Tantraloka

by Abhinavagupta

 

In Sanscrito:

 

CAP.1 - CAP.2 - CAP.3 - CAP.4 - CAP.5 - CAP.6 - CAP.7 - CAP.8 - CAP.9 - CAP.10

CAP.11 - CAP.12 - CAP.13 - CAP.14 - CAP.15 - CAP.16 - CAP.17 - CAP.18 - CAP.19 - CAP.20

CAP.21 - CAP.22 - CAP.23 - CAP.24 - CAP.25 - CAP.26 - CAP.27 - CAP.28 - CAP.29 - CAP.30 

CAP.31 - CAP.32 - CAP.33 - CAP.34 - CAP.35 - CAP.36 - CAP.37 - Testo translitterato

pdf: Testo in sanscrito - Testo translitterato - Tantraloka with commentary by Rajanaka Jayaratha Vol.1 - Vol.2 - Vol.3 - Vol.4 - Vol.5 - Vol.6

 

 

TANTRALOKA SANSCRITO

 

 

Capitolo 13

 

 

अथ श्रीतन्त्रालोके त्रयोदशमाह्निकम्

 

अथाधिकृतिभाहनं इह वा कथं वेत्यलं विवेचयितुमुच्यते विविधशक्तिपातक्रमः ॥१॥

तत्र केचिदिह प्राहुः शक्तिपात इमं विधिम्

तं प्रदर्श्य निराकृत्य स्वमतं दर्शयिष्यते ॥२॥

तत्रेदं दृश्यमानं सत्सुखदुःखविमोहभाक्

विषमं सत्तथाभूतं समं हेतुं प्रकल्पयेत् ॥३॥

सोऽव्यक्तं तच्च सत्त्वादिनानारूपमचेतनम्

घटादिवत्कार्यमिति हेतुरेकोऽस्य सा निशा ॥४॥

सा जडा कार्यताद्रूप्यात्कार्यं चास्यां सदेव हि

कलादिधरणीप्रान्तं जाड्यात्सा सूतयेऽक्षमा ॥५॥

तेनेशः क्षोभयेदेनां क्षोभोऽस्याः सूतियोग्यता

पुंसः प्रति सा भोग्यं सूतेऽनादीन् पृथग्विधान् ॥६॥

पुंसश्च निर्विशेषत्वे मुक्ताणून् प्रति किं तत्

निमित्तं कर्मसंस्कारः तेषु विद्यते ॥७॥

इति चेत्कर्मसंस्काराभावस्तेषां कुतः किल

भोगादन्यकर्मांशप्रसङ्गो हि दुरत्ययः ॥८॥

युगपत्कर्मणां भोगो नच युक्तः क्रमेण हि

फलेद्यत्कर्म तत्कस्मात्स्वं रूपं संत्यजेत्क्वचित् ॥९॥

ज्ञानात्कर्मक्षयश्चेत्तत्कुत ईश्वरचोदितात्

धर्माद्यदि कुतः सो ̕पि कर्मतश्चेत्तदुच्यताम् ॥१०॥

नहि कर्मास्ति तादृक्षं येन ज्ञानं प्रवर्तते

कर्मजत्वे तज्ज्ञानं फलराशौ पतेद्ध्रुवम् ॥११॥

अन्यकर्मफलं प्राच्यं कर्मराशिं किं दहेत्

ईशस्य द्वेषरागादिशून्यस्यापि कथं क्वचित् ॥१२॥

तथाभिसंधिर्नान्यत्र भेदहेतोरभावतः

नन्वित्थं प्रदहेज्ज्ञानं कर्मजालानि कर्म हि ॥१३॥

अज्ञानसहकारीदं सूते स्वर्गादिकं फलम्

अज्ञानं ज्ञानतो नश्येदन्यकर्मफलादपि ॥१४॥

उपवासादिकं चान्यद्दुष्टकर्मफलं भवेत्

निष्फलीकुरुते दुष्टं कर्मेत्यङ्गीकृतं किल ॥१५॥

अज्ञानमिति यत्प्रोक्तं ज्ञानाभावः चेत्स किम्

प्रागभावोऽथवा ध्वंस आद्ये किं सर्वसंविदाम् ॥१६॥

कस्यापि वाथ ज्ञानस्य प्राच्यः पक्षस्त्वसंभवी

किंचिद्यस्य विज्ञानमुदपादि तथाविधः ॥१७॥

नाणुरस्ति भवे ह्यस्मिन्ननादौ कोऽन्वयं क्रमः

भाविनः प्रागभावश्च ज्ञानस्येति स्थिते सति ॥१८॥

मुक्ताणोरपि सोऽस्त्येव जन्मतः प्रागसौ नच

ज्ञानं भावि विमुक्ते ̕स्मिन्निति चेच्चर्च्यतामिदम् ॥१९॥

कस्माज्ज्ञानं भाव्यत्र ननु देहाद्यजन्मतः

तत्कस्मात्कर्मणः क्षैण्यात्तत्कुतोऽज्ञानहानितः ॥२०॥

अज्ञानस्य कथं हानिः प्रागभावे हि संविदः

अज्ञानं प्रागभावोऽसौ भाव्युत्पत्त्यसंभवात् ॥२१॥

कस्मान्न भावि तज्ज्ञानं ननु देहाद्यजन्मतः

इत्येष सर्वपक्षघ्नो निशितश्चक्रकभ्रमः ॥२२॥

अथ प्रध्वंस एवेदमज्ञानं तत्सदा स्थितम्

मुक्ताणुष्विति तेष्वस्तु मायाकार्यविजृम्भितम् ॥२३॥

अथाज्ञानं नह्यभावो मिथ्याज्ञानं तु तन्मतम्

तदेव कर्मणां स्वस्मिन्कर्तव्ये सहकारणम् ॥२४॥

वक्तव्यं तर्हि किं कर्म यदा सूते स्वकं फलम्

तदैव मिथ्याज्ञानेन सता हेतुत्वमाप्यते ॥२५॥

अथ यस्मिन्क्षणे कर्म कृतं तत्र स्वरूपसत्

मिथ्याज्ञानं यदि ततस्तादृशात्कमर्णः फलम् ॥२६॥

प्राक्पक्षे प्रलये वृत्ते प्राच्यसृष्टिप्रवर्तने

देहाद्यभावान्नो मिथ्याज्ञानस्य क्वापि संभवः ॥२७॥

उत्तरस्मिन्पुनः पक्षे यदा यद्येन यत्र वा

क्रियते कर्म तत्सर्वमज्ञानसचिवं तदा ॥२८॥

अवश्यमिति कस्यापि कर्मप्रक्षयो भवेत्

यद्यपि ज्ञानवान्भूत्वा विधत्ते कर्म किंचन ॥२९॥

विफलं स्यात्तु तत्पूर्वकर्मराशौ तु का गतिः

अथ प्रलयकाले ̕पि चित्स्वभावत्वयोगतः ॥३०॥

अणूना संभवत्येव ज्ञानं मिथ्येति तत्कुतः

स्वभावादिति चेन्मुक्ते शिवे वा किं तथा नहि ॥३१॥

यच्चादर्शनमाख्यातं निमित्तं परिणामिनि

प्रधाने तद्धि संकीर्णवैवित्तयोभययोगतः ॥३२॥

दर्शनाय पुमर्थैकयोग्यतासचिवं धियः

आरभ्य सते धरणीपर्यन्तं तत्र यच्चितः ।३३॥

बुद्धिवृत्त्यविशिष्टत्वं पुंस्प्रयाशर्प्रसादतः

प्रकाशनाद्धियोऽर्थेन सह भोगः भण्यते ॥३४॥

बुद्धिरेवास्मि विकृतिधर्मिकान्यस्तु कोऽप्यसौ

मद्विलक्षण एकात्मेत्येवं वैवि यसंविदि ॥३५॥

पुमर्थस्य कृतत्वेन सहकारिवियोगतः

तं पुमांसं प्रति नैव सूते किंत्वन्यमेव हि ॥३६॥

अत्र पुंसोऽथ मूलस्य धर्मोऽदर्शनता द्वयोः

अथवेति विकल्पोऽयमास्तामेतत्तु भण्यताम् ॥३७॥

भोगो विवेकपर्यन्त इति यत्तत्र कोऽवधिः

विवेकलाभे निखिलसूतिदृग्यदि सापि किम् ॥३८॥

सामान्येन विशेषैर्वा प्राच्ये स्यादेकजन्मतः

उत्तरे कदाचित्स्याद्भाविकालस्य योगतः ॥३९॥

कैश्चिदेव विशेषैश्चेत्सर्वेषां युगपद्भवेत्

विवेकोऽनादिसंयोगात्का ह्यन्योन्यं विचित्रता ॥४०॥

