Tantraloka

by Abhinavagupta

 

In Sanscrito:

 

CAP.1 - CAP.2 - CAP.3 - CAP.4 - CAP.5 - CAP.6 - CAP.7 - CAP.8 - CAP.9 - CAP.10

CAP.11 - CAP.12 - CAP.13 - CAP.14 - CAP.15 - CAP.16 - CAP.17 - CAP.18 - CAP.19 - CAP.20

CAP.21 - CAP.22 - CAP.23 - CAP.24 - CAP.25 - CAP.26 - CAP.27 - CAP.28 - CAP.29 - CAP.30 

CAP.31 - CAP.32 - CAP.33 - CAP.34 - CAP.35 - CAP.36 - CAP.37 - Testo translitterato

pdf: Testo in sanscrito - Testo translitterato - Tantraloka with commentary by Rajanaka Jayaratha Vol.1 - Vol.2 - Vol.3 - Vol.4 - Vol.5 - Vol.6

 

 

TANTRALOKA SANSCRITO

 

 

Capitolo 4

 

अथ श्रीतन्त्रालोके चतुर्थमाह्निकम्

 

अथ शाक्तमुपायमण्डलं कथयामः परमात्मसंविदे ॥१॥

अनन्तराह्निकोक्ते ̕स्मिन्स्वभावे पारमेश्वरे

प्रविविक्षुर्विकल्पस्य कुर्यात्संस्कारमञ्जसा ॥२॥

विकल्पः संस्कृतः सूते विकल्पं स्वात्मसंस्कृतम्

स्वतुल्यं सो ̕पि सोऽप्यन्यं सोऽप्यन्यं सदृशात्मकम् ॥३॥

चतुर्ष्वेव विकल्पेषु यः संस्कारः क्रमादसौ

अस्फुटः स्फुटताभावी प्रस्फुटन्स्फुटितात्मकः ॥४॥

ततः स्फुटतरो यावदन्ते स्फुटतमो भवेत्

अस्फुटादौ विकल्पे भेदो ̕प्यस्त्यान्तरालिकः ॥५॥

ततः स्फुटतमोदारताद्रूप्यपरिवृंहिता

संविदभ्येति विमलामविकल्पस्वरूपताम् ॥६॥

अतश्च भैरवीयं यत्तेजः संवित्स्वभावकम्

भूयो भूयो विमृशतां जायते तत्स्फुटात्मता ॥७॥

ननु संवित्पराम्रष्ट्री परामर्शमयी स्वतः

परामृश्या कथं ताथारूप्यसृष्टौ तु सा जडा ॥८॥

उच्यते स्वात्मसंवित्तिः स्वभावादेव निर्भरा

नास्यामपास्यं नाधेयं किंचिदित्युदितं पुरा ॥९॥

किं तु दुर्घटकारित्वात्स्वाच्छन्द्यान्निर्मलादसौ

स्वात्मप्रच्छादनक्रीडापण्डितः परमेश्वरः ॥१०॥

अनावृत्ते स्वरूपेऽपि यदात्माच्छादनं विभोः

सैव माया यतो भेद एतावान्विश्ववृत्तिकः ॥११॥

तथाभासनमेवास्य द्वैतमुक्तं महेशितुः

तद्द्वयापासनेनायं परामर्शो ̕भिधीयते ॥१२॥

दुर्भेदपादपस्यास्य मूलं कृन्तन्ति कोविदाः

धारारूढेन सत्तर्ककुठारेणेति निश्चयः ॥१३॥

तामेनां भावनामाहुः सर्वकामदुघां बुधाः

स्फुटयेद्वस्तु यापेतं मनोस्थपदादपि ॥१४॥

श्रीपूर्वशास्त्रे तत्प्रोक्तं तर्को योगाङ्गमुत्तमम्

हेयाद्यालोचनात्तस्मात्तत्र यत्नः प्रशस्यते ॥१५॥

मार्गे चेतः स्थिरीभूतं हेयेऽपि विषयेच्छया

प्रेर्य तेन नयेत्तावद्यावत्पदमनामयम् ॥१६॥

मार्गोऽत्र मोक्षोपायः हेयः शास्त्रान्तरोदितः

विषिणोति निबध्नाति येच्छा नियतिसंगतम् ॥१७॥

रागतत्त्वं तयोक्तं यत् तेन तत्रानुरज्यते

यथा साम्राज्यसंभोगं दृष्ट्वादृष्ट्वाथबाधमे ॥१८॥

भोगे रज्येत दुर्बुद्धिस्तद्वन्मोक्षे ̕पि रागतः

एवांशक इत्युक्तः स्वभावाख्यः तु स्फुटम् ॥१९॥

सिद्ध्यङ्गमिति मोक्षाय प्रत्यूह इति कोविदाः

शिवशासनमाहात्म्यं विदन्नप्यत एव हि ॥२०॥

वैष्णवाध्येषु रज्येत मूढो रागेण रञ्जितः

यतस्तावति सा तस्य वामाख्या शक्तिरैश्वरी ॥२१॥

पाञ्चरात्रिकवैरिञ्चसौगतादेर्विजृम्भते

दृष्टाः साम्राज्यसंभोगं निन्दन्तः के ̕पि वालिशाः ॥२२॥

तु संतोषतः स्वेषु भोगेष्वाशीःप्रवर्तनात्

एवंचिद्भैरवावेशनिन्दातत्परमानसाः ॥२३॥

भवन्त्यतिसुघोराभिः शक्तिभिः पातिता यतः

तेन शांभवमाहात्म्यं जानन्यः शासनान्तरे ॥२४॥

आश्वस्तो नोत्तरीतव्यं तेन भेदमहार्णवात्

श्रीकामिकायां प्रोक्तं पाशप्रकरणे स्फुटम् ॥२५॥

वेदसांख्यपुराणज्ञाः पाञ्चरात्रपरायणाः

ये केचिदृषयो धीराः शास्त्रान्तरपरायणाः ॥२६॥

बौद्धार्हताद्याः सर्वे ते विद्यारागेण रञ्जिताः

मायापाशेन बद्धत्वाच्छिवदीक्षां विन्दते ॥२७॥

रागशब्देन प्रोक्तं रागतत्त्वं नियामकम्

मायीये तच्च तं तस्मिञ्छास्त्रे नियमयेदिति ॥२८॥

मोक्षो ̕पि वैष्णवादेर्यः स्वसंकल्पेन भावितः

परप्रकृतिसायुज्यं यद्वाप्यानन्दरूपता ॥२९॥

विशुद्धचित्तमात्रं वा दीपवत्संततिक्षयः

