Tantraloka

by Abhinavagupta

 

In Sanscrito:

 

CAP.1 - CAP.2 - CAP.3 - CAP.4 - CAP.5 - CAP.6 - CAP.7 - CAP.8 - CAP.9 - CAP.10

CAP.11 - CAP.12 - CAP.13 - CAP.14 - CAP.15 - CAP.16 - CAP.17 - CAP.18 - CAP.19 - CAP.20

CAP.21 - CAP.22 - CAP.23 - CAP.24 - CAP.25 - CAP.26 - CAP.27 - CAP.28 - CAP.29 - CAP.30 

CAP.31 - CAP.32 - CAP.33 - CAP.34 - CAP.35 - CAP.36 - CAP.37 - Testo translitterato

pdf: Testo in sanscrito - Testo translitterato - Tantraloka with commentary by Rajanaka Jayaratha Vol.1 - Vol.2 - Vol.3 - Vol.4 - Vol.5 - Vol.6

 

 

TANTRALOKA SANSCRITO

 

 

Capitolo 25

 

 

अथ श्रीतन्त्रालोके पञ्चविंशतितममाह्निकम्

 

अथ श्राद्धविधिः श्रीमत्षडर्धोक्तो निगद्यते ॥१॥

सिद्धातन्त्रे सूचितोऽसौ मूर्तियागनिरूपणे

अन्त्येष्ट्या सुविशुद्धानामशुद्धानां तद्विधिः ॥२॥

त्र्यहे तुर्ये ̕ह्नि दशमे मासि मास्याद्यवत्सरे

वर्षे वर्षे सर्वकालं कार्यस्तत्स्वैः पूर्ववत् ॥३॥

तत्र प्राग्वद्यजेद्देवं होमयेदनले तथा

ततो नैवेद्यमेव प्राग्गृहीत्वा हस्तगोचरे ॥४॥

गुरुरन्नमयीं शक्तिं वृंहिकां वीर्यरूपिणीम्

ध्यात्वा तया समाविष्टं तं साध्यं चिन्तयेत्सुधीः ॥५॥

ततोऽस्य यः पाशवोंऽशो भोग्यरूपस्तमर्पयेत्

भोक्तर्येकात्मभावेन शिष्य इत्थं शिवीभवेत् ॥६॥

भोग्यतान्या तनुर्देह इति पाशात्मका मताः

श्राद्धे मृतोद्धृतावन्तयागे तेषां शिवीकृतिः ॥७॥

एकेनैव विधानेन यद्यपि स्यात्कृतार्थता

तथापि तन्मयीभावसिद्ध्यै सर्वं विधिं चरेत् ॥८॥

बुभुक्षोस्तु क्रियाभ्यासभूमानौ फलभूमनि

हेतु ततो मृतोद्धारश्राद्धाद्यस्मै समाचरेत् ॥९॥

तत्त्वज्ञानार्कविध्वस्तध्वान्तस्य तु को ̕प्ययम्

अन्त्येष्टिश्राद्धविध्यादिरुपयोगी कदाचन ॥१०॥

तेषां तु गुरु तद्वर्गवर्ग्यसब्रह्मचारिणाम्

तत्सन्तानजुषामैक्यदिनं पर्वदिनं भवेत् ॥११॥

यदाहि बोधस्योद्रेकस्तदा पर्वाह पूरणात्