तस्मात्सांख्यदृशापीदमज्ञानं नैव युज्यते

अज्ञानेन विना बन्धमोक्षौ नैव व्यवस्थया ॥४१॥

युज्येते तच्च कथितयुक्तिभिर्नोपपद्यते

भायाकर्माणुदेवेच्छासद्भावेऽपि स्थिते ततः ॥४२॥

बन्धमोक्षयोर्योगो भेदहेतोरसंभवात्

तस्मादज्ञानशब्देन ज्ञत्वकर्तृत्वधर्मणाम् ॥४३॥

चिदणूनामावरणं किंचिद्वाच्यं विपश्चिता

आवारणात्मना सिद्धं तत्स्वरूपादभेदवत् ॥४४॥

भेदे प्रमाणाभावाच्च तदेकं निखिलात्मसु

तच्च कस्मात्प्रसूतं स्यान्मायातश्चेत्कथं नु सा ॥४५॥

क्वचिदेव सुवीतैतन्न तु मुक्तात्मनीत्ययम्

प्राच्यः पर्यनुयोगः स्यान्निमित्तं चेन्न लभ्यते ॥४६॥

उत्पत्त्यभावतस्तेन नित्यं नच विनश्यति

तत एवैकतायां चान्यात्मसाधारणत्वतः ॥४७॥

वावस्त्वर्थकारित्वान्न चित्तत्संवृतित्वतः

चैतेनात्मनां योगो हेतुमांस्तदसंभवात् ॥४८॥

तेनैकं वस्तु सन्नित्यं नित्यसंबद्धमात्मभिः

जडं मलं तदज्ञानं संसाराङ्कुरकारणम् ॥४९॥

तस्य रोद्ध्री यदा शक्तिरुदास्ते शिवरश्मिभिः

तदाणुः स्पृश्यते स्पृष्टः स्वके ज्ञानक्रिये स्फुटे ॥५०॥

समाविशेदयं सूर्यकान्तो ̕र्केणेव चोदितः

रोद्ध्र्याश्च शक्तेर्माध्यस्थ्यतारतम्यवशक्रमाअत् ॥५१॥

विचित्रत्वमतः प्राहुरभिव्यक्तौ स्वसंविदः

एष शक्तिपाताख्यः शास्त्रेषु परिभाष्यते ॥५२॥

अत्रोच्यते मलस्तावदित्थमेष युज्यते

इति पूर्वाह्णिके प्रोक्तं पुनरुक्तौ तु किं फलम् ॥५३॥

मलस्य पाकः कोऽयं स्यान्नाशश्चेदितरात्मनाम्

एको मल इत्युक्तेर्नैर्मल्यमनुषज्यते ॥५४॥

अथ प्रत्यात्मनियतोऽनादिश्च प्रागभाववत्

मलो नश्येत्तथाप्येष नाशो यदि सहेतुकः ॥५५॥

हेतुः कर्मेश्वरेच्छा वा कर्म तावन्न तादृशम्

ईश्वरेच्छा स्वतन्त्रा क्वचिदेव तथैव किम् ॥५६॥

अहेतुकोऽस्य नाशश्चेत्प्रागेवैष विनश्यतु

क्षणान्तरं सदृक् सूते इति चेत्स्थिरतैव सा ॥५७॥

नित्यस्य भावस्य हेत्वनायत्तजन्मनः

नाशो दृष्टः प्रागभावस्त्ववस्त्विति तथास्तु सः ॥५८॥

अथास्य पाको नामैष स्वशक्तिप्रतिबद्धता

सर्वान्प्रति तथैष स्याद्रुद्धशक्तिर्विषाग्निवत् ॥५९॥

पुनरुद्भूतशक्तौ स्वकार्यं स्याद्विषाग्निवत्

मुक्ता अपि मुक्ताः स्युः शक्तिं चास्य मन्महे ॥६०॥

रोद्ध्रीति चेत्कस्य नृणां ज्ञत्वकर्तृत्वयोर्यदि

सद्भावमात्राद्रोद्धृत्वे शिवमुक्ताण्वसंभवः ॥६१॥

संनिधानातिरिक्तं किंचित्कुरुते मलः

आत्मना परिणामित्वादनित्यत्वप्रसङ्गतः ॥६२॥

ज्ञत्वकर्तृत्वमात्रं पुद्गला तदाश्रयाः

तच्चेदावारितं हन्त रूपनाशः प्रसज्यते ॥६३॥

आवारणं चादृश्यत्वं तद्वस्तुनो ̕न्यताम्

करोति घटवज्ज्ञानं नावरीतुं शक्यते ॥६४॥

ज्ञानेनावरणीयेन तदेवावरणं कथम्

ज्ञायते तथा स्यादावृतिर्नाममात्रतः ॥६५॥

रोद्ध्र्याश्च शक्तेः कस्तस्य प्रतिबन्धक ईश्वरः

यद्यपेक्षाविरहितस्तत्र प्राग्दत्तमुत्तरम् ॥६६॥

कर्मसाम्यमपेक्ष्याथ तस्येच्छा संप्रवर्तते

तस्यापि रूपं वक्तव्यं समता कर्मणां हि का ॥६७॥

भोगपर्यायमाहात्म्यात्काले क्वापि फलं प्रति

विरोधात्कर्मणी रुद्धे तिष्ठतः साम्यमीदृशम् ॥६८॥

तं कालांशकं देवः सर्वज्ञो वीक्ष्य तं मलम्

रुन्द्धे लक्ष्यः कालश्च सुखदुःखादिवर्जनैः ॥६९॥

नैतत्क्रमिकसंशुद्धव्यामिश्राकारकर्मभिः

तथैव देये स्वफले केयमन्योन्यरोद्धृता ॥७०॥

रोधे तयोश्च जात्यायुरपि स्यादतः पतेत्

देहो भोगदयोरेव निरोध इति चेन्ननु ॥७१॥

जात्यायुष्प्रदकर्मांशसंनिधौ यदि शंकरः

मलं रुन्द्धे भोगदातुः कर्मणः किं बिभेति सः ॥७२॥

शतशो ̕पि ह्लादतापशून्यां संचिन्वते दशाम्

भक्तिरसावेशमिति भूम्ना विलोकितम् ॥७३॥

अथापि कालमाहात्म्यमपेक्ष्य परमेश्वरः

तथा करोति वक्तव्यं कालोऽसौ कीदृशस्त्विति ।७४॥

किं चानादिरयं भोगः कर्मानादि सपुद्गलम्

ततश्च भोगपर्यायकालः सर्वस्य निःसमः ॥७५॥

आदिमत्त्वे हि कस्यापि वर्गादस्माद्भवेदियम्

वैचित्री भुक्तमेतेन कल्पमेतेन तु द्वयम् ॥७६॥

इयतो भोगपर्यायात्स्यात्साम्यं कर्मणामिति

अनेन नयबीजेन मन्ये वैचित्र्यकारणम् ॥७७॥

जगतः कर्म यत्क्लप्तं तत्तथा नावकल्पते

अनादिमलसंच्छन्ना अणवो दृक्क्रियात्मना ॥७८॥

सर्वे तुल्याः कथं चित्रां श्रिताः कर्मपरम्पराम्

भोगलोलिकया चेत्सा विचित्रेति कुतो ननु ॥७९॥

अनादि कर्मसंस्कारवैचित्र्यादिति चेत्पुनः

वाच्यं तदेव वैचित्र्यं कुतो नियतिरागयोः ॥८०॥

महिमा चेदयं तौ किं नासमञ्जस्यभागिनौ

ईश्वरेच्छानपेक्षा तु भेदहेतुर्न कल्पते ॥८१॥

अथानादित्वमात्रेण युक्तिहीनेन साध्यते

व्यवस्थेयमलं तर्हि मलेनास्तु वृथामुना ॥८२॥

तथाहि कर्म तावन्नो यावन्माया पुद्गले

व्याप्रियेत चाहेतुस्तद्वृत्तिस्तन्मितो मलः ॥८३॥

इत्थं कल्पिते मायाकार्ये कर्मणि हेतुताम्

अनादि कर्म चेद्गच्छेत्किं मलस्योपकल्पनम् ॥८४॥

ननु माभून्मलस्तर्हि चित्राकारेषु कर्मसु

सन्तत्यावर्तमानेषु व्यवस्था प्रकल्पते ॥८५॥

आदौ मध्ये चित्रत्वात्कर्मणां यथा समः

आत्माकारोऽपि कोऽप्येष भाविकाले तथा भवेत् ॥८६॥

इत्थमुच्छिन्न एवायं बन्धमोक्षादिकः क्रमः

अज्ञानाद्बन्धनं मोक्षो ज्ञानादिति परीक्षितम् ॥८७॥

विरोधे स्वफले चैते कर्मणी समये क्वचित्

