Tantraloka

by Abhinavagupta

 

In Sanscrito:

 

CAP.1 - CAP.2 - CAP.3 - CAP.4 - CAP.5 - CAP.6 - CAP.7 - CAP.8 - CAP.9 - CAP.10

CAP.11 - CAP.12 - CAP.13 - CAP.14 - CAP.15 - CAP.16 - CAP.17 - CAP.18 - CAP.19 - CAP.20

CAP.21 - CAP.22 - CAP.23 - CAP.24 - CAP.25 - CAP.26 - CAP.27 - CAP.28 - CAP.29 - CAP.30 

CAP.31 - CAP.32 - CAP.33 - CAP.34 - CAP.35 - CAP.36 - CAP.37 - Testo translitterato

pdf: Testo in sanscrito - Testo translitterato - Tantraloka with commentary by Rajanaka Jayaratha Vol.1 - Vol.2 - Vol.3 - Vol.4 - Vol.5 - Vol.6

 

 

TANTRALOKA SANSCRITO

 

 

Capitolo 21

 

 

अथ श्रीतन्त्रालोके एकविंशतितममाह्निकम्

 

परोक्षसंस्थितस्याथ दीक्षाकर्म निगद्यते ॥१॥

भुक्तिमुक्तिप्रसिद्ध्यर्थं नीयते सद्गुरुं प्रति

इत्यस्मिन्मालिनीवाक्ये प्रतिः सांमुख्यावाचकः ॥२॥

सांमुख्यं चास्य शिष्यस्य तत्कृपास्पदतात्मकम्

तमाराध्येति वचनं कृपाहेतूपलक्षणम् ॥३॥

तत्संबन्धात्ततः कश्चित्तत्क्षणादपवृज्यते

इत्यस्यायमपि ह्यर्थो मालिनीवाक्यसन्मणेः ॥४॥

तत्क्षणादिति नास्यास्ति यियासादिक्षणान्तरम्

किंत्वेवमेव करुणानिघ्नस्तं गुरुरुद्धरेत् ॥५॥

गुरुसेवाक्षीणतनोर्दीक्षामप्राप्य पञ्चताम्

गतस्याथ स्वयं मृत्युक्षणोदिततथारुचेः ॥६॥

अथवाधरतन्त्रादिदीक्षासंस्कारभागिनः

प्राप्तसामयिकस्याथ परां दीक्षामविन्दतः ॥७॥

डिम्बाहतस्य योगेशीभक्षितस्याभिचारतः

मृतस्य गुरुणा यन्त्रतन्त्रादिनिहतस्य वा ॥८॥

भ्रष्टस्वसमयस्याथ दीक्षां प्राप्तवतोऽप्यलम्

बन्धुभार्यासुहृत्पुत्रगाढाभ्यर्थनयोगतः ॥९॥

स्वयं तद्विषयोत्पन्नकरुणाबलतोऽपि वा

विज्ञाततन्मुखायातशक्तिपातांशधर्मणः ॥१०॥

गुरुर्दीक्षां मृतोद्धारीं कुर्वीत शिवदायिनीम्

श्रीमृत्युञ्जयसिद्धादौ तदुक्तं परमेशिना ॥११॥

अदीक्षिते नृपत्यादावलसे पतिते मृते

बालातुरस्त्रीवृद्धे मृतोद्धारं प्रकल्पयेत् ॥१२॥

विधिः सर्वः पूर्वमुक्तः तु संक्षिप्त इष्यते

गुर्वादिपूजारहितो बाह्ये भोगाय सा यतः ॥१३॥

अधिवासचरुक्षेत्रं शय्यामण्डलकल्पने

नोपयोग्यत्र तच्छिष्यसंस्क्रियास्वप्नदृष्टये ॥१४॥

मन्त्रसंनिधिसंतृप्तियोगायात्र तु मण्डलम्

भूयोदिने देवार्चा साक्षान्नास्योपकारि तत् ॥१५॥

क्रियोपकरणस्थानमण्डलाकृतिमन्त्रतः

ध्यानयोगैकतद्भक्तिज्ञानतन्मयभावतः ॥१६॥

तत्प्रविष्टस्य कस्यापि शिष्याणां गुरोस्तथा

एकादशैते कथिताः संनिधानाय हेतवः ॥१७॥

उत्तरोत्तरमुत्कृष्टास्तथा व्यामिश्रणावशात्

क्रियातिभूयसी पुष्पाद्युत्तमं लक्षणान्वितम् ॥१८॥

एकलिङ्गादि स्थानं यत्रात्मा संप्रसीदति

मण्डलं त्रित्रिशूलाब्जचक्रं यन्मन्त्रमण्डले ॥१९॥

अनाहूतेऽपि दृष्टं सत्समयित्वप्रसाधनम्

तदुक्तं मालिनीतन्त्रे सिद्धं समयमण्डलम् ॥२०॥

येन संदृष्टमात्रेति सिद्धमात्रपदद्वयात्

आकृतिर्दीप्तरूपा या मन्त्रस्तद्वत्सुदीप्तिकः ॥२१॥

शिष्टं स्पष्टमतो नेह कथितं विस्तरात्पुनः

कृत्वा मण्डलमभ्यर्च्य तत्र देवं कुशैरथ ॥२२॥

गोमयेनाकृतिं कुर्याच्छिष्यवत्तां निधापयेत्

ततस्तस्यां शोध्यमेकमध्वानं व्याप्तिभावनात् ॥२३॥

प्रकृत्यन्तं विनिक्षिप्य पुनरेनं विधिं चरेत्

महाजालप्रयोगेण सर्वस्मादध्वमध्यतः ॥२४॥

चित्तमाकृष्य तत्रस्थं कुर्यात्तद्विधिरुच्यते

मूलाधारादुदेत्य प्रसृतसुविततानन्तनाड्यध्वदण्डं वीर्येणाक्रम्य नासागगनपरिगतं विक्षिपन् व्याप्तुमीष्टे

यावद्धूमाभिरामप्रचिततरशिखाजालकेनाध्वचक्रं संछाद्याभीष्टजीवानयनमिति महाजालनामा प्रयोगः ॥२५॥

