्वराः ॥३४०॥

विद्यातत्त्वोर्ध्वमैशं तु तत्त्वं तत्र क्रमोर्ध्वगम्

शिखण्ड्याद्यमनन्तान्तं पुराष्टकयुतं पुरम् ॥३४१॥

शिखण्डी श्रीगलो मूर्तिरेकनेत्रैकरुद्रकौ

शिवोत्तमः सूक्ष्मरुद्रोऽनन्तो विद्येश्वराष्टकम् ॥३४२॥

क्रमादूर्ध्वोर्ध्वसंस्थानं सप्तानां नायको विभुः

अनन्त एव ध्येयश्च पूज्यश्चाप्युत्तरोत्तरः ॥३४३॥

मुख्यमन्त्रेश्वराणां यत् सार्धं कोटित्रयं स्थितम्

तन्नायका इमे तेन विद्येशाश्चक्रवर्तिनः ॥३४४॥

उक्तं गुरुभिरित्थं शिवतन्वाद्येषु शासनेष्वेतत्

भगबिलशतकलितगुहामूर्धासनगो ̕ष्टशक्तियुग्देवः ॥३४५॥

गहनाद्यं निरयान्तं सृजति रुद्रांश्च विनियुङ्क्ते

उद्धरति मनोन्मन्या पुंसस्तेष्वेव भवति मध्यस्थः ॥३४६॥

ते तेनोदस्तचितः परतत्त्वालोचने ̕भिनिविशन्ते

पुनरधः पथवर्तिष्वधिकृत एवाणुषु शिवेन ॥३४७॥

अवसितपतिविनियोगः सार्धमनेकात्ममन्त्रकोटीभिः

निर्वात्यनन्तनाथस्तद्धामाविशति सूक्ष्मरुद्रस्तु ॥३४८॥

अनुगृह्याणुमपूर्वं स्थापयति पतिः शिखण्डिनः स्थाने

इत्यष्टौ परिपाट्या यावद्धामानि याति गुरुरेकः ॥३४९॥

तावदसंख्यातानां जन्तूनां निर्वृतिं कुरुते

तेऽष्टावपि शक्त्यष्टकयोगामलजलरुहासनासीनाः ॥३५०॥

आलोकयन्ति देवं हृदयस्थं कारणं परमम्

तं भगवन्तमनन्तं ध्यायन्तः स्वहृदि कारणं शान्तम् ॥३५१॥

सप्तानुध्यायन्त्यपि मन्त्राणां कोटयः शुद्धाः

मायादिरवीच्यन्तो भवस्त्वनन्तादिरुच्यतेऽप्यभवः ॥३५२॥

शिवशुद्धगुणाधीकारान्तः सो ̕प्येष हेयश्च

अत्रापि यतो दृष्टानुग्राह्याणां नियोज्यता शैवी ॥३५३॥

इष्टा तन्निवृत्तिर्ह्यभवस्त्वधरे भूयते यस्मात्

पत्युरपसर्पति यतः कारणता कार्यता सिद्धेभ्यः ॥३५४॥

कञ्चुकवच्छिवसिद्धौ तावतिभवसंज्ञयातिमध्यस्थौ

धर्मज्ञानविरागैश्यचतुष्टयपुरं तु यत् ॥३५५॥

रूपावरणसंज्ञं तत्तत्त्वे ̕स्मिन्नैश्वरे विदुः

वामा ज्येष्ठा रौद्रीति भुवनत्रयशोभितम् ॥३५६॥

सूक्ष्मावरणमाख्यातमीशतत्त्वे गुरूत्तमैः

ऐशात्सादाशिवं ज्ञानक्रियायुगलमण्डितम् ॥३५७॥

शुद्धावरणमित्याहुरुक्ता शुद्धावृतेः परम्

विद्यावृतिस्ततो भावाभावशक्तिद्वयोज्ज्वला ॥३५८॥

शक्त्यावृतिः प्रमाणाख्या ततः शास्त्रे निरूपिता

शक्त्यावृतेस्तु तेजस्विध्रुवेशाभ्यामलङ्कृतम् ॥३५९॥