उदासाते यदि ततः कर्मैतत्प्रतिबुध्यताम् ॥८८॥

शिवशक्तिनिपातस्य कोऽवकाशस्तु तावता

क्वापि काले तयोरेतदौदासीन्यं यदा ततः ॥८९॥

कालान्तरे तयोस्तद्वद्विरोधस्यानिवृत्तितः

अतश्च फलेतान्ते ताभ्यां कर्मान्तरणि ॥९०॥

रुद्धानि प्राप्तकालत्वाद्गताभ्यामुपभोग्यताम्

एवं सदैव वार्तायां देहपाते तथैव ॥९१॥

जाते विमोक्ष इत्यास्तां शक्तिपातादिकल्पना

अथोदासीनतत्कर्मद्वययोगक्षणान्तरे ॥९२॥

कर्मान्तरं फलं सूते तत्क्षणेऽपि तथा किम्

क्षणान्तरेऽथ ते एव प्रतिबन्धविवर्जिते ॥९३॥

फलतः प्रतिबन्धस्य वर्जनं किंकृतं तयोः

कर्मसाम्यं स्वरूपेण तत्तारतम्यभाक् ॥९४॥

शिवेच्छेति तत्कार्ये शक्तिपाते तद्भवेत्

तिरोभावश्च नामायं कस्मादुद्भवेत्पुनः ॥९५॥

कर्मसाम्येन यत्कृत्यं प्रागेवैतत्कृतं किल

हेतुत्वे चेश्वरेच्छाया वाच्यं पूर्ववदेव तु ॥९६॥

एतेनान्ये ̕पि येऽपेक्ष्या ईशेच्छायां प्रकल्पिताः

ध्वस्तास्तेऽपि हि नित्यान्यहेत्वहेत्वादिदूषणात् ॥९७॥

वैराग्यं भोगवैरस्यं धर्मः कोऽपि विवेकिता

सत्सङ्गः परमेशानपूजाद्यभ्यासनित्यता ॥९८॥

आपत्प्राप्तिस्तन्निरीक्षा देहे किंचिच्च लक्षणम्

शास्त्रसेवा भोगसंघपूर्णता ज्ञानमैश्वरम् ॥९९॥

इत्यपेक्ष्यं यदीशस्य दूष्यमेतच्च पूर्ववत्

व्यभिचारश्च सामस्त्यव्यस्तत्वाभ्यां स्वरूपतः ॥१००॥

अन्योन्यानुप्रवेशश्चानुपपत्तिश्च भूयसी

तस्मान्न मन्महे कोऽयं शक्तिपातविधेः क्रमः ॥१०१॥

इत्थं भ्रान्तिविषावेशमूर्च्छानिर्मोकदायिनीम्

श्रीशंभुवदनोद्गीर्णां वच्म्यागममहौषधीम् ॥१०२॥

देवः स्वतन्त्रश्चिद्रूपः प्रकाशात्मा स्वभावतः

रूपप्रच्छादनक्रीडायोगादणुरनेककः ॥१०३॥

स्वयं कल्पिताकारविकल्पात्मककर्मभिः

बध्नात्यात्मानमेवेह स्वातन्त्र्यादिति वर्णितम् ॥१०४॥

स्वातन्त्र्यमहिमैवायं देवस्य यदसौ पुनः

स्वं रूपं परिशुद्धं सत्स्पृशत्यप्यणुतामयः ॥१०५॥

वाच्यं तु कथं नाम कस्मिंश्चित्पुंस्यसौ तथा

नहि नाम पुमान्कश्चिद्यस्मिन्पर्यनुयुज्यते ॥१०६॥

देव एव तथासौ चेत् स्वरूपं चास्य तादृशम्

तादृक्प्रथास्वभावस्य स्वभावे कानुयोज्यता ॥१०७॥

आहास्मत्परमेष्ठी शिवदृष्टौ गुरूत्तमः

पञ्चप्रकारकृत्योक्तिशिवत्वान्निजकर्मणे ॥१०८॥

प्रवृत्तस्य निमित्तानामपरेषां क्व मार्गणम्

छन्नस्वरूपताभासे पुंसि यद्यादृशं फलम् ॥१०९॥

तत्राणोः सत एवास्ति स्वातन्त्र्यं कर्मतोहि तत्

ईश्वरस्य या स्वात्मतिरोधित्सा निमित्तताम् ॥११०॥

साभ्येति कर्ममलयोरतोऽनादिव्यवस्थितिः

तिरोधिः पूर्णरूपस्यापूर्णत्वं तच्च पूरणम् ॥१११॥

प्रति भिन्नेन भावेन स्पृहातो लोलिका मलः

विशुद्धस्वप्रकाशात्मशिवरूपतया विना ॥११२॥

किंचिद्युज्यते तेन हेतुरत्र महेश्वरः

इत्थं सृष्टिस्थितिध्वंसत्रये मायामपेक्षते ॥११३॥

कृत्यै मलं तथा कर्म शिवेच्छैवेति सुस्थितम्

यत्तु कस्मिंश्चन शिवः स्वेन रूपेण भासते ॥११४॥

तत्रास्य नाणुगे तावदपेक्ष्ये मलकर्मणी

अणुस्वरूपताहानौ तद्गतं हेतुतां कथम् ॥११५॥

व्रजेन्मायानपेक्षत्वमत एवोपपादयेत्

तेन शुद्धः स्वप्रकाशः शिव एवात्र कारणम् ॥११६॥

स्वाच्छन्द्यमात्रेण तारतम्यप्रकाशकः

कुलजातिवपुष्कर्मवयोनुष्ठानसंपदः ॥११७॥

अनपेक्ष्य शिवे भक्तिः शक्तिपातो ̕फलार्थिनाम्

या फलार्थितया भक्तिः सा कर्माद्यमपेक्षते ॥११८॥

ततोऽत्र स्यात्फले भेदो नापवर्गे त्वसौ तथा

भोगापवर्गद्वितयाभिसंधातुरपि स्फुटम् ॥११९॥

प्राग्भागेऽपेक्षते कर्म चित्रत्वान्नोत्तरे पुनः

अनाभासितरूपोऽपि तदाभासितयेव यत् ॥१२०॥

स्थित्वा मन्त्रादि संगृह्य त्यजेत्सोऽस्य तिरोभवः

श्रीसारशास्त्रे भगवान्वस्त्वेतत्समभाषत ॥१२१॥

धर्माधर्मात्मकैर्भावैरनेकैर्वेष्टयेत्स्वयम्

असन्देहं स्वमात्मानमवीच्यादिशिवान्तके ॥१२२॥

तद्वच्छक्तिसमूहेन एव तु विवेष्टयेत्

स्वयं बध्नाति देवेशः स्वयं चैव विमुञ्चति ॥१२३॥

स्वयं भोक्ता स्वयं ज्ञाता स्वयं चैवोपलक्षयेत्

स्वयं भुक्तिश्च मुक्तिश्च स्वयं देवी स्वयं प्रभुः ॥१२४॥

स्वयमेकाक्षरा चैव यथोष्मा कृष्णवर्त्मनः

वस्तूक्तमत्र स्वातन्त्र्यात्स्वात्मरूपप्रकाशनम् ॥१२५॥

श्रीमन्निशाकुले ̕प्युक्तं मिथ्याभावितचेतसः

मलमायाविचारेण क्लिश्यन्ते स्वल्पबुद्धयः ॥१२६॥

स्फटिकोपलगो रेणुः किं तस्य कुरुतां प्रिये

व्योम्नीव नीलं हि मलं मलशंकां ततस्त्यजेत् ॥१२७॥

श्रीमान्विद्यागुरुश्चाह प्रमाणस्तुतिदर्शने

धर्माधर्मव्याप्तिविनाशान्तरकाले शक्तेः पातो गाहनिकैर्यः प्रतिपन्नः ॥१२८॥

तं स्वेच्छातः संगिरमाणाः स्तवकाद्याः स्वातन्त्र्यं तत्त्वय्यनपेक्षं कथयेयुः

तारतम्यप्रकाशो यस्तीव्रमध्यममन्दताः ॥१२९॥

ता एव शक्तिपातस्य प्रत्येकं त्रैधमास्थिताः

तीव्रतीव्रः शक्तिपातो देहपातवशात्स्वयम् ॥१३०॥

मोक्षप्रदस्तदैवान्यकाले वा तारतम्यतः

मध्यतीव्रात्पुनः सर्वमज्ञानं विनिवर्तते ॥१३१॥

स्वयमेव यतो वेत्ति बन्धमोक्षतयात्मताम्

तत्प्रातिभं महाज्ञानं शास्त्राचार्यानपेक्षि यत्. ॥१३२॥

प्रतिभाचन्द्रिकाशान्तध्वान्तश्चाचार्यचन्द्रमाः

तमस्तापौ हन्ति दृशं विस्फार्यानन्दनिर्भराम् ॥१३३॥

शिष्टः कर्मकर्तृत्वाच्छिष्योऽन्यः कर्मभावतः

शिष्टः सर्वत्र स्मार्तपदकालकुलादिषु ॥१३४॥

