Tantraloka

by Abhinavagupta

 

In Sanscrito:

 

CAP.1 - CAP.2 - CAP.3 - CAP.4 - CAP.5 - CAP.6 - CAP.7 - CAP.8 - CAP.9 - CAP.10

CAP.11 - CAP.12 - CAP.13 - CAP.14 - CAP.15 - CAP.16 - CAP.17 - CAP.18 - CAP.19 - CAP.20

CAP.21 - CAP.22 - CAP.23 - CAP.24 - CAP.25 - CAP.26 - CAP.27 - CAP.28 - CAP.29 - CAP.30 

CAP.31 - CAP.32 - CAP.33 - CAP.34 - CAP.35 - CAP.36 - CAP.37 - Testo translitterato

pdf: Testo in sanscrito - Testo translitterato - Tantraloka with commentary by Rajanaka Jayaratha Vol.1 - Vol.2 - Vol.3 - Vol.4 - Vol.5 - Vol.6

 

 

TANTRALOKA SANSCRITO

 

 

Capitolo 16

 

 

अथ श्रीतन्त्रालोके षोडशमाह्निकम्

 

अथ पुत्रकत्वसिद्ध्यै निरूप्यते शिवनिरूपितोऽत्र विधिः

यदा तु समयस्थस्य पुत्रकत्वे नियोजनम्

गुरुत्वे साधकत्वे वा कर्तुमिच्छति दैशिकः ॥१॥

तदाधिवासं कृत्वाह्नि द्वितीये मण्डलं लिखेत्

सामुदायिकयागेऽथ तथान्यत्र यथोदितम् ॥२॥

षडष्टतद्द्विगुणितचतुर्विंशतिसंख्यया

चक्रपञ्चकमाख्यातं शास्त्रे श्रीपूर्वसंज्ञिते ॥३॥

द्वात्रिंशत्तद्द्विगुणितं श्रीमत्त्रैशिरसे मते

असंख्यचक्रसंबन्धः श्रीसिद्धादौ निरूपितः ॥४॥

तस्माद्यथातथा यागं यावच्चक्रेण संमितम्

पूजयेद्येन तेनात्र त्रिशूलत्रयमालिखेत् ॥५॥

त्रिशूलत्रितये देवीत्रयं पर्यायवृत्तितः

मध्यसव्यान्यभेदेन पूर्णं संपूजितं भवेत् ॥६॥

वर्तना मण्डलस्याग्रे संक्षेपादुपदेक्ष्यते

आलिख्य मण्डलं गन्धवस्त्रेणैवास्य मार्जनम् ॥७॥

कृत्वा स्नातो गुरुः प्राग्वन्मण्डलाग्रेऽत्र देवताः

बाह्यगाः पूजयेद्द्वारदेशे द्वारदेवताः ॥८॥

मण्डलस्य पुरोभागे तदैशानदिशः क्रमात्

आग्नेय्यन्तं गणेशादीन् क्षेत्रपान्तान्प्रपूजयेत् ॥९॥

गणपतिगुरुपरमाख्याः परमेष्ठी पूर्वसिद्धवाक्क्षेत्रपतिः

इति सप्तकमाख्यातं गुरुपङ्क्तिविधौ प्रपूज्यमस्मद्गुरुभिः ॥१०॥

तत आज्ञां गृहीत्वा तु पुष्पधूपादिपूजितम्

पूज्यमाधारशक्त्यादि शूलमूलात्प्रभृत्यलम् ॥११॥

शिवान्तं सितपद्मान्ते त्रिशूलानां त्रये क्रमात्

मध्यशूले मध्यगः स्यात्सद्भावः परया सह ॥१२॥

वामे चापरया साकं नवात्मा दक्षगं परम्

त्रिशूले दक्षिणे मध्यशृङ्गस्थो रतिशेखरः ॥१३॥

स्यात्परापरया साकं दक्षे भैरवसत्परे

वामे त्रिशूले मध्यस्थो नवात्मापरया सह ॥१४॥

स्यात्परे परया साकं वामारे संश्च भैरवः

इत्थं सर्वगतत्वे श्रीपरादेव्याः स्थिते सति ॥१५॥