तेजस्व्यावरणं वेदपुरा मानावृतिस्ततः

मानावृतेः सुशुद्धावृत्पुरत्रितयशोभिता ॥३६०॥

सुशुद्धावरणादूर्ध्व शैवमेकपुरं भवेत्

शिवावृतेरूर्ध्वमाहुर्मोक्षावरणसंज्ञितम् ॥३६१॥

अस्यां मोक्षावृतौ रुद्रा एकादश निरूपिताः

मोक्षावरणतस्त्वेकपुरमावरणं ध्रुवम् ॥३६२॥

ऊर्ध्वे ध्रुवावृतेरिच्छावरणं तत्र ते शिवाः

ईश्वरेच्छागृहान्तस्थास्तत्पुरं चैकमुच्यते ॥३६३॥

इच्छावृतेः प्रबुद्धाख्यं दिग्रुद्राष्टकचर्चितम्

प्रबुद्धावरणादूर्ध्व समयावरणं महत् ॥३६४॥

भुवनैः पञ्चभिर्गर्भीकृतानन्तसमावृति

सामयात्सौशिवं तत्र सादाख्यं भुवनं महत् ॥३६५॥

तस्मिन्सदाशिवो देवस्तस्य सव्यापसव्ययोः

ज्ञानक्रिये परेच्छा तु शक्तिरुत्सङ्गगामिनी ॥३६६॥

सृष्ट्यादिपञ्चकृत्यानि कुरुते तयेच्छया

पञ्च ब्रह्माण्यङ्गषट्कं सकलाद्यष्टकं शिवाः ॥३६७॥

दशाष्टादश रुद्राश्च तैरेव सुशिवो वृतः

सद्यो वामाघोरौ पुरुषेशौ ब्रह्मपञ्चकं हृदयम् ॥३६८॥

मूर्धशिखावर्मदृगस्त्रमङ्गानि षट् प्राहुः

सकलाकलशून्यैः सह कलाढ्यखमलङ्कृते क्षपणमन्त्यम् ॥३६९॥

कण्ठ्यौष्ठ्यमष्टमं किल सकलाष्टकमेतदाम्नातम्

कारशिवौ दीप्तो हेत्वीशदशेशकौ सुशिवकालौ ॥३७०॥

सूक्ष्मसुतेजःशर्वाः शिवाः दशैतेऽत्र पूर्वादेः

विजयो निःश्वासश्च स्वायम्भुवो वह्निवीररौरवकाः ॥३७१॥

मुकुटविसरेन्दुविन्दुप्रोद्गीता ललितसिद्धरुद्रौ

सन्तानशिवौ परकिरणपारमेशा इति स्मृता रुद्राः ॥३७२॥

सर्वेषामेतेषां ज्ञानानि विदुः स्वतुल्यनामानि

मन्त्रमुनिकोटिपरिवृत मथ विभुवामादिरुद्रतच्छक्तियुतम् ॥३७३॥

तारादिशक्तिजुष्टं सुशिवासनमतिसितकजमसंख्यदलम्

यः शक्तिरुद्रवर्गः परिवारे विष्टरे सुशिवस्य ॥३७४॥

प्रत्येकमस्य निजनिजपरिवारे परार्धकोटयो ̕संख्याः

मायामलनिर्मुक्ताः केवलमधिकारमात्रसंरूढाः ॥३७५॥

सुशिवावरणे रुद्राः सर्वज्ञाः सर्वशक्तिसम्पूर्णाः

अधिकारबन्धविलये शान्ताः शिवरूपिणो पुनर्भविनः ॥३७६॥

ऊर्ध्वे बिन्द्वावृतिर्दीप्ता तत्र तत्र पद्मं शशिप्रभम्

शान्त्यतीतः शिवस्तत्र तच्छक्त्युत्सङ्गभूषितः ॥३७७॥

निवृत्त्यादिकलावर्गपरिवारसमावृतः

असंख्यरुद्रतच्छक्तिपुरकोटिभिरावृतः ॥३७८॥

श्रीमन्मतङ्गशास्त्रे लयाख्यं तत्त्वमुत्तमम्

पारिभाषिकमित्येतन्नाम्ना बिन्दुरिहोच्यते ॥३७९॥

