Tantraloka

by Abhinavagupta

 

In Sanscrito:

 

CAP.1 - CAP.2 - CAP.3 - CAP.4 - CAP.5 - CAP.6 - CAP.7 - CAP.8 - CAP.9 - CAP.10

CAP.11 - CAP.12 - CAP.13 - CAP.14 - CAP.15 - CAP.16 - CAP.17 - CAP.18 - CAP.19 - CAP.20

CAP.21 - CAP.22 - CAP.23 - CAP.24 - CAP.25 - CAP.26 - CAP.27 - CAP.28 - CAP.29 - CAP.30 

CAP.31 - CAP.32 - CAP.33 - CAP.34 - CAP.35 - CAP.36 - CAP.37 - Testo translitterato

pdf: Testo in sanscrito - Testo translitterato - Tantraloka with commentary by Rajanaka Jayaratha Vol.1 - Vol.2 - Vol.3 - Vol.4 - Vol.5 - Vol.6

 

TANTRALOKA SANSCRITO

 

 

Capitolo 1

 

 

अथ श्री तन्त्रालोकः प्रथममाह्निकम्

 

विमलकलाश्रयाभिनवसृष्टिमहा जननी भरिततनुश्च पञ्चमुखगुप्तरुचिर्जनकः

तदुभययामलस्फुरितभावविसर्गमयं हृदयमनुत्तरामृतकुलं मम सस्फुरतात् ॥१॥

नौमि चित्प्रतिभां देवीं परां भैरवयोगिनीम्

मातृमानप्रमेयांशशूलाम्बुजकृतास्पदाम् ॥२॥

नौमि देवीं शरीरस्थां नृत्यतो भैरवाकृते

प्रावृण्मेघघनव्योमविद्युल्लेखाविलासिनीम् ॥३॥

दीप्तज्योतिश्छटाप्लुष्टभेदबन्धत्रयं स्फुरत्

स्ताज्ज्ञानशूलं सत्पक्षविपक्षोत्कर्तनक्षमम् ॥४॥

स्वातन्त्र्यशक्तिः क्रमसंसिसृक्षा क्रमात्मता चेति विभोर्विभूतिः

तदेव देवीत्रयमन्तरास्तामनुत्तरं मे प्रथयत्स्वरूपम् ॥५॥

तद्देवताविभवभाविमहामरीचिचक्रेश्वरायितनिजस्थितिरेक एव

देवीसुतो गणपतिः स्फुरदिन्दुकान्तिः सम्यक्समुच्छलयतान्मम संविदब्धिम् ॥६॥

रागारुणां ग्रन्थिबिलावकीर्ण यो जालमातानवितानवृत्ति

कलोम्भितं बाह्यपथे चकार स्तान्मे मच्छन्दविभुः प्रसन्नः ॥७॥

त्रैयम्बकाभिहितसन्ततिताम्रपर्णीसन्मौक्तिकप्रकरकान्तिविशेषभाजः

पूर्वे जयन्ति गुरवो गुरुशास्त्रसिन्धुकल्लोलकेलिकलनामलकर्णधाराः ॥८॥

जयति गुरुरेक एव श्रीश्रीकण्ठो भुवि प्रथितः

तदपरमूर्तिर्भगवान् महेश्वरो भूतिराजश्च ॥९॥

श्रीसोमानन्दबोधश्रीमदुत्पलविनिःसृताः

जयन्ति संविदामोदसन्दर्भा दिक्प्रसर्पिणः ॥१०॥

तदास्वादभरावेशबृंहितां मतिषट्पदीम्

गुरोर्लक्ष्मणगुप्तस्य नादसंमोहिनीं नुमः ॥११॥

यः पूर्णानन्दविश्रान्तसर्वशास्त्रार्थपारगः

श्रीचुखुलको दिश्यादिष्टं मे गुरुरुत्तमः ॥१२॥

जयताज्जगदुद्धृतिक्षमोऽसौ भगवत्या सह शंभुनाथ एकः

यदुदीरितशासनांशुभिर्मे प्रकटोऽयं गहनोऽपि शास्त्रमार्गः ॥१३॥

सन्ति पद्धतयश्चित्राः स्रोतोभेदेषु भूयसा

अनुत्तरषडर्धार्थक्रमे त्वेकापि नेक्ष्यते ॥१४॥

इत्यहं बहुशः सद्भिः शिष्यसब्रह्मचारिभिः

अर्थितो रचये स्पष्टां पूर्णार्था प्रक्रियामिमाम् ॥१५॥

श्रीभट्टनाथचरणाब्जयुगात्तथा श्रीभट्टारिकांघ्रियुगलाद्गुरुसन्ततिर्या

बोधान्यपाशविषनुत्तदुपासनोत्थबोधोज्ज्वलो ̕भिनवगुप्त इदं करोति ॥१६॥

तदस्तीह यन्न श्री-मालिनीविजयोत्तरे

देवदेवेन निर्दिष्टं स्वशब्देनाथ लिङ्गतः ॥१७॥

दशाष्टादशवस्वष्टभिन्नं यच्छासनं विभोः

तत्सारं त्रिकशास्त्रं हि तत्सारं मालिनीमतम् ॥१८॥

अतोऽत्रान्तर्गतं सर्व संप्रदायोज्झितैर्बुधैः

अदृष्ट प्रकटीकुर्मो गुरुनाथाज्ञया वयम् ॥१९॥

अभिनवगुप्तस्य कृतिः सेयं यस्योदिता गुरुभिराख्या

त्रिनयनचरणसरोरुहचिन्तनलब्धप्रसिद्धिरिति ॥२०॥

श्रीशम्भुनाथभास्करचरणनिपातप्रभापगतसंकोचम्

अभिनवगुप्तहृदम्बुजमेतद्विचिनुत महेशपूजनहेतोः ॥२१॥

 

आदिवाक्यं

 

