Tantraloka

by Abhinavagupta

 

In Sanscrito:

 

CAP.1 - CAP.2 - CAP.3 - CAP.4 - CAP.5 - CAP.6 - CAP.7 - CAP.8 - CAP.9 - CAP.10

CAP.11 - CAP.12 - CAP.13 - CAP.14 - CAP.15 - CAP.16 - CAP.17 - CAP.18 - CAP.19 - CAP.20

CAP.21 - CAP.22 - CAP.23 - CAP.24 - CAP.25 - CAP.26 - CAP.27 - CAP.28 - CAP.29 - CAP.30 

CAP.31 - CAP.32 - CAP.33 - CAP.34 - CAP.35 - CAP.36 - CAP.37 - Testo translitterato

pdf: Testo in sanscrito - Testo translitterato - Tantraloka with commentary by Rajanaka Jayaratha Vol.1 - Vol.2 - Vol.3 - Vol.4 - Vol.5 - Vol.6

 

 

TANTRALOKA SANSCRITO

 

 

Capitolo 9

 

 

श्रीतन्त्रालोकस्य नवममाह्निकम्

 

अथ तत्त्वप्रविभागो विस्तरतः कथ्यते क्रमप्राप्तः ॥१॥

यान्युक्तानि पुराण्यमूनि विविधैभदैर्यदेष्वन्वितं रूपं भाति परं प्रकाशनिविडं देवः एकः शिवः

तत्स्वातन्त्र्यरसात्पुनः शिवपदाद्भेदे विभाते परं यद्रूपं बहुधानुगामि तदिदं तत्त्वं विभोः शासने ॥२॥