जन्मैक्यदिवसौ तेन पर्वणी बोधसिद्धितः ॥१२॥

पुत्रकोऽपि यदा कस्मैचन स्यादुपकारकः

तदा मातुः पितुः शक्तेर्वामदक्षान्तरालगाः ॥१३॥

नाडीः प्रवाहयेद्देवायार्पयेत निवेदितम्

श्रीमद्भरुणतन्त्रे तच्छिवेन निरूपितम् ॥१४॥

तद्वाहकालापेक्षा कार्या तद्रूपसिद्धये

स्वाच्छन्द्येनाथ तत्सिद्धिं विधिना भाविना चरेत् ॥१५॥

यस्य कस्यापि वा श्राद्धे गुरुदेवाग्नितर्पणम्

सचक्रेष्टि भवेच्छ्रौतो नतु स्यात्पाशवो विधिः ॥१६॥

श्रीमौकुटे तथा चोक्तं शिवशास्त्रे स्थितो ̕पि यः

प्रत्येति वैदिके भग्नघण्टावन्न किंचन ॥१७॥

तथोक्तदेवपूजादिचक्रयागान्तकर्मणा

रुद्रत्वमेत्यसौ जन्तुर्भोगान्दिव्यान्समश्नुते ॥१८॥

अथ वच्मः स्फुटं श्रीमत्सिद्धये नाडिचारणम्

या वाहयितुमिष्येत नाडी तामेव भावयेत् ॥१९॥

भावनातन्मयीभावे सा नाडी वहति स्फुटम्

यद्वा वाहयितुं येष्टा तदङ्गं तेन पाणिना ॥२०॥

आपीड्य कुक्षिं नमयेत्सा वहेन्नाडिका क्षणात्

एवं श्राद्धमुखेनापि भोगमोक्षोभयस्थितिम् ॥२१॥

कुर्यादिति शिवेनोक्तं तत्र तत्र कृपालुना

शक्तिपातोदये जन्तोर्येनोपायेन दैशिकः ॥२२॥

करोत्युद्धरणं तत्तन्निर्वाणायास्य कल्पते

उद्धर्ता देवदेवो हि चाचिन्त्यप्रभावकः ॥२३॥

उपायं गुरुदीक्षादिद्वारमात्रेण संश्रयेत्

उक्तं श्रीमन्मतङ्गाख्ये मुनिप्रश्नादनन्तरम् ॥२४॥

मुक्तिर्विवेकात्तत्त्वानां दीक्षातो योगतो यदि

चर्यामात्रात्कथं सा स्यादित्यतः सममुत्तरम् ॥२५॥

प्रहस्योचे विभुः कस्माद्भ्रान्तिस्ते परमेशितुः

सर्वानुग्राहकत्वं हि संसिद्धं दृश्यतां किल ॥२६॥

प्राप्तमृत्योर्विषव्याधिशस्त्रादि किल कारणम्

अल्पं वा बहु वा तद्वदनुध्या मुक्तिकारणम् ॥२७॥

मुक्त्यर्थमुपचर्यन्ते बाह्यलिङ्गान्यमूनि तु

इति ज्ञात्वा सन्देह इत्थं कार्यो विपश्चिता ॥२८॥

इयतैव कथं मुक्तिरिति भक्तिं परां श्रयेत्

उक्तः श्राद्धविधिर्भ्रान्तिगरातङ्कविमर्दनः ॥२९॥

 

 


 

 

Capitolo 26

 

 

अथ श्रीतन्त्रालोके षड्विंशमाह्निकम्

 