चतुर्मूर्तिमयं शुभ्रं यत्तत्सकलनिष्कलम्

तस्मिन्भोगः समुद्दिष्ट इत्यत्रेदं वर्णितम् ॥३८०॥

निवृत्त्यादेः सुसूक्ष्मत्वाद्धराद्यारब्धदेहता

मातुः स्फूर्जन्महाज्ञानलीनत्वान्न विभाव्यते ॥३८१॥

उद्रिक्त तैजसत्वेन हेम्नो भूपरमाणवः

यथा पृथङ्न भान्त्येवमूर्ध्वाधोरुद्रदेहगाः ॥३८२॥

बिन्दूर्ध्वेऽर्धेन्दुरेतस्य कला ज्योत्स्ना तद्वती

कान्तिः प्रभा विमला पञ्चैता रोधिकास्ततः ॥३८३॥

रुन्धनी रोधनी रोद्ध्री ज्ञानबोधा तमोपहा

एताः पञ्च कलाः प्राहुर्निरोधिन्यां गुरूत्तमाह् ॥३८४॥

अर्धमात्रः स्मृतो बिन्दुर्व्योमरूपी चतुष्कलः

तदर्धमर्धचन्द्रस्तदष्टांशेन निरोधिका ॥३८५॥

हेतून्ब्रह्मादिकान् रुन्द्धे रोधिकां तां त्यजेत्ततः

निरोधिकामिमां भित्त्वा सादाख्यं भुवनं परम् ॥३८६॥

पररूपेण यत्रास्ते पञ्चमन्त्रमहातनुः

इत्यर्धेन्दुनिरोध्यन्तबिन्द्वावृत्यूर्ध्वतो महान् ॥३८७॥

नादः किञ्जल्कसदृशो महद्भिः पुरुषैर्वृतः

चत्वारि भुवनान्यत्र दिक्षु मध्ये पञ्चमम् ॥३८८॥

इन्धिका दीपिका चैव रोधिका मोचिकोर्ध्वगा

मध्येऽत्र पद्मं तत्रोर्ध्वगामी तच्छक्तिभिर्वृतः ॥३८९॥

नादोर्ध्वतस्तु सौषुम्नं तत्र तच्छक्तिभृत्प्रभुः

तदीशः पिङ्गलेलाभ्यां वृतः सव्यापसव्ययोः ॥३९०॥

या प्रभोरङ्कगा देवी सुषुम्ना शशिसप्रभा

ग्रथितो ̕ध्वा तया सर्व ऊर्ध्वश्चाधस्तनस्तथा ॥३९१॥

नादःसुषुम्नाधारस्तु भित्त्वा विश्वमिदं जगत्

अधःशक्त्या विनिर्गच्छेदूर्ध्वशक्त्या मूर्धतः ॥३९२॥

नाड्या ब्रह्मबिले लीनः सो ̕व्यक्तध्वनिरक्षरः

नदन्सर्वेषु भूतेषु शिवशक्त्या ह्यधिष्ठितः ॥३९३॥

सुषुम्नोर्ध्वे ब्रह्मबिलसंज्ञयावरणं त्रिदृक्

तत्र ब्रह्मा सितः शूली पञ्चास्यः शशिशेखरः ॥३९४॥

तस्योत्सङ्गे परा देवी ब्रह्माणी मोक्षमार्गगा

रोद्ध्री दात्री मोक्षस्य तां भित्त्वा चोर्ध्वकुण्डली ॥३९५॥

शक्तिः सुप्ताहिसदृशी सा विश्वाधार उच्यते

तस्यां सूक्ष्मा सुसूक्ष्मा तथान्ये अमृतामिते ॥३९६॥

मध्यतो व्यापिनी तस्यां व्यापीशो व्यापिनीधरः

शक्तितत्त्वमिदं यस्य प्रपञ्चोऽयं धरान्तकः ॥३९७॥

शिवतत्त्वं ततस्तत्र चतुर्दिक्कं व्यवस्थिताः

व्यापी व्योमात्मकोऽनन्तोऽनाथस्तच्छक्तिभागिनः ॥३९८॥

मध्ये त्वनाश्रितं तत्र देवदेवो ह्यनाश्रितः