इह तावत्समस्तेषु शास्त्रेषु परिगीयते

अज्ञानं संसृतेर्हेतुर्ज्ञानं मोक्षैककारणम् ॥२२॥

मलमज्ञानमिच्छन्ति संसाराङ्कुरकारणम्

इति प्रोक्तं तथा श्रीमलिनीविजयोत्तरे ॥२३॥

विशेषणेन बुद्धिस्थे संसारोत्तरकालिके

संभावनां निरस्यैतदभावे मोक्षमब्रवीत् ॥२४॥

अज्ञानमिति ज्ञानाभावश्चातिप्रसङ्गतः

हि लोष्टादिकेऽप्यस्ति तस्यास्ति संसृतिः ॥२५॥

अतो ज्ञेयस्य तत्त्वस्य सामस्त्येनाप्रथात्मकम्

ज्ञानमेव तदज्ञानं शिवसूत्रेषु भाषितम् ॥२६॥

चैतन्यमात्मा ज्ञानं बन्ध इत्यत्र सूत्रयोः

संश्लेषेतरयोगाश्यामयमर्थः प्रदर्शितः ॥२७॥

चैतन्यमिति भावान्तः शब्दः स्वातन्त्र्यमात्रकम्

अनाक्षिप्रविशेषं सदाह सूत्रे पुरातने ॥२८॥

द्वितीयेन तु सूत्रेण क्रियां वा करणं वा

ब्रुवता तस्य चिन्मात्ररूपस्य द्वैतमुच्यते ॥२९॥

द्वैतप्रथा तदज्ञानं तुच्छत्वाद्बन्ध उच्यते

तत एव समुच्छेद्यमित्यावृत्त्यानिरूपितम् ॥३०॥

स्वतन्त्रात्मातिरिक्तस्तु तुच्छो ̕ तुच्छो ̕पि कश्चन

मोक्षो नाम तन्नास्य पृथङ्नामापि गृह्यते ॥३१॥

यत्तु ज्ञेयसतत्त्वस्य पूर्णपूर्णप्रथात्मकम्

तदुत्तरोत्तरं ज्ञानं तत्तत्संसारशान्तिदम् ॥३२॥

रागाद्यकलुषोऽस्म्यन्तःशून्योऽहं कर्तृतोज्झितः

इत्थं समासव्यासाभ्यां ज्ञानं मुञ्चति तावतः ॥३३॥

तस्मान्मुक्तोऽप्यवच्छेदादवच्छेदान्तरस्थितेः

अमुक्त एव मुक्तस्तु सर्वावच्छेदवर्जितः ॥३४॥

यत्तु ज्ञेयसतत्त्वस्य ज्ञानं सर्वात्मनोज्झितम्

अवच्छेदैर्न तत्कुत्राप्यज्ञानं सत्यमुक्तिदम् ॥३५॥

ज्ञानाज्ञानस्वरूपं यदुक्तं प्रत्येकमप्यदः

द्विधा पौरुषबौद्धत्वभिदोक्तं शिवशासने ॥३६॥

तत्र पुंसो यदज्ञानं मलाख्यं तज्जमप्यय

स्वपूर्णचित्क्रियारूपशिवतावरणात्मकम् ॥३७॥

संकोचिदृक्क्रियारूपं तत्पशोरविकल्पितम्

तदज्ञानं बुद्घ्यंशोऽध्यवसायाद्यभावतः ॥३८॥

अहमित्थमिदं वेद्मीत्येवमध्यवसायिनी

षट्कञ्चुकाबिलाणूत्थप्रतिबिम्बनतो यदा ॥३९॥

धीर्जायते तदा तादृग्ज्ञानमज्ञानशब्दितम्

बौद्धं तस्य तत्पौंस्नं पोषणीयं पोष्टृच ॥४०॥

क्षीणे तु पशुसंस्कारे पुंसः प्राप्तपरस्थितेः

विकस्वरं तद्विज्ञानं पौरुषं निर्विकल्पकम् ॥४१॥

विकस्वराविकल्पात्मज्ञानौचित्येन यावसा

तद्बौद्धं यस्य तत्पौंस्नं प्राग्वत्पोष्यं पोष्टृ ॥४२॥

तत्र दीक्षादिना पौंस्नमज्ञानं ध्वंसि यद्यपि

तथापि तच्छरीरान्ते तज्ज्ञानं व्यज्यते स्फुटम् ॥४३॥

बौद्धज्ञानेन तु यदा बौद्धमज्ञानजृम्भितम्

विलीयते तदा जीवन्मुक्तिः करतले स्थिता ॥४४॥

दीक्षापि बौद्धविज्ञानपूर्वा सत्यं विमोचिका

तेन तत्रापि बौद्धस्य ज्ञानस्यास्ति प्रधानता ॥४५॥

ज्ञानाज्ञानागतं चैतद्द्वित्वं स्वायम्भुवे रुरौ

मतङ्गादौ कृतं श्रीमत्खेटपालादिदैशिकैः ॥४६॥

तथाविधावसायात्मबौद्धविज्ञानसम्पदे

शास्त्रमेव प्रधानं यज्ज्ञेयतत्त्वप्रदर्शकम् ॥४७॥

दीक्षया गलिते ̕प्यन्तरज्ञाने पौरुषात्मनि

धीगतस्यानिवृत्तत्वाद्विकल्पो ̕पि हि संभवेत ॥४८॥

देहसद्भावपर्यन्तमात्मभावो यतो धियि

देहान्तेऽपि मोक्षः स्यात्पौरुषाज्ञानहानितः ॥४९॥

बौद्धाज्ञाननिवृत्तौ तु विकल्पोन्मूलनाद्ध्रुवम्

तदैव मोक्ष इत्युक्तं धात्रा श्रीमन्निशाटने ॥५०॥

विकल्पयुक्तचितस्तु पिण्डपाताच्छिवं ब्रजेत्

इतरस्तु तदैवेति शास्त्रस्यात्र प्रधानतः ॥५१

ज्ञेयस्य हि परं तत्त्वं यः प्रकाशात्मकः शिवः

नह्यप्रकाशरूपस्य प्राकाश्यं वस्तुतापि वा ॥५२॥

अवस्तुतापि भावानां चमत्कारैकगोचरा

यत्कुड्यसदृशी नेयं धीरवस्त्वेतदित्यपि ॥५३॥

प्रकाशो नाम यश्चायं सर्वत्रैव प्रकाशते

अनपह्नवनीयत्वात् किं तस्मिन्मानकल्पनैः ॥५४॥

प्रमाणान्यपि वस्तूनां जीवितं यानि तन्वते

तेषामपि परो जीवः एव परमेश्वरः ॥५५॥

सर्वापह्नवहेवाकधर्माप्येवं हि वर्तते

ज्ञानमात्मार्थमित्येतन्नेति मां प्रति भासते ॥५६॥

अपह्नुतौ साधने वा वस्तूनामाद्यमीदृशम्

यत्तत्र के प्रमाणानामुपपत्त्युपयोगिते ॥५७॥

 [५८ missing

कामिके तत एवोक्तं हेतुवादविवर्जितम्

तस्य देवातिदेवस्य परापेक्षा विद्यते ॥५९॥

परस्य तदपेक्षत्वात्स्वतन्त्रोऽयमतः स्थितः

अनपेक्षस्य वशिनो देशकालाकृतिक्रमाः ॥६०॥

नियता नेति विभुर्नित्यो विश्वाकृतिः शिवः

विभुत्वात्सर्वगो नित्यभावादाद्यन्तवर्जितः ॥६१॥

विश्वाकृतित्वाच्चिदचित्तद्वैचित्र्यावभासकः

ततो ̕स्य बहुरूपत्वमुक्तं दीक्षोत्तरादिके ॥६२॥

भुवनं विग्रहो ज्योतिः खं शब्दो मन्त्र एव

बिन्दुनादादिसंभिन्नः षड्विधः शिव उच्यते ॥६३॥

यो यदात्मकतानिष्ठस्तद्भावं प्रपद्यते

व्योमादिशब्दविज्ञानात्परो मोक्षो संशयः ॥६४॥

विश्वाकृतित्वे देवस्य तदेतच्चोपलक्षणम्

अनवच्छिन्नतारूढाववच्छेदलयेऽस्य ॥६५॥

उक्तं कामिके देवः सर्वाकृतिर्निराकृतिः

जलदर्पणवत्तेन सर्वं व्याप्तं चराचरम् ॥६६॥

चास्य विमुताद्योऽयं धर्मोऽन्योन्यं विभिद्यते

एक एवास्य धर्मोऽसौ सर्वाक्षेपेण वर्तते ॥६७॥

तेन स्वातन्त्र्यशक्त्यैव युक्त इत्याञ्जसो विधिः

बहुशक्तित्वमप्यस्य तच्छक्त्यैवावियुक्तता ॥६८॥