अथोच्यते शेषवृत्तिर्जीवतामुपयोगिनी ॥१॥

दीक्षा बहुप्रकारेयं श्राद्धान्ता या प्रकीर्तिता

सा संस्क्रियायै मोक्षाय भोगायापि द्वयाय वा ॥२॥

तत्र संस्कारसिद्ध्यै या दीक्षा साक्षान्न मोचनी

अनुसंधिवशाद्या साक्षान्मोक्त्री सबीजिका ॥३॥

तयोभय्या दीक्षिता ये तेषामाजीववर्तनम्

वक्तव्यं पुत्रकादीनां तन्मयत्वप्रसिद्धये ॥४॥

बुभुक्षोर्वा मुमुक्षोर्वा स्वसंविद्गुरुशास्त्रतः

प्रमाणाद्या संस्क्रियायै दीक्षा हि गुरुणा कृता ॥५॥

ततः संस्कृतं योग्यं ज्ञात्वात्मानं स्वशासने

तदुक्तवस्त्वनुष्ठानं भुक्त्यै मुक्त्यै सेवते ॥६॥

आचार्यप्रत्ययादेव योऽपि स्याद्भुक्तिमुक्तिभाक्

तत्प्रत्यूहोदयध्वस्त्यै ब्रूयात्तस्यापि वर्तनम् ॥७॥

स्वसंविद्गुरुसंवित्त्योस्तुल्यप्रत्ययभागपि

शेषवृत्त्या समादेश्यस्तद्विघ्नादिप्रशान्तये ॥८॥

यः सर्वथा परापेक्षामुज्झित्वा तु स्थितो निजात्

प्रत्ययाद्योऽपि चाचार्यप्रत्ययादेव केवलात् ॥९॥

तौ सांसिद्धिकनिर्बीजौ को वदेच्छेषवृत्तये

क्रमात्तन्मयतोपायगुर्वर्चनरतौ तु तौ ॥१०॥

तत्रैषां शेषवृत्त्यर्थं नित्यनैमित्तिके ध्रुवे

काम्यवर्जं यतः कामाश्चित्राश्चित्राभ्युपायकाः ॥११॥

तत्र नित्यो विधिः सन्ध्यानुष्ठानं देवताव्रजे

गुर्वग्निशास्त्रसहिते पूजा भूतदयेत्ययम् ॥१२॥

नैमित्तिकस्तु सर्वेषां पर्वणां पूजनं जपः

विशेषवशतः किंच पवित्रकविधिक्रमः ॥१३॥

आचार्यस्य दीक्षेयं बहुभेदा विवेचिता

व्याख्यादिकं तत्तस्याधिकं नैमित्तिकं ध्रुवम् ॥१४॥

तत्रादौ शिशवे व्रूयाद्गुरुर्नित्यविधिं स्फुटम्

तद्योग्यतां समालोक्य वितताविततात्मनाम् ॥१५॥

मुख्येतरादिमन्त्राणां वीर्यव्याप्त्यादियोग्यताम्

दृष्ट्वा शिष्ये तमेवास्मै मूलमन्त्रं समर्पयेत् ॥१६॥

तच्छास्त्रदीक्षितो ह्येष निर्यन्त्राचारशङ्कितः

मुख्ये योग्य इत्यन्यसेवातः स्यात्तु योग्यता ॥१७॥

साधकस्य बुभुक्षोस्तु साधकीभाविनो ̕पिवा

पुष्पपातवशात्सिद्धो मन्त्रोऽर्प्यः साध्यसिद्धये ॥१८॥

वितते गुणभूते वा विधौ दिष्टे पुनर्गुरुः

ज्ञात्वास्मै योग्यतां सारं संक्षिप्तं विधिमाचरेत् ॥१९॥

तत्रैष नियमो यद्यन्मान्त्रं रूपं तद्गुरुः

लिखित्वा प्रथयेच्छिष्ये विशेषादूर्ध्वशासने ॥२०॥

मन्त्रा वर्णात्मकास्ते परामर्शात्मकाः सच

गुरुसंविदभिन्नश्वेत्संक्रामेत्सा ततः शिशौ ॥२१॥

लिपिस्थितस्तु यो मन्त्रो निर्वीर्यः सोऽत्र कल्पितः

संकेतबलतो नास्य पुस्तकात्प्रथते महः ॥२२॥

पुस्तकाधीतविद्याश्चेत्युक्तं सिद्धामते ततः

ये तु पुस्तकलब्धे ̕पि मन्त्रे वीर्यं प्रजानते ॥२३॥

ते भैरवीयसंस्काराः प्रोक्ताः सांसिद्धिका इति

इति ज्ञात्वा गुरुः सम्यक् परमानन्दघूर्णितः ॥२४॥

तादृशे तादृशे धाम्नि पूजयित्वा विधिं चरेत्

यथान्यशिष्यानुष्ठानं नान्यशिष्येण बुध्यते ॥२५॥

तथा कुर्याद्गुरुर्गुप्तिहानिर्दोषवती यतः