सवेद्यापवेद्यात्मप्रलयाकलतामयः ॥३०॥

तं प्राप्यापि चिरं कालं तद्गोगाभोगभुक्ततः

तत्तत्त्वप्रलयान्ते तु तदूर्ध्वां सृष्टिमागतः ॥३१॥

मन्त्रत्वमेति संबोधादनन्तेशेन कल्पितात्

एतच्चाग्रे तनिष्याम इत्यास्तां तावदत्र तत् ॥३२॥

तेनाज्ञजनताक्लृप्तप्रवादैर्यो विडम्बितः

असद्गुरौ रूढचित्स मायापाशेन रञ्जितः ॥३३॥

सोऽपि सत्तर्कयोगेन नीयते सद्गुरुं प्रति

सत्तर्कः शुद्धविद्यैव सा चेच्छा परमेशितुः ॥३४॥

श्रीपूर्वशास्त्रे तेनोक्तं यियासुः शिवेच्छया

भुक्तिमुक्तिप्रसिद्ध्यर्थं नीयते सद्गुरुं प्रति ॥३५॥

शक्तिपातस्तु तत्रैष क्रमिकः संप्रवर्तते

स्थित्वा योऽसद्गुरौ शास्त्रान्तरे वा सत्पथं श्रितः ॥३६॥

गुरुशास्त्रगते सत्त्वेऽसत्त्वे चात्र विभेदकम्

शक्तिपातस्य वैचित्र्यं पुरस्तात्प्रविविच्यते ॥३७॥

उक्तं स्वच्छन्दशास्त्रे तत् वैष्णवाद्यान्प्रवादिनः

सर्वान्भ्रमयते माया सामोक्षे मोक्षलिप्सया ॥३८॥

यस्तु रूढोऽपि तत्रोद्यत्परामर्शविशारदः

शुद्धविद्यामाहात्म्याच्छक्तिपातपवित्रितः ॥३९॥

आरोहत्येव सन्मार्गं प्रत्यूहपरिवर्जितः

तावत्कस्यचित्तर्कः स्वत एव प्रवर्तते ॥४०॥

सांसिद्धिकः शास्त्रे प्रोक्तः स्वप्रत्ययात्मकः

किरणायां यदप्युक्तं गुरुतः शास्त्रतः स्वतः ॥४१॥

तत्रोत्तरोत्तरं मुख्यं पूर्वपूर्व उपायकः

यस्य स्वतोऽयं सत्तर्कः सर्वत्रैवाधिकारवान् ॥४२॥

अभिषिक्तः स्वसंवित्तिदेवीभिर्दीक्षितश्च सः

एव सर्वाचार्याणां मध्ये मुख्यः प्रकीर्तितः ॥४३॥

तत्संनिधाने नान्येषु कल्पितेष्वधिकारिता

समस्तं शास्त्रार्थं सत्तर्कादेव मन्यते ॥४४॥

शुद्धविद्या हि तन्नास्ति सत्यं यद्यन्न भासयेत्

सर्वशास्त्रार्थवेत्तृत्वमकस्माच्चास्य जायते ॥४५॥

इति श्रीपूववाक्ये तद् अकस्मादिति-शब्दतः

लोकाप्रसिद्धो यो हेतुः सोऽकस्मादिति कथ्यते ॥४६॥

चैष परमेशानशुद्धविद्याविजृम्भतम्

अस्य भोदाश्च बहवो निर्भित्तिः सहभित्तिकः ॥४७॥

सर्वगोऽअंशगतः सोऽपि मुख्यामुख्यांशनिष्ठितः

भित्तिः परोपजीवित्वं परा प्रज्ञाथ तत्कृतिः ॥४८॥

अदृष्टमण्डलोऽप्येवं यः कश्चिद्वेत्ति तत्त्वतः

सिद्धिभाग्भवेन्नित्यं योगी दीक्षितः ॥४९॥

एवं यो वेत्ति तत्त्वेन तस्य निर्वाणगामिनी

दीक्षा भवेदिति प्रोक्तं तच्छ्रीत्रिंशकशासने ॥५०॥

अकल्पितो गुरुर्ज्ञयः सांसिद्धिक इति स्मृतः

यस्तु तद्रूपभागात्मभावनातः परं विना ॥५१॥

शास्त्रवित्स गुरुः शास्त्रे प्रोक्तोऽकल्पितकल्पकः

तस्यापि भेदा उत्कृष्टमध्यमन्दाद्युपायतः ॥५२॥

भावनातोऽथ वा ध्यानाज्जपात्स्वप्नाद्व्रताद्धुतेः

प्राप्नोत्यकल्पितोदारमभिषेकं महामतिः ॥५३॥

श्रीमद्वाजसनीये श्रीवीरे श्रीब्रह्मयामले

श्रीसिद्धायामिदं धात्रा प्रोक्तमन्यत्र स्फुटम् ॥५४॥

तस्य स्वेच्छाप्रवृत्तत्वात्कारणानन्ततेष्यते

कदाचिद्भक्तियोगेन कर्मणा विद्ययापि वा ॥५५॥

ज्ञानधर्मोपदेशेन मन्त्रैर्वा दीक्षयापि वा

एवमाद्यैरनेकैश्च प्रकारैः परमेश्वरः ॥५६॥

संसारिणोऽनुगृह्णाति विश्वस्य जगतः पतिः

मातृमण्डलसंबोधात्संस्कारात्तपसः प्रिये ॥५७॥

ध्यानाद्योगाज्जपाज्ज्ञानान्मन्त्राराधनातो व्रतात्

संप्राप्यं कुलसामान्यं ज्ञानं कौलिकसिद्धिदम् ॥५८॥

तत्त्वज्ञानात्मकं साध्यं यत्र यत्रैव दृश्यते

एव हि गुरुस्तत्र हेतुजालं प्रकल्प्यताम् ॥५९॥

तत्त्वज्ञानादृते नान्यल्लक्षणं ब्रह्मयामले

तत्रैव चोक्तं सेवायां कृतायामविकल्पतः ॥६०॥

साधकस्य चेत्सिद्धिः किं कार्यमिति चोदिते

आत्मीयमस्य संज्ञानक्रमेण स्वात्मदीक्षणम् ॥६१॥

सस्फुरत्वप्रसिद्ध्यर्थं ततः साध्यं प्रसिद्ध्यति

अनेन स्वात्मविज्ञानं सस्फुरत्वप्रसाधकम् ॥६२॥

उक्तं मुख्यतयाचार्यो भवेद्यदि सस्फुरः

तत्रैव पुनः श्रीमद्रक्ताराधनकर्मणि ॥६३॥

विधिं प्रोक्तं सदा कुर्वन्मासेनाचार्य उच्यते

पक्षेण साधको ̕र्धार्धात्पुत्रकः समयी तथा ॥६४॥

दीक्षयेज्जपयोगेन रक्तादेवी क्रमाद्यतः