तथाहि कालसदनाद्वीरभद्रपुरान्तगम्

धृतिकाठिन्यगरिमाद्यवभासाद्धरात्मता ॥३॥

एवं जलादितत्त्वेषु वाच्यं यावत्सदाशिवे

स्वस्मिन्कार्येऽथ धर्मौघे यद्वापि स्वसदृग्गुणे ॥४॥

आस्ते सामान्यकल्पेन तननाद्व्याप्तृभावतः

तत्तत्त्वं क्रमशः पृथ्वीप्रधानं पुंशिवादयः ॥५॥

देहानां भुवनानां प्रसङ्गस्ततो भवेत्

श्रीमन्मतङ्गशास्त्रादौ तदुक्तं परमेशिना ॥६॥

तत्रैषां दर्श्यते दृष्टः सिद्धयोगीश्वरीमते

कार्यकारणभावो यः शिवेच्छापरिकल्पितः ॥७॥

वस्तुतः सर्वभावानां कर्तेशानः परः शिवः

अस्वतन्त्रस्य कर्तृत्वं नहि जातूपपद्यते ॥८॥

स्वतन्त्रता चिन्मात्रवपुषः परमेशितुः

स्वतन्त्रं जडं चेति तदन्योन्यं विरुध्यते ॥९॥

जाड्यं प्रमातृतन्त्रत्वं स्वात्मसिद्धिमपि प्रति

कर्तृत्वादृते चान्यत् कारणत्वं हि लभ्यते ॥१०॥

तस्मिन्सति हि तद्भाव इत्यपेक्षैकजीवितम्

निरपेक्षेषु भावेषु स्वात्मनिष्ठतया कथम् ॥११॥

पूर्वमथ पश्चात्स इति चेत्पूर्वपश्चिमौ

स्वभावेऽनतिरिक्तौ चेत्सम इत्यवशिष्यते ॥१२॥

बीजमङ्कुर इत्यस्मिन् सतत्त्वे हेतुतद्वतोः

घटः पटश्चेति भवेत् कार्यकारणता किम् ॥१३॥

बीजमङ्कुरपत्रादितया परिणमेत चेत्

अतत्स्वभाववपुषः स्वभावो युज्यते ॥१४॥

तत्स्वभाव इति चेत् तर्हि बीजाङ्कुरा निजे

तावत्येव विश्रान्तौ तदन्यात्यन्तसंभवात् ॥१५॥

ततश्च चित्राकारोऽसौ तावान्कश्चित्प्रसज्यते

अस्तु चेत् जडेऽन्योन्यविरुद्धाकारसंभवः ॥१६॥

क्रमेण चित्राकारोऽस्तु जडः किं नु विरुद्ध्यते

क्रमोऽक्रमो वा भावस्य स्वरूपाधिको भवेत् ॥१७॥

तथोपलम्भमात्रं तौ उपलम्भश्च किं तथा

उपलब्धापि विज्ञानस्वभावो योऽस्य सोऽपि हि ॥१८॥

क्रमोपलम्भरूपत्वात् क्रमेणोपलभेत चेत्

तस्य तर्हि क्रमः कोऽसौ तदन्यानुपलम्भतः ॥१९॥

स्वभाव इति चेन्नासौ स्वरूपादधिको भवेत्

स्वरूपानधिकस्यापि क्रमस्य स्वस्वभावतः ॥२०॥

स्वातन्त्र्याद्भासनं स्याच्चेत् किमन्यद्ब्रूमहे वयम्

इत्थं श्रीशिव एवैकः कर्तेति परिभाष्यते ॥२१॥

कर्तृत्वं चैतदेतस्य तथामात्रावभासनम्

तथावभासनं चास्ति कार्यकारणभावगम् ॥२२॥

यथा हि घटसाहित्यं पटस्याप्यवभासते

तथा घटानन्तरता किं तु सा नियमोज्झिता ॥२३॥

अतो यन्नियमेनैव यस्मादाभात्यनन्तरम्

तत्तस्य कारणं ब्रूमः सति रूपान्वये ̕धिके ॥२४॥

नियमश्च तथारूपभासनामात्रसारकः

बीजादङ्कुर इत्येवं भासनं नहि सर्वदा ॥२५॥

योगीच्छानन्तरोद्भूततथाभूताङ्कुरो यतः

इष्टे तथाविधाकारे नियमो भासते यतः ॥२६॥

स्वप्ने घटपटादीनां हेतुतद्वत्स्वभावता

भासते नियमेनैव बाधाशून्येन तावति ॥२७॥

ततो यावति याद्रूप्यान्नियमो बाधवर्जितः

भाति तावति ताद्रूप्याद्दृढहेतुफलात्मता ॥२८॥

तथाभूते नियमे हेतुतद्वत्त्वकारिणि

वस्तुतश्चिन्मयस्यैव हेतुता तद्धि सर्वगम् ॥२९॥

अत एव घटोद्भूतौ सामग्री हेतुरुच्यते

सामग्री समग्राणां यद्येकं नेष्यते वपुः ॥३०॥

हेतुभेदान्न भेदः स्यात् फले तच्चासमञ्जसम्

यद्यस्यानुविधत्ते तामन्वयव्यतिरेकिताम् ॥३१॥

तत्तस्य हेतु चेत्सोऽयं कुण्ठतर्को नः प्रियः

समग्राश्च यथा दण्डसूत्रचक्रकरादयः ॥३२॥

दूराश्च भाविनश्चेत्थं हेतुत्वेनेति मन्महे

यदि तत्र भवेन्मेरुर्भविष्यन्वापि कश्चन ॥३३॥

जायेत घटो नूनं तत्प्रत्यूहव्यपोहितः

यथा चक्रं नियते देशे काले हेतुताम् ॥३४॥

याति कर्किसुमेर्वाद्यास्तद्वत्स्वस्थावधि स्थिताः

तथा तेषां हेतुनां संयोजनवियोजने ॥३५॥

नियते शिव एवैकः स्वतन्त्रः कर्तृतामियात्

कुम्भकारस्य या संवित् चक्रदण्डादियोजने ॥३६॥

शिव एव हि सा यस्मात् संविदः का विशिष्टता

कौम्भकारी तु संवित्तिरवच्छेदावभासनात् ॥३७॥

भिन्नकल्पा यदि क्षेप्या दण्डचक्रादिमध्यतः

तस्मादेकैकनिर्माणे शिवो विश्वैकविग्रहः ॥३८॥

कर्तेति पुंसः कर्तृत्वाभिमानो ̕पि विभोः कृतिः

अत एव तथाभानपरमार्थतया स्थितेः ॥३९॥

कार्यकारणभावस्य लोके शास्त्रे चित्रता

मायातोऽव्यक्तकलयोरिति रौरवसंग्रहे ॥४०॥

श्रीपूर्वे तु कलातत्त्वादव्यक्तमिति कथ्यते

तत एव निशाख्यानात्कलीभूतादलिङ्गकम् ॥४१॥

इति व्याख्यास्मदुक्ते ̕स्मिन्सति न्याये ̕तिनिष्फला

लोके गोमयात्कीटात् संकल्पात्स्वप्नतः स्मृतेः ॥४२॥

योगीच्छातो द्रव्यमन्त्रप्रभावादेश्च वृश्चिकः

अन्य एव चेत् कामं कुतश्चित्स्वविशेषतः ॥४३॥

तु सर्वत्र तुल्यस्तत्परामर्शैक्यमस्ति तु

तत एव स्वरूपेऽपि क्रमेऽप्यन्यादृशी स्थितिः ॥४४॥

शास्त्रेषु युज्यते चित्रात् तथाभावस्वभावतः

पुंरागवित्कलाकालमाया ज्ञानोत्तरे क्रमात् ॥४५॥

नियतिर्नास्ति वैरिञ्चे कलोर्ध्वे नियतिः श्रता

पुंरागवित्त्रयादूर्ध्वं कलानियतिसंपुटम् ॥४६॥

कालो मायेति कथितः क्रमः किरणशास्त्रगः

पुमान्नियत्या कालश्च रागविद्याकलान्वितः ॥४७॥

इत्येष क्रम उद्दिष्टो मातङ्गे पारमेश्वरे

कार्यकारणभावीये तत्त्वे इत्थं व्यवस्थिते ॥४८॥

श्रीपूर्वशास्त्रे कथितां वच्मः कारणकल्पनाम्