यागो भवेत्सुसंपूर्णस्तदधिष्ठानमात्रतः

एकशूले ̕प्यतो यागे चिन्तयेत्तदधिष्ठितम् ॥१६॥

अविधिज्ञो विधानज्ञ इत्येवं त्रीशिकोदितम्

ततो मध्ये तथा दक्षे वामे शृङ्गे सर्वतः ॥१७॥

लोकपालास्त्रपर्यन्तमेकात्मत्वेन पूजयेत्

परत्वेन सर्वासां देवतानां प्रपूजयेत् ॥१८॥

श्रीमन्तं मातृसद्भावभट्टारकमनामयम्

ततो ̕पि भोगयागेन विद्याङ्गं भैरवाष्टकम् ॥१९॥

यामलं चक्रदेवीश्च स्वस्थाने पूजयेद्बहिः

लोकपालानस्त्रयुतान्गन्धपुष्पासवादिभिः ॥२०॥

पूजयेत्परया भक्त्या वित्तशाठ्यविवर्जितः

ततः कुम्भास्त्रकलशीमण्डलस्थानलात्मनाम् ॥२१॥

पञ्चानामनुसन्धानं कुर्यादद्वयभावनात्

ये तु तामद्वयव्याप्तिं विन्दन्ति शिवात्मिकाम् ॥२२॥

मन्त्रनाडीप्रयोगेण ते विशन्त्यद्वये पथि

स्वदक्षिणेन निःसृत्य मण्डलस्थस्य वामतः ॥२३॥

प्रविश्यान्येन निःसृत्य कुम्भस्थे कर्करीगते

वह्निस्थे क्रमेणेत्थं यावत्स्वस्मिन्स्ववामतः ॥२४॥

मूलानुसन्धानबलात्प्राणतन्तूम्भने सति

इत्थमैक्यस्फुरत्तात्मा व्याप्तिसंवित्प्रकाशते ॥२५॥

ततो विशेषपूजां कुर्यादद्वयभाविताम्

यच्छिवाद्वयपीयूषसंसिक्तं परमं हि तत् ॥२६॥

तेनार्घपुष्पगन्धादेरासवस्य पशोरथ

या शिवाद्वयतादृष्टिः सा शुद्धिः परमीकृतिः ॥२७॥

निवेदयेद्विभोरग्रे जीवान्धातूंस्तदुत्थितान्

सिद्धानसिद्धान्व्यामिश्रान्यद्वा किंचिच्चराचरम् ॥२८॥

दृष्टप्रोक्षितसंद्रष्टृप्रालब्धोपात्तयोजितः

निर्वापितो वीरपशुः सो ̕ष्टधोत्तरतोत्तमः ॥२९॥

यथोत्तरं दातव्यमयोग्येभ्यः कदाचन

शिवोपयुक्तं हि हविर्न सर्वो भोक्तुमर्हति ॥३०॥

यस्तु दीक्षाविहीनो ̕पि शिवेच्छाविधिचोदितः

भक्त्याश्नाति संपूर्णः समयी स्यात्सुभावितः ॥३१॥

दृष्टो ̕वलोकितश्चैव किरणेद्धदृगर्पणात्

प्रोक्षितः केवलं ह्यर्घपात्रविप्रुड्भिरुक्षितः ॥३२॥

संद्रष्टा दर्शिताशेषसम्यक्पूजितमण्डलः

प्रालब्ध उक्तत्रितयसंस्कृतः सो ̕पि धूनयेत् ॥३३॥

कम्पेत प्रस्रवेत्स्तब्धः प्रलीनो वा यथोत्तरम्

उपात्तो यागसान्निध्ये शमितः शस्त्रमारुतैः ॥३४॥

योजितः कारणत्यागक्रमेण शिवयोजनात्

निर्वापितः कृताभ्यासगुरुप्राणमनोर्पणात् ॥३५॥

दक्षिणेनाग्निना सौम्यकलाजालविलापनात्

तथाह्यादौ परं रूपमेकीभावेन संश्रयेत् ॥३६॥

तस्मादाग्नेयचारेण ज्वालामालामुचाविशेत्

पशोर्वामेन चन्द्रांशुजालं तापेन गालयेत् ॥३७॥

नाभिचक्रेऽथ विश्राम्येत्प्राणरश्मिगणैः सह

परो भूत्वा स्वशक्त्यात्र जीवं जीवेन वेष्टयेत् ॥३८॥