देवीनां त्रितयं शुद्धं यद्वा यामलयोगतः ॥२६॥

देवीमेकामथो शुद्धां वदेद्वा यामलात्मिकाम्

तत्र मन्त्रं स्फुटं वक्त्राद्गुरुणोपांशु चोदितम् ॥२७॥

अवधार्या प्रवृत्तेस्तमभ्यस्येन्मनसा स्वयम्

ततः सुशिक्षितां स्थानदेहान्तःशोधनत्रयीम् ॥२८॥

न्यासं ध्यानं जपं मुद्रां पूजां कुर्यात्प्रयत्नतः

तत्र प्रभाते संबुध्य स्वेष्टां प्राग्देवतां स्मरेत् ॥२९॥

कृतावश्यककर्तव्यः शुद्धो भूत्वा ततो गृहम्

आश्रित्योत्तरदिग्वक्त्रः स्थानदेहान्तरत्रये ॥३०॥

शुद्धिं विधाय मन्त्राणां यथास्थानं निवेशनम्

मुद्राप्रदर्शनं ध्यानं भेदाभेदस्वरूपतः ।३१॥

देहासुधीव्योमभूषु मनसा तत्र चार्चनम्

जपं चात्र यथाशक्ति देवायैतन्निवेदनम् ॥३२॥

तन्मयीभावसिद्ध्यर्थं प्रतिसन्ध्यं समाचरेत्

अन्ये तु प्रागुदक्पश्चाद्दशदिक्षु चतुष्टयीम् ॥३३॥

सन्ध्यानामाहुरेतच्च तान्त्रिकीयं नो मतम्

यासौ कालाधिकारे प्राक् सन्ध्या प्रोक्ता चतुष्टयी ॥३४॥

तामेवान्तः समाधाय सान्ध्यं विधिमुपाचरेत्

सन्ध्याचतुष्टयीकृत्यमेकस्यामथवा शिशुः ॥३५॥

कुर्यात्स्वाध्यायविज्ञानगुरुकृत्यादितत्परः

सन्ध्याध्यानोदितानन्ततन्मयीभावयुक्तितः ॥३६॥

तत्संस्कारवशात्सर्वं कालं स्यात्तन्मयो ह्यसौ

ततो यथेष्टकालेऽसौ पूजां पुष्पासवादिभिः ॥३७॥

स्थण्डिलादौ शिशुः कुर्याद्विभवाद्यनुरूपतः

सुशुद्धः सन्विधिं सर्वं कृत्वान्तरजपान्तकम् ॥३८॥

अर्घपात्रं पुरा यद्वद्विधाय स्वेष्टमन्त्रतः

तेन स्थण्डिलपुष्पादि सर्वं संप्रोक्षयेद्बुधः ॥३९॥

ततस्तत्रैव संकल्प्य द्वारासनगुरुक्रमम्

पूजयेच्छिवताविष्टः स्वदेहार्चापुरःसरम् ॥४०॥

ततस्तत्स्थण्डिलं वीध्रव्योमस्फटिकनिर्मलम्

बोधात्मकं समालोक्य तत्र स्वं देवतागणम् ॥४१॥

प्रतिबिम्बतया पश्येद्बिम्बत्वेन बोधतः

एतदावाहनं मुख्यं व्यजनान्मरुतामिव ॥४२॥

सर्वगो ̕पि मरुद्यद्वद्व्यजनेनोपजीवितः

अर्थकृत्सर्वगं मन्त्रचक्रं रूढेस्तथा भवेत् ॥४३॥

चतुष्कपञ्चाशिकया तदेतत्तत्त्वमुच्यते

श्रीनिर्मर्यादशास्त्रे तदेतद्विभुनोदितम् ॥४४॥

देवः सर्वगतो देव निर्मर्यादः कथं शिवः

आवाह्यते क्षम्यते वेत्येवंपृष्टो ̕ब्रवीद्विभुः ॥४५॥

वासनावाह्यते देवि वासना विसृज्यते

परमार्थेन देवस्य नावाहनविसर्जने ॥४६॥

आवाहितो मया देवः स्थण्डिले प्रतिष्ठितः

पूजितः स्तुत इत्येवं हृष्ट्वा देवं विसर्जयेत् ॥४७॥

प्राणिनामप्रबुद्धानां सन्तोषजननाय वै

आवाहनादिकं तेषां प्रवृत्तिः कथमन्यथा ॥४८॥

कालेन तु विजानन्ति प्रवृत्ताः पतिशासने

अनुक्रमेण देवस्य प्राप्तिं भुवनपूर्विकाम् ॥४९॥

ज्ञानदीपद्युतिध्वस्तसमस्ताज्ञानसञ्चयाः

कुतो वानीयते देवः कुत्र वा नीयते ̕पि सः ॥५०॥

स्थूलसूक्ष्मादिभेदेन हि सर्वत्र संस्थितः

आवाहिते मन्त्रगणे पुष्पासवनिवेदनैः ॥५१॥

धूपैश्च तर्पणं कार्यं श्रद्धाभक्तिबलोचितैः

दीप्तानां शक्तिनादादिमन्त्राणामासवैः पलैः ॥५२॥