शिवः स्वतन्त्रदृग्रूपः पञ्चशक्तिसुनिर्भरः ॥४९॥

स्वातन्त्र्यभासितभिदा पञ्चधा प्रविभज्यते

चिदानन्देषणाज्ञानक्रियाणां सुस्फुटत्वतः ॥५०॥

शिवशक्तिसदेशानविद्याख्यं तत्त्वपञ्चकम्

एकैकत्रापि तत्त्वे ̕स्मिन् सर्वशक्तिसुनिर्भरे ॥५१॥

तत्तत्प्राधान्ययोगेन भेदो निरूप्यते

तथाहि स्वस्वतन्त्रत्वपरिपूर्णतया विभुः ॥५२॥

निःसंख्यैर्बहुभी रूपैर्भात्यवच्छेदवर्जनात्

शांभवाः शक्तिजा मन्त्रमहेशा मन्त्रनायकाह् ॥५३॥

मन्त्रा इति विशुद्धाः स्युरमी पञ्च गणाः क्रमात्

स्वस्मिन्स्वस्मिन् गणे भाति यद्यद्रूपं समन्वयि ॥५४॥

तदेषु तत्त्वमित्युक्तं कालाग्न्यादेर्धरादिवत्

तेन यत्प्राहुराख्यानसादृश्येन विडम्बिताः ॥५५॥

गुरूपासां विनैवात्तपुस्तकाभीष्टदृष्टयः

ब्रह्मा निवृत्त्यधिपतिः पृथक्तत्त्वं गण्यते ॥५६॥

सदाशिवाद्यास्तु पृथग् गण्यन्त इति को नयः

ब्रह्मविष्णुहरेशानसुशिवानाश्रितात्मनि ॥५७॥

षट्के कारणसंज्ञे ̕र्धजरतीयमियं कुतः

इति तन्मूलतो ध्वस्तं गणितं नहि कारणम् ॥५८॥

यथा पृथिव्यधिपतिर्नृपस्तत्त्वान्तरं नहि

तथा तत्तत्कलेशानः पृथक् तत्त्वान्तरं कथम् ॥५९॥

तदेवं पञ्चकमिदं शुद्धोऽध्वा परिभाष्यते

तत्र साक्षाच्छिवेच्छैव कर्त्र्याभासितभेदिका ॥६०॥

ईश्वरेच्छावशक्षुब्धभोगलोलिकचिद्गणान्

संविभक्तुमघोरेशः सृजतीह सितेतरम् ॥६१॥

अणूनां लोलिका नाम निष्कर्मा याभिलाषिता

अपूर्णंमन्यताज्ञानं मलं सावच्छिदोज्झिता ॥६२॥

योग्यतामात्रमेवैतद्भाव्यवच्छेदसंग्रहे

मलस्तेनास्य पृथक्तत्त्वभावो ̕स्ति रागवत् ॥६३॥

निरवच्छेदकर्मांशमात्रावच्छेदतस्तु सा

रागः पुंसि धियो धर्मः कर्मभेदविचित्रता ॥६४॥

अपूर्णमन्यता चेयं तथारूपावभासनम्

स्वतन्त्रस्य शिवस्येच्छा घटरूपो यथा घटः ॥६५॥

स्वात्मप्रच्छादनेच्छैव वस्तुभूतस्तथा मलः

यथैवाव्यतिरिक्तस्य धरादेर्भावितात्मता ॥६६॥

तथैवास्येति शास्त्रेषु व्यतिरिक्तः स्थितो मलः

व्यतिरिक्तः स्वतन्त्रस्तु कोऽपि शकटादिवत् ॥६७॥

तत्सद्वितीया साशुद्धिः शिवमुक्ताणुगा किम्

मलस्य रोद्ध्री काप्यस्ति शक्तिः चाप्यमुक्तगा ॥६८॥

इति न्यायोज्झितो वादः श्रद्धामात्रैककल्पितः

रोद्ध्री शक्तिर्जडस्यासौ स्वयं नैव प्रवर्तते ॥६९॥

स्वयं प्रवृत्तौ विश्वं स्यात्तथा चेशनिका प्रमा

मलस्य रोद्ध्रीं तां शक्तिमीशश्चेत्संयुनक्ति तत् ॥७०॥

कीदृशं प्रत्यणुमिति प्रश्ने नास्त्युत्तरं वचः

मलश्चावरणं तच्च नावार्यस्य विशेषकम् ॥७१॥

उपलम्भं विहन्त्येतद्घटस्येव पटावृतिः

मलेनावृतरूपाणामणूनां यत्सतत्त्वकम् ॥७२॥

शिव एव तत्पश्येत्तस्यैवासौ मलो भवेत्

विभोर्ज्ञानक्रियामात्रसारस्याणुगणस्य ॥७३॥

तदभावो मलो रूपध्वंसायैव प्रकल्पते

धर्माद्धर्मिणि यो भेदः समवायेन चैकता ॥७४॥

तद्भवद्भिरुदितं कणभोजनशिष्यवत्

नामूर्तेन मूर्तेन प्रावरीतुं शक्यते ॥७५॥

ज्ञानं चाक्षुषरश्मीनां तथाभावे सरत्यपि

एव मलो मूर्तः किं ज्ञानेन वेद्यते ॥७६॥

सर्वगेण ततः सर्वः सर्वज्ञत्वं किं भजेत्

यश्च ध्वान्तात्प्रकाशस्यावृतिस्तत्प्रतिघातिभिः ॥७७॥

मूर्तानां प्रतिघस्तेजोऽणूनां नामूर्त ईदृशम्

चेतनमात्मानमस्वतन्त्रो मलः क्षमः ॥७८॥

आवरीतुं चाच्यं मद्यावृतिनिदर्शनम्

उक्तं भवद्भिरेवेत्थं जडः कर्ता नहि स्वयम् ॥७९॥

स्वतन्त्रस्येश्वरस्यैताः शक्तयः प्रेरिकाः किल

अतः कर्मविपाकज्ञप्रभुशक्तिबलेरितम् ॥८०॥

मद्यं सूते मदं दुःखसुखमोहफलात्मकम्

चेशप्रेरितः पुंसो मल आवृणुयाद्यतः ॥८१॥

निर्मले पुंसि नेशस्य प्रेरकत्वं तथोचितम्

तुल्ये निर्मलभावे प्रेरयेयुर्न ते कथम् ॥८२॥

तमीशं प्रति युक्तं यद् भूयसां स्यात्सधर्मता

तेन स्वरूपस्वातन्त्र्यमात्रं मलविजृम्भितम् ॥८३॥

निर्णीतं विततं चैतन्मयान्यत्रेत्यलं पुनः

मलो ̕भिलाषश्चाज्ञानमविद्या लोलिकाप्रथा ॥८४॥

भवदोषोऽनुप्लवश्च ग्लानिः शोषो विमूढता

अहंममात्मतातङ्को मायाशक्तिरथावृतिः ॥८५॥

दोषबीजं पशुत्वं संसाराङ्कुरकारणम्

इत्याद्यन्वर्थसंज्ञाभिस्तत्र तत्रैष भण्यते ॥८६॥

अस्मिन् सति भवति भवो दुष्टो भेदात्मनेति भवदोषः

मञ्चवदस्मिन् दुःखस्रोतोऽणून् वहति यत्प्लवस्तेन ॥८७॥

शेषास्तु सुगमरूपाः शब्दास्तत्रार्थमूहयेदुचितम्

संसारकारणं कर्म संसाराङ्कुर उच्यते ॥८८॥

चतुर्दशविधं भूतवैचिअत्र्यं कर्मजं यतः

अत एव सांख्ययोगपाञ्चरात्रादिशासने ॥८९॥

अहंममेति संत्यागो नैष्कर्म्यायोपदिश्यते

निष्कर्मा हि स्थिते मूलमलेऽप्यज्ञाननामनि ॥९०॥

वैचित्र्यकारणाभावान्नोर्ध्व सरति नाप्यधः

केवलं पारिमित्येन शिवाभेदमसंस्पृशन् ॥९१॥

विज्ञानकेवली प्रोक्तः शुद्धचिन्मात्रसंस्थितः

पुनः शांभवेच्छातः शिवाभेदं परामृशन् ॥९२॥

क्रमान्मन्त्रेशतन्नेतृरूपो याति शिवात्मताम्

ननु कारणमेतस्य कर्मणश्चेन्मलः कथम् ॥९३॥

विज्ञानाकलस्यापि सूते कर्मसंततिम्

मैवं हि मलो ज्ञानाकले दिध्वंसिषुः कथम् ॥९४॥

हेतुः स्याद्ध्वंसमानत्वं स्वातन्त्र्यादेव चोद्भवेत्