एतेनाच्छादनीयं व्रजति परवशं संमुखीनत्वमादौ पञ्चादानीयते चेत्सकलमथ ततोऽप्यध्वमध्याद्यथेष्टम्

आकृष्टावुद्धृतौ वा मृतजनविषये कर्षणीयेऽथ जीवे योगः श्रीशंभुनाथागमपरिगमितो जालनामा मयोक्तः ॥२६॥

चिरविघटिते सेनायुग्मेयथामिलिते पुनर्हयगजनरं स्वां स्वां जातिं रसादभिधावति

करणपवनैर्नाडीचक्रैस्तथैव समागतैर्निजनिजरसादेकीभाव्यं स्वजालवशीकृतैः  ॥२७॥

महाजालसमाकृष्टो जीवो विज्ञानशालिना

स्वःप्रेततिर्यङ्निरयांस्तदैवैष विमुञ्चति ॥२८॥

तज्ज्ञानमन्त्रयोगाप्तः पुरुषश्चैष कृत्रिमम्

योगीव साध्यहृदयात्तदा तादात्म्यमुज्झति ॥२९॥

स्थावरादिदशाश्चित्रास्तत्सलोकसमीपताः

त्यजेच्चेति चित्रं एवं यः कर्मणापि वा ॥३०॥

अधिकारिशरीरत्वान्मानुष्ये तु शरीरगः

तदा मुच्यते देहाद्देहान्ते तु शिवं व्रजेत् ॥३१॥

तस्मिन्देहे तु काप्यस्य जायते शाङ्करी परा

भक्तिरूहाच्च विज्ञानादाचार्याद्वाप्यसेवितात् ॥३२॥

तद्देहसंस्थितोऽप्येष जीवो जालबलादिमम्

दार्भादिदेहं व्याप्नोति स्वाधिष्ठित्याप्यचेतयन् ॥३३॥

योगमन्त्रक्रियाज्ञानभूयोबलवशात्पुनः

मनुष्यदेहमप्येष तदैवाशु विमुञ्चति ॥३४॥

सुप्तकल्पोऽप्यदेहो ̕पि यो जीवः सो ̕पि जालतः

आकृष्टो दार्भमायाति देहं फलमयं वा ॥३५॥

जातीफलादि यत्किंचित्तेन वा देहकल्पना

अन्तर्बहिर्द्वयौचित्यात्तदत्रोत्कृष्टमुच्यते ॥३६॥

ततो जालक्रमानीतः जीवः सुप्तवत्स्थितः

मनोविशिष्टदेहादिसामग्रीप्राप्त्यभावतः ॥३७॥

स्पन्दते जानाति वक्ति किलेच्छति

तादृशस्यैव संस्कारान् सर्वान् प्राग्वत्प्रकल्पयेत् ॥३८॥

निर्बीजदीक्षायोगेन सर्वं कृत्वा पुरोदितम्

विधिं योजनिकां पूर्णाहुत्या साकं क्षिपेच्च तम् ॥३९॥

दार्भादिदेहे मन्त्राग्नावर्पिते पूर्णया सह

मुक्तपाशः शिवं याति पुनरावृत्तिवर्जितः ॥४०॥

सप्रत्यया त्वियं यत्र स्पन्दते दर्भजा तनुः

तत्र प्राणमनोमन्त्रार्पणयोगात्तथा भवेत् ॥४१॥

साभ्यासस्य तदप्युक्तं बलाश्वासि तत्कृते

मृतोद्धारोदितैरेव यथासंभूति हेतुभिः ॥४२॥

जीवत्परोक्षदीक्षापि कार्या निर्बीजिका तु सा

तस्यां दर्भाकृतिप्रायकल्पने जालयोगतः ॥४३॥

संकल्पमात्रेणाकर्षो जीवस्य मृतिभीतितः

शिष्टं प्राग्वत्कुशाद्युत्थाकारविप्लोषवर्जितम् ॥४४॥

पारिमित्यादनैश्वर्यात्साध्ये नियतियन्त्रणात्

जालाकृष्टिर्विनाभ्यासं रागद्वेषान्न जायते ॥४५॥

परोक्ष एवातुल्याभिर्दीक्षाभिर्यदि दीक्षितः

तत्रोत्तरं स्याद्बलवत्संस्काराय त्वधस्तनम् ॥४६॥

भुक्तियोजनिकायां तु भूयोभिर्गुरुभिस्तथा

कृतायां भोगवैचित्र्यं हेतुवैचित्र्ययोगतः ॥४७॥

परोक्षदीक्षणे मायोत्तीर्णे भोगाय योजयेत्

भोगानीप्सा दुर्लभा हि सती वा भोगहानये ॥४८॥

उक्तं हि स्वान्यसंवित्त्योः स्वसंविद्बलवत्तरा

बाधकत्वे बाधिकासौ साम्यौदासीन्ययोस्तथा ॥४९॥

श्रीमान् धर्मशिवोऽप्याह पारोक्ष्यां कर्मपद्धतौ

परोक्षदीक्षणे सम्यक् पूर्णाहुतिविधौ यदि ॥५०॥

अग्निश्चिटिचिटाशब्दं सधूमं प्रतिमुञ्चति

धत्ते नीलाम्बुदच्छायां मुहुर्ज्वलति शाम्यति ॥५१॥

विस्तरो घोररूपश्च महीं धावति चाप्यधः

ध्वांक्षाद्यश्रव्यशब्दो वा तदा तं लक्षयेद्गुरुः ॥५२॥

ब्रह्महत्यादिभिः पापैस्तत्सङ्गैश्चोपपातकैः

तदा तस्य कर्तव्या दीक्षास्मिन्नकृते विधौ ॥५३॥

नवात्मा फट्पुटान्तःस्थः पुनः पञ्चफडन्वितः

अमुकस्येति पापानि दहाम्यनु फडष्टकम् ॥५४॥

इति साहस्रिको होमः कर्तव्यस्तिलतण्डुलैः

अन्ते पूर्णा दातव्या ततोऽस्मै दीक्षया गुरुः ॥५५॥

परयोजनपर्यन्तं कुर्यात्तत्त्वविशोधनम्

प्रत्यक्षेऽपि स्थितस्याणोः पापिनो भगवन्मयीम् ॥५६॥

शक्तिं प्राप्तवतो ज्येष्ठामेवमेव विधिं चरेत्

यदि वा दैशिकः सम्यङ् दीप्तस्तस्य तत्पुरा ॥५७॥

प्रायश्चित्तैस्तथा दानैः प्राणायामैश्च शोधनम्

कृत्वा विधिमिमां चापि दीक्षां कुर्यादशङ्कितः ॥५८॥

सर्वथा वर्तमानोऽपि तत्त्वविन्मोचयेत्पशून्

इच्छयैव शिवः साक्षात्तस्मात्तं पूजयेत्सदा ॥५९॥

शाठ्यं तत्र कार्यं तत्कृत्वाधो व्रजेच्छिशुः

पुनः कीर्तयेत्तस्य पापं कीर्तयिता व्रजेत् ॥६०॥

निरयं वर्जयेत्तस्मादिति दीक्षोत्तरे विधिः

एषा परोक्षदीक्षा द्विधोदिता जीवदितरभेदेन ॥६१॥

 

 


 

 

Capitolo 22

 

अथ श्रीतन्त्रालोके द्वाविंशतितममाह्निकम्

 