गुरोरलाभे प्रोक्तस्य विधिमेतं समाचरेत् ॥६५॥

मते पुस्तकाद्विद्याध्ययने दोष ईदृशः

उक्तो यस्तेन तद्दोषाभावेऽसौ निषिद्धता ॥६६॥

मन्त्रद्रव्यादिगुप्तत्वे फलं किमिति चोदिते

पुस्तकाधीतविद्या ये दीक्षासमयवर्जिताः ॥६७॥

तामसाः परहिंसादि वश्यादि चरन्त्यलम्

तत्त्वं विदुस्तेन दोषभाज इति स्फुटम् ॥६८॥

पूर्वं पदयुगं वाच्यमन्योन्यं हेतुहेतुमत्

यस्तु शास्त्रं विना नैति शुद्धविद्याख्यसंविदम् ॥६९॥

गुरोः शास्त्रमन्विच्छुस्तदुक्तं क्रममाचरेत्

येन केनाप्युपायेन गुरुमाराध्य भक्तितः ॥७०॥

तद्दीक्षाक्रमयोगेन शास्त्रार्थं वेत्त्यसौ ततः

अभिषेकं समासाद्य यो भवेत्स तु कल्पितः ॥७१॥

सन्नप्यशेषपाशौघविनिवर्तनकोविदः

यो यथाक्रमयोगेन कस्मिंश्चिच्छास्त्रवस्तुनि ॥७२॥

आकस्मिकं ब्रजेद्बोधं कल्पिताकल्पितो हि सः

तस्य योऽकल्पितो भागः तु श्रेष्ठमः स्मृतः ॥७३॥

उत्कर्षः शुद्धविद्यांशतारतम्यकृतो यतः

यथा भेदेनादिसिद्धाच्छिवान्मुक्तशिवा ह्यधः ॥७४॥

तथा सांसिद्धिकज्ञानादाहृतज्ञानिनोऽधमाः

तत्संनिधौ नाधिकारस्तेषां मुक्तशिवात्मवत् ॥७५॥

किं तु तूष्णीं-स्थितिर्यद्वा कृत्यं तदनुवर्तनम्

यस्त्वकल्पितरूपो ̕पि संवाददृढताकृते ॥७६॥

अन्यतो लब्धसंस्कारः साक्षाद्भैरवो गुरुः

यतः शास्त्रक्रमात्तज्ज्ञगुरुप्रज्ञानुशीलनात् ॥७७॥

आत्मप्रत्ययितं ज्ञानं पूर्णत्वाद्भैरवायते

तेन श्रीकिरणोक्तं यद्गुरुतः शास्त्रतः स्वतः ॥७८॥

त्रिप्रत्ययमिदं ज्ञानमिति यच्च निशाटने

तत्संघातविपर्यासविग्रहैर्भासते तथा ॥७९॥

करणस्य विचित्रत्वाद्विचित्रामेव तां छिदम्

कर्तुं वासीं टङ्कं क्रकचं चापि गृह्णते ॥८०॥

तावच्च छेदनं ह्येकं तथैवाद्याभिसंधितः

इत्थमेव मितौ वाच्यं करणस्य स्वकं वपुः ॥८१॥

स्वतन्त्रं स्वतो मानं कुर्यादधिगमं हठात्

प्रमात्राश्वासपर्यन्तो यतो ̕धिगम उच्यते ॥८२॥

आश्वासश्च विचित्रोऽसौ शक्तिपातवशात्तथा

प्रमिते ̕पि प्रमाणानामवकाशोऽस्त्यतः स्फुटः ॥८३॥

दृष्ट्वा दृष्ट्वा समाश्लिष्य चिरं संचर्व्य चेतसा

प्रिया यैः परितुष्येत किं ब्रूमः किल तान्प्रति ॥८४॥

इत्थं मानसंप्लुत्यामपि नाधिगते गतिः

व्यर्थता नानवस्था नान्योन्याश्रयतापि ॥८५॥

एवं योगाङ्गमियति तर्क एव चापरम्

अन्तरन्तः परामर्शपाटवातिशयाय सः ॥८६॥

अहिंसा सत्यमस्तेयब्रह्मचर्यापरिग्रहाः

इति पञ्च यमाः साक्षात्संवित्तौ नोपयोगिनः ॥८७॥

तपःप्रभृतयो ये नियमा यत्तथासनम्

प्राणायामाश्च ये सर्वमेतद्बाह्यविजृम्भितम् ॥८८॥

श्रीमद्वीरावलौ चोक्तं बोधमात्रे शिवात्मके

चित्तप्रलयबन्धेन प्रलीने शशिभास्करे ॥८९॥

प्राप्ते द्वादशे भागे जीवादित्ये स्वबोधके

मोक्षः एव कथितः प्राणायामो निरर्थकः ॥९०॥

प्राणायामो कर्तव्यः शरीरं येन पीड्यते

रहस्यं वेत्ति यो यत्र मुक्तः मोचकः ॥९१॥

प्रत्याहारश्च नामायमर्थेभ्योऽक्षधियां हि यः

अनिबद्धस्य बन्धस्य तदन्तः किल कीलनम् ॥९२॥

चित्तस्य विषये क्वापि बन्धनं धारणात्मकम्

तत्सदृग्ज्ञानसंतानो ध्यानमस्तमिता परम् ॥९३॥

यदा तु ज्ञेयतादात्म्यमेव संविदि जायते

ग्राह्यग्रहणताद्वैतशून्यतेयं समाहितिः ॥९४॥

तदेषा धारणाध्यानसमाधित्रितयी पराम्

संविदं प्रति नो कंचिदुपयोगं समश्नुते ॥९५॥

योगाङ्गता यमादेस्तु समाध्यन्तस्य वर्ण्यते

स्वपूर्वपूर्वोपायत्वादन्त्यतर्कोपयोगतः ॥९६॥

अन्तः संविदि रूढं हि तद्द्वारा प्राणदेहयोः

बुद्धौ वार्प्यं तदभ्यासान्नैष न्यायस्तु संविदि ॥९७॥

अथ वास्मद्दृशि प्राणधीदेहादेरपि स्फुटम्

सर्वात्मकत्वात्तत्रस्थोऽप्यभ्यासोऽन्यव्यपोहनम् ॥९८॥

देह उत्प्लुतिसंपातधर्मोज्जिगमिषारसात्

उत्प्लाव्यते तद्विपक्षपाताशङ्काव्यपोहनात् ॥९९॥

गुरुवाक्यपरामर्शसदृशे स्वविमर्शने

प्रबुद्धे तद्विपक्षाणां व्युदासः पाठचिन्तने ॥१००॥

नह्यस्य गुरुणा शक्यं स्वं ज्ञानं शब्द एव वा

धियि रोपयितुं तेन स्वप्रबोधक्रमो ध्रुवम् ॥१०१॥