दिध्वंसिषुध्वंसमानध्वस्ताख्यासु तिसृष्वथ ॥९५॥

दशास्वन्तः कृतावस्थान्तरासु स्वक्रमस्थितेः

विज्ञानाकलमन्त्रेशतदीशादित्वकल्पना ॥९६॥

ततश्च सुप्ते तुर्ये वक्ष्यते बहुभेदता

अतः प्रध्वंसनौन्मुख्यखिलीभूतस्वशक्तिकः ॥९७॥

कर्मणो हेतुतामेतु मलः कथमिवोच्यताम्

किं कर्मापि मलाद्यतः कर्म क्रियात्मकम् ॥९८॥

क्रिया कर्तृतारूपात् स्वातन्त्र्यान्न पुनर्मलात्

या त्वस्य कर्मणश्चित्रफलदत्वेन कर्मता ॥९९॥

प्रसिद्धा सा संकोचं विनात्मनि मलश्च सः

विचित्रं हि फलं भिन्नं भोग्यत्वेनाभिमन्यते ॥१००॥

भोक्तर्यात्मनि तेनेयं भेदरूपा व्यवस्थितिः

इति स्वकार्यप्रसवे सहकारित्वमाश्रयन् ।१०१॥

सामर्थ्यव्यञ्जकत्वेन कर्मणः कारणं मलः

नन्वेवं कर्मसद्भावान्मलस्यापि स्थितेः कथम् ॥१०२॥

विज्ञानाकलता तस्य संकोचो ह्यस्ति तादृशः

मैवमध्वस्तसंकोचोऽप्यसौ भावनया दृढम् ॥१०३॥

नाहं कर्तेति मन्वानः कर्मसंस्कारमुज्झति

फलिष्यतीदं कर्मेति या दृढा वृत्तिरात्मनि ॥१०४॥

संस्कारः फलायेह तु स्मरणकारणम्

अप्रध्वस्ते ̕पि संकोचे नाहं कर्तेति भावनात् ॥१०५॥

फलं क्षीवमूढादेः प्रायश्चित्तेऽथ वा कृते

यन्मयाद्य तपस्तप्तं तदस्मै स्यादिति स्फुटम् ॥१०६॥

अभिसंधिमतः कर्म फलेदभिसन्धितः

तथाभिसंधानाख्यां तु मानसे कर्म संस्क्रियाम् ॥१०७॥

फलोपरक्तां विदधत्कल्पते फलसम्पदे

यस्तु तत्रापि दार्ढ्येन फलसंस्कारमुज्झति ॥१०८॥

तत्फलत्यागकृतं विशिष्टं फलमश्नुते

अनया परिपाट्या यः समस्तां कर्मसंततिम् ॥१०९॥

अनहंयुतया प्रोज्झेत् ससंकोचो ̕पि सोऽकलः

नन्वित्थं दुष्कृतं किंचिदात्मीयमभिसंधितः ॥११०॥

परस्मै स्यान्न विज्ञातं भवता तात्त्विकं वचः

तस्य भोक्तुस्तथा चेत्स्यादभिसंधिर्यथात्मनि ॥१११॥

तदवश्यं परस्यापि सतस्तद्दुष्कृतं भवेत्

पराभिसंधिसंवित्तौ स्वाभिसंधिर्दृढीभवेत् ॥११२॥

अभिसंधानविरहे त्वस्य नो फलयोगिता

मे दुष्कृतमित्येषा रूढिस्तस्याफलाय सा ॥११३॥

पराभिसन्धिविच्छेदे स्वात्मनानभिसंहितौ

द्वयोरपि फलं स्यान्नाशहेतुव्यवस्थितेः ॥११४॥

सुखहेतौ सुखे चास्य सामान्यादभिसंधितः

निर्विशेषादपि न्याय्या धर्मादिफलभोक्तृता ॥११५॥

दुःखं मे दुःखहेतुर्वा स्तादित्येष पुनर्न तु

सामान्यो ̕प्यभिसंधिः स्यात्तदधर्मस्य नागमः ॥११६॥

प्रकृतं ब्रूमहे ज्ञानाकलस्योक्तचरस्य यत्

अनहंयुतया सर्वा विलीनाः कर्मसंस्क्रियाः ॥११७॥

तस्मादस्य कर्मास्ति कस्यापि सहकारिताम्

मलः करोतु तेनायं ध्वंसमानत्वमश्नुते ॥११८॥

अपध्वस्तमलस्त्वन्तःशिवावेशवशीकृतः

अहंभावपरो ̕प्येति कर्माधीनवृत्तिताम् ॥११९॥

उक्तं श्रीपूर्वशास्त्रे तदेतत्परमेशिना

मलमज्ञानमिच्छन्ति संसाराङ्कुरकारणम् ॥१२०॥

धर्माधर्मात्मकं कर्म सुखदुःखादिलक्षणम्

लक्षयेत्सुखदुःखादि स्वं कार्य हेतुभावतः ॥१२१॥

नहि हेतुः कदाप्यास्ते विना कार्य निजं क्वचित्

हेतुता योग्यतैवासौ फलानन्तर्यभाविता ॥१२२॥

पूर्वकस्य तु हेतुत्वं पारम्पर्येण किं तत्

लक्ष्यते सुखदुःखाद्यैः समाने दृष्टकारणे ॥१२३॥

चित्रैर्हेत्वन्तरं किंचित्तच्च कर्मेह दर्शनात्

स्वाङ्गे प्रसादरौक्ष्यादि जायमानं स्वकर्मणा ॥१२४॥

दृष्टमित्यन्यदेहस्थं कारणं कर्म कल्प्याते

इहाप्यन्यान्यदेहस्थे स्फुटं कर्मफले यतः ॥१२५॥

कृषिकर्म मधौ भोगः शरद्यन्या सा तनुः

अनुसंधातुरेकस्य संभवस्तु यतस्ततः ॥१२६॥

तस्यैव तत्फलं चित्रं कर्म यस्य पुरातनम्

क्षीवो ̕पि राजा सूदं चेदादिशेत्प्रातरीदृशम् ॥१२७॥

भोजयेत्यनुसंधानाद्विना प्राप्नोति तत्फलम्

इत्थं जन्मान्तरोपात्तकर्माप्यद्यानुसंधिना ॥१२८॥

विना भुङ्क्ते फलं हेतुस्तत्र प्राच्या ह्यकम्पता

अत एव कृतं कर्म कर्मणा तपसापि वा ॥१२९॥

ज्ञानेन वा निरुध्येत फलपाकेष्वनुन्मुखम्

आरब्धकार्यं देहे ̕स्मिन् यत्पुनः कर्म तत्कथम् ॥१३०॥

उच्छिद्यतामन्त्यदशं निरोद्धुं नहि शक्यते

तत्रैव देहे यत्त्वन्यदद्यगं वा पुरातनम् ॥१३१॥

कर्म तज्ज्ञानदीक्षाद्यैः शण्ढीकर्तुं प्रसह्यते

तथा संस्कारदार्ढ्य हि फलाय दृढता पुनः ॥१३२॥

यदा यदा विनश्येत कर्मध्वस्तं तदा तदा

अतो मोहपराधीनो यद्यप्यकृत किंचन ॥१३३॥

तथापि ज्ञानकाले तत्सर्वमेव प्रदह्यते

उक्तं श्रीपरेऽहानादानः सर्वदृगुल्वणः ॥१३४॥

मुहूर्तान्निर्दहेत्सर्व देहस्थमकृतं कृतम्

देहस्थमिति देहेन सह तादात्म्यमाश्रिता ॥१३५॥

स्वाच्छन्द्यात्संविदेवोक्ता तत्रस्थं कर्म दह्यते

देहैक्यवासनात्यागात् विश्वात्मतास्थितेः ॥१३६॥

अकालकलिते व्यापिन्यभिन्ने या हि संस्क्रिया

संकोच एव सानेन सोऽपि देहैकतामयः ॥१३७॥

एतत्कार्ममलं प्रोक्तं येन साकं लयाकलाः

स्युर्गुहागहनान्तःस्थाः सुप्ता इव सरीसृपाः ॥१३८॥

ततः प्रबुद्धसंस्कारास्ते यथोचितभागिनः

ब्रह्मादिस्थावरान्ते ̕स्मिन् संस्रन्ति पुनः पुनः ॥१३९॥

ये पुनः कर्मसंस्कारहान्यै प्रारब्धभावनाः

भावनापरिनिष्पत्तिमप्राप्य प्रलयं गताः ॥१४०॥