लिङ्गोद्धाराख्यामथ वच्मः शिवशासनैकनिर्दिष्टाम् ॥१॥

उक्तं श्रीमालिनीतन्त्रे किल पार्थिवधारणाम्

उक्त्वा यो योजितो यत्र तस्मान्न निवर्तते ॥२॥

योग्यतावशसंजाता यस्य यत्रैव शासना

तत्रैव नियोक्तव्यो दीक्षाकाले ततस्त्वसौ ॥३॥

फलं सर्वं समासाद्य शिवे युक्तो ̕पवृज्यते

अयुक्तो ̕प्यूर्ध्वसंशुद्धिं संप्राप्य भुवनेशतः ॥४॥

शुद्धः शिवत्वमायाति दग्धसंसारबन्धनः

उक्त्वा पुंधारणां चोक्तमेतद्वैदान्तिकं मया ॥५॥

कपिलाय पुरा प्रोक्तं प्रथमे पटले तथा

अनेन क्रमयोगेन संप्राप्तः परमं पदम् ॥६॥

भूयः पशुतामेति शुद्धे स्वात्मनि तिष्ठति

अतो हि ध्वन्यतेऽर्थोऽयं शिवतत्त्वाधरेष्वपि ॥७॥

तत्त्वेषु योजितस्यास्ति पुनरुद्धरणीयता

समस्तशास्त्रकथितवस्तुवैविक्त्यदायिनः ॥८॥

शिवागमस्य सर्वेभ्योऽप्यागमेभ्यो विशिष्टता

शिवज्ञानेन विना भूयो ̕पि पशुतोद्भवः ॥९॥

क्रमश्च शक्तिसंपातो मलहानिर्यियासुता

दीक्षा बोधो हेयहानिरुपादेयलयात्मता ॥१०॥

भोग्यत्वपाशवत्यागः पतिकर्तृत्वसंक्षयः

स्वात्मस्थितिश्चेत्येवं हि दर्शनान्तरसंस्थितेः ॥११॥

प्रोक्तमुद्धरणीयत्वं शिवशक्तीरितस्य हि

अथ वैष्णवबौद्धादितन्त्रान्ताधरवर्तिनाम् ॥१२॥

यदा शिवार्करश्म्योघैर्विकासि हृदयाम्बुजम्

लिङ्गोद्धृतिस्तदा पूर्वं दीक्षाकर्म ततः परम् ॥१३॥

प्राग्लिङ्गान्तरसंस्थो ̕पि दीक्षातः शिवतां व्रजेत्

तत्रोपवास्य तं चान्यदिने साधारमन्त्रतः ॥१४॥

स्थण्डिले पूजयित्वेशं श्रावयेत्तस्य वर्तनीम्

एष प्रागभवल्लिङ्गी चोदितस्त्वधुना त्वया ॥१५॥

प्रसन्नेन तदेतस्मै कुरु सम्यगनुग्रहम्

स्वलिङ्गत्यागशङ्कोत्थं प्रायश्चित्तं मास्य भूत् ॥१६॥

अचिरात्त्वन्मयीभूय भोगं मोक्षं प्रपद्यताम्

एवमस्त्वित्यथाज्ञां गृहीर्वा व्रतमस्य तत् ॥१७॥

अपास्याम्भसि निक्षिप्य स्नपयेदनुरूपतः

स्नातं संप्रोक्षयेदर्घपात्राम्भोभिरनन्तरम् ॥१८॥

पञ्चगव्यं दन्तकाष्ठं ततस्तस्मै समर्पयेत्

ततस्तं बद्धनेत्रं प्रवेश्य प्रणिपातयेत् ॥१९॥

प्रणवो मातृका माया व्योमव्यापी षडक्षरः

बहुरूपोऽथ नेत्राख्यः सप्त साधारणा अमी ॥२०॥

तेषां मध्यादेकतमं मन्त्रमस्मै समर्पयेत्

सोऽप्यहोरात्रमेवैनं जपेदल्पभुगप्यभुक् ॥२१॥

मन्त्रमस्मै समर्प्याथ साधारविधिसंस्कृते

वह्नौ तर्पिततन्मन्त्रे व्रतशुद्धिं समाचरेत् ॥२२॥

पूजितेनैव मन्त्रेण कृत्वा नामास्य संपुटम्

प्रायश्चित्तं शोधयामि फट्स्वाहेत्यूहयोगतः ॥२३॥

शतं सहस्रं वा हुत्वा पुनः पूर्णाहुतिं तथा

प्रयोगाद्वौषडन्तां क्षिप्त्वाहूय व्रतेश्वरम् ॥२४॥

तारो व्रतेश्वरायेति नमश्चेत्येनमर्चयेत्

श्रावयेच्च त्वया नास्य कार्यं किंचिच्छिवाज्ञया ॥२५॥