उक्तः स्वयंभूः शास्त्रार्थप्रतिभापरिनिष्ठितः

यन्मूलं शासनं तेन रिक्तः कोऽपि जन्तुकः ॥१३५॥

तत्रापि तारतम्योत्थमानन्त्यं दार्ढ्यकम्प्रते

युक्तिः शास्त्रं गुरुर्वादोऽभ्यास इत्याद्यपेक्षते ॥१३६॥

कम्पमानं हि विज्ञानं स्वयमेव पुनर्व्रजेत्

कस्यापि दार्ढ्यमन्यस्य युक्त्याद्यैः केवलेतरैः ॥१३७॥

यथा यथा परापेक्षातानवं प्रातिभे भवेत्

तथा तथा गुरुरसौ श्रेष्ठो विज्ञानपारगः ॥१३८॥

अन्यतः शिक्षितानन्तज्ञानोऽपि प्रतिभाबलात्

यद्वेत्ति तत्र तत्रास्य शिवता ज्यायसी सा ॥१३९॥

चास्य समयित्वादिक्रमो नाप्यभिषेचनम्

सन्तानादि नो विद्याव्रतं प्रातिभवर्त्मनः ॥१४०॥

आदिविद्वान्महादेवस्तेनैषो ̕धिष्ठितो यतः

संस्कारास्तदधिष्ठानसिद्ध्यै तत्तस्य तु स्वतः ॥१४१॥

देवीभिर्दीक्षितस्तेन सभक्तिः शिवशासने

दृढताकम्प्रताभेदैः सो ̕पि स्वयमथ व्रतात् ॥१४२॥

तपोजपादेर्गुरुतः स्वसंस्कारं प्रकल्पयेत्

यतो वाजसिनेयाख्य उक्तं सिञ्चेत्स्वयं तनुम् ॥१४३॥

इत्याद्युपक्रमं यावदन्ते तत्परिनिष्ठितम्

अभिषिक्तो भवेदेवं बाह्यकलशाम्बुभिः ॥१४४॥

श्रीसर्ववीरश्रीब्रह्मयामलादौ तत्तथा

निरूपितं महेशेन कियद्वा लिख्यतामिदम् ॥१४५॥

इत्थं प्रातिभविज्ञानं किं किं कस्य साधयेत्

यत्प्रातिभाद्वा सर्वं चेत्यूचे शेषमहामुनिः ॥१४६॥

अन्ये त्वाहुरकामस्य प्रातिभो गुरुरीदृशः

सामग्रीजन्यता काम्ये तेनारिमन्संस्कृतो गुरुः ॥१४७॥

नियतेर्महिमा नैव फले साध्ये निवर्तते

अभिषिक्तश्चीर्णविद्याव्रतस्तेन फलप्रदः ॥१४८॥

असदेतदिति प्राहुर्गुरवस्तत्त्वदर्शिनः

श्रीसोमानन्दकल्याणभवभूतिपुरोगमाः ॥१४९॥

तथाहि त्रीशिकाशास्त्रविवृतौ तेऽभ्यधुर्बुधाः

सांसिद्धिकं यद्विज्ञानं तच्चिन्तारत्नमुच्यते ॥१५०॥

तदभावे तदर्थं तदाहृतं ज्ञानमादृतम्

एवं यो वेद तत्त्वेन तस्य निर्वाणगामिनी ॥१५१॥

दीक्षा भवत्यसन्दिग्धा तिलाज्याहुतिवर्जिता

अदृष्टमण्डलो ̕प्येवं यः कश्चिद्वेत्ति तत्त्वतः ॥१५२॥

सिद्धिभाग्भवेन्नित्यं योगी दीक्षितः

अविधिज्ञो विधानज्ञो जायते यजनं प्रति ॥१५३॥

इत्यादिभिस्त्रीशिकोक्तैर्वाक्यैर्माहेश्वरैः स्फुटम्

ज्ञानं दीक्षादिसंस्कारसतत्त्वमिति वर्णितम् ॥१५४॥

ज्ञानोपायस्तु दीक्षादिक्रिया ज्ञानवियोगिनाम्

इत्येतदधुनैवास्ता स्वप्रस्तावे भविष्यति ॥१५५॥

गुरुशास्त्रप्रमाणादेरप्युपायत्वमंजसा

प्रतिभा परमेवैषा सर्वकामदुघा यतः ॥१५६॥

उपाययोगक्रमतो निरुपायमथाक्रमम्

यद्रूपं तत्परं तत्त्वं तत्र तत्र सुनिश्चितम् ॥१५७॥

यस्तु प्रातिभबाह्यात्मसंस्कारद्वयसुन्दरः

उक्तोऽनन्योपकार्यत्वात्स साक्षाद्वरदो गुरुः ॥१५८॥

स्वमुक्तिमात्रे कस्यापि यावद्विश्वविमोचने

प्रतिभोदेति खद्योतरत्नतारेन्दुसूर्यवत् ॥१५९॥

ततः प्रातिभसंवित्त्यै शास्त्रमस्मत्कृतं त्विदम्

योऽभ्यस्येत्स गुरुर्नैव वस्त्वर्था हि विडम्बकाः ॥१६०॥

परोपजीविताबुद्ध्या सर्व इत्थं भासते

तदुक्त्या विना वेत्ति शक्तिपातस्य मान्द्यतः ॥१६१॥

स्फुटमेतच्च शास्त्रेषु तेषु तेषु निरूप्यते

किरणायां तथोक्तं गुरुतः शास्त्रतः स्वतः ॥१६२॥

ज्ञानयोग्यास्तथा केचिच्चर्यायोग्यास्तथापरे

श्रीमन्नन्दिशिखातन्त्रे वितत्यैतन्निरूपितम् ॥१६३॥

प्रश्नोत्तरमुखेनेति तदभग्नं निरूप्यते

अनिर्देश्यः शिवस्तत्र कोऽभ्युपायो निरूप्यताम् ॥१६४॥

इति प्रश्ने कृते देव्या श्रीमाञ्छंभुर्न्यरूपयम्

उपायोऽत्र विवेकैकः हि हेयं विहापयन् ॥१६५॥

ददात्यस्य सुश्रोणि प्रातिभं ज्ञानमुत्तमम्

यदा प्रतिभया युक्तस्तदा मुक्तश्च मोचयेत् ॥१६६॥

परशक्तिनिपातेन ध्वस्तमायामलः पुमान्

ननु प्राग्दीक्षया मोक्षोऽधुना तु प्रातिभात्कथम् ॥१६७॥

इति देव्या कृते प्रश्ने प्रावर्तत विभोर्वचः

दीक्षया मुच्यते जन्तुः प्रातिभेन तथा प्रिये ॥१६८॥

गुर्वायत्ता तु सा दीक्षा बध्यबन्धनमोक्षणे

प्रातिभोऽस्य स्वभावस्तु केवलीभावसिद्धिदः ॥१६९॥

केवलस्य ध्रुवं मुक्तिः परतत्त्वेन सा ननु

नृशक्तिशिवमुक्तं हि तत्त्वत्रयमिदं त्वया ॥१७०॥

ना बध्यो बन्धने शक्तिः करणं कर्तृतां स्पृशत्

शिवः कर्तेति तत्प्रोक्तं सर्वं गुर्वागमादणोः ॥१७१॥

पुनर्विवेकादुक्तं तदुत्तरोत्तरमुच्यताम्

कथं विवेकः किं वास्य देवदेव विविच्यते ॥१७२॥

इत्युक्ते परमेशान्या जगादादिगुरुः शिवः

शिवादितत्त्वत्रितयं तदागमवशाद्गुरोः ॥१७३॥

अध्रोत्तरगैर्वाक्यैः सिद्धं प्रातिभतां व्रजेत्

दीक्षासिच्छिन्नपाशत्वाद्भावनाभावितस्य हि ॥१७४॥

विकासं तत्त्वमायाति प्रातिभं तदुदाहृतम्

भस्मच्छन्नाग्निवत्स्फौट्यं प्रातिभे गौरवागमात् ॥१७५॥

बीजं कालोप्तसंसिक्तं यथा वर्धेत तत्तथा

योगयागजपैरुक्तैर्गुरुणा प्रातिभं स्फुटेत् ॥१७६॥

विवेकोऽतीन्द्रियस्त्वेष यदायाति विवेचनम्

पशुपाशपतिज्ञानं स्वयं निर्भासते तदा ॥१७७॥

प्रातिभे तु समायाते ज्ञानमन्यत्तु सेन्द्रियम्

वागक्षिश्रुतिगम्यं चाप्यन्यापेक्षं वरानने ॥१७८॥

तत्त्यजेद्बुद्धिमास्थाय प्रदीपं तु यथा दिवा

प्रादुर्भूतविवेकस्य स्याच्चिदिन्द्रियगोचरे ॥१७९॥

दूराच्छ्रुत्यादिवेधादिवृद्धिक्रीडाविचित्रिता