महान्तं ते तथान्तःस्थभावनापाकसौष्ठवात्

मन्त्रत्वं प्रतिपद्यन्ते चित्राच्चित्रं कर्मतः ॥१४१॥

अस्य कार्ममलस्येयन्मायान्ताध्वविसारिणः

प्रधानं कारणं प्रोक्तमज्ञानात्माणवो मलः ॥१४२॥

क्षोभोऽस्य लोलिकाख्यस्य सहकारितया स्फुटम्

तिष्ठासायोग्यतौन्मुख्यमीश्वरेच्छावशाच्च तत् ॥१४३॥

जडश्चिदधिष्ठानं विना क्वापि क्षमो यतः

अणवो नाम नैवान्यत्प्रकाशात्मा महेश्वरः ॥१४४॥

चिदचिद्रूपताभासी पुद्गलः क्षेत्रवित्पशुः

चिद्रूपत्वाच्च व्यापी निर्गुणो निष्क्रियस्ततः ॥१४५॥

योगोपायेप्सको नित्यो मूर्तिवन्ध्यः प्रभाष्यते

अचित्त्वादज्ञता भेदो भोग्याद्भोक्त्रन्तरादथ ॥१४६॥

तेषामणूनां मल ईश्वरेच्छावशाद्भृशम्

प्रबुध्यते तथा चोक्तं शास्त्रे श्रीपूर्वनामनि ॥१४७॥

ईश्वरेच्छावशादस्य भोगेच्छा संप्रजायते

भोगेच्छोरुपकारार्थमाद्यो मन्त्रमहेश्वरः ॥१४८॥

मायां विक्षोभ्य संसारं निर्मिमीते विचित्रकम्

माया नाम देवस्य शक्तिरव्यतिरेकिणी ॥१४९॥

भेदावभासस्वातन्त्र्यं तथाहि तया कृतः

आद्यो भेदावभासो यो विभागमनुपेयिवान् ॥१५०॥

गर्भीकृतानन्तभाविविभासा सा परा निशा

सा जडा भेदरूपत्वात् कार्यं चास्या जडं यतः ॥१५१॥

व्यापिनी विश्वहेतुत्वात् सूक्ष्मा कार्यैककल्पनात्

शिवशक्त्यविनाभावान्नित्यैका मूलकारणम् ॥१५२॥

अचेतनमनेकात्म सर्व कार्य यथा घटः

प्रधानं तथा तस्मात् कार्य नात्मा तु चेतनः ॥१५३॥

अत एवाध्वनि प्रोक्ता पूर्वं माया द्विधा स्थिता

यथा माया देवस्य शक्तिरभ्येति भेदिनम् ॥१५४॥

तत्त्वभावं तथान्योऽपि कलादिस्तत्त्वविस्तरः

निरुद्धशक्तेर्या किंचित्कर्तृतोद्वलनात्मिका ॥१५५॥

नाथस्य शक्तिः साधस्तात्पुंसः क्षेप्त्री कलोच्यते

एवं विद्यादयोऽप्येते धरान्ताः परमार्थतः ॥१५६॥

शिवशक्तिमया एव प्रोक्तन्यायानुसारतः

तथापि यत्पृथग्भानं कलादेरीश्वरेच्छया ॥१५७॥

ततो जडत्वे कार्यत्वे पृथक्तत्त्वस्थितौ ध्रुवम्

उपादानं स्मृता माया क्वचित्तत्कार्यमेव ॥१५८॥

तथावभासचित्रं रूपमन्योन्यवर्जितम्

यद्भाति किल संकल्पे तदस्ति घटवद्वहिः ॥१५९॥

खपुष्पाद्यस्तितां ब्रूमस्ततो व्यभिचारिता

खपुष्पं कालदिङ्मातृसापेक्षं नास्तिशब्दतः ॥१६०॥

धरादिवत् तथात्यन्ताभावोऽप्येवं विविच्यताम्

यत्संकल्प्यं तथा तस्य बहिर्देहो ̕स्ति चेतनः ॥१६१॥

चैत्रवत्सौशिवान्तं तत् सर्व तादृशदेहवत्

यस्य देहो यथा तस्य तज्जातीयं पुरं बहिः ॥१६२॥

अतः सुशिवपर्यन्ता सिद्धा भुवनपद्धतिः

आत्मनाम् तत्पुरं प्राप्यं देशत्वादन्यदेशवत् ॥१६३॥

आत्मनामध्वभोक्तृत्वं ततोऽयत्नेन सिद्ध्यति

सा माया क्षोभमापन्ना विश्वं सूते समन्ततः ॥१६४॥

दण्डाहतेवामलकी फलानि किल यद्यपि

तथापि तु तथा चित्रपौर्वापर्यावभासनात् ॥१६५॥

मायाकार्ये ̕पि तत्त्वौघे कार्यकारणता मिथः

सा यद्यप्यन्यशास्त्रेषु बहुधा दृश्यते स्फुटम् ॥१६६॥

तथापि मालिनीशास्त्रदृशा तां संप्रचक्ष्महे

कलादिवसुधान्तं यन्मायान्तः संप्रचक्षते ॥१६७॥

प्रत्यात्मभिन्नमेवैतत् सुखदुःखादिभेदतः

एकस्यामेव जगति भोगसाधनसंहतौ ॥१६८॥

सुखादीनां समं व्यक्तेर्भोगभेदः कुतो भवेत्

चासौ कर्मभेदेन तस्यैवानुपपत्तितः ॥१६९॥

तस्मात् कलादिको वर्गो भिन्न एव कदाचन

ऐक्यमेतीश्वरेच्छातो नृत्तगीतादिवादने ।१७०॥

एषां कलादितत्त्वानां सर्वेषामपि भाविनाम्

शुद्धत्वमस्ति तेषां ये शक्तिपातपवित्रिताः ॥१७१॥

कला हि शुद्धा तत्तादृक् कर्मत्वं संप्रसूयते

मितमप्याशु येनास्मात् संसारादेष मुच्यते ॥१७२॥

रागविद्याकालयतिप्रकृत्यक्षार्थसंचयः

इत्थं शुद्ध इति प्रोच्य गुरुर्मानस्तुतौ विभुः ॥१७३॥

एवमेषा कलादीनामुत्पत्तिः प्रविविच्यते

मायातत्त्वात् कला जाता किंचित्कर्तृत्वलक्षणा ॥१७४॥

माया हि चिन्मयाद्भेदं शिवाद्विदधती पशोः

सुषुप्ततामिवाधत्ते तत एव ह्यदृक्क्रियः ॥१७५॥

कला हि किंचित्कर्तृत्वं सूते स्वालिङ्गनादणोः

तस्याश्चाप्यणुनान्योन्यं ह्यञ्जने सा प्रसूयते ॥१७६॥

सद्योनिर्वाणदीक्षोत्थपुंविश्लेषे हि सा सती

श्लिष्यन्त्यपि नो सूते तथापि स्वफलं क्वचित् ॥१७७॥

उच्छूनतेव प्रथमा सूक्ष्माङ्कुरकलेव

बीजस्याम्ब्वग्निमृत्कम्बुतुषयोगात् प्रसूतिकृत् ॥१७८॥

कला मायाणुसंयोगजाप्येषा निर्विकारकम्

नाणुं कुर्यादुपादानं किंतु मायां विकारिणीम् ॥१७९॥

मलश्चावारको माया भावोपादानकारणम्

कर्म स्यात् सहकार्येव सुखदुःखोद्भवं प्रति ॥१८०॥

अतः संच्छन्नचैतन्यसमुद्बलनकार्यकृत्

कलैवानन्तनाथस्य शक्त्या संप्रेरिता जडा ॥१८१॥

चेशशक्तिरेवास्य चैतन्यं बलयिष्यति

तदुपोद्बलितं तद्धि किंचित्कर्तृतां व्रजेत् ॥१८२॥

सेयं कला करणं मुख्यं विद्यादिकं यथा

पुंसि कर्तरि सा कर्त्री प्रयोजकतया यतः ॥१८३॥

अलक्ष्यान्तरयोरित्थं यदा पुंस्कलयोर्भवेत्

मायागर्भेशशक्त्यादेरन्तरज्ञानमान्तरम् ॥१८४॥

तदा मायापुंविवेकः सर्वकर्मक्षयाद्भवेत्

विज्ञानाकलता मायाधस्तान्नो यात्यधः पुमान् ॥१८५॥