ततो व्रतेश्वरस्तर्प्यः स्वाहान्तेन ततश्च सः

क्षमयित्वा विसृज्यः स्यात्ततोऽग्नेश्च विसर्जनम् ॥२६॥

तच्छ्रावणं देवाय क्षमस्वेति विसर्जनम्

ततस्तृतीयदिवसे प्राग्वत्सर्वो विधिः स्मृतः ॥२७॥

अधिवासादिकः स्वेष्टदीक्षाकर्मावसानकः

प्राग्लिङ्गिनां मोक्षदीक्षा साधिकारविवर्जिता ॥२८॥

साधकाचार्यतामार्गे योग्यास्ते पुनर्भुवः

पुनर्भुवोऽपि ज्ञानेद्धा भवन्ति गुरुतास्पदम् ॥२९॥

मोक्षायैव भोगाय भोगायाप्यभ्युपायतः

इत्युक्तवान्स्वपद्धत्यामीशानशिवदैशिकः ॥३०॥

श्रीदेव्या यामलीयोक्तितत्त्वसम्यक्प्रवेदकः

गुर्वन्तस्याप्यधोदृष्टिशायिनः संस्क्रियामिमाम् ॥३१॥

कृत्वा रहस्यं कथयेन्नान्यथा कामिके किल

अन्यतन्त्राभिषिक्तेऽपि रहस्यं प्रकाशयेत् ॥३२॥

स्वतन्त्रस्थो ̕पि गुर्वन्तो गुरुमज्ञमुपाश्रितः

तत्र पश्चादनाश्वस्तस्तत्रापि विधिमाचरेत् ॥३३॥

अज्ञाचार्यमुखायातं निर्वीर्यं मन्त्रमेष यत्

जप्तवान्स गुरुश्चात्र नाधिकार्युक्तदूषणात् ॥३४॥

ततोऽस्य शुद्धिं प्राक्कृत्वा ततो दीक्षां समाचरेत्

अधोदर्शनसंस्थेन गुरुणा दीक्षितः पुरा ॥३५॥

तीव्रशक्तिवशात्पश्चाद्यदा गच्छेत्स सद्गुरुम्

तदाप्यस्य शिशोरेवं शुद्धिं कृत्वा सद्गुरुः ॥३६॥

दीक्षादिकर्म निखिलं कुर्यादुक्तविधानतः

प्राप्तो ̕पि सद्गुरुर्योग्यभावमस्य वेत्ति चेत् ॥३७॥

विज्ञानदाने तच्छिष्यो योग्यतां दर्शयेन्निजाम्

सर्वथा त्वब्रुवन्नेष ब्रुवाणो वा विपर्ययम् ॥३८॥

अज्ञो वस्तुत एवेति तत्त्यक्त्वेत्थं विधिं चरेत्

तिरोभावशङ्कात्र कर्तव्या बुद्धिशालिना ॥३९॥

अधःस्पृक्त्वं तिरोभूतिर्नोर्ध्वोपायविवेचनम्

सिद्धान्ते दीक्षितास्तन्त्रे दशाष्टादशभेदिनि ॥४०॥

भैरवीये चतुःषष्टौ तान्पशून्दीक्षयेत्त्रिके

सिद्धवीरावलीसारे भैरवीये कुले ̕पि ॥४१॥

पञ्चदीक्षाक्रमोपात्ता दीक्षानुत्तरसंज्ञिता

तेन सर्वो ̕धरस्थो ̕पि लिङ्गोद्धृत्यानुगृह्यते ॥४२॥

योऽपि हृत्स्थमहेशानचोदनातः सुविस्तृतम्

शास्त्रज्ञानं समन्विच्छेत्सोऽपि यायाद्बहून्गुरून् ॥४३॥

तद्दीक्षाश्चापि गृह्णीयादभिषेचनपश्चिमाः

ज्ञानोपोद्बलिकास्ता हि तत्तज्ज्ञानवता कृताः ॥४४॥

उक्तं श्रीमते शास्त्रे तत्र तत्र भूयसा

आमोदार्थी यथा भृङ्गः पुष्पात्पुष्पान्तरं व्रजेत् ॥४५॥

विज्ञानार्थी तथा शिष्यो गुरोर्गुर्वन्तरं त्विति

गुरूणां भूयसां मध्ये यतो विज्ञानमुत्तमम् ॥४६॥

प्राप्तं सोऽस्य गुरुर्दीक्षा नात्र मुख्या हि संविदि

सर्वज्ञाननिधानं तु गुरुं संप्राप्य सुस्थितः ॥४७॥

तमेवाराधयेद्धीमांस्तत्तज्जिज्ञासनोन्मुखः

इति दीक्षाविधिः प्रोक्तो लिङ्गोद्धरणपश्चिमः ॥४८॥

 

 


 

 

Capitolo 23

 

 

अथ श्रीतन्त्रालोके त्रयोविंशतितममाह्निकम्

 