सर्वभावविवेकात्तु सर्वभावपराङ्मुखः ॥१८०॥

क्रीडासु सुविरक्तात्मा शिवभावैकभावितः

माहात्म्यमेतत्सुश्रोणि प्रातिभस्य विधीयते ॥१८१॥

स्वच्छायादर्शवत्पश्येद्बहिरन्तर्गतं शिवम्

हेयोपादेयतत्त्वज्ञस्तदा ध्यायेन्निजां चितिम् ॥१८२॥

सिद्धिजालं हि कथितं परप्रत्ययकारणम्

इहैव सिद्धाः कायान्ते मुच्येरन्निति भावनात् ॥१८३॥

परभावनदार्ढ्यात्तु जीवन्मुक्तो निगद्यते

एतत्ते प्रातिभे भेदे लक्षणं समुदाहृतम् ॥१८४॥

शापानुग्रहकार्येषु तथाभ्यासेन शक्तया

तेषूदासीनतायां तु मुच्यते मोचयेत्परान् ॥१८५॥

भूतेन्द्रियादियोगेन बद्धो ̕णुः संसरेद्ध्रुवम्

एव प्रतिभायुक्तः शक्तितत्त्वं निगद्यते ॥१८६॥

तत्पातावेशतो मुक्तः शिव एव भवार्णवात्

नन्वाचार्यात्सेन्द्रियं तज्ज्ञानमुक्तमतीन्द्रियम् ॥१८७॥

विवेकजं तद्बुद्ध्या तत्कथं स्यान्निरिन्द्रियम्

इति पृष्टोऽभ्यधात्स्वान्तधियोर्जाड्यैकवासनात् ॥१८८॥

अक्षत्वं प्रविवेकेन तच्छित्तौ भासकः शिवः

संस्कारः सर्वभावानां परता परिकीर्तिता ॥१८९॥

मनोबुद्धी भिन्ने तु कस्मिंश्चित्कारणान्तरे

विवेके कारणे ह्येते प्रभुशक्त्युपवृंहिते ॥१९०॥

मनोबुद्धिहीनस्तु ज्ञानस्याधिगमः प्रिये

परभावात्तु तत्सूक्ष्मं शक्तितत्त्वं निगद्यते ॥१९१॥

विवेकः सर्वभावानां शुद्धभावान्महाशयः

बुद्धितत्त्वं तु त्रिगुणमुत्तमाधममध्यमम् ॥१९२॥

अणिमादिगतं चापि बन्धकं जडमिन्द्रियम्

ननु प्रातिभतो मुक्तौ दीक्षया किं शिवाध्वरे ॥१९३॥

ऊचेऽज्ञाना हि दीक्षायां बालवालिशयोषितः

पाशच्छेदाद्विमुच्यन्ते प्रबुद्ध्यन्ते शिवाध्वरे ॥१९४॥

तस्माद्दीक्षा भवत्येषु कारणत्वेन सुन्दरि

दीक्षया पाशमोक्षे तु शुद्धभावाद्विवेकजम् ॥१९५॥

इत्येष पठितो ग्रन्थः स्वयं ये बोद्धुमक्षमाः

तेषां शिवोक्तिसंवादाद्बोधो दार्ढ्यं व्रजेदिति ॥१९६॥

श्रीमन्निशाटने चात्मगुरुशास्त्रवशात्त्रिधा

ज्ञानं मुख्यं स्वोपलब्धि विकल्पार्णवतारणम् ॥१९७॥

मन्त्रात्मभूतद्रव्याशदिव्यतत्त्वादिगोचरा

शंका विकल्पमूला हि शाम्येत्स्वप्रत्ययादिति ॥१९८॥

एनमेवार्थमन्तःस्थं गृहीत्वा मालिनीमते

एवमस्यात्मनः काले कस्मिंश्चिद्योग्यतावशात् ॥१९९॥

शैवी संबध्यते शक्तिः शान्ता मुक्तिफलप्रदा

तत्संबन्धात्ततः कश्चित्तत्क्षणादपवृज्यते ॥२००॥

इत्युक्त्वा तीव्रतीव्राख्यविषयं भाषते पुनः

अज्ञानेन सहैकत्वं कस्यचिद्विनिवर्तते ॥२०१॥

रुद्रशक्तिसमाविष्टः यियासुः शिवेच्छया

भुक्तिमुक्तिप्रसिद्ध्यर्थं नीयते सद्गुरुं प्रति ॥२०२॥

तमाराध्य ततस्तुष्टाद्दीक्षामासाद्य शाङ्करीम्

तत्क्षणाद्वोपभोगाद्वा देहपाताच्छिवं व्रजेत् ॥२०३॥

अस्यार्था आत्मनः काचित्कलनामर्शनात्मिका

स्वं रूपं प्रति या सैव कोऽपि काल इहोदितः ॥२०४॥

योग्यता शिवतादात्म्ययोगार्हत्वमिहोच्यते

पूर्वं किं तथा कस्मात्तदैवेति संगतम् ॥२०५॥

तथाभासनमुज्झित्वा हि कालो ̕स्ति कश्चन

स्वातन्त्र्यात्तु तथाभासे कालशक्तिर्विजृम्भताम् ॥२०६॥

नतु पर्यनुयुक्त्यै सा शिवे तन्महिमोदिता

ननु शैवी महाशक्तिः संबद्धैवात्मभिः स्थिता

सत्यं साच्छादनात्मा तु शान्ता त्वेषा स्वरूपदृक् ॥२०७॥

क्षोभो हि भेद एवैक्यं प्रशमस्तन्मयी ततः ॥२०८॥

तया शान्त्या तु संबद्धः स्थितः शक्तिस्वरूपभाक्

त्यक्ताणुभावो भवति शिवस्तच्छक्तिदार्ढ्यतः ॥२०९॥

तत्रापि तारतम्यादिवशाच्छीघ्रचिरादितः

देहपातो भवेदस्य यद्वा काष्ठादितुल्यता ॥२१०॥

समस्तव्यवहारेषु पराचीनितचेतनः

तीव्रतीव्रमहाशक्तिसमाविष्टः सिध्यति ॥२११॥

एवं प्राग्विषयो ग्रन्थ इयानन्यत्र तु स्फुटम्

ग्रन्थान्तरं मध्यतीव्रशक्तिपातांशसूचकम् ॥२१२॥

अज्ञानरूपता पुंसि बोधः संकोचिते हृदि

संकोचे विनिवृत्ते तु स्वस्वभावः प्रकाशते ॥२१३॥

रुद्रशक्तिसमाविष्ट इत्यनेनास्य वर्ण्यते

चिह्नवर्गो उक्तोऽत्र रुद्रे भक्तिः सुनिश्चला ॥२१४॥

मन्त्रसिद्धिः सर्वतत्त्ववशित्वं कृत्यसंपदः

कवित्वं सर्वशास्त्रार्थबोद्धृत्वमिति तत्क्रमात् ॥२१५॥

स्वतारतम्ययोगात्स्यादेषां व्यस्तसमस्तता

तत्रापि भुक्तौ मुक्तौ प्राधान्यं चर्चयेद्बुधः ॥२१६॥

इत्यन्तो ग्रन्थ एष द्वितीयविषयः स्फुटः

अन्यस्तु मन्दतीव्राख्यशक्तिपातविधिं प्रति ॥२१७॥

मन्दतीव्राच्छक्तिबलाद्यियासास्योपजायते

शिवेच्छावशयोगेन सद्गुरुं प्रति सोऽपि ॥२१८॥

अत्रैव लक्षितः शास्त्रे यदुक्तं परमेष्ठिना

यः पुनः सर्वतत्त्वानि वेत्त्येतानि यथार्थतः ॥२१९॥

गुरुर्मत्समः प्रोक्तो मन्त्रवीर्यप्रकाशकः

दृष्टाः संभावितास्तेन स्पृष्टाश्च प्रीतचेतसा ॥२२०॥

नराः पापैः प्रमुच्यन्ते सप्तजन्मकृतैरपि

ये पुनर्दीक्षितास्तेन प्राणिनः शिवचोदिताः ॥२२१॥

ते यथेष्टं फलं प्राप्य पदं गच्छन्त्यनामयम्

किं तत्त्वं तत्त्ववेदी इत्यामर्शनयोगतः ॥२२२॥

प्रतिभानात्सुःऋत्सङ्गाद्गुरौ जिगमिषुर्भवेत्

एवं जिगमिषायोगादाचार्यः प्राप्यते ॥२२३॥

तारतम्यादियोगेन संसिद्धः संस्कृतोऽपि

प्राग्भेदभागी झटिति क्रमात्सामस्त्यतोंशतः ॥२२४॥

इत्यादिभेदभिन्नो हि गुरोर्लाभ इहोदितः

तस्माद्दीक्षां लभते सद्य एव शिवप्रदाम् ॥२२५॥

ज्ञानरूपां यथा वेत्ति सर्वमेव यथार्थतः