अत एव स्वप्नकाले श्रुते तत्रापि वस्तुनि

तादात्म्यभावनायोगो फलाय भण्यते ॥१०२॥

संकेतानादरे शब्दनिष्ठमामर्शनं पठिः

तदादरे तदर्थस्तु चिन्तेति परिचर्च्यताम् ॥१०३॥

तदद्वयायां संवित्तावभ्यासोऽनुपयोगवान्

केवलं द्वैतमालिन्यशङ्कानिर्मूलनाय सः ॥१०४॥

द्वैतशङ्काश्च तर्केण तर्क्यन्त इति वर्णितम्

तत्तर्कसाधनायास्तु यमादेरप्युपायता ॥१०५॥

उक्तं श्रीपूर्वशस्त्रे द्वैतं नापि चाद्वयम्

लिङ्गपूजादिकं सर्वमित्युपक्रम्य शंभुना ॥१०६॥

विहितं सर्वमेवात्र प्रतिषिद्धमथापि वा

प्राणायामादिकैरङ्गैर्योगाः स्युः कृत्त्रिमा यतः ॥१०७॥

तत्तेनाकृतकस्यास्य कलां नार्घन्ति षोडशीम्

किं त्वेतदत्र देवेशि नियमेन विधीयते ॥१०८॥

तत्त्वे चेतः स्थिरं कार्यं तच्च यस्य यथास्त्विति

एवं द्वैतपरामर्शनाशाय परमेश्वरः ॥१०९॥

क्वचित्स्वभावममलमामृशन्ननिशं स्थितः

यः स्वभावपरामर्श इन्द्रियार्थाद्युपायतः ॥११०॥

विनैव तन्मुखोऽन्यो वा स्वातन्त्र्यात्तद्विकल्पनम्

तच्च स्वच्छस्वतन्त्रात्मरत्ननिर्भासिनि स्फुटम् ॥१११॥

भावौघे भेदसंधातृ स्वात्मनो नैशमुच्यते

तदेव तु समस्तार्थनिर्भरात्मैकगोचरम् ॥११२॥

शुद्धविद्यात्मकं सर्वमेवेदमहमित्यलम्

इदं विकल्पनं शुद्धविद्यारूपं स्फुटात्मकम् ॥११३॥

प्रतिहन्तीह मायीयं विकल्पं भेदभावकम्

शुद्धविद्यापरामर्शो यः एव त्वनेकधा ॥११४॥

स्नानशुद्ध्यर्चनाहोमध्यानजप्यादियोगतः

विश्वमेतत्स्वसंवित्तिरसनिर्भरितं रसात् ॥११५॥

आविश्य शुद्धो निखिलं तर्पयेदध्वमण्लम्

उल्लासिबोधहुतभुग्दग्धविश्वेन्धनोदिते ॥११६॥

सितभस्मनि देहस्य मज्जनं स्नानमुच्यते

इत्थं विहितस्नानस्तर्पितानन्तदेवतः ॥११७॥

ततो ̕पि देहारम्भीणि तत्त्वानि परिशोधयेत्

शिवात्मकेष्वप्येतेषु बुद्धिर्या व्यतिरेकिणी ॥११८॥

सैवाशुद्धिः पराख्याता शुद्धिस्तद्धीविमर्दनम्

एवं स्वदेहं बोधैकपात्रं गलितभेदकम् ॥११९॥

पश्यन्संवित्तिमात्रत्वे स्वतन्त्रे तिष्ठति प्रभुः

यत्किंचिन्मानसाह्लादि यत्र क्वापीन्द्रियस्थितौ ॥१२०॥

योज्यते ब्रह्मसद्धाम्नि पूजोपकरणं हि तत्

पूजा नाम विभिन्नस्य भावौघस्यापि संगतिः ॥१२१॥

स्वतन्त्रविमलानन्तभैरवीयचिदात्मना

तथाहि संविदेवेयमन्तर्बाह्योभयात्मना ॥१२२॥

स्वातन्त्र्याद्वर्तमानैव परामर्शस्वरूपिणी

द्वादशधा तत्र सर्वमन्तर्भवेद्यतः ॥१२३॥

सूर्य एव हि सोमात्मा विश्वमयः स्थितः

कलाद्वादशकात्मैव तत्संवित्परमार्थतः ॥१२४॥

सा मातरि विज्ञाने माने करणगोचरे

मेये चतुर्विधं भाति रूपमाश्रित्य सर्वदा ॥१२५॥

शुद्धसंविन्मयी प्राच्ये ज्ञाने शब्दनरूपिणी

करणे ग्रहणाकारा यतः श्रीयोगसंचरे ॥१२६॥

ये चक्षुर्मण्डले श्वेते प्रत्यक्षे परमेश्वरि

षोडशारं द्वादशारं तत्रस्थं चक्रमुत्तमम् ॥१२७॥

प्रतिवारणवद्रक्ते तद्बहिर्ये तदुच्यते

द्वितीयं मध्यगे ये ते कृष्णश्वेते मण्डले ॥१२८॥

तदन्तर्ये स्थिते शुद्धे भिन्नाञ्जनसमप्रभे

चतुर्दले तु ते ज्ञेये अग्नीषोमात्मके प्रिये ॥१२९॥

मिथुनत्वे स्थिते ये चक्रे द्वे परमेश्वरि

संमीलनोन्मीलनं ते अन्योन्यं विदधातके ॥१३०॥

यथा योनिश्च लिङ्गं संयोगात्स्रवतो ̕मृतम्

तथामृताग्निसंयोगाद्द्रवतस्ते संशयः ॥१३१॥

तच्चक्रपीडनाद्रात्रौ ज्योतिर्भात्यर्कसोमगम्

तां दृष्ट्वा परमां ज्योत्स्नां कालज्ञानं प्रवर्तते ॥१३२॥

सहस्रारं भवेच्चक्रं ताभ्यामुपरि संस्थितम्

ततश्चक्रात्समुद्भूतं ब्रह्माण्डं तदुदाहृतम् ॥१३३॥

तत्रस्थां मुञ्चते धारां सोमो ह्यग्निप्रदीपितः

सृजतीत्थं जगत्सर्वमात्मन्यात्मन्यनन्तकम् ॥१३४॥

षोडशद्वादशाराभ्यामष्टारेष्वथ सर्वशः

एवं क्रमेण सर्वत्र चक्रेष्वमृतमुत्तमम् ॥१३५॥

सोमः स्रवति यावच्च पञ्चानां चक्रपद्धतिः

तत्पुनः पिबति प्रीत्या हंसो हंस इति स्फुरन् ॥१३६॥

सकृद्यस्य तु संश्रुत्या पुण्यपापैर्न लिप्यते

पञ्चारे सविकारोऽथ भूत्वा सोमस्रुतामृतात् ॥१३७॥

धावति त्रिरसाराणि गुह्यचक्राण्यसौ विभुः