अथाभिषेकस्य विधिः कथ्यते पारमेश्वरः ॥१॥

यैषा पुत्रकदीक्षोक्ता गुरुसाधकयोरपि

सैवाधिकारिणी भोग्यतत्त्वयुक्तिमती क्रमात् ॥२॥

स्वभ्यस्तज्ञानिनं सन्तं बुभूषुमथ भाविनम्

योग्यं ज्ञात्वा स्वाधिकारं गुरुस्तस्मै समर्पयेत् ॥३॥

यो नैवं वेद नैवासावभिषिक्तोऽपि दैशिकः

समय्यादिक्रमेणेति श्रीमत्कामिक उच्यते ॥४॥

यो वेदाध्वसन्धानं षोढा बाह्यान्तरस्थितम्

गुरुर्मोचयेन्नेति सिद्धयोगीश्वरीमते ॥५॥

सर्वलक्षणहीनोऽपि ज्ञानवान् गुरुरिष्यते

ज्ञानप्राधान्यमेवोक्तमिति श्रीकचभार्गवे ॥६॥

पदवाक्यप्रमाणज्ञः शिवभक्त्येकतत्परः

समस्तशिवशास्त्रार्थबोद्धा कारुणिको गुरुः ॥७॥

स्वयंभूस्तस्य चोक्तं लक्षणं परमेशिना

अभक्तो जीवितधिया कुर्वन्नीशानधिष्ठितः ॥८॥

पश्चात्मना स्वयंभूष्णुर्नाधिकारी कुत्रचित्

भस्माङ्कुरो व्रतिसुतो दुःशीलातनयस्तथा ॥९॥

कुण्डो गोलश्च ते दुष्टा उक्तं देव्याख्ययामले

पुनर्भूश्चान्यलिङ्गो यः पुनः शैवे प्रतिष्ठितः ॥१०॥

श्रीपूर्वशास्त्रे त्वेष नियमः कोऽपि चोदितः

यथार्थतत्त्वसंघज्ञस्तथा शिष्ये प्रकाशकः ॥११॥

यः पुनः सर्वतत्त्वानि वेत्तीत्यादि लक्षणम्

योगचारे यद्यत्र तन्त्रे चोदितमाचरेत् ॥१२॥

तथैव सिद्धये सेयमाज्ञेति किल वर्णितम्

यस्तु कर्मितयाचार्यस्तत्र काणादिवर्जनम् ॥१३॥

यतः कारकसामग्र्यात्कर्मणो नाधिकः क्वचित्

देव्या यामलशास्त्रे काञ्च्यादिपरिवर्जनम् ॥१४॥

तद्दृष्टदोषात्क्रोधादेः सम्यक्ज्ञातर्यसौ कुतः

गुरवस्तु स्वयंभ्वादि वर्ज्यं यद्यामलादिषु ॥१५॥

कर्म्यभिप्रायतः सर्वं तदिति व्याचचक्षिरे

अतो देशकुलाचारदेहलक्षणकल्पनाम् ॥१६॥

अनादृत्यैव संपूर्णज्ञानं कुर्याद्गुरुर्गुरुम्

प्राग्वत्संपूज्य हुत्वा श्रावयित्वा चिकीर्षितम् ॥१७॥

ततो ̕भिषिञ्चेत्तं शिष्यं चतुःषष्ट्या ततः सकृत्

तन्मन्त्ररसतोयेन पूर्वोक्तविधिना गुरुः ॥१८॥

विभवेन सुविस्तीर्णं ततस्तस्मै वदेत्स्वकम्

सर्वं कर्तव्यसारं यच्छास्त्राणां परमं रहः ॥१९॥

अनुग्राह्यास्त्वया शिष्याः शिवशक्तिप्रचोदिताः

उक्तं ज्ञानोत्तरे चैतद्ब्राह्मणाः क्षत्रिया विशः ॥२०॥

नपुंसकाः स्त्रियः शूद्रा ये चान्येऽपि तदर्थिनः

ते दीक्षायां मीमांस्या ज्ञानकाले विचारयेत् ॥२१॥

ज्ञानमूलो गुरुः प्रोक्तः सप्तसत्रीं प्रवर्तयेत्

दीक्षा व्याख्या कृपा मैत्री शास्त्रचिन्ता शिवैकता ॥२२॥

अन्नादिदानमित्येतत्पालयेत्सप्तसत्रकम्

अभिषेकविधौ चास्मै करणीखटिकादिकम् ॥२३॥

सर्वोपकरणव्रातमर्पणीयं विपश्चिते

सो ̕भिषिक्तो गुरुं पश्चाद्दक्षिणाभिः प्रपूजयेत् ॥२४॥

ज्ञानहीनो गुरुः कर्मी स्वाधिकारं समर्प्य नो

दीक्षाद्यधिकृतिं कुर्याद्विना तस्याज्ञया पुनः ॥२५॥

इत्येवं श्रावयेत्सोऽपि नमस्कृत्याभिनन्दयेत्

ततः प्रभृत्यसौ पूर्वो गुरुस्त्यक्ताधिकारकः ॥२६॥

यथेच्छं विचरेद्व्याख्यादीक्षादौ यन्त्रणोज्झितः

कुर्वन्न बाध्यते यस्माद्दीपाद्दीपवदीदृशः ॥२७॥

सन्तानो नाधिकारस्य च्यवोऽकुर्वन्न बाध्यते

प्राक् कुर्वन्विहन्येत सिद्धातन्त्रे तदुच्यते ॥२८॥

यथार्थमुपदेशं तु कुर्वन्नाचार्य उच्यते

चावज्ञा क्रियाकाले संसारोद्धरणं प्रति ॥२९॥

दीक्षेत गुरुः शिष्यं तत्त्वयुक्तस्तु गर्वतः

योऽस्य स्यान्नरके वास इह व्याधितो भवेत् ॥३०॥

प्राप्ताभिषेकः गुरुः षण्मासान्मन्त्रपद्धतिम्

सर्वां तन्त्रोदितां ध्यायेज्जपेच्चातन्मयत्वतः ॥३१॥

यदैव तन्मयीभूतस्तदा वीर्यमुपागतः

छिन्द्यात्पाशांस्ततो यत्नं कुर्यात्तन्मयतास्थितौ ॥३२॥

हृच्चक्रादुत्थिता सूक्ष्मा शशिस्फटिकसंनिभा

लेखाकारा नादरूपा प्रशान्ता चक्रपङ्क्तिगा ॥३३॥

द्वादशान्ते निरूढा सा सौषुम्ने त्रिपथान्तरे

तत्र हृच्चक्रमापूर्य जपेन्मन्त्रं ज्वलत्प्रभम् ॥३४॥