तच्छक्त्युत्सङ्गभृत्सूर्यशतकोटिसमप्रभः ॥३९९॥

शिवतत्त्वोर्ध्वतः शक्तिः परा सा समनाह्वया

सर्वेषां कारणानां सा कर्तृभूता व्यवस्थिता ॥४००॥

बिभर्त्यण्डान्यनेकानि शिवेन समधिष्ठिता

तदारूढः शिवः कृत्यपञ्चकं कुरुते प्रभुः ॥४०१॥

समना करणं तस्य हेतुकर्तुर्महोशितुः

अनाश्रितं तु व्यापारे निमित्तं हेतुरुच्यते ॥४०२॥

तयाधितिष्ठति विभुः कारणानां तु पञ्चकम्

अनाश्रितो ̕नाथमयमनन्तं खवपुः सदा ॥४०३॥

व्यापिनं प्रेरयति स्वशक्त्या करणेन तु

कर्मरूपा स्थिता माया यदधः शक्तिकुण्डली ॥४०४॥

नादबिन्द्वादिकं कार्यमित्यादिजगदुद्भवः

यत्सदाशिवपर्यन्तं पार्थिवाद्यं शासने ॥४०५॥

तत्सर्व प्राकृतं प्रोक्तं विनाशोत्पत्तिसंयुतम्

अथ सकलभुवनमानं यन्मह्यं निगदितं निजैर्गुरुभिः ॥४०६॥

तद्वक्ष्यते समासाद्बुद्धौ येनाशु सङ्क्रामेत्

अण्डस्यान्तरनन्तः कालः कूष्माण्डहाटकौ ब्रह्महरी ॥४०७॥

रुद्राः शतं सवीरं बहिर्निवृत्तिस्तु साष्टशतभुवना स्यात्

जलतेजःसमीरनभोऽहंकृद्धीमूलसप्तके प्रत्येकम् ॥४०८॥

अष्टौ षट्पञ्चाशद्भुवना तेन प्रतिष्ठेति कला कथिता

अत्र प्राहुः शोध्यानष्टौ केचिन्निजाष्टकाधिपतीन् ॥४०९॥

अन्ये तु समस्तानां शोध्यत्वं वर्णयन्ति भुवनानाम्

श्रीभूतिराजमिश्रा गुरवः प्राहुः पुनर्बही रुद्रशतम् ॥४१०॥

अष्टावन्तः साकं शर्वेणेतीदृशी निवृत्तिरियं स्यात्

रुद्राः काली वीरो धराब्धिलक्ष्म्यः सरस्वती गुह्यम् ॥४११॥

इत्यष्टकं जलेऽनौ वह्न्यतिगुह्यद्वयं मरुति वायोः

स्वपुरं गयादि खे व्योम पवित्राष्टकं भुवनयुगम् ॥४१२॥

अभिमानेऽहङ्कारच्छगलाद्यष्टकमथान्तरा नभोऽहंकृत्

तन्मात्रार्केन्दुश्रतिपुराष्टकं बुद्धिकर्मदेवानाम् ॥४१३॥

दश तन्मात्रसमूहे भुवनं पुनरक्षवर्गविनिपतिते

मनसश्चेत्यभिमाने द्वाविंशतिरेव भुवनानाम् ॥४१४॥

धियि दैवीनामष्टौ क्रुत्तेजोयोगसंज्ञकं त्रयं तदुमा

तत्पतिरथ मूर्त्यष्टकसुशिवद्वादशकवीरभद्राः स्युः ॥४१५॥

तदथ महादेवाष्टकमिति बुद्धौ सप्तदश संख्या

गुणतत्त्वे पङ्क्तित्रयमिति षट्पञ्चाशतं पुराणि विदुः ॥४१६॥

यद्यपि गुणसाम्यात्मनि मूले क्रोधेश्वराष्टकं तथापि धियि

तच्छोधितमिति गणनां पुनः प्राप्तं प्रतिष्ठायाम् ॥४१७॥