स्वचित्सूर्येण संताप्य द्रावयेत् कलां कलाम्

ततो द्रुतं कलाजालं प्रापय्यैकत्वमात्मनि ॥३९॥

समस्ततत्त्वसंपूर्णमाप्यायनविधायिनम्

उन्मूलयेत संरम्भात्कर्मबद्धममुं रसात् ॥४०॥

तत उन्मूलनोद्वेष्टयोगाद्वामं परिभ्रमन्

कुण्डल्यमृतसंपूर्णस्वकप्राणप्रसेवकः ॥४१॥

वामावर्तक्रमोपात्तहृत्पद्मामृतकेसरः

हृत्कर्णिकारूढिलाभादोजोधातुं विलापितम् ॥४२॥

शुद्धसोमात्मकं सारमीषल्लोहितपीतलम्

आदाय करिहस्ताग्रसदृशे प्राणविग्रहे ॥४३॥

निःसृत्य झटिति स्वात्मवाममार्गेण संविशेत्

आप्याययन्नपानाख्यचन्द्रचक्रहृदम्बुजे ॥४४॥

स्थितं तद्देवताचक्रं तेन सारेण तर्पयेत्

अनेन विधिना सर्वान्रसरक्तादिकांस्तथा ॥४५॥

धातून्समाहरेत्संघक्रमादेकैकशोऽथवा

केवलं त्वथवाग्नीन्दुरविसंघट्टमध्यगम् ॥४६॥

ज्योतीरूपमथ प्राणशक्त्याख्यं जीवमाहरेत्

जीवं समरसीकुर्याद्देवीचक्रेण भावनात् ॥४७॥

तदेव तर्पणं मुख्यं भोग्यभोक्त्रात्मतैव सा

अग्निसंपुटफुल्लार्णत्र्यश्रकालात्मको महान् ॥४८॥

पिण्डो रक्तादिसारौघचालनाकर्षणादिषु

इत्थं विश्रान्तियोगेन घटिकार्धक्रमे सति ॥४९॥

आवृत्तिशतयोगेन पशोर्निर्वापणं भवेत्

कृत्वा कतिपयं कालं तत्राभ्यासमनन्यधीः ॥५०॥

यथा चिन्तामणौ प्रोक्तं तेन रूपेण योगवित्

निःशङ्कः सिद्धिमाप्नोति गोप्यं तत्प्राणवत्स्फुटम् ॥५१॥

परोक्षेऽपि पशावेवं विधिः स्याद्योजनं प्रति

प्रवेशितो यागभुवि हतस्तत्रैव साधितः ॥५२॥

चक्रजुष्टश्च तत्रैव वीरपशुरुच्यते

यस्त्वन्यत्रापि निहतः सामस्त्येनांशतो ̕पिवा ॥५३॥

देवाय विनिवेद्येत वै बाह्यपशुर्मतः

राज्यं लाभोऽथ तत्स्थैर्यं शिवे भक्तिस्तदात्मता ॥५४॥

शिवज्ञानं मन्त्रलोकप्राप्तिस्तत्परिवारता

तत्सायुज्यं पशोः साम्याद्बाह्यादेर्वीरधर्मणः ॥५५॥

पुष्पादयोऽपि तल्लाभभागिनः शिवपूजया

एकोपायेन देवेशो विश्वानुग्रहणात्मकः ॥५६॥

यागेनैवानुगृह्णाति किं किं यन्न चराचरम्

तेनावीरोऽपि शङ्कादियुक्तः कारुणिकोऽपिच ॥५७॥

हिंसाबुद्धिमादध्यात्पशुकर्मणि जातुचित्

पशोर्महोपकारोऽयं तदात्वेऽप्यप्रियं भवेत् ॥५८॥

व्याधिच्छेदौषधतपोयोजनात्र निदर्शनम्

श्रीमन्मृत्युञ्जये प्रोक्तं पाशच्छेदे कृते पशोः ॥५९॥

मलत्रयवियोगेन शरीरं प्ररोहति

धर्माधर्मौघविच्छेदाच्छरीरं च्यचते किल ॥६०॥

तेनैतन्मारणं नोक्तं दीक्षेयं चित्ररूपिणी

रूढपाशस्य यः प्राणैर्वियोगो मारणं हि तत् ॥६१॥

इयं तु योजनैव स्यात्पशोर्देवाय तर्पणे

तस्माद्देवोक्तिमाश्रित्य पशून्दद्याद्बहूनिति ॥६२॥