धीपुंविवेके विज्ञाते प्रधानपुरुषान्तरे

अपि क्षीणकर्मा स्यात् कलायां तद्धि संभवेत् ॥१८६॥

अतः सांख्यदृशा सिद्धः प्रधानाधो संसरेत्

कलापुंसोर्विवेके तु मायाधो नैव गच्छति ॥१८७॥

मलाद्विविक्तमात्मानं पश्यंस्तु शिवतां व्रजेत्

सर्वत्र चैश्वरः शक्तिपातोऽत्र सहकारणम् ॥१८८॥

मायागर्भाधिकारीयो द्वयोरन्त्ये तु निर्मलः

सेयं कला कार्यभेदादन्यैव ह्यनुमीयते ॥१८९॥

अन्यथैकं भवेद्विश्वं कार्यायेत्यन्यनिह्नवः

इति मतङ्गशास्त्रादौ या प्रोक्ता सा कला स्वयम् ॥१९०॥

किंचिद्रूपतयाक्षिप्य कर्तृत्वमिति भङ्गितः

किंचिद्रूपविशिष्टं यत् कर्तृत्वं तत्कथं भवेत् ॥१९१॥

अज्ञस्येति ततः सूते किंचिज्ज्ञत्वात्मिकां विदम्

बुद्धिं पश्यति सा विद्या बुद्धिदर्पणचारिणः ॥१९२॥

सुखादीन् प्रत्ययान् मोहप्रभृतीन् कार्यकारणे

कर्मजालं तत्रस्थं विविनक्ति निजात्मना ॥१९३॥

बुद्धिस्तु गुणसंकीर्णा विवेकेन कथं सुखम्

दुःखं मोहात्मकं वापि विषयं दर्शयेदपि ॥१९४॥

स्वच्छायां धियि संक्रामन्भावः संवेद्यतां कथम्

तया विनैति साप्यन्यत्करणं पुंसि कर्तरि ॥१९५॥

ननु चोभयतः शुभ्रादर्शदशीयधीगतात्

पुंस्प्रकाशाद्भाति भावः मैवं तत्प्रतिबिम्बनम् ॥१९६॥

जडमेव हि मुख्योऽथ पुंस्प्रकाशो ̕स्य भासनम्

बहिःस्थस्यैव तस्यास्तु बुद्धेः किंकल्पना कृता ॥१९७॥

अभेदभूमिरेषा भेदश्चेह विचार्यते

तस्माद्बुद्धिगतो भावो विद्याकरणगोचरः ॥१९८॥

भावानां प्रतिबिम्बं वेद्यं धीकल्पना ततः

किंचित्तु कुरुते तस्मान्नूनमस्त्यपरं तु तत् ॥१९९॥

रागतत्त्वमिति प्रोक्तं यत्तत्रैवोपरञ्जकम्

चावैराग्यमात्रं तत्तत्राप्यासक्तिवृत्तितः ॥२००॥

विरक्तावपि तृप्तस्य सूक्ष्मरागव्यवस्थितेः

कालस्तुट्यादिभिश्चैतत् कर्तृत्वं कलयत्यतः ॥२०१॥

कार्यावच्छेदि कर्तृत्वं कालोऽवश्यं कलिष्यति

नियतिर्योजनां धत्ते विशिष्टे कार्यमण्डले ॥२०२॥

विद्या रागोऽथ नियतिः कालश्चैतच्चतुष्टयम्

कलाकार्यं भोक्तृभावे तिष्ठद्भोक्तृत्वपूरितम् ॥२०३॥

माया कला रागविद्ये कालो नियतिरेव

कञ्चुकानि षडुक्तानि संविदस्तत्स्थितौ पशुः ॥२०४॥

देहपुर्यष्टकाद्येषु वेद्येषु किल वेदनम्

एतत्षट्कससंकोचं यदवेद्यमसावणुः ॥२०५॥

उक्तं शिवतनुशास्त्रे तदिदं भङ्ग्यन्तरेण पुनः

आवरणं सर्वात्मगमशुद्धिरन्याप्यनन्यरूपेव ॥२०६॥

शिवदहनकिरणजालैर्दाह्यत्वात् सा यतोऽन्यरूपैव

अनिदंपूर्वतया यद्रञ्जयति निजात्मना ततोऽनन्या ॥२०७॥

सहजाशुद्धिमतोऽणोरीशगुहाभ्यां हि कञ्चुकस्त्रिविधः

तस्य द्वितीयचितिरिव स्वच्छस्य नियुज्यते कला श्लक्ष्णा ॥२०८॥

अनया विद्वस्य पशोरुपभोगसमर्थता भवति

विद्या चास्य कलातः शरणान्तर्दीपकप्रभेवाभूत् ॥२०९॥

सुखदुःखसंविदं या विविनक्ति पशोर्विभागेन

रागश्च कलातत्त्वाच्छुचिवस्त्रकषायवत् समुत्पन्नः ॥२१०॥

त्यक्तुं वाञ्छति यतः संसृतिसुखसंविदानन्दम्

एवमविद्यामलिनःसमर्थितस्त्रिगुणकञ्चुकबलेन ॥२११॥

गहनोपभोगगर्भे पशुरवशमधोमुखः पतति

एतेन मलः कथितः कम्बुकवदणोः कलादिकं तुषवत् ॥२१२॥

एवं कलाख्यतत्त्वस्य किंचित्कर्तृत्वलक्षणे

विशेषभागे कर्तृत्वं चर्चितं भोक्तृपूर्वकम् ॥२१३॥

विशेषणतया योऽत्र किञ्चिद्भागस्तदोत्थितम्

वेद्यमात्रं स्फुटं भिन्नं प्रधानं सूयते कला ॥२१४॥

सममेव हि भोग्यं भोक्तारं प्रसूयते

कला भेदाभिसंधानादवियुक्तं परस्परम् ॥२१५॥

भोक्तृभोग्यात्मता स्याद्वियोगाच्च परस्परम्

विलीनायां तस्यां स्यान्मायास्यापि किंचन ॥२१६॥

ननु श्रीमद्रौरवादौ रागविद्यात्मकं द्वयम्

सूते कला हि युगपत्ततोऽव्यक्तमिति स्थितिः ॥२१७॥

उक्तमत्र विभात्येष क्रमः सत्यं तथा ह्यलम्

रज्यमानो वेद सर्व विदंश्चाप्यत्र रज्यते ॥२१८॥

तथापि वस्तुसत्तेयमिहास्माभिर्निरूपिता

तस्यां क्रमः कोऽपि स्याद्वा सोऽपि विपर्ययात् ॥२१९॥

तस्माद्विप्रतिपत्तिं नो कुर्याच्छास्त्रोदिते विधौ

एवं संवेद्यमात्रं यत् सुखदुःखविमोहतः ॥२२०॥

भोत्स्यते यत्ततः प्रोक्तं तत्साम्यात्मकमादितः

सुखं सत्त्वं प्रकाशत्वात् प्रकाशो ह्लाद उच्यते ॥२२१॥

दुःखं रजः क्रियात्मत्वाद् क्रिया हि तदतत्क्रमः

मोहस्तमो वरणकः प्रकाशाभावयोगतः ॥२२२॥

एते क्षोभमापन्ना गुणाः कार्य प्रतन्वते

अक्षुब्धस्य विजातीयं स्यात् कार्यमदः पुरा ॥२२३॥

उक्तमेवेति शास्त्रे ̕स्मिन् गुणांस्तत्त्वान्तरं विदुः

भुवनं पृथगेवात्र दर्शितं गुणभेदतः ॥२२४॥

ईश्वरेच्छावशक्षुब्धलोलिकं पुरुषं प्रति

भोक्तृत्वाय स्वतन्त्रेशः प्रकृतिं क्षोभयेद् भृशम् ॥२२५॥

तेन यच्चोद्यते सांख्यं मुक्ताणुं प्रति किं सा

सूते पुंसो विकारित्वादिति तन्नात्र बाधकम् ॥२२६॥

गुणेभ्यो बुद्धितत्त्वं तत् सर्वतो निर्मलं ततः

पुंस्प्रकाशः वेद्योऽत्र प्रतिबिम्बत्वमार्छति ॥२२७॥

विषयप्रतिबिम्बं तस्यामक्षकृतं बहिः

अतद्द्वारं समुत्प्रेक्षाप्रतिभादिषु तादृशी ॥२२८॥

वृत्तिर्बोधो भवेद्बुद्धेः सा चाप्यालम्बनं ध्रुवम्