जीवन्मुक्तः शिवीभूतस्तदैवासौ निगद्यते ॥२२६॥

देहसंबन्धिताप्यस्य शिवतायै यतः स्फुटा

अस्यां भेदो हि कथनात्सङ्गमादवलोकनात् ॥२२७॥

शास्त्रात्संक्रमणात्साम्यचर्यासंदर्शनाच्चरोः

मन्त्रमुद्रादिमाहात्म्यात्समस्तव्यस्तभेदतः ॥२२८॥

क्रियया वान्तराकाररूपप्राणप्रवेशतः

तदा देहसंस्थोऽपि मुक्त इति भण्यते ॥२२९॥

उक्तं शास्त्रयोः श्रीमद्रत्नमालागमाख्ययोः

यस्मिन्काले तु गुरुणा निर्विकल्पं प्रकाशितम् ॥२३०॥

तदैव किल मुक्तोऽसौ यन्त्रं तिष्ठति केवलम्

प्रारब्धृकर्मसंबन्धाद्देहस्य सुखिदुःखिते ॥२३१॥

विशङ्केत तच्च श्रीगमशास्त्रे निरूपितम्

अविद्योपासितो देहो ह्यन्यजन्मसमुद्भुवा ॥२३२॥

कर्मणा तेन बाध्यन्ते ज्ञानिनोऽपि कलेवरे

जात्यायुर्भोगदस्यैकप्रघट्टकतया स्थितिः ॥२३३॥

उक्तैकवचनाद्धिश्च यतस्तेनेतिसंगतिः

अभ्यासयुक्तिसंक्रान्तिवेधघट्टनरोधतः ॥२३४॥

हुतेर्वा मन्त्रसामर्थ्यात्पाशच्छेदप्रयोगतः

सद्योनिर्वाणदां कुर्यात्सद्यःप्राणवियोजिकाम् ॥२३५॥

तत्र त्वेषो ̕स्ति नियम आसन्ने मरणक्षणे

तां कुर्यान्नान्यथारब्धृ कर्म यस्मान्न शुद्ध्यति ॥२३६॥

उक्तं पूर्वमेवैतन्मंत्रसामर्थ्ययोगतः

प्राणैर्वियोजितोऽप्येष भुङ्क्ते शेषफलं यतः ॥२३७॥

तज्जन्मशेषं विविधमतिवाह्य ततः स्फुटम्

कर्मान्तरनिरोधेन शीघ्रमेवापवृज्यते ॥२३८॥

तस्मात्प्राणहरीं दीक्षां नाज्ञात्वा मरणक्षणम्

विदध्यात्परमेशाज्ञालङ्घनैकफला हि सा ॥२३९॥

एकस्त्रिकोऽयं निर्णीतः शक्तिपातेऽप्यथापरः

तीव्रमध्ये तु दीक्षायां कृतायां तथा दृढाम् ॥२४०॥

स्वात्मनो वेत्ति शिवतां देहान्ते तु शिवो भवेत्

उक्तं निशिसंचारयोगसंचारशास्त्रयोः ॥२४१॥

विकल्पात्तु तनौ स्थित्वा दहान्ते शिवतां व्रजेत्

मध्यमध्ये शक्तिपाते शिवलाभोत्सुकोऽपि सन् ॥२४२॥

बुभुक्षुर्यत्र युक्तस्तद्भुक्त्वा देहक्षये शिवः

मन्दमध्ये तु तत्रैव तत्त्वे क्वापि नियोजितः ॥२४३॥

देहान्ते तत्त्वगं भोगं भुक्त्वा पश्चाच्छिवं व्रजेत्

तत्रापि तारतम्यस्य संभवाच्चिरशीघ्रता ॥२४४॥

बह्वल्पभोगयोगश्च देहभूमाल्पताक्रमः

तीव्रमन्दे मध्यमन्दे मन्दमन्दे बुभुक्षुता ॥२४५॥

क्रमान्मुख्यातिमात्रेण विधिनैत्यन्ततः शिवम्

अन्ये यियासुरित्यादिग्रन्थं प्राग्ग्रन्थसंगतम् ॥२४६॥

कुर्वन्ति मध्यतीव्राख्यशक्तिसंपातगोचरम्

यदा प्रतिभयाविष्टोऽप्येष संवादयोजनाम् ॥२४७॥

इच्छन्यियासुर्भवति तदा नीयेत सद्गुरुम्

सर्वः प्रतिभाविष्टः शक्त्या नीयेत सद्गुरुम् ॥२४८॥

इति ब्रूते यियासुत्वं वक्तव्यं नान्यथा ध्रुवम्

रुद्रशक्तिसमाविष्टो नीयते सद्गुरुं प्रति ॥२४९॥

तेन प्राप्तविवेकोत्थज्ञानसंपूर्णमानसः

दार्ढ्यसंवादरूढ्यादेर्यियासुर्भवति स्फुटम् ॥२५०॥

उक्तं नन्दिशिखातन्त्रे प्राच्यषट्के महेशिना

अभिलाषः शिवे देवे पशूनां भवते तदा ॥२५१॥

यदा शैवाभिमानेन युक्ता वै परमाणवः

तदैव ते विमुक्तास्तु दीक्षिता गुरुणा यतः ॥२५२॥

प्राप्तिमात्राच्च ते सिद्धसाध्या इति हि गम्यते

तमाराध्येति तु ग्रन्थो मन्दतीव्रैकगोचरः ॥२५३॥

नवधा शक्तिपातोऽयं शंभुनाथेन वर्णितः

इदं सारमिह ज्ञेयं परिपूर्णचिदात्मनः ॥२५४॥

प्रकाशः परमः शक्तिपातोऽवच्छेदवर्जितः

तथाविधो ̕पि भोगांशावच्छेदेनोपलक्षितः ॥२५५॥

अपरः शक्तिपातोऽसौ पर्यन्ते शिवताप्रदः

उभयत्रापि कर्मादेर्मायान्तर्वर्तिनो यतः ॥२५६॥

नास्ति व्यापार इत्येवं निरपेक्षः सर्वतः

तेन मायान्तराले ये रुद्रा ये तदूर्ध्वतः ॥२५७॥

स्वाधिकारक्षये तैस्तैर्भैरवीभूयते हठात्

ये मायया ह्यनाक्रान्तास्ते कर्माद्यनपेक्षिणः ॥२५८॥

शक्तिपातवशादेव तां तां सिद्धिमुपाश्रिताः

ननु पूजाजपध्यानशंकरासेवनादिभिः ॥२५९॥

ते मन्त्रादित्वमापन्नाः कथं कर्मानपेक्षिणः

मैवं तथाविधोत्तीर्णशिवध्यानजपादिषु ॥२६०॥

प्रवृत्तिरेव प्रथममेषां कस्माद्विविच्यताम्

कर्मतत्साम्यवैराग्यमलपाकादि दूषितम् ॥२६१॥

ईश्वरेच्छा निमित्तं चेच्छक्तिपातैकहेतुता

जपादिका क्रियाशक्तिरेवेत्थं नतु कर्म तत् ॥२६२॥

कर्म तल्लोकरूढं हि यद्भोगमवरं ददत्

तिरोधत्ते भोक्तृरूपं संज्ञाया तु नो भरः ॥२६३॥

तेषां भोगोत्कता कस्मादिति चेद्दत्तमुत्तरम्

चित्राकारप्रकाशोऽयं स्वतन्त्रः परमेश्वरः ॥२६४॥

स्वातन्त्र्यात्तु तिरोभावबन्धो भोगेऽस्य भोक्तृताम्

पुष्णन्स्वं रूपमेव स्यान्मलकर्मादिवर्जितम् ॥२६५॥

उक्तं सेयं क्रियाशक्तिः शिवस्य पशुवर्तिनी

बन्धयित्रीति तत्कर्म कथ्यते रूपलोपकृत् ॥२६६॥

ज्ञाता सा क्रियाशक्तिः सद्यः सिद्ध्युपपादिका

अविच्छिन्नस्वात्मसंवित्प्रथा सिद्धिरिहोच्यते ॥२६७॥

सा भोगमोक्षस्वातन्त्र्यमहालक्ष्मीरिहाक्षया

विष्ण्वादिरूपता देवे या काचित्सा निजात्मना ॥२६८॥

भेदयोगवशान्मायापदमध्यव्यवस्थिता

तेन तद्रूपतायोगाच्छक्तिपातः स्थितो ̕पि सन् ॥२६९॥

तावन्तं भोगमाधत्ते पर्यन्ते शिवतां नतु

यथा स्वातन्त्र्यतो राजाप्यनुगृह्णाति कंचन ॥२७०॥

ईशशक्तिसमावेशात्तथा विष्ण्वादयो ̕प्यलम्

मायागर्भाधिकारीयशक्तिपातवशात्ततः ॥२७१॥

कोऽपि प्रधानपुरुषविवेकी प्रकृतेर्गतः

उत्कृष्टात्तत एवाशु कोऽपि बुद्धा विवेकिताम् ॥२७२॥

क्षणात्पुंसः कलायाश्च पुंमायान्तरवेदकः