यतो जातं जगल्लीनं यत्र स्वकलीलया ॥१३८॥

तत्रानन्दश्च सर्वस्य ब्रह्मचारी तत्परः

तत्र सिद्धिश्च मुक्तिश्च समं संप्राप्यते द्वयम् ॥१३९॥

अत ऊर्ध्वं पुनर्याति यावद्ब्रह्मात्मकं पदम्

अग्नीषोमौ समौ तत्र सृज्येते चात्मनात्मनि ॥१४०॥

तत्रस्थस्तापितः सोमो द्वेधा जङ्घे व्यवस्थितः

अधस्तं पातयेदग्निरमृतं स्रवति क्षणात् ॥१४१॥

गुल्फजान्वादिषु व्यक्तं कुटिलार्कप्रदीपिता

सा शक्तिस्तापिता भूयः पञ्चारादिक्रमं सृजेत् ॥१४२॥

एवं श्रोत्रे ̕पि विज्ञेयं यावत्पादान्तगोचरम्

पादाङ्गुष्ठात्समारभ्य यावद्ब्रह्माण्डदर्शनम् ॥१४३॥

इत्यजानन्नैव योगी जानन्विश्वप्रभुर्भवेत्

ज्वलन्निवासौ ब्रह्माद्यैर्दृश्यते परमेश्वरः ॥१४४॥

अत्र तात्पर्यतः प्रोक्तमक्षे क्रमचतुष्टयम्

एकैकत्र यतस्तेन द्वादशात्मकतोदिता ॥१४५॥

व्याख्यातं तु निर्भज्य यतो ̕तिसरहस्यकम्

मेये ̕पि देवी तिष्ठन्ती मासराश्यादिरूपिणी ॥१४६॥

अत एषा स्थिता संविदन्तर्बाह्योभयात्मना

स्वयं निर्भास्य तत्रान्यद्भासयन्तीव भासते ॥१४७॥

ततश्च प्रागियं शुद्धा तथाभासनसोत्सुका

सृष्टिं कलयते देवी तन्नाम्नागम उच्यते ॥१४८॥

तथा भासितवस्त्वंशरञ्जनां सा बहिर्मुखी

स्ववृत्तिचक्रेण समं ततो ̕पि कलयन्त्यलम् ॥१४९॥

स्थितिरेषैव भावस्य तामन्तर्मुखतारसात्

संजिहीर्षुः स्थितेर्नाशं कलयन्ती निरुच्यते ॥१५०॥

ततो ̕पि संहाररसे पूर्णे विघ्नकरीं स्वयम्

शङ्कां यमात्मिकां भागे सूते संहरते ̕पि ॥१५१॥

संहृत्य शङ्कां शङ्क्यार्थवर्जं वा भावमण्डले

संहृतिं कलयत्येव स्वात्मवह्नौ विलापनात् ॥१५२॥

विलापनात्मिकां तां भावसंहृतिमात्मनि

आमृशत्येव येनैषा मया ग्रस्तमिति स्फुरेत् ॥१५३॥

संहार्योपाधिरेतस्याः स्वस्वभावो हि संविदः

निरुपाधिनि संशुद्धे संविद्रूपेषस्तमीयते ॥१५४॥

विलापिते ̕पि भावौघे कंचिद्भावं तदैव सा

आश्यानयेद्य एवास्ते शङ्का संस्काररूपकः ॥१५५॥

शुभाशुभतया सोऽयं सोष्यते फलसंपदम्

पूर्वं हि भोगात्पश्चाद्वा शङ्केयं व्यवतिष्ठते ॥१५६॥

अन्यदाश्यानितमपि तदैव द्रावयेदियम्

प्रायश्चित्तादिकर्मभ्यो ब्रह्महत्यादिकर्मवत् ॥१५७॥

रोधनाद्द्रावणाद्रूपमित्थं कलयते चितिः

तदपि द्रावयेदेव तदप्याश्यानयेदथ ॥१५८॥

इत्थं भोग्ये ̕पि संभुक्ते सति तत्करणान्यपि

संहरन्ती कलयते द्वादशैवाहमात्मनि ॥१५९॥

कर्मबुद्ध्यक्षवर्गो हि बुद्ध्यन्तो द्वादशात्मकः

प्रकाशकत्वात्सूर्यात्मा भिन्ने वस्तुनि जृम्भते ॥१६०॥

अहंकारस्तु करणमभिमानैकसाधनम्

अविच्छिन्नपरामर्शी लीयते तेन तत्र सः ॥१६१॥

यथाहि खङ्गपाशादेः करणस्य विभेदिनः

अभेदिनि स्वहस्तादौ लयस्तद्वदयं विधिः ॥१६२॥

तेनेन्द्रियौघमार्तण्डमण्डलं कलयेत्स्वयम्

संविद्देवी स्वतन्त्रत्वात्कल्पिते ̕हंकृतात्मनि ॥१६३॥

एव परमादित्यः पूर्णकल्पस्त्रयोदशः

करणत्वात्प्रयात्येव कर्तरि प्रलयं स्फुटम् ॥१६४॥

कर्ता द्विविधः प्रोक्तः कल्पिताकल्पितात्मकः

कल्पितो देहबुद्ध्यादिव्यवच्छेदेन चर्चितः ॥१६५॥

कालाग्निरुद्रसंज्ञास्य शास्त्रेषु परिभाषिता

कालो व्यवच्छित्तद्युक्तो वह्निर्भोक्ता यतः स्मृतः ॥१६६॥

संसाराक्लृप्तिक्लृप्तिभ्यां रोधनाद्द्रावणात्प्रभुः

अनिवृत्तपशूभावस्तत्राहंकृत्प्रलीयते ॥१६७॥

सो ̕पि कल्पितवृत्तित्वाद्विश्वाभेदैकशालिनि

विकासिनि महाकाले लीयते ̕हमिदंमये ॥१६८॥

एतस्यां स्वात्मसंवित्ताविदं सर्वमहं विभुः

इति प्रविकसद्रूपा संवित्तिरवभासते ॥१६९॥

ततोऽन्तःस्थितसर्वात्मभावभोगोपरागिणी

परिपूर्णापि संवित्तिरकुले धाम्नि लीयते ॥१७०॥

प्रमातृवर्गो मानौघः प्रमाश्च बहुधा स्थिताः

मेयौघ इति यत्सर्वमत्र चिन्मात्रमेव तत् ॥१७१॥

इयतीं रूपवैचित्रीमाश्रयन्त्याः स्वसंविदः

स्वाच्छन्द्यमनपेक्षं यत्सा परा परमेश्वरी ॥१७२॥

इमाः प्रागुक्तकलनास्तद्विजृम्भोच्यते यतः

क्षेपो ज्ञानं संख्यानं गतिर्नाद इति क्रमात् ॥१७३॥