आत्मसंवित्प्रकाशस्य बोधोऽसौ तज्जडोऽप्यलम् ॥२२९॥

बुद्धेरहंकृत् तादृक्षे प्रतिबिम्बितपुंस्कृतेः

प्रकाशे वेद्यकलुषे यदहंमननात्मता ॥२३०॥

तया पञ्चविधश्चैष वायुः संरम्भरूपया

प्रेरितो जीवनाय स्यादन्यथा मरणं पुनः ॥२३१॥

अत एव विशुद्धात्मस्वातन्त्र्याहंस्वभावतः

अकृत्रिमादिदं त्वन्यदित्युक्तं कृतिशब्दतः ।२३२॥

इत्ययं करणस्कन्धोऽहंकारस्य निरूपितः

त्रिधास्य प्रकृतिस्कन्धः सात्त्वराजसतामसः ॥२३३॥

सत्त्वप्रधानाहंकाराद्भोक्त्रंशस्पर्शिनः स्फुटम्

मनोबुद्ध्यक्षषट्कं तु जातं भेदस्तु कथ्यते ॥२३४॥

मनो यत्सर्वविषयं तेनात्र प्रविवक्षितम्

सर्वतन्मात्रकर्तृत्वं विशेषणमहंकृतेः ॥२३५॥

बुद्ध्यहंकृन्मनः प्राहुर्बोधसंरभणैषणे

करणं बाह्यदेवैर्यन्नैवाप्यन्तर्मुखैः कृतम् ॥२३६॥

प्राणश्च नान्तःकरणं जडत्वात् प्रेरणात्मनः

प्रयत्नेच्छाविबोधांशहेतुत्वादिति निश्चितम् ॥२३७॥

अवसायो ̕भिमानश्च कल्पना चेति क्रिया

एकरूपा ततस्त्रित्वं युक्तमन्तःकृतौ स्फुटम् ॥२३८॥

बुद्धिरसंवेद्या करणत्वान्मनो यथा

प्रधानवदसंवेद्यबुद्धिवादस्तदुज्झितः ॥२३९॥

शब्दतन्मात्रहेतुत्वविशिष्टा या त्वहंकृतिः

सा श्रोत्रे करणं यावद्घ्राणे गन्धत्वभोदिता ॥२४०॥

भौतिकत्वमतो ̕प्यस्तु नियमाद्विषयेष्वलम्

अहं शृणोमि पश्यामि जिघ्रामीत्यादिसंविदि ॥२४१॥

अहंतानुगमादाहंकारिकत्वं स्फुटं स्थितम्

करणत्वमतो युक्तं कर्त्रशस्पृक्त्वयोगतः ॥२४२॥

कर्तुर्विभिन्नं करणं प्रेर्यत्वात् करणं कुतः

करणान्तरवाञ्छायां भवेत्तत्रानवस्थितिः ॥२४३॥

तस्मात् स्वातन्त्र्ययोगेन कर्ता स्वं भेदयन् वपुः

कर्माशस्पर्शिनं स्वांशं करणीकुरुते स्वयम् ॥२४४॥

करणीकृततत्स्वांशतन्मयीभावनावशात्

करणीकुरुते ̕त्यन्तव्यतिरिक्तं कुठारवत् ॥२४५॥

तेनाशुद्धैव विद्यास्य सामान्यं करणं पुरा

ज्ञप्तौ कृतौ तु सामान्यं कला करणमुच्यते ॥२४६॥

ननु श्रीमन्मतङ्गादौ कलायाः कर्तृतोदिता

तस्यां सत्यां हि विद्याद्याः करणत्वार्हताजुषः ॥२४७॥

उच्यते कर्तृतैवोक्ता करणत्वे प्रयोजिका

तया विना तु नान्येषां करणानां स्थितिर्यतः ॥२४८॥

अतो ̕सामान्यकरणवर्गात् तत्र पृथक् कृता

विद्यां विना हि नान्येषां करणानां निजा स्थितिः ॥२४९॥

कलां विना तस्याश्च कर्तृत्वे ज्ञातृता यतः

कलाविद्ये ततः पुंसो मुख्यं तत्करणं विदुः ॥२५०॥

अत एव विहीने ̕पि बुद्धिकर्मेन्द्रियैः क्वचित्

अन्धे पङ्गौ रूपगतिप्रकाशो भासते ॥२५१॥

किंतु सामान्यकरणबलाद्वेद्ये ̕पि तादृशि

रूपसामान्य एवान्धः प्रतिपत्तिं प्रपद्यते ॥२५२॥

तत एव त्वहंकारात् तन्मात्रस्पर्शिनो ̕धिकम्

कर्मेन्द्रियाणि वाक्पाणिपायूपस्थाङ्घ्रि जज्ञिरे ॥२५३॥

वच्म्याददे त्यजाम्याशु विसृजामि व्रजामि

इति याहंक्रिया कार्यक्षमा कर्मेन्द्रियं तु तत् ॥२५४॥

तेन च्छिन्नकरस्यास्ति हस्तः कर्मेन्द्रियात्मकः

तस्य प्रधानाधिष्ठानं परं पञ्चाङ्गुलिः करः ॥२५५॥

मुखेनापि यदादानं तत्र यत् करणं स्थितम्

पाणिरेव करणं विना किं संभवेत् क्रिया ॥२५६॥

तथाभावे तु बुद्ध्यक्षैरपि किं स्यात्प्रयोजनम्

दर्शनं करणापेक्षं क्रियात्वादिति चोच्यते ॥२५७॥

परैर्गमौ तु करणं नेष्यते चेति विस्मयः

गमनोत्क्षेपणादीनि मुख्यं कर्मोपलम्भनम् ॥२५८॥

पुनर्गुणः क्रिया त्वेषा वैयाकरणदर्शने

क्रिया करणपूर्वेति व्याप्त्या करणपूर्वकम् ॥२५९॥

ज्ञानं नादानमित्येतत् स्फुटमान्ध्यविजृम्भितम्

तस्मात् कर्मेन्द्रियाण्याहुस्त्वग्वद्व्याप्तॄणि मुख्यतः ॥२६०॥

तत्स्थाने वृत्तिमन्तीति मतङ्गे गुरवो मम

नन्वन्यान्यपि कर्माणि सन्ति भूयांसि तत्कृते ॥२६१॥

करणान्यपि वाच्यानि तथा चाक्षेष्वनिष्ठितिः

नन्वेतत् खेटपालाद्यैर्निराकारि कर्मणाम् ॥२६२॥

यत्साधनं तदक्षं स्यात् किंतु कस्यापि कर्मणः

एतन्नास्मत्कृतप्रश्नतृष्णासंतापशान्तये ॥२६३॥

नह्यस्वच्छमितप्रायैर्जलैस्तृप्यन्ति बर्हिणः

उच्यते श्रीमतादिष्टं शंभुनात्र ममोत्तरम् ॥२६४॥

स्वच्छसंवेदनोदारविकलाप्रबलीकृतम्

इह कर्मानुसंधानभेदादेकं विभिद्यते ॥२६५॥

तत्रानुसंधिः पञ्चात्मा पञ्च कर्मेन्द्रियाण्यतः

त्यागायादानसंपत्त्यै द्वयाय द्वितयं विना ॥२६६॥

स्वरूपविश्रान्तिकृते चतुर्धा कर्म यद्बहिः

पायुपाण्यङ्घ्रिजननं करणं तच्चतुर्विधम् ॥२६७॥

अन्तं प्राणाश्रयं यत्तु कर्मात्र करणं हि वाक्

उक्ताः समासतश्चैषां चित्राः कार्येषु वृत्तयः ॥२६८॥

तदेतद्व्यतिरिक्तं हि कर्म क्वापि दृश्यते /

तत्कस्यार्थे प्रकल्प्येयमिन्द्रियाणामनिष्ठितिः ॥२६९॥

एतत्कर्तव्यचक्रं तदसांकर्येण कुर्वते

अक्षाणि सहवृत्त्या तु बुद्ध्यन्ते संकरं जडाः ॥२७०॥

उक्त इन्द्रियवर्गोऽयमहंकारात् तु राजसात्

तमःप्रधानाहंकाराद् भोक्त्रंशच्छादनात्मनः ॥२७१॥

भूतादिनाम्नस्तन्मात्रपञ्चकं भूतकारणम्

मनोबुद्ध्यक्षकर्माक्षवर्गस्तन्मात्रवर्गकः ॥२७२॥

इत्यत्र राजसाहंकृद्योगः संश्लेषको द्वये