इति जलतत्त्वान्मूलं तत्त्वचतुर्विंशतिः प्रतिष्ठायाम्

अम्बादितुष्टिवर्गस्ताराद्याः सिद्धयो ̕णिमादिगणः ॥४१८॥

गुरवो गुरुशिष्या ऋषिवर्ग इडादिश्च विग्रहाष्टकयुक्

गन्धादिविकारपुरं बुद्धिगुणाष्टकमहंक्रिया विषयगुणाः ॥४१९॥

कामादिसप्तविंशकमागन्तु तथा गणेशविद्येशमयौ

इति पाशेषु पुरत्रयमित्थं पुरुषेऽत्र भुवनषोडशकम् ॥४२०॥

नियतौ शङ्करदशकं काले शिवदशकमिति पुरद्वितयम्

रागे सुहृष्टभुवनं गुरुशिष्यपुरं वित्कलायुगले ॥४२१॥

भुवनं भुवनं निशि पुटपुरत्रयं वाक्पुरं प्रमाणपुरम्

इति सप्तविंशतिपुरा विद्या पुरुषादितत्त्वसप्तकयुक् ॥४२२॥

वामेशरूपसूक्ष्मं शुद्धं विद्याथ शक्तितेजस्विमितिः

सुविशुद्धिशिवौ मोक्ष धुवेषिसंबुद्धसमयसौशिवसंज्ञाः ॥४२३॥

सप्तदशपुरा शान्ता विद्येशसदाशिवपुरत्रितययुक्ता

बिन्द्वर्धेन्दुनिरोध्यः परसौशिवमिन्धिकादिपुरसौषुम्ने ॥४२४॥

परनादो ब्रह्मबिलं सूक्ष्मादियुतोर्ध्वकुण्डली शक्तिः

व्यापिव्योमानन्तानाथानाश्रितपुराणि पञ्च ततः ॥४२५॥

षष्ठं परममनाश्रितमथ समनाभुवनषोडशी यदि वा

बिन्द्वावरणं परसौशिवं पञ्चेन्धिकादिभुवनानि ॥४२६॥

सौषुम्नं ब्रह्मबिलं कुण्डलिनी व्यापिपञ्चकं समना

इति षोडशभुवनेयं तत्त्वयुगं शान्त्यतीता स्यात् ॥४२७॥

श्रीमन्मतङ्गशास्त्रे क्रमोऽयं पुरपूगगः

कालाग्निर्नरकाः खाब्धियुतं मुख्यतया शतम् ॥४२८॥

कूष्माण्डः सप्तपाताली सप्तलोकी महेश्वरः

इत्यण्डमध्यं तद्बाह्ये शतं रुद्रा इति स्थिताः ॥४२९॥

स्थानानां द्विशती भूमिः सप्तपञ्चाशता युता

पञ्चाष्टकस्य मध्याद्द्वात्रिंशद्भूतचतुष्टये ॥४३०॥

तन्मात्रेषु पञ्च स्युर्विश्वेदेवास्ततोऽष्टकम्

पञ्चमं सेन्द्रिये गर्वे बुद्धौ देवाष्टकं गुणे ॥४३१॥

योगाष्टकं क्रोधसंज्ञं मूले काले सनैयते

पतद्रुगाद्याश्चाङ्गुष्ठमात्राद्या रागतत्त्वगाः ॥४३२॥

द्वादशैकशिवाद्याः स्युर्विद्यायां कलने दश

वामाद्यास्त्रिशती सेयं त्रिपर्वण्यब्धिरस्ययुक् ॥४३३॥

शैवाः केचिदिहानन्ताः श्रैकण्ठा इति संग्रहः

यत्र यदा परभोगान् बुभुक्षते तत्र योजनं कार्यम् ॥४३४॥

शोधनमथ तद्धानौ शेषं त्वन्तर्गतं कार्यम्

इत्यागमं प्रथयितुं दर्शितमेतद्विकल्पितं तेन ॥४३५॥

अन्ये ̕पि बहुविकल्पाः स्वधियाचार्यैः समभ्यूह्याः