स्वात्मनो भेदनं क्षेपो भेदितस्याविकल्पनम्

ज्ञानं विकल्पः संख्यानमन्यतो व्यतिभेदनात् ॥१७४॥

गतिः स्वरूपारोहित्वं प्रतिबिम्बवदेव यत्

नादः स्वात्मपरामर्शशेषता तद्विलोपनात् ॥१७५॥

इति पञ्चविधामेनां कलनां कुर्वती परा

देवी काली तथा कालकर्षिणी चेति कथ्यते ॥१७६॥

मातृसद्भावसंज्ञास्यास्तेनोक्ता यत्प्रमातृषु

एतावदन्तसंवित्तौ प्रमातृत्वं स्फुटीभवेत् ॥१७७॥

वामेश्वरीति-शब्देन प्रोक्ता श्रीनिशिसंचरे

इत्थं द्वादशधा संवित्तिष्ठन्ती विश्वमातृषु ॥१७८॥

एकैवेति को ̕प्यस्याः क्रमस्य नियमः क्वचित्

क्रमाभावान्न युगपत्तदभावात्क्रमो ̕पि ॥१७९॥

क्रमाक्रमकथातीतं संवित्तत्त्वं सुनिर्मलम्

तदस्याः संविदो देव्या यत्र क्वापि प्रवर्तनम् ॥१८०॥

तत्र तादात्म्ययोगेन पूजा पूर्णैव वर्तते

परामर्शस्वभावत्वादेतस्या यः स्वयं ध्वनिः ॥१८१॥

सदोदितः एवोक्तः परमं हृदयं महत्

हृदये स्वविमर्शो ̕सौ द्राविताशेषविश्वकः ॥१८२॥

भावग्रहादिपर्यन्तभावी सामान्यसंज्ञकः

स्पन्दः कथ्यते शास्त्रे स्वात्मन्युच्छलनात्मकः ॥१८३॥

किंचिच्चलनमेतावदनन्यस्फुरणं हि यत्

ऊर्मिरेषा विबोधाब्धेर्न संविदनया विना ॥१८४॥

निस्तरङ्गतरङ्गादिवृत्तिरेव हि सिन्धुता

सारमेतत्समस्तस्य यच्चित्सारं जडं जगत् ॥१८५॥

तदधीनप्रतिष्ठत्वात्तत्सारं हृदयं महत्

तथा हि सदिदं ब्रह्ममूलं मायाण्डसंज्ञितम् ॥१८६॥

इच्छाज्ञानक्रियारोहं विना नैव सदुच्यते

तच्छक्तित्रितयारोहाद्भैरवीये चिदात्मनि ॥१८७॥

विसृज्यते हि तत्तस्माद्बहिर्वाथ विसृज्यते

एवं सद्रूपतैवैषां सतां शक्तित्रयात्मताम् ॥१८८॥

विसर्गं परबोधेन समाक्षिप्यैव वर्तते

तत्सदेव बहीरूपं प्राग्बोधाग्निविलापितम् ॥१८९॥

अन्तर्नदत्परामर्शशेषीभूतं ततोऽप्यलम्

खात्मत्वमेव संप्राप्तं शक्तित्रितयगोचरात् ॥१९०॥

वेदनात्मकतामेत्य संहारात्मनि लीयते

इदं संहारहृदयं प्राच्यं सृष्टौ हृन्मतम् ॥१९१॥

एतद्रूपपरामर्शमकृत्रिममनाबिलम्

अहमित्याहुरेषैव प्रकाशस्य प्रकाशता ॥१९२॥

एतद्वीर्यं हि सर्वेषां मन्त्राणां हृदयात्मकम्

विनानेन जडास्ते स्युर्जीवा इव विना हृदा ॥१९३॥

अकृत्रिमैतद्धृदयारूढो यत्किंचिदाचरेत्

प्राण्याद्वा मृशते वापि सर्वोऽस्य जपो मतः ॥१९४॥

यदेव स्वेच्छया सृष्टिस्वाभाव्याद्बहिरन्तरा

निर्मीयते तदेवास्य ध्यानं स्यात्पारमार्थिकम् ॥१९५॥

निराकारे हि चिद्धाम्नि विश्वाकृतिमये सति

फलार्थिनां काचिदेव ध्येयत्वेनाकृतिः स्थिता ॥१९६॥

यथा ह्यभेदात्पूर्णे ̕पि भावे जलमुपाहरन्

अन्याकृत्यपहानेन घटमर्थयते रसात् ॥१९७॥

तथैव परमेशाननियतिप्रविजृम्भणात्

काचिदेवाकृतिः कांचित् सूते फलविकल्पनाम् ॥१९८॥

यस्तु संपूर्णहृदयो फलं नाम वाञ्छति

तस्य विश्वाकृतिर्देवी सा चावच्छेदवर्जनात् ॥१९९॥

कुले योगिन उद्रिक्तभैरवीयपरासवात्

घूर्णितस्य स्थितिर्देहे मुद्रा या काचिदेव सा ॥२००॥

अन्तरिन्धनसंभारमनपेक्ष्यैव नित्यशः

जाज्वलीत्यखिलाक्षौघप्रसृतोग्रशिखः शिखी ॥२०१॥

बोधाग्नौ तादृशे भावा विशन्तस्तस्य सन्महः

उद्रेचयन्तो गच्छन्ति होमकर्मनिमित्तताम् ॥२०२॥

यं कंचित्परमेशानशक्तिपातपवित्रितम्

पुरोभाव्य स्वयं तिष्ठेदुक्तवद्दीक्षितस्तु सः ॥२०३॥

जप्यादौ होमपर्यन्ते यद्यप्येकैककर्मणि

उदेति रूढिः परमा तथापीत्थं निरूपितम् ॥२०४॥

यथाहि तत्र तत्राश्वः समनिम्नोन्नतादिषु

चित्रे देशे वाह्यमानो यातीच्छामात्रकल्पिताम् ॥२०५॥

तथा संविद्विचित्राभिः शान्तघोरतरादिभिः

भङ्गीभिरभितो द्वैतं त्याजिता भैरवायते ॥२०६॥

यथा पुरःस्थे मुकुरे निजं वक्त्रं विभावयन्

भूयो भूयस्तदेकात्म वक्त्रं वेत्ति निजात्मनः ॥२०७॥

तथा विकल्पमुकुरे ध्यानपूजार्चनात्मनि

आत्मानं भैरवं पश्यन्नचिरात्तन्मयीभवेत् ॥२०८॥

तन्मयीभवनं नाम प्राप्तिः सानुत्तरात्मनि

पूर्णत्वस्य परा काष्ठा सेत्यत्र फलान्तरम् ॥२०९॥

फलं सर्वमपूर्णत्वे तत्र तत्र प्रकल्पितम्

अकल्पिते हि पूर्णत्वे फलमन्यत्किमुच्यताम् ॥२१०॥