रक्तैः प्राक् तर्पण पश्चात् पुष्पधूपादिविस्तरैः

आगतस्य तु मन्त्रस्य कुर्यात्तर्पणं यदि ॥५३॥

हरत्यर्धशरीरं इत्युक्तं किल शम्भुना

यद्यदेवास्य मनसि विकासित्वं प्रयच्छति ॥५४॥

तेनैव कुर्यात्पूजां इति शम्भोर्विनिश्चयः

साधकानां बुभुक्षूणां विधिर्नियतियन्त्रितः ॥५५॥

मुमुक्षूणां तत्त्वविदां एव तु निरर्गलः

कार्ये विशेषमाधित्सुर्विशिष्टं कारणं स्पृशेत् ॥५६॥

रक्तकर्पासतूलेच्छुस्तुल्यतद्बीजपुञ्जवत्

सन्ति भोगे विशेषाश्च विचित्राः कारणेरिताः ॥५७॥

देशकालानुसन्धानगुणद्रव्यक्रियादिभिः

स्वल्पा क्रिया भूयसी वा हृदयाह्लाददायिभिः ॥५८॥

बाह्यैः संकल्पजैर्वापि कारकैः परिकल्पिता

मुमुक्षोर्न विशेषाय नैःश्रेयसविधिं प्रति ॥५९॥

नहि ब्रह्मणि शंसन्ति बाहुल्याल्पत्वदुर्दशाः

चितः स्वातन्त्र्यसारत्वात् तस्यानन्दघनत्वतः ॥६०॥

क्रिया स्यात्तन्मयीभूत्यै हृदयाह्लाददायिभिः

शिवाभेदभराद्भाववर्गः श्च्योतति यं रसम् ॥६१॥

तमेव परमे धाम्नि पूजनायार्पयेद्बुधः

स्तोत्रेषु बहुधा चैतन्मया प्रोक्तं निजाह्निके ॥६२॥

अधिशय्य पारमार्थिकभावप्रसरप्रकाशमुल्लसति

या परमामृतदृक् त्वां तयार्चयन्ते रहस्यविदः ॥६३॥

कृत्वाधारधरां चमत्कृतिरसप्रोक्षाक्षणक्षालितामात्तैर्मानसतः स्वभावकुसुमैः स्वामोदसन्दोहिभिः

आनन्दामृतनिर्भरस्वहृदयानर्घार्घपात्रक्रमात् त्वां देव्या सह देहदेवसदने देवार्चयेऽहर्निशम् ॥६४॥

नानास्वादरसामिमां त्रिजगतीं हृच्चक्रयन्त्रार्पितामूर्ध्वाध्यस्तविवेकगौरवभरान्निष्पीड्य निःष्यन्दितम्

यत्संवित्परमामृतं मृतिजराजन्मापहं जृम्भते तेन त्वां हविषा परेण परमे संतर्पयेऽहर्निशम् ॥६५॥

इति श्लोकत्रयोपात्तमर्थमन्तर्विभावयन्

येन केनापि भावेन तर्पयेद्देवतागणम् ॥६६॥

मुद्रां प्रदर्शयेत्पश्चान्मनसा वापि योगतः

वचसा मन्त्रयोगेन वपुषा संनिवेशतः ॥६७॥

कृत्वा जपं ततः सर्वं देवतायै समर्पयेत्

तच्चोक्तं कर्तृतातत्त्वनिरूपणविधौ पुरा ॥६८॥

ततो विसर्जनं कार्यं बोधैकात्म्यप्रयोगतः

कृत्वा वा वह्निगां मन्त्रतृप्तिं प्रोक्तविधानतः ॥६९॥

द्वारपीठगुरुव्रातसमर्पितनिवेदनात्

ऋतेऽन्यत्स्वयमश्नीयादगाधेऽम्भस्यथ क्षिपेत् ॥७०॥

प्राणिनो जलजाः पूर्वदीक्षिताः शम्भुना स्वयम्

विधिना भाविना श्रीमन्मीननाथावतारिणा ॥७१॥

मार्जारमूषिकाद्यैर्यददीक्षैश्चापि भक्षितम्

तच्छङ्कातङ्कदानेन व्याधये नरकाय ॥७२॥

अतस्तत्त्वविदा ध्वस्तशङ्कातङ्कोऽपि पण्डितः

प्रकटं नेदृशं कुर्याल्लोकानुग्रहवाञ्छया ॥७३॥

श्रीमन्मतमहाशास्त्रे तदुक्तं विभुना स्वयम्

स्वयं तु शङ्कासङ्कोचनिष्कासनपरायणः ॥७४॥

भवेत्तथा यथान्येषां शङ्का नो मनसि स्फुरेत्

मार्जयित्वा ततः स्नानं पुष्पेणाथ प्रपूजयेत् ॥७५॥

पुष्पादि सर्वं तत्स्थं तदगाधाम्भसि निक्षिपेत्

उक्तः स्थण्डिलयागोऽयं नित्यकर्मणि शम्भुना ॥७६॥

 