श्रीपूर्वशासने पुनरष्टादशाधिकं शतं कथितम् ॥४३६॥

तदिह प्रधानमधिकं संक्षेपेणोच्यते शोध्यम्

कालाग्निः कूष्माण्डो नरकेशो हाटकोऽथ भूतलपः ॥४३७॥

ब्रह्मा मुनिलोकेशो रुद्राः पञ्चान्तरालस्थाः

अधरेऽनन्तः प्राच्याः कपालिवह्न्यन्तनिरृतिबलाख्याः ॥४३८॥

लघुनिधिपतिविद्याधिपशम्भूर्ध्वान्तं सवीरभद्रपति

एकादशभिर्बाह्ये ब्रह्माण्डं पञ्चभिस्तथान्तरिकैः ॥४३९॥

इति षोडशपुरमेतन्निवृत्तिकलयेह कलनीयम्

लकुलीशभारभूती दिण्ड्याषाढी पुष्करनिमेषौ ॥४४०॥

प्रभाससुरेशाविति सलिले प्रत्यात्मकं सपरिवारे

भैरवकेदारमहाकाला मध्याम्रजल्पाख्याः ॥४४१॥

श्रीशैलहरिश्चन्द्राविति गुह्याष्टकमिदं महसि

भीमेन्द्राट्टहासविमलकनखलनाखलकुरुस्थितिगयाख्याः ॥४४२॥

अतिगुह्याष्टकमेतन्मरुति सतन्मात्रके साक्षे

स्थाणुसुवर्णाख्यौ किल भद्रो गोकर्णको महालयकः ॥४४३॥

अविमुक्तरुद्रकोटी वस्त्रापद इत्यदः पवित्रं खे

स्थूलस्थूलेशशङ्कुश्रुतिकालञ्जराश्च मण्डलभृत् ॥४४४॥

माकोटाण्डद्वितयच्छगलाण्डा अष्टकं ह्यहङ्कारे

अन्येऽहङ्कारान्तस्तन्मात्राणीन्द्रियाणि चाप्याहुः ॥४४५॥

धियि योन्यष्टकमुक्तं प्रकृतौ योगाष्टकं किलाकृतप्रभृति

इति सप्ताष्टकभुवना प्रतिष्ठितिः सलिलतो हि मूलान्ता ॥४४६॥

नरि वामो भीमोग्रौ भवेशवीराः प्रचण्डगौरीशौ

अजसानन्तैकशिवौ विद्यायां क्रोधचण्डयुग्मं स्यात् ॥४४७॥

संवर्तो ज्योतिरथो कलानियत्यां सूरपञ्चान्तौ

वीरशिखीशश्रीकण्ठसंज्ञमेतत्त्रयं काले स्यात् ॥४४८॥

समहातेजा वामो भवोद्भवश्चैकपिङ्गलेशानौ

भुवनेशपुरःसरकावङ्गुष्ठ इमे निशि स्थिता ह्यष्टौ ॥४४९॥

अष्टाविंशतिभुवना विद्या पुरुषान्निशान्तमियम्

हालाहलरुद्रक्रुदम्बिकाघोरिकाः सवामाः स्युः ॥४५०॥

विद्यायां विद्येशास्त्वष्टावीशे सदाशिवे पञ्च

वामा ज्येष्ठा रौद्री शक्तिः सकला शोन्तयम् ॥४५१॥

अष्टादश भुवना स्यात् शान्त्यतीता त्वभुवनैव

इति देशाध्वविभागः कथितः श्रीशम्भुना समादिष्टः ॥४५२॥

 

 


 

     Bookmark and Share

 

 

Creative Commons License

Precedente Home Successiva

AGHORI BREVE STORIA GRANDE MADRE SADHANA CHAKRA AYURVEDA CORSO DI YOGA EVENTI GALLERIA SITI CONSIGLIATI CONTATTACI GUESTBOOK SITE MAP PDF IN ITA

Privacy Policy