शक्तिश्च नाम भावस्य स्वं रूपं मातृकल्पितम्

तेनाद्वयः एवापि शक्तिमत्परिकल्पने ॥६९॥

मातृक्लृप्ते हि देवस्य तत्र तत्र वपुष्यलम्

को भेदो वस्तुतो वह्नेर्दग्धृपक्तृत्वयोरिव ॥७०॥

वासौ परमार्थेन किंचिद्भासनादृते

नह्यस्ति किंचित्तच्छक्तितद्वद्भेदो ̕पि वास्तवः ॥७१॥

स्वशक्त्युद्रेकजनकं तादात्म्याद्वस्तुनो हि य्त्

शक्तिस्तदपि देव्येवं भान्त्यप्यन्यस्वरूपिणी ॥७२॥

शिवश्चालुप्तविभवस्तथा सृष्टोऽवभासते

स्वसंविन्मातृमकुरे स्वातन्त्र्याद्भावनादिषु ॥७३॥

तस्माद्येन मुखेनैष भात्यनंशो ̕पि तत्तथा

शक्तिरित्येष वस्त्वेव शक्तितद्वत्क्रमः स्फुटः ॥७४॥

श्रीमत्किरणशास्त्रे तत्प्रश्नोत्तरपूर्वकम्

अनुभावो विकल्पो ̕पि मानसो मनः शिवे ॥७५॥

अविज्ञाय शिवं दीक्षा कथमित्यत्र चोत्तरम्

क्षुधाद्यनुभवो नैव विकल्पो नहि मानसः ॥७६॥

रसाद्यनध्यक्षत्वे ̕पि रूपादेव यथा तरुम्

विकल्पो वेत्ति तद्वत्तु नादबिन्द्वादिना शिवम् ॥७७॥

बहुशक्तित्वमस्योक्तं शिवस्य यदतो महान्

कलातत्त्वपुरार्णाणुपदादिर्भेदविस्तरः ॥७८॥

सृष्टिस्थितितिरोधानसंहारानुग्रहादि

तुर्यमित्यपि देवस्य बहुशक्तित्वजृम्भितम् ॥७९॥

जाग्रत्स्वप्नसुषुप्तान्यतदतीतानि यान्यपि

तान्यप्यमुष्य नाथस्य स्वातन्त्र्यलहरीभरः ॥८०॥

महामन्त्रेशमन्त्रेशमन्त्राः शिवपुरोगमाः

अकलौ सकलश्चेति शिवस्यैव विभूतयः ॥८१॥

तत्त्वग्रामस्य सर्वस्य धर्मः स्यादनपायवान्

आत्मैव हि स्वभावात्मेत्युक्तं श्रीत्रिशिरोमते ॥८२॥

हृदिस्थं सर्वदेहस्थं स्वभावस्थं सुसूक्ष्मकम्

सामूह्यं चैव तत्त्वानां ग्रामशब्देन कीर्तितम् ॥८३॥

आत्मैव धर्म इत्युक्तः शिवामृतपरिप्लुतः

प्रकाशावस्थितं ज्ञानं भावाभावादिमध्यतः ॥८४॥

स्वस्थाने वर्तनं ज्ञेयं द्रष्टृत्वं विगतावृति

विविक्तवस्तुकथितशुद्धविज्ञाननिर्मलः ॥८५॥

ग्रामधर्मवृत्तिरुक्तस्तस्य सर्वं प्रसिद्ध्यति

ऊर्ध्व त्यक्त्वाधो विशेत्स रामस्थो मध्यदेशगः ॥८६॥

गतिः स्थानं स्वप्नजाग्रदुन्मेषणनिमेषणे

धावनं प्लवनं चैव आयासः शक्तिवेदनम् ॥८७॥

बुद्धिभेदास्तथा भावाः संज्ञाः कर्माण्यनेकशः

एष रामो व्यापकोऽत्र शिवः परमकारणम् ॥८८॥

कल्मषक्षीणमनसा स्मृतिमात्रनिरोधनात्

ध्यायते परमं ध्येयं गमागमपदे स्थितम् ॥८९॥

परं शिवं तु व्रजति भैरवाख्यं जपादपि

तत्स्वरूपं जपः प्रोक्तो भावाभावपदच्युतः ॥९०॥

तदत्रापि तदीयेन स्वातन्त्र्येणोपकल्पितः

दूरासन्नादिको भेदश्चित्स्वातन्त्र्यव्यपेक्षया ॥९१॥

एवं स्वातन्त्र्यपूर्णत्वादतिदुर्घटकार्ययम्

केन नाम रूपेण भासते परमेश्वरः ॥९२॥

निरावरणमाभाति भात्याबृतनिजात्मकः

आवृतानावृतो भाति बहुधा भेदसंगमात् ॥९३॥

इति शक्तित्रयं नाथे स्वातन्त्र्यापरनामकम्

इच्छादिभिरभिख्याभिर्गुरुभिः प्रकटीकृतम् ॥९४॥

देवो ह्यन्वर्थशास्त्रोक्तैः शब्दैः समुपदिश्यते

महाभैरवदेवो ̕यं पतिर्यः परमः शिवः ॥९५॥

विश्वं बिभर्ति पूरणधारणयोगेन तेन श्रियते

सविमर्शतया रव रूपतश्च संसारभीरुहितकृच्च ॥९६॥

संसारभीतिजनिताद्रवात्परामर्शतो ̕पि हृदि जातः

प्रकटीभूतं भवभयविमर्शनं शक्तिपाततो येन ॥९७॥

नक्षत्रप्रेरककालतत्त्वसंशोषकारिणो ये

कालग्राससमाधानरसिकमनःसु तेषु प्रकटः ॥९८॥

संकोचिपशुजनभिये यासां रवणं स्वकरणदेवीनाम्

अन्तर्बहिश्चतुर्विधखेचर्यादिकगणस्यापि ॥९९॥

तस्य स्वामी संसारवृत्तिविघटनमहाभीमः

भैरव इति गुरुभिरिमैरन्वर्थैः संस्तुतः शास्त्रे ॥१००॥

हेयोपादेयकथाविरहे स्वानन्दघनतयोच्छलनम्

क्रीडा सर्वोत्कर्षेणवर्तनेच्छा तथा स्वतन्त्रत्वम् ॥१०१॥

व्यवहरणमभिन्ने ̕पि स्वात्मनि भेदेन संजल्पः

निखिलावभासनाच्च द्योतनमस्य स्तुतिर्यतः सकलम् ॥१०२॥

तत्प्रवणमात्मलाभात्प्रभृति समस्ते ̕पि कर्तव्ये

बोधात्मकः समस्तक्रियामयो दृक्क्रियागुणश्च गतिः ॥१०३॥

इति निर्वचनैः शिवतनुशास्त्रे गुरुभिः स्मृतो देवः

शासनरोधनपालनपाचनयोगात्स सर्वमुपकुरुते

तेन पतिः श्रेयोमय एव शिवो नाशिवं किमपि तत्र ॥१०४॥

ईदृग्रूपं कियदपि रुद्रोपेन्द्रादिषु स्फुरेद्येन

तेनावच्छेदनुदे परममहत्पदविशेषणमुपात्तम् ॥१०५॥

इति यज्ज्ञेयसतत्त्वं दर्श्यते तच्छिवाज्ञया

मया स्वसंवित्सत्तर्कपतिशास्त्रत्रिकक्रमात् ॥१०६॥

तस्य शक्तय एवैतास्तिस्रो भान्ति परादिकाः

सृष्टौ स्थितौ लये तुर्ये तेनैता द्वादशोदिताः ॥१०७॥

तावान्पूर्णस्वभावोऽसौ परमः शिव उच्यते

तेनात्रोपासकाः साक्षात्तत्रैव परिनिष्ठिताः ॥१०८॥

तासामपि भेदांशन्यूनाधिक्यादियोजनम्

तत्स्वातन्त्र्यबलादेव शास्त्रेषु परिभाषितम् ॥१०९॥

एकवीरो यामलोऽथ त्रिशक्तिश्चतुरात्मकः

पञ्चमूर्तिः षडात्मायं सप्तको ̕ष्टकभूषितः ॥११०॥

नवात्मा दशदिक्छक्तिरेकादशकलात्मकः

द्वादशारमहाचक्रनायको भैरवस्त्विति ॥१११॥

एवं यावत्सहस्रारे निःसंख्यारे ̕पि वा प्रभुः

विश्वचक्रे महेशानो विश्वशक्तिर्विजृम्भते ॥११२॥

तेषामपि चक्राणा स्ववर्गानुगमात्मना

ऐक्येन चक्रगो भेदस्तत्र तत्र निरूपितः ॥११३॥

चतुष्षड्द्विर्द्विगणनायोगात्त्रैशिरसे मते