 


 

 

Capitolo 27

 

 

अथ श्रीतन्त्रालोके सप्तविंशतितममाह्निकम्

 

अथोच्यते लिङ्गपूजा सूचिता मालिनीमते ॥१॥

एतेषामूर्ध्वशास्त्रोक्तमन्त्राणां प्रतिष्ठितम्

बहिष्कुर्यात्ततो ह्येते रहस्यत्वेन सिद्धिदाः ॥२॥

स्ववीर्यानन्दमाहात्म्यप्रवेशवशशालिनीम्

ये सिद्धिं ददते तेषां बाह्यत्वं रूपविच्युतिः ॥३॥

किंच चोक्तं समावेशपूर्णो भोक्त्रात्मकः शिवः

भोगलाम्पट्यभाग्भोगविच्छेदे निग्रहात्मकः ॥४॥

शान्तत्वन्यक्क्रियोद्भूतजिघत्सावृंहितं वपुः

स्वयं प्रतिष्ठितं येन सोऽस्याभोगे विनश्यति ॥५॥

उक्तं ज्ञानोत्तरायां तदेतत्परमेशिना

शिवो यागप्रियो यस्माद्विशेषान्मातृमध्यगः ॥६॥

तस्माद्रहस्यशास्त्रेषु ये मन्त्रास्तान्बुधो बहिः

प्रतिष्ठापयेज्जातु विशेषाद्व्यक्तरूपिणः ॥७॥

अत एव मृतस्यार्थे प्रतिष्ठान्यत्र योदिता

सात्र शास्त्रेषु नो कार्या कार्या साधारणी पुनः ॥८॥

तन्मयत्वसंसिद्धेरा चाभीष्टफलोदयात्

पुत्रकः साधको व्यक्तमव्यक्तं वा समाश्रयेत् ॥९॥

पुत्रकैर्गुरुरभ्यर्थ्यः साधकस्तु स्वयं विदन्

यदि तत्स्थापयेन्नो चेत्तेनाप्यर्थ्यो गुरुर्भवेत् ॥१०॥

गुरुश्चात्र निरोधाख्ये काल इत्थं विभौ वदेत्

जीवत्यस्मिन्फलान्तं त्वं तिष्ठेर्जीवावधीति वा ॥११॥

लिङ्गं बाणलिङ्गं वा रत्नजं वाथ मौक्तिकम्

पौष्पमान्नमथो वास्त्रं गन्धद्रव्यकृतं वा ॥१२॥

नतु पाषाणजं लिङ्गं शिल्प्युत्थं परिकल्पयेत्

धातूत्थं सुवर्णोत्थवर्जमन्यद्विवर्जयेत् ॥१३॥

चात्र लिङ्गमानादि क्वचिदप्युपयुज्यते

उदारवीर्यैर्मन्त्रैर्यद्भासितं फलदं हि तत् ॥१४॥

तस्यापि स्थण्डिलाद्युक्तविधिना शुद्धिमाचरेत्

मन्त्रार्पणं तथैव स्यान्निरोधस्तूक्तयुक्तितः ॥१५॥

अग्नौ तर्पणं भूरिविशेषाद्दक्षिणा गुरोः

दीनादितृप्तिर्विभवाद्याग इत्यधिको विधिः ॥१६॥

सर्वेष्वव्यक्तलिङ्गेषु प्रधानं स्यादकल्पितम्

तथा तत्र तत्रोक्तं लक्षणे पारमेश्वरे ॥१७॥

सूत्रे पात्रे ध्वजे वस्त्रे स्वयम्भूबाणपूजिते

नदीप्रस्रवणोत्थे नाह्वानं नापि कल्पना ॥१८॥

पीठप्रसादमन्त्रांशवेलादिनियमो नच

व्यक्तं वा चित्रपुस्तादौ देवदारुसुवर्णजम् ॥१९॥

अथ दीक्षितसच्छिल्पिकृतं स्थापयते गुरुः

अथवा लक्षणोपेतमूर्धतत्कर्पराश्रितम् ॥२०॥

पङ्क्तिचक्रकशूलाब्जविधिना तूरमाश्रयेत्

तल्लक्षणं ब्रुवे श्रीमत्पिचुशास्त्रे निरूपितम् ॥२१॥