कलाश्रयस्याप्यत्यन्तं कर्मणो विनिवर्तनात् ॥२७३॥

ज्ञानाकलः प्राक्तनस्तु कर्मी तस्याश्रयस्थितेः

परं प्रकृतेर्बुध्ने सृष्टिं नायाति जातुचित् ॥२७४॥

मायाधरे तु सृज्येतानन्तेशेन प्रचोदनात्

विज्ञानाकलतां प्राप्तः केवलादधिकारतः ॥२७५॥

मलान्मन्त्रतदीशादिभावमेति सदा शिवात्

पत्युः परस्माद्यस्त्वेष शक्तिपातः वै मलात् ॥२७६॥

अज्ञानाख्याद्वियोक्तेति शिवभावप्रकाशकः

नान्येन शिवभावो हि केनचित्संप्रकाशते ॥२७७॥

स्वच्छन्दशास्त्रे तेनोक्तं वादिनां तु शतत्रयम्

त्रिषष्ट्यभ्यधिकं भ्रान्तं वैष्णवाद्यं निशान्तरे ॥२७८॥

शिवज्ञानं केवलं शिवतापत्तिदायकम्

शिवतापत्तिपर्यन्तः शक्तिपातश्च चर्च्यते ॥२७९॥

अन्यथा किं हि तत्स्याद्यच्छैव्या शक्त्यानधिष्ठितम्

तेनेह वैष्णवादीनां नाधिकारः कथंचन ॥२८०॥

ते हि भेदैकवृत्तित्वादभेदे दूरवर्जिताः

स्वातन्त्र्यात्तु महेशस्य तेऽपि चेच्छिवतोन्मुखाः ॥२८१॥

द्विगुणा संस्क्रियास्त्येषां लिङ्गोद्धृत्याथ दीक्षया

दुष्टाधिवासविगमे पुष्पैः कुम्भो ̕धिवास्यते ॥२८२॥

द्विगुणोऽस्य संस्कारो नेत्थं शुद्धे घटे विधिः

इत्थं श्रीशक्तिपातोऽयं निरपेक्ष इहोदितः ॥२८३॥

अनयैव दिशा नेयं मतङ्गकिरणादिकम्

ग्रन्थगौरवभीत्या तु तल्लिखित्वा योजितम् ॥२८४॥

पुराणेऽपि तस्यैव प्रसादाद्भक्तिरिष्यते

यया यान्ति परां सिद्धिं तद्भावगतमानसाः ॥२८५॥

एवकारेण कर्मादिसापेक्षत्वं निषिध्यते

प्रसादो निर्मलीभावस्तेन संपूर्णरूपता ॥२८६॥

आत्मना तेन हि शिवः स्वयं पूर्णः प्रकाशते

शिवीभावमहासिद्धिस्पर्शवन्ध्ये तु कुत्रचित् ॥२८७॥

वैष्णवादौ हि या भक्तिर्नासौ केवलतः शिवात्

शिवो भवति तत्रैष कारणं तु केवलः ॥२८८॥

निर्मलश्चापि तु प्राप्तावच्छित्कर्माद्यपेक्षकः

यया यान्ति परां सिद्धिमित्यस्येदं तु जीवितम् ॥२८९॥

श्रीमानुत्पलदेवश्चाप्यस्माकं परमो गुरुः

शक्तिपातसमये विचारणं प्राप्तमीश करोषि कर्हिचित् ॥२९०॥

अद्य मां प्रति किमागतं यतः स्वप्रकाशनविधौ विलम्बसे

कर्हिचित्प्राप्तशब्दाभ्यामनपेक्षित्वमूचिवान् ॥२९१॥

दुर्लभत्वमरागित्वं शक्तिपातविधौ विभोः

अपरार्धेन तस्यैव शक्तिपातस्य चित्रताम् ॥२९२॥

व्यवधानचिरक्षिप्रभेदाद्यैरुपवर्णितैः

श्रीमताप्यनिरुद्धेन शक्तिमुन्मीलिनीं विभोः ॥२९३॥

व्याचक्षाणेन मातङ्गे वर्णिता निरपेक्षता

स्थावरान्तेऽपि देवस्य स्वरूपोन्मीलनात्मिका ॥२९४॥

शक्तिः पतन्ती सापेक्षा क्वापीति सुविस्तरात्

एवं विचित्रेऽप्येतस्मिञ्छक्तिपाते स्थिते सति ॥२९५॥

तारतम्यादिभिर्भेदैः समय्यादिविचित्रता

कश्चिद्रुद्राशतामात्रापादनात्तत्प्रसादतः ॥२९६॥

शिवत्वं क्रमशो गच्छेत् समयी यो निरूप्यते

कश्चिच्छुद्धाध्वबन्धः सन् पुत्रकः शीघ्रमक्रमात् ॥२९७॥

भोगव्यवधिना कोऽपि साधकश्चिरशीघ्रतः

कश्चित्संपूर्णकर्तव्यः कृत्यपञ्चकभागिनि ॥२९८॥

रूपे स्थितो गुरुः सोऽपि भोगमोक्षादिभेदभाक्

समय्यादिचतुष्कस्य समासव्यासयोगतः ॥२९९॥

क्रमाक्रमादिभिर्भेदैः शक्तिपातस्य चित्रता

क्रमिकः शक्तिपातश्च सिद्धान्ते वामके ततः ॥३००॥

दक्षे मते कुले कौले षडर्धे हृदये ततः

उल्लङ्घनवशाद्वापि झटित्यक्रममेव वा ॥३०१॥

उक्तं श्रीभैरवकुले पञ्चदीक्षासुसंस्कृतः

गुरुरुल्लङ्घिताधःस्थस्रोता वै त्रिकशास्त्रगः ॥३०२॥

ज्ञानाचारादिभेदेन ह्युत्तराधरता विभुः

शास्त्रेष्वदीदृशच्छ्रीमत्सर्वाचारहृदादिषु ॥३०३॥

वाममार्गाभिषिक्तस्तु दैशिकः परतत्त्ववित्

तथापि भैरवे तन्त्रे पुनः संस्कारमर्हति ॥३०४॥

शैववैमलसिद्धान्ता आर्हताः कारुकाश्च ये

सर्वे ते पशवो ज्ञेया भैरवे मातृमण्डले ॥३०५॥

कुलकालीविधौ चोक्तं वैष्णवाना विशेषतः

भस्मनिष्ठाप्रपन्नानामित्यादौ नैव योग्यता ॥३०६॥

स्वच्छन्दशास्त्रे संक्षेपादुक्तं श्रीमहेशिना

अन्यशास्त्ररतो यस्तु नासौ सिद्धिफलप्रदः ॥३०७॥

समय्यादिक्रमाल्लब्धाभिषेको हि गुरुर्मतः

शक्तिवशादित्थं वैष्णवादिषु कोऽन्वयः ॥३०८॥

छद्मापश्रवणाद्यैस्तु तज्ज्ञानं गृह्णतो भवेत्

प्रायश्चित्तमतस्तादृगधिकार्यत्र किं भवेत् ॥३०९॥

फलाकाङ्क्षायुतः शिष्यस्तदेकायत्तसिद्धिकः

ध्रुवं पच्येत नरके प्रायश्चित्त्युपसेवनात् ॥३१०॥

तिरोभावप्रकारोऽयं यत्तादृशि नियोजितः

गुरौ शिवेन तद्भक्तिः शक्तिपातो ̕स्य नोच्यते ॥३११॥

यदातु वैचित्र्यवशाज्जानीयात्तस्य तादृशम्

विपरीतप्रवृत्तत्वं ज्ञानं तस्मादुपाहरेत् ॥३१२॥

तं त्यजेत्पापवृत्तिं भवेत्तु ज्ञानतत्परः

यथा चौराद्गृहीत्वार्थं तं निगृह्णाति भूपतिः ॥३१३॥

वैष्णवादेस्तथा शैवं ज्ञानमाहृत्य सन्मतिः

हि भेदैकवृत्तित्वं शिवज्ञाने श्रुतेऽप्यलम् ॥३१४॥

नोज्झतीति दृढं वामाधिष्ठितस्तत्पशूत्तमः

शिवेनैव तिरोभाव्य स्थापितो नियतेर्बलात् ॥३१५॥

कथङ्कारं पतिपदं प्रयातु परतन्त्रितः

स्वच्छन्दशास्त्रे प्रोक्तं वैष्णवादिषु ये रताः ॥३१६॥

भ्रमयत्येव तान्माया ह्यमोक्षे मोक्षलिप्सया

वैष्णवादिः शैवशास्त्रं मेलयन्निजशासने ॥३१७॥

ध्रुवं संशयमापन्न उभयभ्रष्टतां व्रजेत्

स्वदृष्टौ परदृष्टौ समयोल्लङ्घनादसौ ॥३१८॥

प्रत्यवायं यतोऽभ्येति चरेत्तन्नेदृशं क्रमम्