षट्चक्रेश्वरता नाथस्योक्ता चित्रनिजाकृतेः ॥११४॥

नामानि चक्रदेवीनां तत्र कृत्यविभेदतः

सौम्यरौद्राकृतिध्यानयोगीन्यन्वर्थकल्पनात् ॥११५॥

एकस्य संविन्नाथस्य ह्यान्तरी प्रतिभा तनुः

सौम्यं वान्यन्मितं संविदूर्मिचक्रमुपास्यते ॥११६॥

अस्य स्यात्पुष्टिरित्येषा संविद्देवी तथोदितात्

ध्यानात्संजल्पसंमिश्राद् व्यापाराच्चापि बाह्यतः ॥११७॥

स्फुटीभूता सती भाति तस्य तादृक्फलप्रदा

पुष्टिः शुष्कस्य सरसीभावो जलमतः सितम् ॥११८॥

अनुगम्य ततो ध्यानं तत्प्रधानं प्रतन्यते

ये स्वभावतो वर्णा रसनिःष्यन्दिनो यथा ॥११९॥

दन्त्यौष्ठ्यदन्त्यप्रायास्ते कैश्चिद्वर्णैः कृताः सह

तं बीजभावमागत्य संविदं स्फुटयन्ति ताम् ॥१२०॥

पुष्टिं कुरु रसेनैनमाप्यायय तरामिति

संजल्पो ̕पि विकल्पात्मा किं तामेव पूरयेत् ॥१२१॥

अमृतेयमिदं क्षीरमिदं सर्पिर्बलावहम्

तेनास्य बीजं पुष्णीयामित्येनां पूरयेत्क्रियाम् ॥१२२॥

तस्माद्विश्वेश्वरो बोधभैरवः समुपास्यते

अवच्छेदानवच्छिद्भ्यां भोगमोक्षार्थिभिर्जनैः ॥१२३॥

येऽप्यन्यदेवताभक्ता इत्यतो गुरुरादिशत्

ये बोधाद्व्यतिरिक्तं हि किंचिद्याज्यतया विदुः ॥१२४॥

तेऽपि वेद्यं विविञ्चाना बोधाभेदेन मन्वते

तेनाविच्छिन्नतामर्शरूपाहन्ताप्रथात्मनः ॥१२५॥

स्वयं प्रथस्य विधिः सृष्ट्यात्मास्य पूर्वगः

वेद्या हि देवतासृष्टिः शक्तेर्हेतोः समुत्थिता ॥१२६॥

अहंरूपा तु संवित्तिर्नित्या स्वप्रथनात्मिका

विधिर्नियोगस्त्र्यंशा भावना चोदनात्मिका ॥१२७॥

तदेकसिद्धा इन्द्राद्या विधिपूर्वा हि देवताः

अहंबोधस्तु तथा ते तु संवेद्यरूपताम् ॥१२८॥

उन्मग्नामेव पश्यन्तस्तं विदन्तो ̕पि नो विदुः

तदुक्तं विदुर्मां तु तत्त्वेनातश्चलन्ति ते ॥१२९॥

चलनं तु व्यवच्छिन्नरूपतापत्तिरेव या

देवान्देवयजो यान्तीत्यादि तेन न्यरूप्यत ॥१३०॥

निमज्ज्य वेद्यतां ये तु तत्र संविन्मयीं स्थितिम्

विदुस्ते ह्यनवच्छिन्नं तद्भक्ता अपि यान्ति माम् ॥१३१॥

सर्वत्रात्र ह्यहंशब्दो बोधमात्रैकवाचकः

भोक्तृप्रभुशब्दाभ्यां याज्ययष्ट्टतयोदितः ॥१३२॥

याजमानी संविदेव याज्या नान्येति चोदितम्

त्वाकृतिः कुतोऽप्यन्या देवता हि सोचिता ॥१३३॥

विधिश्च नोक्तः कोऽप्यत्र मन्त्रादि वृत्तिधाम वा

सोऽयमात्मानमावृत्य स्थितो जडपदं गतः ॥१३४॥

आवृतानावृतात्मा तु देवादिस्थावरान्तगः

जडाजडस्याप्येतस्य द्वैरूप्यस्यास्ति चित्रता ॥१३५॥

तस्य स्वतन्त्रभावो हि किं किं यन्न विचिन्तयेत्

तदुक्तं त्रिशिरःशास्त्रे संबुद्ध इति वेत्ति यः

ज्ञेयभावो हि चिद्धर्मस्तच्छायाच्छादयेन्न ताम् ॥१३६॥

तेनाजडस्य भागस्य पुद्गलाण्वादिसंज्ञिनः

अनावरणभागांशे वैचित्र्यं बहुधा स्थितम् ॥१३७॥

संविद्रूपे भेदो ̕स्ति वास्तवो यद्यपि ध्रुवे

तथाप्यावृतिनिर्हासतारतम्यात्स लक्ष्यते ॥१३८॥

तद्विस्तरेण वक्ष्यामः शक्तिपातविनिर्णये

समाप्य परतां स्थौल्यप्रसंगे चर्चयिष्यते ॥१३९॥

अतः कंचित्प्रमातारं प्रति प्रथयते विभुः

पूर्णमेव निजं रूपं कंचिदंशांशिकाक्रमात् ॥१४०॥

विश्वभावैकभावात्मस्वरूपप्रथनं हि यत्

अणूनां तत्परं ज्ञानं तदन्यदपरं बहु ॥१४१॥

तच्च साक्षादुपायेन तदुपायादिनापि

प्रथमानं विचित्राभिर्भंगीभिरिह भिद्यते ॥१४२॥

तत्रापि स्वपरद्वारद्वारित्वात्सर्वशोंशशः

व्यवधानाव्यवधिना भूयान्भेदः प्रवर्तते ॥१४३॥

ज्ञानस्य चाभ्युपायो यो तदज्ञानमुच्यते

ज्ञानमेव तु तत्सूक्ष्मं परं त्विच्छात्मकं मतम् ॥१४४॥

उपायोपेयभावस्तु ज्ञानस्य स्थौल्यविश्रमः

एषैव क्रियाशक्तिर्बन्धमोक्षैककारणम् ॥१४५॥

तत्राद्ये स्वपरामर्शे निर्विकल्पैकधामनि

यत्स्फुरेत्प्रकटं साक्षात्तदिच्छाख्यं प्रकीर्तितम् ॥१४६॥

यथा विस्फुरितदृशामनुसन्धिं विनाप्यलम्

भाति भावः स्फुटस्तद्वत्केषामपि शिवात्मता ॥१४७॥

भूयो भूयो विकल्पांशनिश्चयक्रमचर्चनात्

यत्परामर्शमभ्येति ज्ञानोपायं तु तद्विदुः ॥१४८॥

यत्तु तत्कल्पनाक्लृप्तबहिर्भूतार्थसाधनम्

क्रियोपायं तदाम्नातं भेदो नात्रापवर्गगः ॥१४९॥

यतो नान्या क्रिया नाम ज्ञानमेव हि तत्तथा

रूढेर्योगान्ततां प्राप्तमिति श्रीगमशासने ॥१५०॥

योगो नान्यः क्रिया नान्या तत्त्वारूढा हि या मतिः

स्वचित्तवासनाशान्तौ सा क्रियेत्यभिधीयते ॥१५१॥

स्वचित्ते वासनाः कर्ममलमायाप्रसूतयः

तासां शान्तिनिमित्तं या मतिः संवित्स्वभाविका ॥१५२॥

सा देहारम्भिबाह्यस्थतत्त्वब्राताधिशायिनी

क्रिया सैव योगः स्यात्तत्त्वानां चिल्लयीकृतौ ॥१५३॥

लोके ̕पि किल गच्छामीत्येवमन्तः स्फुरैव या

सा देहं देशमक्षांश्चाप्याविशन्ती गतिक्रिया ॥१५४॥

तस्मात्क्रियापि या नाम ज्ञानमेव हि सा ततः

ज्ञानमेव विमोक्षाय युक्तं चैतदुदाहृतम् ॥१५५॥

मोक्षो हि नाम नैवान्यः स्वरूपप्रथनं हि सः

स्वरूपं चात्मनः संविन्नान्यत्तत्र तु याः पुनः ॥१५६॥

क्रियादिकाः शक्तयस्ताः संविद्रूपाधिका नहि

असंविद्रूपतायोगाद्धर्मिणश्चानिरूपणात् ॥१५७॥

परमेश्वरशास्त्रे हि काणाददृष्टिवत्

शक्तीनां धर्मरूपाणामाश्रयः को ̕पि कथ्यते ॥१५८॥