चक्षुर्लोमादिरन्ध्रौघवहज्ज्वालौर्वसंनिभम्

यावच्छान्तशिखाकीर्णं विश्वाज्यप्रविलापकम् ॥३५॥

तदाज्यधारासंतृप्तमानाभिकुहरान्तरम्

एवं मन्त्रा मोक्षदाः स्युर्दीप्ता बुद्धाः सुनिर्मलाः ॥३६॥

मूलकन्दनभोनाभिहृत्कण्ठालिकतालुगम्

अर्धेन्दुरोधिकानादतदन्तव्यापिशक्तिगम् ॥३७॥

समनोन्मनशुद्धात्मपरचक्रसमाश्रितम्

यत्र यत्र जपेच्चक्रे समस्तव्यस्तभेदनात् ॥३८॥

तत्र तत्र महामन्त्र इति देव्याख्ययामले

विद्याव्रतमिदं प्रोक्तं मन्त्रवीर्यप्रसिद्धये ॥३९॥

तच्च तादात्म्यमेवेति यदुक्तं स्पन्दशासने

तदाक्रम्य बलं मन्त्राः सर्वज्ञबलशालिनः ॥४०॥

प्रवर्तन्ते ̕धिकाराय करणानीव देहिनाम्

कृतविद्याव्रतः पश्चाद्दीक्षाव्याख्यादि सर्वतः ॥४१॥

कुर्याद्योग्येषु शिष्येषु नायोग्येषु कदाचन

रहस्ये योजयेद्विप्रं परीक्ष्य विपरीततः ॥४२॥

आचाराच्छक्तिमप्येव नान्यथेत्यूर्मिशासने

नित्याद्यल्पाल्पकं कुर्याद्यदुक्तं ब्रह्मयामले ॥४३॥

चीर्णविद्याव्रतः सर्वं मनसा वा स्मरेत्प्रिये

देहसंबन्धसंछन्नसार्वज्ञ्यो दम्भभाजनम् ॥४४॥

अविदन्दीक्षमाणोऽपि दुष्येद्दैशिकः क्वचित्

ज्ञात्वा त्वयोग्यतां नैनं दीक्षेत प्रत्यवायिताम् ॥४५॥

बुद्ध्वा ज्ञाने शास्त्रसिद्धिगुरुत्वादौ तं पुनः

भूय एव परीक्षेत तत्तदौचित्यशालिनम् ॥४६॥

तत्र तत्र नियुञ्जीत नतु जातु विपर्ययात्

ननु तद्वस्त्वयोग्यस्य तत्रेच्छा जायते कुतः ॥४७॥

तदीशाधिष्ठितेच्छैव योग्यतामस्य सूचयेत्

सत्यं कापि प्रबुद्धासाविच्छा रूढिं गच्छति ॥४८॥

विद्युद्वत्पापशीलस्य यथा पापापवर्जने

रूढ्यरूढी तदिच्छाया अपि शंभुप्रसादतः ॥४९॥

अप्ररूढतथेच्छाकस्तत एव भाजनम्

यः सम्यग्ज्ञानमादाय गुरुविश्वासवर्जितः ॥५०॥

लोकं विप्लावयेन्नास्मिञ्ज्ञाते विज्ञानमर्पयेत्

अज्ञाते ̕पि पुनर्ज्ञाते विज्ञानहरणं चरेत् ॥५१॥

पुनःपुनर्यदा ज्ञातो विश्वासपरिवर्जितः

तदा तमग्रतो ध्यायेत्स्फुरन्तं चन्द्रसूर्यवत् ॥५२॥

ततो निजहृदम्भोजबोधाम्बरतलोदिताम्

स्वर्भानुमलिनां ध्यायेद्वामां शक्तिं विमोहनीम् ॥५३॥

वामाचारक्रमेणैनां निःसृतां साध्यगामिनीम्

चिन्तयित्वा तया ग्रस्तप्रकाशं तं विचिन्तयेत् ॥५४॥

अनेन क्रमयोगेन मूढबुद्धेर्दुरात्मनः

विज्ञानमन्त्रविद्याद्याः प्रकुर्वन्त्यपकारिताम् ॥५५॥

ननु विज्ञानमात्मस्थं कथं हर्तुं क्षमं भवेत्

अतो विज्ञानहरणं कथं श्रीपूर्व उच्यते ॥५६॥

उच्यते नास्य शिष्यस्य विज्ञानं रूढिमागतम्

तथात्वे हरणं कस्मात्पूर्णयोग्यत्वशालिनः ॥५७॥

किंत्वेष वामया शक्त्या मूढो गाढं विभोः कृतः

स्वभावादेव तेनास्य विद्याद्यमपकारकम् ॥५८॥

गुरुः पुनः शिवाभिन्नः सन्यः पञ्चविधां कृतिम्

कुर्याद्यदि ततः पूर्णमधिकारित्वमस्य तत् ॥५९॥

अतो यथा शुद्धतत्त्वसृष्टिस्थित्योर्मलात्यये

योजनानुग्रहे कार्यचतुष्के ̕धिकृतो गुरुः ॥६०॥

शिवाभेदेन तत्कुर्यात्तद्वत्पञ्चममप्ययम्

तिरोभावाभिधं कृत्यं तथासौ शिवतात्मकः ॥६१॥

अत एव शिवे शास्त्रे ज्ञाने चाश्वासभाजनम्

गुरोर्मूढतया कोपधामापि तिरोहितः ॥६२॥

गुरुर्हि कुपितो यस्य तिरोहित उच्यते

संसारी सतु देवो हि गुरुर्न मृषाविदः ॥६३॥

तत एव शास्त्रादिदूषको यद्यपि क्रुधा

दह्यतेऽसौ गुरुणा तथाप्येष तिरोहितः ॥६४॥

अस्मद्गुर्वागमस्त्वेष तिरोभूते स्वयं शिशौ

कुप्येन्न शपेद्धीमान् ह्यनुग्राहकः सदा ॥६५॥

ईशेच्छाचोदितः पाशं यदि कण्ठे निपीडयेत्

किमाचार्येण तत्रास्य कार्या स्यात्सहकारिता ॥६६॥

शिवाभिन्नोऽपि हि गुरुरनुग्रहमयीं विभोः

मुख्यां शक्तिमुपासीनोऽनुगृह्णीयात्स सर्वथा ॥६७॥

स्वातन्त्र्यमात्रज्ञप्त्यै तु कथितं शास्त्र ईदृशम्

कार्यं पततां हस्तालम्बः सह्यो पातनम् ॥६८॥

अत एव स्वतन्त्रत्वादिच्छायाः पुनरुन्मुखम्