एष यागविधिः को ̕पि कस्यापि हृदि वर्तते

यस्य प्रसीदेच्चिच्चक्रं द्रागपश्चिमजन्मनः ॥२११॥

अत्र यागे गतो रूढिं कैवल्यमधिगच्छति

लोकैरालोक्यमानो हि देहबन्धविधौ स्थितः ॥२१२॥

अत्र नाथः समाचारं पटले ̕ष्टादशेऽभ्यधात्

नात्र शुद्धिर्न चाशुद्धिर्न भक्ष्यादिविचारणम् ॥२१३॥

द्वैतं नापि चाद्वैतं लिङ्गपूजादिकं

चापि तत्परित्यागो निष्परिग्रहतापि वा ॥२१४॥

सपरिग्रहता वापि जटाभस्मादिसंग्रहः

तत्त्यागो व्रतादीनां चरणाचरणं यत् ॥२१५॥

क्षेत्रादिसंप्रवेशश्च समयादिप्रपालनम्

परस्वरूपलिङ्गादि नामगोत्रादिकं यत् ॥२१६॥

नास्मिन्विधीयते किंचिन्न चापि प्रतिषिध्यते

विहितं सर्वमेवात्र प्रतिषिद्धमथापि ॥२१७॥

किं त्वेतदत्र देवेशि नियमेन विधीयते

तत्त्वे चेतः स्थिरीकार्यं सुप्रसन्नेन योगिना ॥२१८॥

तच्च यस्य यथैव स्यात्स तथैव समाचरेत्

तत्त्वे निश्चलचित्तस्तु भुञ्जानो विषयानपि ॥२१९॥

संस्पृश्येत दोषैः पद्मपत्रमिवाम्भसा

विषापहारिमन्त्रादिसंनद्धो भक्षयन्नपि ॥२२०॥

विषं मुह्यते तेन तद्वद्योगी महामतिः

अशुद्धं हि कथं नाम देहाद्यं पाञ्चभौतिकम् ॥२२१॥

प्रकाशतातिरिक्ते किं शुद्ध्यशुद्धी हि वस्तुनः

अशुद्धस्य भावस्य शुद्धिः स्यात्तादृशैव किम् ॥२२२॥

अन्योन्याश्रयवैयर्थ्यानवस्था इत्थमत्र हि

पृथिवी जलतः शुद्ध्येज्जलं धरणितस्तथा ॥२२३॥

अन्योन्याश्रयता सेयमशुद्धत्वेऽप्ययं क्रमः

अशुद्धाज्जलतः शुद्ध्येद्धरेति व्यर्थता भवेत् ॥२२४॥

वायुतो वारिणो वायोस्तेजसस्तस्य वान्यतः

बहुरूपादिका मन्त्राः पावनात्तेषु शुद्धता ॥२२५॥

मन्त्राः स्वभावतः शुद्धा यदि ते ̕पि किं तथा

शिवात्मता तेषु शुद्धिर्यदि तत्रापि सा किम् ॥२२६॥

शिवात्मत्वापरिज्ञानं मन्त्रेषु धरादिवत्

ते तेन शुद्धा इति चेत्तज्ज्ञप्तिस्तर्हि शुद्धता ॥२२७॥

योगिनं प्रति सा चास्ति भावेष्विति विशुद्धता

ननु चोदनया शुद्ध्यशुद्ध्यादिकविनिश्चयः ॥२२८॥

इत्थमस्तु तथाप्येषा चोदनैव शिवोदिता

का स्यात्सतीति चेदेतदन्यत्र प्रवितानितम् ॥२२९॥

वैदिक्या बाधितेयं चेद्विपरीतं किं भवेत्

सम्यक्चेन्मन्यसे बाधो विशिष्टविषयत्वतः ॥२३०॥

अपवादेन कर्तव्यः सामान्यविहिते विधौ

शुद्ध्यशुद्धी सामान्यविहिते तत्त्वबोधिनि ॥२३१॥

पुंसि ते बाधिते एव तथा चात्रेति वर्णितम्

नार्थवादादिशङ्का वाक्ये माहेश्वरे भवेत् ॥२३२॥

अबुद्धिपूर्वं हि तथा संस्थिते सततं भवेत्

व्योमादिरूपे निगमे शङ्का मिथ्यार्थतां प्रति ॥२३३॥

अनवच्छिन्नविज्ञानवैश्वरूप्यसुनिर्भरः

शास्त्रात्मना स्थितो देवो मिथ्यात्वं क्वापि नार्हति ॥२३४॥

इच्छावान्भावरूपेण यथा तिष्ठासुरीश्वरः

तत्स्वरूपाभिधानेन तिष्ठासुः तथा स्थितः ॥२३५॥

अर्थवादो ̕पि यत्रान्यविध्यादिमुखमीक्षते

तत्रास्त्वसत्यः स्वातन्त्र्ये एव तु विधायकः ॥२३६॥

विधिवाक्यान्तरे गच्छन्नङ्गभावमथापि वा

निरर्थकं एवायं संनिधेर्गजडादिवत् ॥२३७॥

स्वार्थप्रत्यायनं चास्य स्वसंवित्त्यैव भासते

तदपह्नवनं कर्तुं शक्यं विधिनिषेधयोः ॥२३८॥

युक्तिश्चात्रास्ति वाक्येषु स्वसंविच्चाप्यबाधिता

या समग्रार्थमाणिक्यतत्त्वनिश्चयकारिणी ॥२३९॥

मृतदेहेऽथ देहोत्थे या चाशुद्धिः प्रकीर्तिता

अन्यत्र नेति बुद्ध्यन्तामशुद्धं संविदश्च्युतम् ॥२४०॥

संवित्तादात्म्यमापन्नं सर्वं शुद्धमतः स्थितम्

श्रीमद्वीरावलौ चोक्तं शुद्ध्यशुद्धिनिरूपणे ॥२४१॥

सर्वेषां वाहको जीवो नास्ति किंचिदजीवकम्

यत्किंचिज्जीवरहितमशुद्धं तद्विजानत ॥२४२॥

तस्माद्यत्संविदो नातिदूरे तच्छुद्विमावहेत्

अविकल्पेन भावेन मुनयो ̕पि तथाभवन् ॥२४३॥

लोकसंरक्षणार्थं तु तत्तत्त्वं तैः प्रगोपितम्

बहिः सत्स्वपि भावेषु शुद्ध्यशुद्धी नीलवत् ॥२४४॥

प्रमातृधर्म एवायं चिदैक्यानैक्यवेदनात्

यदि वा वस्तुधर्मो ̕पि मात्रपेक्षानिबन्धनः ॥२४५॥

सौत्रामण्यां सुरा होतुः शुद्धान्यस्य विपर्ययः