ततश्च दृक्क्रियेच्छाद्या भिन्नाश्चेच्छक्तयस्तथा

एकः शिव इतीयं वाग्वस्तुशून्यैव जायते ॥१५९॥

तस्मात्संवित्त्वमेवैतत्स्वातन्त्र्यं यत्तदप्यलम्

विविच्यमानं बह्वीषु पर्यवस्यति शक्तिषु ॥१६०॥

यतश्चात्मप्रथा मोक्षस्तन्नेहाशङ्क्यमीदृशम्

नावश्यं कारणात्कार्य तज्ज्ञान्यपि मुच्यते ॥१६१॥

यतो ज्ञानेन मोक्षस्य या हेतुफलतोदिता

सा मुख्या ततो नायं प्रसंग इति निश्चितम् ॥१६२॥

एवं ज्ञानस्वभावैव क्रिया स्थूलत्वमात्मनि

यतो वहति तेनास्यां चित्रता दृश्यतां किल ॥१६३॥

क्रियोपायेऽभ्युपायानां ग्राह्यबाह्यविभेदिनाम्

भेदोपभेदवैविध्यान्निःसंख्यत्वमवान्तरात् ॥१६४॥

अनेन चैतत्प्रध्वस्तं यत्केचन शशङ्किरे

उपायभेदान्मोक्षे ̕पि भेदः स्यादिति सूरयः ॥१६५॥

मलतच्छक्तिविध्वंसतिरोभूच्युतिमध्यतः

हेतुभेदे ̕पि नो भिन्ना घटध्वंसादिवृत्तिवत् ॥१६६॥

तदेतत्त्रिविधत्वं हि शास्त्रे श्रीपूर्वनामनि

आदेशि परमेशित्रा समावेशविनिर्णये ॥१६७॥

अकिंचिच्चिन्तकस्यैव गुरुणा प्रतिबोधतः

उत्पद्यते आवेशः शाम्भवो ̕साविदीरितः ॥१६८॥

उच्चाररहितं वस्तु चेतसैव विचिन्तयन्

यं समावेशमाप्नोति शाक्तः सोऽत्राभिधीयते ॥१६९॥

उच्चारकरणध्यानवर्णस्थानप्रकल्पनैः

यो भवेत्स समावेशः सम्यगाणव उच्यते ॥१७०॥

अकिंचिच्चिन्तकस्येति विकल्पानुपयोगिता

तया झटिति ज्ञेयसमापत्तिर्निरूप्यते ॥१७१॥

सा कथं भवतीत्याह गुरुणातिगरीयसा

ज्ञेयाभिमुखबोधेन द्राक्प्ररूढत्वशालिना ॥१७२॥

तृतीयार्थे तसि व्याख्या वा वैयधिकरण्यतः

आवेशश्चास्वतन्त्रस्य स्वतद्रूपनिमज्जनात् ॥१७३॥

परतद्रूपता शम्भोराद्याच्छक्त्यविभागिनः

तेनायमत्र वाक्यार्थो विज्ञेयं प्रोन्मिषत्स्वयम् ॥१७४॥

विनापि निश्चयेन द्राक् मातृदर्पणबिम्बितम्

मातारमधरीकुर्वत् स्वां विभूतिं प्रदर्शयत् ॥१७५॥

आस्ते हृदयनैर्मल्यातिशये तारतम्यतः

ज्ञेयं द्विधा चिन्मात्रं जडं चाद्यं कल्पितम् ॥१७६॥

इतरत्तु तथा सत्यं तद्विभागोऽयमीदृशः

जडेन यः समावेशः सप्रतिच्छन्दकाकृतिः ॥१७७॥

चैतन्येन समावेशस्तादात्म्यं नापरं किल

तेनाविकल्पा संवित्तिर्भावनाद्यनपेक्षिणी ॥१७८॥

शिवतादात्म्यमापन्ना समावेशोऽत्र शांभवः

तत्प्रसादात्पुनः पश्चाद्भाविनो ̕त्र विनिश्चयाः ॥१७९॥

सन्तु तादात्म्यमापन्ना तु तेषामुपायता

विकल्पापेक्षया मानमविकल्पमिति ब्रुवन् ॥१८०॥

प्रत्युक्त एव सिद्धं हि विकल्पेनानुगम्यते

गृहीतमिति सुस्पष्टा निश्चयस्य यतः प्रथा ॥१८१॥

गृह्णामीत्यविकल्पैक्यबलात्तु प्रतिपद्यते

अविकल्पात्मसंवित्तौ या स्फुरत्तैव वस्तुनः ॥१८२॥

सा सिद्धिर्न विकल्पात्तु वस्त्वपेक्षाविवर्जितात्

केवलं संविदः सोऽयं नैर्मल्येतरविश्रमः ॥१८३॥

यद्विकल्पानपेक्षत्वसापेक्षत्वे निजात्मनि

निशीथे ̕पि मणिज्ञानी विद्युत्कालप्रदर्शितान् ॥१८४॥

तांस्तान्विशेषांश्चिनुते रत्नानां भूयसामपि

नैर्मल्यं संविदश्चेदं पूर्वाभ्यासवशादथो ॥१८५॥

अनियन्त्रेश्वरेच्छात इत्येतच्चर्चयिष्यते

पञ्चाशद्विधता चास्य समावेशस्य वर्णिता ॥१८६॥

तत्त्वषट्त्रिंशकैतत्स्थस्फुटभेदाभिसन्धितः

एतत्तत्त्वान्तरे यत्पुंविद्याशक्त्यात्मकं त्रयम् ॥१८७॥

अम्भोधिकाष्ठाज्वलनसंख्यैर्भेदैर्यतः क्रमात्

पुंविद्याशक्तिसंज्ञं यत्तत्सर्वव्यापकं यतः ॥१८८॥

अव्यापकेभ्यस्तेनेदं भेदेन गणितं किल

अशुद्धिशुद्ध्यमानत्वशुद्धितस्तु मिथो ̕पि तत् ॥१८९॥

भूतान्यध्यक्षसिद्धानि कार्यहेत्वनुमेयतः

तत्त्ववर्गात्पृथग्भूतसमाख्यान्यत एव हि ॥१९०॥

सर्वप्रतीतिसद्भावगोचरं भूतमेव हि

विदुश्चतुष्टये चात्र सावकाशे तदास्थितिम् ॥१९१॥

रुद्रशक्तिसमावेशः पञ्चधा ननु चर्च्यते

कोऽवकाशो भवेत्तत्र भौतावेशादिवर्णने ॥१९२॥

प्रसंगादेतदितिचेत्समाधिः संभवन्नयम्

नास्माकं मानसावर्जी लोको भिन्नरुचिर्यतः ॥१९३॥

उच्यते द्वैतशास्त्रेषु परमेशाद्विभेदिता

भूतादीनां यथा सात्र तथा द्वयवर्जिते ॥१९४॥

यावान्षट्त्रिंशकः सोऽयं यदन्यदपि किंचन

एतावती महादेवी रुद्रशक्तिरनर्गला ॥१९५॥

तत एव द्वितीये ̕स्मिन्नधिकारे न्यरूप्यत

धरादेर्विश्वरूपत्वं पाञ्चदश्यादिभेदतः ॥१९६॥

तस्माद्यथा पुरस्थेऽर्थे गुणाद्यंशांशिकामुखात्

निरंशभावसंबोधस्तथैवात्रापि बुध्यताम् ॥१९७॥

अत एवाविकल्पत्वध्रौव्यप्राभववैभवैः

अन्यैर्वा शक्तिरूपत्वाद्धर्मैः स्वसमवायिभिः ॥१९८॥

सर्वशोऽप्यथ वांशेन तं विभुं परमेश्वरम्

उपासते विकल्पौघसंस्काराद्ये श्रुतोत्थितात् ॥१९९॥

ते तत्तत्स्वविकल्पान्तःस्फुरत्तद्धर्मपाटवात्

धर्मिणं पूर्णधर्मौघमभेदेनाधिशेरते ॥२००॥

ऊचिवानत एव श्रीविद्याधिपतिरादरात्

त्वत्स्वरूपमविकल्पमक्षजा कल्पने विषयीकरोति चेत्

अन्तरुल्लिखितचित्रसंविदो नो भवेयुरनुभूतयः स्फुटाः ॥२०१॥

तदुक्तं श्रीमतङ्गादौ स्वशक्तिकिरणात्मकम्

अथ पत्युरधिष्ठानमित्याद्युक्तं विशेषणैः ॥२०२॥

तस्यां दिवि सुदीप्तात्मा निष्कम्पो ̕चलमूर्तिमान्

काष्ठा सैव परा सूक्ष्मा सर्वदिक्कामृतात्मिका ॥२०३॥

प्रध्वस्तावरणा शान्ता वस्तुमात्रातिलालसा