अन्ये त्वाहुर्मनो जातं राजसाहंकृतेर्यतः ॥२७३॥

समस्तेन्द्रियसंचारचतुरं लघु वेगवत्

अन्ये तु सात्त्विकात् स्वान्तं बुद्धिकर्मेन्द्रियाणि तु ॥२७४॥

राजसाद्ग्राहकग्राह्यभागस्पर्शीनि मन्वते

खेटपालास्तु मन्यन्ते कर्मेन्द्रियगणः स्फुटम् ॥२७५॥

राजसाहंकृतेर्जातो रजसः कर्मता यतः

श्रीपूर्वशास्त्रे तु मनो राजसात् सात्त्विकात्पुनः ॥२७६॥

इन्द्रियाणि समस्तानि युक्तं चैतद्विभाति नः

तथाहि बाह्यवृत्तीनामक्षाणां वृत्तिभासने ॥२७७॥

आलोचने शक्तिरन्तर्योजने मनसः पुनः

उक्तं गुरुणा कुर्यान्मनोऽनुव्यवसायि सत् ॥२७८॥

तद्द्वयालम्बना मातृव्यापारात्मक्रिया इति

तान्मात्रस्तु गणो ध्वान्तप्रधानाया अहंकृतेः ॥२७९॥

अत्राविवादः सर्वस्य ग्राह्योपक्रम एव हि

पृथिव्यां सौरभान्यादिविचित्रे गन्धमण्डले ॥२८०॥

यत्सामान्यं हि गन्धत्वं गन्धतन्मात्रनाम तत्

व्यापकं तत एवोक्तं सहेतुत्वात्तु ध्रुवम् ॥२८१॥

स्वकारणे तिरोभूतिर्ध्वसो यत्तेन नाध्रुवम्

एवं रसादिशब्दान्ततन्मात्रेष्वपि योजना ॥२८२॥

विशेषाणां यतोऽवश्यं दशा प्रागविशेषिणी

क्षुभितं शब्दतन्मात्रं चित्राकाराः श्रतीर्दधत् ॥२८३॥

नभः शब्दोऽवकाशात्मा वाच्याध्याससहो यतः

तदेतत्स्पर्शतन्मात्रयोगात् प्रक्षोभमागतम् ॥२८४॥

वायुतामेति तेनात्र शब्दस्पर्शोभयात्मता

अन्ये त्वाहुर्ध्वनिः खैकगुणस्तदपि युज्यते ॥२८५॥

यतो वायुर्निजं रूपं लभते विनाम्बरात्

उत्तरोत्तरभूतेषु पूर्वपूर्वस्थितिर्यतः ॥२८६॥

तत एव मरुद्व्योम्नोरवियोगो मिथः स्मृतः

शब्दस्पर्शौ तु रूपेण समं प्रक्षोभमागतौ ॥२८७॥

तेजस्तत्त्वं त्रिभिर्धर्मैः प्राहुः पूर्ववदेव तत्

तैस्त्रिभिः सरसैरापः सगन्धैर्भूरिति क्रमः ॥२८८॥

तत्र प्रत्यक्षतः सिद्धो धरादिगुणसंचयः

नहि गन्धादिधर्मौघव्यतिरिक्ता विभाति भूः ॥२८९॥

यथा गुणगुणिद्वैतवादिनामेकमप्यदः

चित्रं रूपं पटे भाति क्रमाद्धर्मास्तथा भुवि ॥२९०॥

यथा विस्तृते वस्त्रे युगपद्भाति चित्रता

तथैव योगिनां धर्मसामस्त्येनावभाति भूः ॥२९१॥

गन्धादिशब्दपर्यन्तचित्ररूपा धरा ततः

उपायभेदाद्भात्येषा क्रमाक्रमविभागतः ॥२९२॥

तत एव क्रमव्यक्तिकृतो धीभेद उच्यते

षष्ठीप्रयोगो धीभेदाद्भेद्यभेदकता तथा ॥२९३॥

तेन धर्मातिरिक्तोऽत्र धर्मी नाम कश्चन

तत्रानेकप्रकाराः स्युर्गन्धरूपरसाः क्षितौ ॥२९४॥

संस्पर्शः पाकजोऽनुष्णाशीतः शब्दो विचित्रकः

शौक्ल्यं माधुर्यशीतत्वे चित्राः शब्दाश्च वारिणि ॥२९५॥

शुक्लभास्वरतोष्णत्वं चित्राः शब्दाश्च पावके

अपाकजश्चाशीतोष्णो ध्वनिश्चित्रश्च मारुते ॥२९६॥

वर्णात्मको ध्वनिः शब्दप्रतिबिम्बान्यथाम्बरे

यत्तु स्पर्शवद्धर्मः शब्द इत्यादि भण्यते ॥२९७॥

काणादैस्तत्स्वप्रतीतिविरुद्धं केन गृह्यताम्

पटहे ध्वनिरित्येव भात्यबाधितमेव यत् ॥२९८॥

हेतुत्वमात्रेण तदादानत्ववेदनात्

श्रोत्रं चास्मन्मतेऽहंकृत्कारणं तत्र तत्र तत् ॥२९९॥

वृत्तिभागीति तद्देशं शब्दं गृह्णात्यलं तथा

यस्त्वाह श्रोत्रमाकाशं कर्णसंयोगभेदितम् ॥३००॥

शब्दजः शब्द आगत्य शब्दबुद्धिं प्रसूयते

तस्य मन्देऽपि मुरजध्वनावाकर्णके सति ॥३०१॥

अमुत्र श्रुतिरेषेति दूरे संवेदनं कथम्

नहि शब्दजशब्दस्य दूरादूररवोदितेः ॥३०२॥

श्रोत्राकाशगतस्यास्ति दूरादूरस्वभावता

चासौ प्रथमः शब्दस्तावद्व्यापीति युज्यते ॥३०३॥

तत्रस्थैः सह तीव्रात्मा श्रूयमाणस्त्वनेन तु

कथं श्रूयेत मन्दःसन्नहि धर्मान्तराश्रयः ॥३०४॥

एतच्चान्यैरपाकारि बहुधेति वृथा पुनः

नायस्तं पतिताघातदाने को हि पण्डितः ॥३०५॥

अमीषां तु धरादीनां यावांस्तत्त्वगणः पुरा

गुणाधिकतया तिष्ठन् व्याप्ता तावान् प्रकाशते ॥३०६॥

व्याप्यव्यापकता यैषा तत्त्वानां दर्शिता किल

सा गुणाधिक्यतः सिद्धा हेतुत्वान्न लाघवात् ॥३०७॥

अहेतुनापि रागो हि व्याप्तो विद्यादिना स्फुटम्

तद्विना भवेद्यत्तद्व्याप्तमित्युच्यते यतः ॥३०८॥

लाघवं नामास्ति किंचिदत्र स्वदर्शने

गुणाधिक्यादतो ज्ञेया व्याप्यव्यापकता स्फुटा ॥३०९॥

यो हि यस्माद्गुणोत्कृष्टः तस्मादूर्ध्व उच्यते

ऊर्ध्वता व्याप्तृता श्रीमन्मालिनीविजये स्फुटा ॥३१०॥

अतः शिवत्वात्प्रभृति प्रकाशतास्वरूपमादाय निजात्मनि ध्रुवम्

समस्ततत्त्वावलिधर्मसंचयैर्विभाति भूर्व्याप्तृतया स्थितैरलम् ॥३११॥

एवं जलादेरपि शक्तितत्त्वपर्यन्तधाम्नो वपुरस्ति तादृक्

किं तूत्तरं शक्तितयैव तत्त्वं पूर्व तु तद्धर्मतयेति भेदः ॥३१२॥

अनुत्तरप्रक्रियायां वैतत्येन प्रदर्शितम्

एतत् तस्मात् ततः पश्येद्विस्तरार्थी विवेचकः ॥३१३॥

इति तत्त्वस्यरूपस्य कृतं सम्यक् प्रकाशनम् ॥३१४॥

 

 


 

     Bookmark and Share

 

 

Creative Commons License

Precedente Home Successiva

AGHORI BREVE STORIA GRANDE MADRE SADHANA CHAKRA AYURVEDA CORSO DI YOGA EVENTI GALLERIA SITI CONSIGLIATI CONTATTACI GUESTBOOK SITE MAP PDF IN ITA

Privacy Policy