अनेन चोदनानां स्ववाक्यैरपि बाधनम् ॥२४६॥

क्वचित्संदर्शितं ब्रह्महत्याविधिनिषेधवत्

भक्ष्यादिविधयो ̕प्येनं न्यायमाश्रित्य चर्चिताः ॥२४७॥

सर्वज्ञानोत्तरादौ भाषते स्म महेश्वरः

नरर्षिदेवद्रुहिणविष्णुरुद्राद्युदीरितम् ॥२४८॥

उत्तरोत्तरवैशिष्ट्यात् पूर्वपूर्वप्रबाधकम्

शैवं वैष्णवैर्वाक्यैर्बाधनीयं कदाचन ॥२४९॥

वैष्णवं ब्रह्मसंभूतैर्नेत्यादि परिचर्चयेत्

बाधते यो वैपरीत्यात्समूढः पापभाग्भवेत् ॥२५०॥

तस्मान्मुख्यतया स्कन्द लोकधर्मान्न चाचरेत्

नान्यशास्त्रसमुद्दिष्टं स्रोतस्युक्तं निजे चरेत् ॥२५१॥

यतो यद्यपि देवेन वेदाद्यपि निरूपितम्

तथापि किल संकोचभावाभावविकल्पतः ॥२५२॥

संकोचतारतम्येन पाशवं ज्ञानमीरितम्

विकासतारतम्येन पतिज्ञानं तु बाधकम् ॥२५३॥

इदं द्वैतमिदं नेति परस्परनिषेधतः

मायीयभेदक्लृप्तं तत्स्यादकाल्पनिके कथम् ॥२५४॥

उक्तं भर्गशिखायां मृत्युकालकलादिकम्

द्वैताद्वैतविकल्पोत्थं ग्रसते कृतधीरिति ॥२५५॥

सिद्धान्ते लिङ्गपूजोक्ता विश्वाध्वमयताविदे

कुलादिषु निषिद्धासौ देहे विश्वात्मताविदे ॥२५६॥

इह सर्वात्मके कस्मात्तद्विधिप्रतिषेधने

नियमानुप्रवेशेन तादात्म्यप्रतिपत्तये ॥२५७॥

जटादि कौले त्यागोऽस्य सुखोपायोपदेशतः

व्रतचर्या मन्त्रार्थतादात्म्यप्रतिपत्तये ॥२५८॥

तन्निषेधस्तु मन्त्रार्थसार्वात्म्यप्रतिपत्तये

क्षेत्रपीठोपपीठेषु प्रवेशो विघ्नशान्तये ॥२५९॥

मन्त्राद्याराधकस्याथ तल्लाभायोपदिश्यते

क्षेत्रादिगमनाभावविधिस्तु स्वात्मनस्तथा ॥२६०॥

वैश्वरूप्येण पूर्णत्वं ज्ञातुमित्यपि वर्णितम्

समयाचारसद्भावः पाल्यत्वेनोपदिश्यते ॥२६१॥

भेदप्राणतया तत्तत्त्यागात्तत्त्वविशुद्धये

समयादिनिषेधस्तु मतशास्त्रेषु कथ्यते ॥२६२॥

निर्मर्यादं स्वसंबोधं संपूर्णं बुद्ध्यतामिति

परकीयमिदं रूपं ध्येयमेतत्तु मे निजम् ॥२६३॥

ज्वालादिलिङ्गं चान्यस्य कपालादि तु मे निजम्

आदिशब्दात्तपश्चर्यावेलातिथ्यादि कथ्यते ॥२६४॥

नाम शक्तिशिवाद्यन्तमेतस्य मम नान्यथा

गोत्रं गुरुसंतानो मठिकाकुलशब्दितः ॥२६५॥

श्रीसंततिस्त्र्यम्बकाख्या तदर्धामर्दसंज्ञिता

इत्थमर्धचतस्रोऽत्र मठिकाः शांकरे क्रमे ॥२६६॥

युगक्रमेण कूर्माद्या मीनान्ता सिद्धसंततिः

आदिशब्देन घरं पल्ली पीठोपपीठकम् ॥२६७॥

मुद्रा छुम्मेति तेषां विधानं स्वपरस्थितम्

तादात्म्यप्रतिपत्त्यै हि स्वं संतानं समाश्रयेत् ॥२६८॥

भुञ्जीत पूजयेच्चक्रं परसंतानिना नहि

एतच्च मतशास्त्रेषु निषिद्धं खण्डना यतः ॥२६९॥

अखण्डेऽपि परे तत्त्वे भेदेनानेन जायते

एवं क्षेत्रप्रवेशादि संताननियमान्ततः ॥२७०॥

नास्मिन्विधीयते तद्धि साक्षान्नौपयिकं शिवे

तस्य निषोधो न्न तत्तत्त्वस्य खण्डनम् ॥२७१॥

विश्वात्मनो हि नाथस्य स्वस्मिन्रूपे विकल्पितौ

विधिर्निषेधो वा शक्तौ स्वरूपस्य खण्डने ॥२७२॥

परतत्त्वप्रवेशे तु यमेव निकटं यदा

उपायं वेत्ति ग्राह्यस्तदा त्याज्यो ̕ वा क्वचित् ॥२७३॥

यन्त्रणात्र कार्येति प्रोक्तं श्रीत्रिकशासने

समता सर्वदेवानामोवल्लीमन्त्रवर्णयोः ॥२७४॥

आगमनां गतीनां सर्वं शिवमयं यतः

ह्यखण्डितसद्भावं शिवतत्त्वं प्रपश्यति ॥२७५॥

यो ह्यखण्डितसद्भावमात्मतत्त्वं प्रपद्यते

केतकीकुसुमसौरभे भृशं भृङ्ग एव रसिको मक्षिका

भैरवीयपरमाद्वयार्चने को ̕पि रज्यति महेशचोदितः ॥२७६॥

अस्मिंश्च योगे विश्रान्तिं कुर्वतां भवडम्बरः

हिमानीव महाग्रीष्मे स्वयमेव विलीयते ॥२७७॥

अलं वातिप्रसङ्गेन भूयसातिप्रपञ्चिते

योग्यो ̕भिनवगुप्तो ̕स्मिन्को ̕पि यागविधौ बुधः ॥२७८॥

इत्यनुत्तरपदप्रविकासे शाक्तमौपयिकमद्य विविक्तम् ॥२७९॥

 


 

     Bookmark and Share

 

 

Creative Commons License

Precedente Home Successiva

AGHORI BREVE STORIA GRANDE MADRE SADHANA CHAKRA AYURVEDA CORSO DI YOGA EVENTI GALLERIA SITI CONSIGLIATI CONTATTACI GUESTBOOK SITE MAP PDF IN ITA

Privacy Policy