आद्यन्तोपरता साध्वी मूर्तित्वेनोपचर्यते ॥२०४॥

तथोपचारस्यात्रैतन्निमितं सप्रयोजनम्

तन्मुखा स्फुटता धर्मिण्याशु तन्मयतास्थितिः ॥२०५॥

एव धर्माः शक्त्याख्यास्तैस्तैरुचितरूपकैः

आकारैः पर्युपास्यन्ते तन्मयीभावसिद्धये ॥२०६॥

तत्र काचित्पुनः शक्तिरनन्ता वा मिताश्च वा

आक्षिपेद्धवतासत्त्वन्यायाद्दूरान्तिकत्वतः ॥२०७॥

तेन पूर्णस्वभावत्वं प्रकाशत्वं चिदात्मता

भैरवत्वं विश्वशक्तीराक्षिपेद्व्यापकत्वतः ॥२०८॥

सदाशिवादयस्तूर्ध्वव्याप्त्यभावादधोजुषः

शक्तीः समाक्षिपेयुस्तदुपासान्तिकदूरतः ॥२०९॥

इत्थं भावे शाक्ताख्यो वैकल्पिकपथक्रमः

इह तूक्तो यतस्तस्मात् प्रतियोग्यविकल्पकम् ॥२१०॥

अविकल्पपथारूढो येन येन पथा विशेत्

धरासदाशिवान्तेन तेन तेन शिवीभवेत् ॥२११॥

निर्मले हृदये प्राग्र्यस्फुरद्भूम्यंशभासिनि

प्रकाशे तन्मुखेनैव संवित्परशिवात्मता ॥२१२॥

एवं परेच्छाशक्त्यंशसदुपायमिमं विदुः

शाम्भवाख्यं समावेशं सुमत्यन्तेनिवासिनः ॥२१३॥

शाक्तोऽथ भण्यते चेतोधी-मनोहंकृति स्फुटम्

सविकल्पतया मायामयमिच्छादि वस्तुतः ॥२१४॥

अभिमानेन संकल्पाध्यवसायक्रमेण यः

शाक्तः मायोपायो ̕पि तदन्ते निर्विकल्पकः ॥२१५॥

पशोर्वै याविकल्पा भूर्दशा सा शाम्भवी परम्

अपूर्णा मातृदौरात्म्यात्तदपाये विकस्वरा ॥२१६॥

एवं वैकल्पिकी भूमिः शाक्ते कर्तृत्ववेदने

यस्यां स्फुटे परं त्वस्यां संकोचः पूर्वनीतितः ॥२१७॥

तथा संकोचसंभारविलायनपरस्य तु

सा यथेष्टान्तराभासकारिणी शक्तिरुज्ज्वला ॥२१८॥

ननु वैकल्पिकी किं धीराणवे नास्ति तत्र सा

अन्योपायात्र तूच्चाररहितत्वं न्यरूपयत् ॥२१९॥

उच्चारशब्देनात्रोक्ता बह्वन्तेन तदादयः

शक्त्युपाये सन्त्येते भेदाभेदौ हि शक्तिता ॥२२०॥

अणुर्नाम स्फुटो भेदस्तदुपाय इहाणवः

विकल्पनिश्चयात्मैव पर्यन्ते निर्विकल्पकः ॥२२१॥

ननु धी-मानसाहंकृत्पुमांसो व्याप्नुयुः शिवम्

नाधोवर्तितया तेन कथितं कथमीदृशम् ॥२२२॥

उच्यते वस्तुतोऽस्माकं शिव एव तथाविधः

स्वरूपगोपनं कृत्वा स्वप्रकाशः पुनस्तथा ॥२२३॥

द्वैतशास्त्रे मतङ्गादौ चाप्येतत्सुनिरूपितम्

अधोव्याप्तुः शिवस्यैव प्रकाशो व्यवस्थितः ॥२२४॥

येन बुद्धिमनोभूमावपि भाति परं पदम् ॥२२५॥

द्वावप्येतौ समावेशौ निर्विकल्पार्णवं प्रति

प्रयात एव तद्रूढिं विना नैव हि किंचन ॥२२६॥

संवित्तिफलभिच्चात्र प्रकल्प्येत्यतो ̕ब्रवीत्

कल्पनायाश्च मुख्यत्वमत्रैव किल सूचितम् ॥२२७॥

विकल्पापेक्षया यो ̕पि प्रामाण्यं प्राह तन्मते

तद्विकल्पक्रमोपात्तनिर्विकल्पप्रमाणता ॥२२८॥

रत्नतत्त्वमविद्वान्प्राङ्निश्चयोपायचर्चनात्

अनुपायाविकल्पाप्तौ रत्नज्ञ इति भण्यते ॥२२९॥

अभेदोपायमत्रोक्तं शाम्भवं शाक्तमुच्यते

भेदाभेदात्मकोपायं भेदोपायं तदाणवम् ॥२३०॥

अन्ते ज्ञानेऽत्र सोपाये समस्तः कर्मविस्तरः

प्रस्फुटेनैव रूपेण भावी सोऽन्तर्भविष्यति ॥२३१॥

क्रिया हि नाम विज्ञानान्नान्यद्वस्तु क्रमात्मताम्

उपायवशतः प्राप्तं तत्क्रियेति पुरोदितम् ॥२३२॥

सम्यग्ज्ञानं मुक्त्येककारणं स्वपरस्थितम्

यतो हि कल्पनामात्रं स्वपरादिविभूतयः ॥२३३॥

तुल्ये काल्पनिकत्वे यदैक्यस्फुरणात्मकः

गुरुः तावदेकात्मा सिद्धो मुक्तश्च भण्यते ॥२३४॥

यावानस्य हि संतानो गुरुस्तावत्स कीर्तितः

सम्यग्ज्ञानमयश्चेति स्वात्मना मुच्यते ततः ॥२३५॥

तत एव स्वसंतानं ज्ञानी तारयतीत्यदः

युक्त्यागमाभ्यां संसिद्धं तावानेको यतो मुनिः ॥२३६॥

तेनात्र ये चोदयन्ति ननु ज्ञानाद्विमुक्तता

दीक्षादिका क्रिया चेयं सा कथं मुक्तये भवेत् ॥२३७॥

ज्ञानात्मा सेति चेज्ज्ञानं यत्रस्थं तं विमोचयेत्

अन्यस्य मोचने वापि भवेत्किं नासमञ्जसम्

इति ते मूलतः क्षिप्ता यत्त्वत्रान्यैः समर्थितम् ॥२३८॥

मलो नाम किल द्रव्यं चक्षुःस्थपटलादिवत्

तद्विहन्त्री क्रिया दीक्षा त्वञ्जनादिककर्मवत् ॥२३९॥

तत्पुरस्तान्निषेत्स्यामो युक्त्यागमविगर्हितम्

मलमायाकर्मणां दर्शयिष्यामहे स्थितिम् ॥२४०॥

एवं शक्तित्रयोपायं यज्ज्ञानं तत्र पश्चिमम्

मूलं तदुत्तरं मध्यमुत्तरोत्तरमादिमम् ॥२४१॥

ततोऽपि परमं ज्ञानमुपायादिविवर्जितम्

आनन्दशक्तिविश्रान्तमनुत्तरमिहोच्यते ॥२४२॥

तत्स्वप्रकाशं विज्ञानं विद्याविद्येश्वरादिभिः

अपि दुर्लभसद्भावं श्रीसिद्धातन्त्र उच्यते ॥२४३॥

मालिन्यां सूचितं चैतत्पटलेऽष्टादशे स्फुटम्

चैतदप्रसन्नेन शंकरेणेति वाक्यतः ॥२४४॥

इत्यनेनैव पाठेन मालिनीविजयोत्तरे

इति ज्ञानचतुष्कं यत्सिद्धिमुक्तिमहोदयम्

तन्मया तन्त्र्यते तन्त्रालोकनाम्न्यत्र शासने ॥२४५॥

तत्रेह यद्यदन्तर्वा बहिर्वा परिमृश्यते

अनुद्घाटितरूपं तत्पूर्वमेव प्रकाशते ॥२४६॥

तथानुद्घाटिताकारा निर्वाच्येनात्मना प्रथा

संशयः कुत्रचिद्रूपे निश्चिते सति नान्यथा ॥२४७॥

एतत्किमिति मुख्ये ̕स्मिन्नेतदंशः सुनिश्चितः

संशयो ̕स्तित्वनास्त्यादिधर्मानुद्घाटितात्मकः ॥२४८॥

किमित्येतस्य शब्दस्य नाधिको ̕र्थः प्रकाशते

किं त्वनुन्मुद्रिताकारं वस्त्वेवाभिदधात्ययम् ॥२४९॥