तूरे योगः सदा शस्तः सिद्धिदो दोषवर्जिते

जालकैर्जर्जरै रन्ध्रैर्दन्तैरूनाधिकै रुजा ॥२२॥

युक्ते तूरे हानिः स्यात् तद्धीने याग उत्तमः

काम्य एव भवेत्तूरमिति केचित्प्रपेदिरे ॥२३॥

गुरवस्तु विधौ काम्ये यत्नाद्दोषांस्त्यजेदिति

व्याचक्षते पिचुप्रोक्तं नित्ये कर्मणीत्यदः ॥२४॥

श्रीसिद्धातन्त्र उक्तं तूरलक्षणमुत्तमम्

एकादिकचतुष्खण्डे गोमुखे पूर्णचन्द्रके ॥२५॥

पद्मगोरोचनामुक्तानीरस्फटिकसंनिभे

एकादिपञ्चसद्रन्ध्रविद्यारेखान्विते शुभे ॥२६॥

रूक्षवक्रशकलदीर्घनिम्नसबिन्दुके

श्लक्ष्णया वज्रसूच्यात्र स्फुटं देवीगणान्वितम् ॥२७॥

सर्वं समालिखेत्पूज्यं सर्वावयवसुन्दरम्

एतदेवानुसर्तव्यमर्घपात्रे ̕पि लक्षणम् ॥२८॥

श्रीब्रह्मयामले ̕प्युक्तं पात्रं गोमुखमुत्तमम्

गजकूर्मतलं कुम्भवृत्तशक्तिकजाकृति ॥२९॥

अक्षसूत्रमथो कुर्यात्तत्रैवाभ्यर्चयेत्क्रमम्

वीरधातुजलोद्भूतमुक्तारत्नसुवर्णजम् ॥३०॥

अक्षसूत्रं क्रमोत्कृष्टं रौद्राक्षं वा विशेषतः

शतं तिथ्युत्तरं यद्वा साष्टं यद्वा तदर्धकम् ॥३१॥

तदर्धं वाथ पञ्चाशद्युक्तं तत्परिकल्पयेत्

वक्त्राणि पञ्च चित्स्पन्दज्ञानेच्छाकृतिसंगतेः ॥३२॥

पञ्चधाद्यन्तगं चैक्यमित्युपान्त्याक्षगो विधिः

शक्तितद्वत्प्रभेदेन तत्र द्वैरूप्यमुच्यते ॥३३॥

ततो द्विगुणमाने तु द्विरूपं न्यासमाचरेत्

ततो ̕पि द्विगुणे सृष्टिसंहृतिद्वितयेन तम् ॥३४॥

मातृकां मालिनीं वाथ न्यस्येत्खशरसंमिते

उत्तमे तु द्वयीं न्यस्येन्न्यस्य पूर्वं प्रचोदितान् ॥३५॥

दीक्षायां मुख्यतो मन्त्रांस्तान्पञ्चदश दैशिकः

यदि वा तत्त्वभुवनकलामन्त्रपदार्णजैः ॥३६॥

संख्याभेदैः कृते सूत्रे तं तं न्यासं गुरुश्चरेत्

कृत्वाक्षसूत्रं तस्यापि सर्वं स्थण्डिलवद्भवेत् ॥३७॥

पूजितेन तेनैव जपं कुर्यादतन्द्रितः

विधिरुक्तस्त्वयं श्रीमन्मालिनीविजयोत्तरे ॥३८॥

चक्रवद्भ्रमयन्नेतद्यद्वक्ति जपो भवेत्

यदीक्षते जुहोत्येतद्बोधाग्नौ संप्रवेशनात् ॥३९॥

अथवार्घमहापात्रं कुर्यात्तच्चोत्तरं परम्

नारिकेलमथो बैल्वं सौवर्णं राजतं वा ॥४०॥

तस्याप्येष विधिः सर्वः प्रतिष्ठादौ प्रकीर्तितः

तन्निष्कम्परसैः पूर्णं कृत्वास्मिन्पूजयेत्क्रमम् ॥४१॥

अधोमुखं सदा स्थाप्यं पूजितं पूजने पुनः

तत्पात्रमुन्मुखं तच्च रिक्तं कुर्यान्न तादृशम् ॥४२॥

पूजान्ते तद्रसापूर्णमात्मानं प्रविधाय तत्