उक्तं श्रीमद्गह्वरे परमेशेन तादृशम् ॥३१९॥

नान्यशास्त्राभियुक्तषु शिवज्ञानं प्रकाशते

तन्न सैद्धान्तिको वामे नासौ दक्षे नो मते ॥३२०॥

कुलकौले त्रिके नासौ पूर्वः पूर्वः परत्र तु

अवच्छिन्नोऽनवच्छेदं नो वेत्त्यानन्त्यसंस्थितः ॥३२१॥

सर्वंसहस्ततोऽधःस्थ ऊर्ध्वस्थो ̕धिकृतो गुरुः

स्वात्मीयाधरसंस्पर्शात्प्राणयन्नधराः क्रियाः ॥३२२॥

सफलीकुरुते यत्तदूर्ध्वस्थो गुरुरुत्तमः

अधःस्थदृक्स्थोऽप्येतादृग्गुरुसेवी भवेत्स यः ॥३२३॥

तादृक्शक्तिनिपातेद्धो यो द्रागूर्ध्वमिमं नयेत्

तत्तद्गिरिनदीप्रायावच्छिन्ने क्षेत्रपीठके ॥३२४॥

उत्तरोत्तरविज्ञाने नाधिकार्यधरोऽधरः

उत्तरोत्तरमाचार्यं विदन्नप्यधरोऽधरः ॥३२५॥

कुर्वन्नधिक्रियां शास्त्रलङ्घी निग्रहभाजनम्

शक्तिपातबलादेव ज्ञानयोग्यविचित्रता ॥३२६॥

श्रौतं चिन्तामयं द्व्यात्म भावनामयमेव

ज्ञानं तदुत्तरं ज्यायो यतो मोक्षैककारणम् ॥३२७॥

तत्त्वेभ्य उद्धृतिं क्वापि योजनं सकले ̕कले

कथं कुर्याद्विना ज्ञानं भावनामयमुत्तमम् ॥३२८॥

योगी तु प्राप्ततत्तत्त्वसिद्धिरप्युत्तमे पदे

सदाशिवाद्ये स्वभ्यस्तज्ञानित्वादेव योजकः ॥३२९॥

अधरेषु तत्त्वेषु या सिद्धिर्योगजास्य सा

विमोचनायां नोपायः स्थितापि धनदारवत् ॥३३०॥

यस्तूत्पन्नसमस्ताध्वसिद्धिः सहि सदाशिवः

साक्षादेष कथं मर्त्यान्मोचयेद्गुरुतां व्रजन् ॥३३१॥

तेनोक्तं मालिनीतन्त्रे विचार्य ज्ञानयोगिते

यतश्च मोक्षदः प्रोक्तः स्वभ्यस्तज्ञानवान्बुधैः ॥३३२॥

तस्मात्स्वभ्यस्तविज्ञानतैवैकं गुरुलक्षणम्

विभागस्त्वेष मे प्रोक्तः शंभुनाथेन दर्श्यते ॥३३३॥

मोक्षज्ञानपरः कुर्याद्गुरुं स्वभ्यस्तवेदनम्

अन्यं त्यजेत्प्राप्तमपि तथाचोक्तं शिवेन तत् ॥३३४॥

आमोदार्थी यथा भृङ्गः पुष्पात्पुष्पान्तरं व्रजेत्

विज्ञानार्थी तथा शिष्यो गुरोर्गुर्वन्तरं व्रजेत् ॥३३५॥

शक्तिहीनं गुरुं प्राप्य मोक्षज्ञाने कथं श्रयेत्

नष्टमूले द्रुमे देवि कुतः पुष्पफलादिकम् ॥३३६॥

उत्तरोत्तरमुत्कर्षलक्ष्मीं पश्यन्नपि स्थितः

अधमे यः पदे तस्मात्कोऽन्यः स्याद्दैवदग्धकः ॥३३७॥

यस्तु भोगं मोक्षं वाञ्छेद्विज्ञानमेव

स्वभ्यस्तज्ञानिनं योगसिद्धं गुरुमाश्रयेत् ॥३३८॥

तदभावे तु विज्ञानमोक्षयोर्ज्ञानिनं श्रयेत्

भुक्त्यंशे योगिनं यस्तत्फलं दातुं भवेत्क्षमः ॥३३९॥

फलदानाक्षमे योगिन्यपायैकोपदेशिनि

वरं ज्ञानी योऽभ्युपायं दिशेदपिच मोचयेत् ॥३४०॥

ज्ञानी पूर्ण एवैको यदि ह्यंशांशिकाक्रमात्

ज्ञानान्यादाय विज्ञानं कुर्वीताखण्डमण्डलम् ॥३४१॥

तेनासंख्यान्गुरून्कुर्यात्पूरणाय स्वसंविदः

धन्यस्तु पूर्णविज्ञानं ज्ञानार्थी लभते गुरुम् ॥३४२॥

नानागुर्वागमस्रोतःप्रतिभामात्रमिश्रितम्

कृत्वा ज्ञानार्णवं स्वाभिर्विप्रुङ्गिः प्लावयेन्न किम् ॥३४३॥

तपनान्मोटकान्तं यस्य मे ̕स्ति गुरुक्रमः

तस्य मे सर्वशिष्यस्य नोपदेशदरिद्रता ॥३४४॥

श्रीमता कल्लटेनेत्थं गुरुणा तु न्यरूप्यत

अहमप्यत एवाधःशास्त्रदृष्टिकुतूहलात् ॥३४५॥

तार्किकश्रौतबौद्धार्हद्वैष्णवादीन्नसेविषि

लोकाध्यात्मातिमार्गादिकर्मयोगविधानतः ॥३४६॥

संबोधोत्कर्षबाहुल्यात्क्रमोत्कृष्टान्विभावयेत्

श्रीपूर्वशास्त्रे प्रष्टारो मुनयो नारदादयः ॥३४७॥

प्राग्वैष्णवाः सौगताश्च सिद्धान्तादिविदस्ततः

क्रमात्त्रिकार्थविज्ञानचन्द्रोत्सुकितदृष्टयः ॥३४८॥

तस्मान्न गुरुभूयस्त्वे विशङ्केत कदाचन

गुर्वन्तररते मूढे आगमान्तरसेवके ॥३४९॥

प्रत्यवायो आम्नातः इत्थमिति गृह्यताम्

यो यत्र शास्त्रे ̕धिकृतः तत्र गुरुरुच्यते ॥३५०॥

तत्रानधिकृतो यस्तु तद्गुर्वन्तरमुच्यते

यथा तन्मण्डलासीनो मण्डलान्तरभूपतिम् ॥३५१॥

स्वमण्डलजिगीषुः सन्सेवमानो विनश्यति

तथोत्तरोत्तरज्ञानसिद्धिप्रेप्सुः समाश्रयन् ॥३५२॥

अधराधरमाचार्यं विनाशमधिगच्छति

एवमेवोर्ध्ववर्तिष्णोरागमात्सिद्धिवाञ्छकः ॥३५३॥

मायीयशास्त्रनिरतो विनाशं प्रतिपद्यते

उक्तं श्रीमदानन्दे कर्म संश्रित्य भावतः ॥३५४॥

जुगुप्सते तत्तस्मिंश्च विफलेऽन्यत्समाश्रयेत्

दिनाद्दिनं ह्रसंस्त्वेवं पच्यते रौरवादिषु ॥३५५॥

यस्तूर्ध्वोर्ध्वपथप्रेप्सुरधरं गुरुमागमम्

जिहासेच्छक्तिपातेन धन्यः प्रोन्मुखीकृतः ॥३५६॥

अत एवेह शास्त्रेषु शैवेष्वेव निरूप्यते

शास्त्रान्तरार्थानाश्वस्तान्प्रति संस्कारको विधिः ॥३५७॥

अतश्चाप्युत्तमं शैवं योऽन्यत्र पतितः सहि

इहानुग्राह्य ऊर्ध्वोर्ध्वं नेतस्तु पतितः क्वचित् ॥३५८॥

अत एव हि सर्वज्ञैर्ब्रह्मविष्ण्वादिभिर्निजे

शासने समाम्नातं लिङ्गोद्धारादि किंचन ॥३५९॥

इत्थं विष्ण्वादयः शैवपरमार्थैकवेदिनः

कांश्चित्प्रति तथादिक्षुस्ते मोहाद्विमतिं श्रिताः ॥३६०॥

तथाविधामेव मतिं सत्यसंस्पर्शनाक्षमाम्

दृष्ट्वैषां ब्रह्मविष्ण्वाद्यैर्बुद्धैरपि तथोदितम् ॥३६१॥

इत्येष युक्त्यागमतः शक्तिपातो विवेचितः

 


 

     Bookmark and Share

 

 

Creative Commons License

Precedente Home Successiva

AGHORI BREVE STORIA GRANDE MADRE SADHANA CHAKRA AYURVEDA CORSO DI YOGA EVENTI GALLERIA SITI CONSIGLIATI CONTATTACI GUESTBOOK SITE MAP PDF IN ITA

Privacy Policy