स्थाणुर्वा पुरुषो वेति मुख्यो ̕स्त्येष संशयः

भूयःस्थधर्मजातेषु निश्चयोत्पाद एव हि ॥२५०॥

आमर्शनीयद्वैरूप्यानुद्घाटनवशात्पुनः

संशयः किमित्यंशे विकल्पस्त्वन्यथा स्फुटः ॥२५१॥

तेनानुद्घाटितात्मत्वभावप्रथनमेव यत्

प्रथमं इहोद्देशः प्रश्नः संशय एव ॥२५२॥

तथानुद्घाटिताकारभावप्रसरवर्त्मना

प्रसरन्ती स्वसंवित्तिः प्रष्ट्री शिष्यात्मतां गता ॥२५३॥

तथान्तरपरामर्शनिश्चयात्मतिरोहितेः

प्रसरानन्तरोद्भूतसंहारोदयभागपि ॥२५४॥

यावत्येव भवेद्बाह्यप्रसरे प्रस्फुटात्मनि

अनुन्मीलितरूपा सा प्रष्ट्री तावति भण्यते ॥२५५॥

स्वयमेवं विबोधश्च तथा प्रश्नोत्तरात्मकः

गुरुशिष्यपदेऽप्येष देहभेदो ह्यतात्त्विकः ॥२५६॥

बोधो हि बोधरूपत्वादन्तर्नानाकृतीः स्थिताः

बहिराभासयत्येव द्राक्सामान्यविशेषतः ॥२५७॥

स्रक्ष्यमाणविशेषांशाकांक्षायोग्यस्य कस्यचित्

धर्मस्य सृष्टिः सामान्यसृष्टिः सा संशयात्मिका ॥२५८॥

स्रक्ष्यमाणो विशेषांशो यदा तूपरमेत्तदा

निर्णयो मातृरुचितो नान्यथा कल्पकोटिभिः ॥२५९॥

तस्याथ वस्तुनः स्वात्मवीर्याक्रमणपाटवात्

उन्मुद्रणं तयाकृत्या लक्षणोत्तरनिर्णयाः ॥२६०॥

निर्णीततावद्धर्मांशपृष्ठपातितया पुनः

भूयो भूयः समुद्देशलक्षणात्मपरीक्षणम् ॥२६१॥

दृष्टानुमानौपम्याप्तवचनादिषु सर्वतः

उद्देशलक्षणावेक्षात्रितयं प्राणिनां स्फुरेत् ॥२६२॥

निर्विकल्पितमुद्देशो विकल्पो लक्षणं पुनः

परीक्षणं तथाध्यक्षे विकल्पानां परम्परा ॥२६३॥

नगो ̕यमिति चोद्देशो धूमित्वादग्निमानिति

लक्ष्यं व्याप्त्यादिविज्ञानजालं त्वत्र परीक्षणम् ॥२६४॥

उद्देशो ̕यमिति प्राच्यो गोतुल्यो गवयाभिधः

इति वा लक्षणं शेषः परीक्षोपमितौ भवेत् ॥२६५॥

स्वःकाम ईदृगुद्देशो यजेतेत्यस्य लक्षणम्

अग्निष्टोमादिनेत्येषा परीक्षा शेषवर्तिनी ॥२६६॥

विकल्पस्रक्ष्यमाणान्यरुचितांशसहिष्णुनः

वस्तुनो या तथात्वेन सृष्टिः सोद्देशसंज्ञिता ॥२६७॥

तदैव संविच्चिनुते यावतः स्रक्ष्यमाणता

यतो ह्यकालकलिता संधत्ते सार्वकालिकम् ॥२६८॥

स्रक्ष्यमाणस्य या सृष्टिः प्राक्सृष्टांशस्य संहृतिः

अनूद्यमाने धर्मे सा संविल्लक्षणमुच्यते ॥२६९॥

तत्पृष्ठपातिभूयोंशसृष्टिसंहारविश्रमाः

परीक्षा कथ्यते मातृरुचिता कल्पितावधिः ॥२७०॥

प्राक्पश्यन्त्यथ मध्यान्या वैखरी चेति ता इमाः

परा परापरा देवी चरमा त्वपरात्मिका ॥२७१॥

इच्छादि शक्तित्रितयमिदमेव निगद्यते

एतत्प्राणित एवायं व्यवहारः प्रतायते ॥२७२॥

एतत्प्रश्नोत्तरात्मत्वे पारमेश्वरशासने

परसंबन्धरूपत्वमभिसंबन्धपञ्चके ॥२७३॥

यथोक्तं रत्नमालायां सर्वः परकलात्मकः

महानवान्तरो दिव्यो मिश्रोऽन्योऽन्यस्तु पञ्चमः ॥२७४॥

भिन्नयोः प्रष्टृतद्वक्त्रोश्चैकात्म्यं यत्स उच्यते

संबन्धः परता चास्य पूर्णैकात्म्यप्रथामयी ॥२७५॥

अनेनैव नयेन स्यात्संबन्धान्तरमप्यलम्

शास्त्रवाच्यं फलादीनां परिपूर्णत्वयोगतः ॥२७६॥

इत्थं संविदियं देवी स्वभावादेव सर्वदा

उद्देशादित्रयप्राणा सर्वशास्त्रस्वरूपिणी ॥२७७॥

तत्रोच्यते पुरोद्देशः पूर्वजानुजभेदवान्

विज्ञानभिद्गतोपायः परोपायस्तृतीयकः ॥२७८॥

शाक्तोपायो नरोपायः कालोपायो ̕ सप्तमः

चक्रोदयो ̕ देशाध्वा तत्त्वाध्वा तत्त्वभेदनम् ॥२७९॥

कलाद्यध्वाध्वोपयोगः शक्तिपाततिरोहिती

दीक्षोपक्रमणं दीक्षा सामयी पौत्रिके विधौ ॥२८०॥

प्रमेयप्रक्रिया सूक्ष्मा दीक्षा सद्यःसमुत्क्रमः

तुलादीक्षाथ पारोक्षी लिङ्गोद्धारो ̕भिषेचनम् ॥२८१॥

अन्त्येष्टिः श्राद्धक्लृप्तिश्च शेषवृत्तिनिरूपणम्

लिङ्गार्चा बहुभित्पर्वपवित्रादि निमित्तजम् ॥२८२॥

रहस्यचर्या मन्त्रौघो मण्डलं मुद्रिकाविधिः

एकीकारः स्वस्वरूपे प्रवेशः शास्त्रमेलनम् ॥२८३॥

आयातिकथनं शास्त्रोपादेयत्वनिरूपणम्

इति सप्ताधिकामेनां त्रिंशतं यः सदा बुधः ॥२८४॥

आह्निकानां समभ्यस्येत् साक्षाद्भैरवो भवेत्

सप्तत्रिंशत्सु संपूर्णबोधो यद्भैरवो भवेत् ॥२८५॥

किं चित्रमणवोऽप्यस्य दृशा भैरवतामियुः

इत्येष पूर्वजोद्देशः कथ्यते त्वनुजोऽधुना ॥२८६॥

विज्ञानभित्प्रकरणे भर्वस्योद्देशनं क्रमात्

द्वितीयस्मिन्प्रकरणे गतोपायत्वभेदिता ॥२८७॥

विश्वचित्प्रतिबिन्बत्वं परामर्शोदयक्रमः

मन्त्राद्यभिन्नरूपत्वं परोपाये विविच्यते ॥२८८॥

विकल्पसंस्क्रिया तर्कतत्त्वं गुरुसतत्त्वकम्

योगाङ्गानुपयोगित्वं कल्पितार्चाद्यनादरः ॥२८९॥

संविच्चक्रोदयो मन्त्रवीर्य जप्यादि वास्तवम्

निषेधविधितुल्यत्वं शाक्तोपायेऽत्र चर्च्यते ॥२९०॥

बुद्धिध्यानं प्राणतत्त्वसमुच्चारश्चिदात्मता

उच्चारः परतत्त्वान्तःप्रवेशपथलक्षणम् ॥२९१॥

करणं वर्णतत्त्वं चेत्याणवे तु निरूप्यते

चारमानमहोरात्रसंक्रान्त्यादिविकल्पनम् ॥२९२॥

संहारचित्रता वर्णोदयः कालाध्वकल्पने

चक्रभिन्मन्त्रविद्याभिदेतच्चक्रोदये भवेत् ॥२९३॥

परिमाणं पुराणां संग्रहस्तत्त्वयोजनम्

एतद्देशाध्वनिर्देशे द्वयं तत्त्वाध्वनिर्णये ॥२९४॥

कार्यकारणभावश्च तत्त्वक्रमनिरूपणम्

वस्तुधर्मस्तत्त्वविधिर्जाग्रदादिनिरूपणम् ॥२९५॥