प्रायश्चित्तैर्विशोध्यैनं दीक्षेत कृपया गुरुः ॥६९॥

ऊर्ध्वदृष्टौ प्रपन्नः सन्ननाश्वस्तस्ततः परम्

अधःशास्त्रं प्रपद्यापि श्रेयःपात्रतामियात् ॥७०॥

अधोदृष्टौ प्रपन्नस्तु तदनाश्वस्तमानसः

ऊर्ध्वशासनभाक् पापं तच्चोज्झेच्च शिवीभवेत् ॥७१॥

राज्ञे द्रुह्यन्नमात्याङ्गभूतोऽपि हि विहन्यते

विपर्ययस्तु नेत्येवमूर्ध्वां दृष्टिं समाश्रयेत् ॥७२॥

श्रीपूर्वशास्त्रे तेनोक्तं यावत्तेनैव नोद्धृतः

अत्र ह्यर्थोऽयमेतावत्पूर्वोक्तज्ञानवृंहितः ॥७३॥

गुरुस्तावत्स एवात्र तच्छब्देनावमृश्यते

तादृक्स्वभ्यस्तविज्ञानभाजोर्ध्वपदशालिना ॥७४॥

अनुद्धृतस्य श्रेय एतदन्यगुरूद्धृतेः

अत एवाम्बुजन्मार्कदृष्टान्तोऽत्र निरूपितः ॥७५॥

त्रिजगज्ज्योतिषो ह्यन्यत्तेजोऽन्यच्च निशाकृतः

ज्ञानमन्यत्त्रिकगुरोरन्यत्त्वधरवर्तिनाम् ॥७६॥

अत एव पुराभूतगुर्वभावो यदा तदा

तदन्यं लक्षणोपेतमाश्रयेत्पुनरुन्मुखः ॥७७॥

सति तस्मिंस्तून्मुखः सन्कस्माज्जह्याद्यदि स्फुटम्

स्यादन्यतरगो दोषो यो ̕धिकारापघातकः ॥७८॥

दोषश्चेह लोकस्थो दोषत्वेन निरूप्यते

अज्ञानख्यापनायुक्तख्यापनात्मा त्वसौ मतः ॥७९॥

शिष्यस्यापि तथाभूतज्ञानानाश्वस्तरूपता

मुख्यो दोषस्तदन्ये हि दोषास्तत्प्रभवा यतः ॥८०॥

ध्वस्तव्याधिकः को हि भिषजं बहु मन्यते

असूयुर्नूनमध्वस्तव्याधिः स्वस्थायते बलात् ॥८१॥

एवं ज्ञानसमाश्वस्तः किं किं गुरवे चरेत्

नो चेन्नूनमविश्वस्तो विश्वस्त इव तिष्ठति ॥८२॥

अज्ञानादय एवैते दोषा लौकिका गुरोः

इति ख्यापयितुं प्रोक्तं मालिनीविजयोत्तरे ॥८३॥

तस्यान्वेषयेद्वृत्तं शुभं वा यदि वाशुभम्

एव तद्विजानाति युक्तं चायुक्तमेव वा ॥८४॥

अकार्येषु यदा सक्तः प्राणद्रव्यापहारिषु

तदा निवारणीयो ̕सौ प्रणतेन विपश्चिता ॥८५॥

विशेषणमकार्याणामुक्ताभिप्रायमेव यत्

तेनातिवार्यमाणोऽपि यद्यसौ निवर्तते ॥८६॥

तदान्यत्र क्वचिद्गत्वा शिवमेवानुचिन्तयेत्

ह्यस्य गुरुत्वे स्याद्दोषो येनोषरे कृषिम् ॥८७॥

कुर्याद्व्रजेन्निशायां वा त्वर्थप्राणहारकः

तदीयाप्रियभीरुस्तु परं तादृशमाचरेत् ॥८८॥

यतस्तदप्रियं नैष शृणुयादिति भाषितम्

श्रीमातङ्गे तदुक्तं नाधीतं भूमभीतितः ॥८९॥

यच्चैतदुक्तमेतावत्कर्तव्यमिति तद्ध्रुवम्

तीव्रशक्तिगृहीतानां स्वयमेव हृदि स्फुरेत् ॥९०॥

उपदेशस्त्वयं मन्दमध्यशक्तेर्निजां क्रमात्

शक्तिं ज्वलयितुं प्रोक्तः सा ह्येवं जाज्वलीत्यलम् ॥९१॥

दृढानुरागसुभगसंरम्भाभोगभागिनः

स्वोल्लासि स्मरसर्वस्यं दार्ढ्यायान्यत्र दृश्यते ॥९२॥

नन्वेष कस्माद्दृष्टान्तः किमेतेनाशुभं कृतम्

चित्स्पन्दः सर्वगो भिन्नादुपाधेः तथा तथा ॥९३॥

भवेत्कोऽपि तिरोभूतः पुनरुन्मुखितोऽपि सन्

विनापि दैशिकात्प्राग्वत्स्वयमेव विमुच्यते ॥९४॥

प्रकारस्त्वेष नात्रोक्तः शक्तिपातबलाद्गतः

असंभाव्यतया चात्र दृढकोपप्रसादवत् ॥९५॥

इत्येष यो गुरोः प्रोक्तो विधिस्तं पालयेद्गुरुः

अन्यथा शिवं यायाच्छ्रीमत्सारे वर्णितम् ॥९६॥

अन्यायं ये प्रकुर्वन्ति शास्त्रार्थं वर्जयन्त्यलम्

तेऽर्धनारीशपुरगा गुरवः समयच्युताः ॥९७॥

अन्यत्राप्यधिकारं नेयाद्विद्येशतां व्रजेत्

अन्यत्र समयत्यागात्क्रव्यादत्वं शतं समाः ॥९८॥

इयत्तत्रत्यतात्पर्यं सिद्धान्तगुरुरुन्नयः

भवेत्पिशाचविद्येशः शुद्ध एव तु तान्त्रिकः ॥९९॥

षडर्धदैशिकश्चार्धनारीशभुवनस्थितिः

एषा कर्मप्रधानानां गुरूणां गतिरुच्यते ॥१००॥

ज्ञानिनां चैष नो बन्ध इति सर्वत्र वर्णितम्

साधकस्याभिषेके ̕पि सर्वोऽयं कथ्यते विधिः ॥१०१॥

अधिकारार्पणं नात्र नच विद्याव्रतं किल

साध्यमन्त्रार्पणं त्वत्र स्वोपयोगिक्रियाक्रमे ॥१०२॥

समस्तेऽप्युपदेशः स्यान्निजोपकरणार्पणम्

अभिषेकविधिर्निरूपितः परमेशेन यथा निरूपितः ॥१०३॥

 