अधोमुखं संपूज्य स्थापयेत् विचक्षणः ॥४३॥

खङ्गं कृपाणिकां यद्वा कर्तरीं मकुरं वा

विमलं तत्तथा कुर्याच्छ्रीमत्कालीमुखोदितम् ॥४४॥

श्रीभैरवकुलेऽप्युक्तं कुलपर्वप्रपूजने

स्थण्डिलेऽग्नौ पटे लिङ्गे पात्रे पद्मेऽथ मण्डले ॥४५॥

मूर्तौ घटेऽस्त्रसंघाते धटे सूत्रेऽथ पूजयेत्

स्वेन स्वेनोपचारेण सङ्करं वर्जयेदिति ॥४६॥

यथाप्सु शान्तये मन्त्रास्तद्वदस्त्रादिषु ध्रुवम्

शत्रुच्छेदादिकर्तारः काम्योऽतः सङ्करोज्झितः ॥४७॥

अकामस्य तु ते तत्तत्स्थानोपाधिवशाद्ध्रुवम्

पाशकर्तनसंशुद्धतत्त्वाप्यायादिकारिणः ॥४८॥

अथवा पुस्तकं तादृग्रहःशास्त्रक्रमोम्भितम्

सुशुद्धं दीक्षितकृतं तत्राप्येष विधिः स्मृतः ॥४९॥

इत्थं स्वयंप्रतिष्ठेषु यावद्यावत्स्थितिर्भवेत्

विभवैस्तर्पणं शुद्धिस्तावद्विच्छेदवर्जनम् ॥५०॥

अत एव यदा भूरिदिनं मण्डलकल्पनम्

तदा दिने दिने कुर्याद्विभवैस्तर्पणं बहु ॥५१॥

प्रतिष्ठायां सर्वत्र गुरुः पूर्वोदितं परम्

सतत्त्वमनुसन्धाय संनिधिं स्फुटमाचरेत् ॥५२॥

सिद्धे तु तन्मयीभावे फले पुत्रकसाधकैः

अन्यस्मै तद्द्वयादन्यतरस्मै तत्समर्प्यते ॥५३॥

तस्याप्येष विधिः सर्वस्तदलाभे तु सर्वथा

अगाधे ̕म्भसि तत्क्षेप्यं क्षमयित्वा विसृज्य ॥५४॥

इत्येष स्वप्रतिष्ठानविधिः शिवनिरूपितः

परप्रतिष्ठिते लिङ्गे बाणीयेऽथ स्वयंभुवि ॥५५॥

सर्वमासनपक्षे प्राङ्न्यस्य संपूजयेत्क्रमम्

शुद्धाशुद्धाध्वजाः सर्वे मन्त्राः सर्वः शिवान्तकः ॥५६॥

अध्वा चेहासने प्रोक्तस्तत्सर्वत्रार्चयेदिदम्

आवाहनविसृष्टी तु तत्र प्राग्वत्समाचरेत् ॥५७॥

उक्तं तन्त्रेऽप्यघोरेशे स्वच्छन्दे विभुना तथा

अथवा प्रत्यहं प्रोक्तमानार्धार्धनियोगतः ॥५८॥

कृत्वेष्टं मण्डलं तत्र समस्तं क्रममर्चयेत्

बहुप्रकारभिन्नस्य लिङ्गस्यार्चा निरूपिता ॥५९॥

 

 


 

 

 

Creative Commons License

Precedente Home Successiva

Tantraloka sans1 Tantraloka sans2 Tantraloka sans3 Tantraloka sans4 Tantraloka sans5 Tantraloka sans6 Tantraloka sans7 Tantraloka sans8 Tantraloka sans9 Tantraloka sans10 Tantraloka sans11 Tantraloka sans12 Tantraloka sans13 Tantraloka sans14 Tantraloka sans15 Tantraloka sans16 Tantraloka sans17 Tantraloka sans18 Tantraloka sans19 Tantraloka sans20

Privacy Policy