प्रमातृभेद इत्येतत् तत्त्वभेदे विचार्यते

कलास्वरूपमेकत्रिपञ्चाद्यैस्तत्त्वकल्पनम् ॥२९६॥

वर्णभेदक्रमः सर्वाधारशक्तिनिरूपणम्

कलाद्यध्वविचारान्तरेतावत्प्रविविच्यते ॥२९७

अभेदभावनाकम्पहासौ त्वध्वोपयोजने

संख्याधिक्यं मलादीनां तत्त्वं शक्तिविचित्रता // २९८॥

अनपेक्षित्वसिद्धिश्च तिरोभावविचित्रता

शक्तिपातपरीक्षायामेतावान्वाच्यसंग्रहः ॥२९९॥

तिरोभावव्यपगमो ज्ञानेन परिपूर्णता

उत्क्रान्त्यनुपयोगित्वं दीक्षोपक्रमणे स्थितम् ॥३००॥

शिष्यौचित्यपरीक्षादौ स्थानभित्स्थानकल्पनम्

सामान्यन्यासभेदोऽर्घपात्रं चैतत्प्रयोजनम् ॥३०१॥

द्रव्ययोग्यत्वमर्चा बहिर्द्वारार्चनं क्रमात्

प्रवेशो दिक्स्वरूपं देहप्राणादिशोधनम् ॥३०२॥

विशेषन्यासवैचित्र्यं सविशेषार्घभाजनम्

देहपूजा प्राणबुद्धिचित्स्वध्वन्यासपूजने ॥३०३॥

अन्यशास्त्रगणोत्कर्षः पूजा चक्रस्य सर्वतः

क्षेत्रग्रहः पञ्चगव्यं पूजनं भूगणेशयोः ॥३०४॥

अस्त्रार्चा वह्निकार्यं चाप्यधिवासनमग्निगम्

तर्पणं चरुसंसिद्धिर्दन्तकाष्ठान्तसंस्क्रिया ॥३०५॥

शिवहस्तविधिश्चापि शय्याक्लृप्तिविचारणम्

स्वप्नस्य सामयं कर्म समयाश्चेति संग्रहः ॥३०६॥

समयित्वविधावस्मिन्स्यात्पञ्चदश आह्निके

मण्डलात्मानुसन्धानं निवेद्यपशुविस्तरः ॥३०७॥

अग्नितृप्तिः स्वस्वभावदीपनं शिष्यदेहगः

अध्वन्यासविधिः शोध्यशोधकादिविचित्रता ॥३०८॥

दीक्षाभेदः परो न्यासो मन्त्रसत्ताप्रयोजनम्

भेदो योजनिकादेश्च षोडशे स्यादिहाह्निके ॥३०९॥

सूत्रक्लृप्तिस्तत्त्वशुद्धिः पाशदाहोऽथ योजनम्

अध्वभेदस्तथेत्येवं कथितं पौत्रिके विधौ ॥३१०॥

जननादिविहीनत्वं मन्त्रभेदोऽथ सुस्फुटः

इति संक्षिप्तदीक्षाख्ये स्यादष्टादश आह्निके ॥३११॥

कलावेक्षा कृपाण्यादिन्यासश्चारः शरीरगः

ब्रह्मविद्याविधिश्चैवमुक्तं सद्यःसमुत्क्रमे ॥३१२॥

अधिकारपरीक्षान्तःसंस्कारोऽथ तुलाविधिः

इत्येतद्वाच्यसर्वस्वं स्याद्विंशतितमाह्निके ॥३१३॥

मृतजीवद्विधिर्जालो पदेशः संस्क्रियागणः

बलाबलविचारश्चेत्येकविंशाह्निके विधिः ॥३१४॥

श्रवणं चाभ्यनुज्ञानं शोधनं पातकच्युतिः

शङ्काच्छेद इति स्पष्टं वाच्यं लिङ्गोद्धृतिक्रमे ॥३१५॥

परीक्षाचार्यकरणं तद्व्रतं हरणं मतेः

तद्विभागः साधकत्वमभिषेकविधौ त्वियत् ॥३१६॥

अधिकार्यथ संस्कारस्तत्प्रयोजनमित्यदः

चतुर्विंशेऽन्त्ययागाख्ये वक्तव्यं परिचर्च्यते ॥३१७॥

प्रयोजनं भोगमोक्षदानेनात्र विधिः स्फुटः

पञ्चविंशाह्निके श्राद्धप्रकाशे वस्तुसंग्रहः ॥३१८॥

प्रयोजनं शेषवृत्तेर्नित्यार्चा स्थण्डिले परा

लिङ्गस्वरूपं बहुधा चाक्षसूत्रनिरूपणम् ॥३१९॥

पूजाभेद इति वाच्यं लिङ्गार्चासंप्रकाशने

नैमित्तिकविभागस्तत्प्रयोजनविधिस्ततः ॥३२०॥

पर्वभेदास्तद्विशेषश्चक्रचर्चा तदर्चनम्

गुर्वाद्यन्तदिनाद्यर्चाप्रयोजननिरूपणम् ॥३२१॥

मृतेः परीक्षा योगीशीमेलकादिविधिस्तथा

व्याख्याविधिः श्रुतविधिर्गुरुपूजाविधिस्त्वियत् ॥३२२॥

नैमित्तिकप्रकाशाख्येऽप्यष्टाविंशाह्निके स्थितम्

अधिकार्यात्मनो भेदः सिद्धपत्नीकुलक्रमः ॥३२३॥

अर्चाविधिर्दौतविधी रहस्योपनिषत्क्रमः

दीक्षाभिषेकौ बोधश्चेत्येकोनत्रिंश आह्निके ॥३२४॥

मन्त्रस्वरूपं तद्वीर्यमिति त्रिंशे निरूपितम्

शूलाब्जभेदो व्योमशस्वस्तिकादिनिरूपणम् ॥३२५॥

विस्तरेणाभिधातव्यमित्येकत्रिंश आह्निके

गुणप्रधानताभेदाः स्वरूपं वीर्यचर्चनम् ॥३२६॥

कलाभेद इति प्रोक्तं मुद्राणां संप्रकाशने

द्वात्रिंशतत्त्वादीशाख्यात्प्रभृति प्रस्फुटो यतः ॥३२७॥

भेदो ̕स्ति ततो नोक्तमुद्देशान्तरमत्र तत्

मुख्यत्वेन वेद्यत्वादधिकारान्तरक्रमः ॥३२८॥

इत्युद्देशविधिः प्रोक्तः सुखसंग्रहहेतवे

अथास्य लक्षणावेक्षे निरूप्येते यथाक्रमम् ॥३२९॥

आत्मा संवित्प्रकाशस्थितिरनवयवा संविदित्यात्तशक्तिव्रातं तस्य स्वरूपं निज महसश्छादनाद्बद्धरूपः

आत्मज्योतिःस्वभावप्रकटनविधिना तस्य मोक्षः चायं चित्राकारस्य चित्रः प्रकटित इह यत्संग्रहेणार्थ एषः ॥३३०॥

मिथ्याज्ञानं तिमिरमसमान् दृष्टिदोषान्प्रसूते तत्सद्भावाद्विमलमपि तद्भाति मालिन्यधाम

यत्तु प्रेक्ष्यं दृशि परिगतं तैमिरीं दोषमुद्रां दूरं रुन्द्धेत्प्रभवतु कथं तत्र मालिन्यशङ्का ॥३३१॥

भावव्रात हठाज्जनस्य हृदयान्याक्रम्य यन्नर्तयन् भङ्गीभिर्विविधाभिरात्महृदयं प्रच्छाद्य संक्रीडसे

यस्त्वामाह जडं जडः सहृदयंमन्यत्वदुःशिक्षितो मन्येऽमुष्य जडात्मता स्तुतिपदं त्वत्साम्यसंभावनात् ॥३३२॥

इह गलितमलाः परावरज्ञाः शिवसद्भावमया अधिक्रियन्ते

गुरवः प्रविचारणे यतस्तद्विफला द्वेषकलंकहानियाच्ञा ॥३३३॥

 

तन्त्रालोके ̕भिनवरचितेऽमुत्र विज्ञानसत्ताभेदोद्गारप्रकटनपटावाह्निके ̕स्मिन्समाप्तिः

 


 

     Bookmark and Share

 

 

Creative Commons License

Precedente Home Successiva

AGHORI BREVE STORIA GRANDE MADRE SADHANA CHAKRA AYURVEDA CORSO DI YOGA EVENTI GALLERIA SITI CONSIGLIATI CONTATTACI GUESTBOOK SITE MAP PDF IN ITA

Privacy Policy