 


 

 

Capitolo 24

 

 

अथ श्रीतन्त्रालोके चतुर्विंशतितममाह्निकम्

 

अथ शाम्भवशासनोदितां सरहस्यां शृणुतान्त्यसंस्क्रियाम् ॥१॥

सर्वेषामधरस्थानां गुर्वन्तानामपि स्फुटम्

शक्तिपातात्पुराप्रोक्तात्कुर्यादन्त्येष्टिदीक्षणम् ॥२॥

ऊर्ध्वशासनगानां समयोपहतात्मनाम्

अन्त्येष्टिदीक्षा कर्तव्या गुरुणा तत्त्ववेदिना ॥३॥

समयाचारदोषेषु प्रमादात्स्खलितस्य हि

अन्त्येष्टिदीक्षा कार्येति श्रीदीक्षोत्तरशासने ॥४॥

यत्किंचित्कथितं पूर्वं मृतोद्धाराभिधे विधौ

प्रतिमायां तदेवात्र सर्वं शवतनौ चरेत् ॥५॥

श्रीसिद्धातन्त्रकथितो विधिरेष निरूप्यते

अन्तिमं यद्भवेत्पूर्वं तत्कृत्वान्तिममादिमम् ॥६॥

संहृत्यैकैकमिष्टिर्या सान्त्येष्टिर्द्वितयी मता

पूजाध्यानजपाप्लुष्टसमये नतु साधके ॥७॥

पिण्डपातादयं मुक्तः खेचरो वा भवेत्प्रिये

आचार्ये तत्त्वसंपन्ने यत्र तत्र मृते सति ॥८॥

अन्त्येष्टिर्नैव विद्येत शुद्धचेतस्यमूर्धनि

मन्त्रयोगादिभिर्ये मारिता नरके तु ते ॥९॥

कार्या तेषामिहान्त्येष्टिर्गुरुणातिकृपालुना

मण्डलादिकं त्वत्र भवेच्छमाशानिके विधौ ॥१०॥

केचित्तदपि कर्तव्यमूचिरे प्रेतसद्मनि

पूजयित्वा विभुं सर्वं न्यासं पूर्ववदाचरेत् ॥११॥

संहारक्रमयोगेन चरणान्मूर्धपश्चिमम्

तथैव बोधयेदेनं क्रियाज्ञानसमाधिभिः ॥१२॥

बिन्दुना रोधयेत्तत्त्वं शक्तिबीजेन वेधयेत्

घट्टयेन्नाददेशे तु त्रिशूलेन तु ताडयेत् ॥१३॥

सुषुम्नान्तर्गतेनैव विसर्गेण पुनः पुनः

ताडयेत कलाः सर्वाः कम्पतेऽसौ ततः पशुः ॥१४॥

उत्क्षिपेद्वामहस्तं वा ततस्तं योजयेत्परे

प्रत्ययेन विना मोक्षो ह्यश्रद्धेयो विमोहितैः ॥१५॥

तदर्थमेतदुदितं नतु मोक्षोपयोग्यदः

इत्यूचे परमेशः श्रीकुलगह्वरशासने ॥१६॥

साध्योऽनुमेयो मोक्षादिः प्रत्ययैर्यदतीन्द्रियः

दीक्षोत्तरे पुर्यष्टवर्गार्पणमिहोदितम् ॥१७॥

तद्विधिः श्रुतिपत्रेऽब्जे मध्ये देवं सदाशिवम्

ईशरुद्रहरिब्रह्मचतुष्कं प्राग्दिगादितः ॥१८॥

पूजयित्वा श्रुतिस्पर्शौ रसं गन्धं वपुर्द्वयम्

ध्यहंकृती मनश्चेति ब्रह्मादिष्वर्पयेत्क्रमात् ॥१९॥

एतेषां तर्पणं कृत्वा शतहोमेन दैशिकः

एषा सांन्यासिकी दीक्षा पुर्यष्टकविशोधनी ॥२०॥

पुर्यष्टकस्याभावे स्वर्गनरकादयः

तथा कृत्वा कर्तव्यं लौकिकं किंचनापि हि ॥२१॥

उक्तं श्रीमाधवकुले शासनस्थो मृतेष्वपि

पिण्डपातोदकास्र्वादि लौकिकं परिवर्जयेत् ॥२२॥

शिवं संपूज्य चक्रार्चां यथाशक्ति समाचरेत्

क्रमात्त्रिदशमत्रिंशत्रिंशवत्सरवासरे ॥२३॥

इत्युक्तोऽन्त्येष्टियागोऽयं परमेश्वरभाषितः ॥२४॥

 

 


 

 

 

Creative Commons License

Precedente Home Successiva

Tantraloka sans1 Tantraloka sans2 Tantraloka sans3 Tantraloka sans4 Tantraloka sans5 Tantraloka sans6 Tantraloka sans7 Tantraloka sans8 Tantraloka sans9 Tantraloka sans10 Tantraloka sans11 Tantraloka sans12 Tantraloka sans13 Tantraloka sans14 Tantraloka sans15 Tantraloka sans16 Tantraloka sans17 Tantraloka sans18 Tantraloka sans19 Tantraloka sans20

Privacy Policy