निवेदितः पुनःप्राप्तदेहो भूयोनिवेदितः

षट्कृत्व इत्थं यः सो ̕त्र षड्जन्मा पशुरुत्तमः ॥६३॥

यथा पाकक्रमाच्छुद्धं हेम तद्वत्स कीर्तितः

कां सिद्धिं नैव वितरेत्स्वयं किंवा मुच्यते ॥६४॥

उक्तं त्वानन्दशास्त्रे यो मन्त्रसंस्कारवांस्त्यजेत्

समयान्कुत्सयेद्देवीर्दद्यान्मन्त्रान्विना नयात् ॥६५॥

दीक्षामन्त्रादिकं प्राप्य त्यजेत्पुत्रादिमोहितः

ततो मनुष्यतामेत्य पुनरेवं करोत्यपि ॥६६॥

इत्थमेकादिसप्तान्तजन्मासौ द्विविधो द्विपात्

चतुष्पाद्वा पशुर्देवीचरुकार्थं प्रजायते ॥६७॥

दात्रर्पितोऽसौ तद्द्वारा याति सायुज्यतः शिवम्

इति संभाव्य चित्रं तत्पशूनां प्रविचेष्टितम् ॥६८॥

भोग्यीचिकीर्षितं नैव कुर्यादन्यत्र तं पशुम्

नापि नैष भवेद्योग्य इति बुद्ध्वापसारयेत् ॥६९॥

तं पशुं किंतु काङ्क्षा चेद्विशेषे तं तु ढौकयेत्

तावतस्तान्पशून्दद्यात्तथाचोक्तं महेशिना ॥७०॥

पशोर्वपामेदसी गालिते वह्निमध्यतः

अर्पयेच्छक्तिचक्राय परमं तर्पणं मतम् ॥७१॥

हृदन्त्रमुण्डांसयकृत्प्रधानं विनिवेदयेत्

कर्णिकाकुण्डलीमज्जपर्शु मुख्यतरं वा ॥७२॥

ततोऽग्नौ तर्पणं कुर्यान्मन्त्रचक्रस्य दैशिकः

तन्निवेद्य देवाय ततो विज्ञापयेत्प्रभुम् ॥७३॥

गुरुत्वेन त्वयैवाहमाज्ञातः परमेश्वर

साक्षात्स्वप्नोपदेशाद्यैर्जपैर्गुरुमुखेन वा ॥७४॥

अनुग्राह्यास्त्वया शिष्याः शिवशक्तिप्रचोदिताः

तदेते तद्विधाः प्राप्तास्त्वमेभ्यः कुर्वनुग्रहम् ॥७५॥

समावेशय मां स्वात्मरश्मिभिर्यदहं शिवः

एवं भवत्विति ततः शिवोक्तिमभिनन्दयेत् ॥७६॥

शिवाभिन्नमथात्मानं पञ्चकृत्यकरं स्मरेत्

स्वात्मनः करणं मन्त्रान्मूर्तिं चानुजिघृक्षया ॥७७॥

ततो बद्ध्वा सितोष्णीषं हस्तयोरर्चयेत्क्रमात्

अन्योन्यं पाशदाहाय शुद्धतत्त्वविसृष्टये ॥७८॥

तेजोरूपेण मन्त्रांश्च शिवहस्ते समर्चयेत्

गर्भावरणगानङ्गपरिवारासनोज्झितान् ॥७९॥

आत्मानं भावयेत्पश्चादेककं जलचन्द्रवत्

कृत्योपाधिवशाद्भिन्नं षोढाभिन्नं तु वस्तुतः ॥८०॥

मण्डलस्थोऽहमेवायं साक्षी चाखिलकर्मणाम्

शुद्धा हि द्रष्टृता शम्भोर्मण्डले कल्पिता मया ॥८१॥

होमाधिकरणत्वेन वह्नावहमवस्थितः

यदात्मतेद्धा मन्त्राः स्युः पाशप्लोषविधावलम् ॥८२॥

सामान्यतेजोरूपान्तराहूता भुवनेश्वराः

तर्पिताः श्राविताश्चाणोर्नाधिकारं प्रतन्वते ॥८३॥

यागान्तमहं कुम्भे संस्थितो विघ्नशान्तये

सामान्यरूपता येन विशेषाप्यायकारिणी ॥८४॥

शिष्यदेहे तत्पाशशिथिलत्वप्रसिद्धये

हि स्वेच्छावशात्पाशान्विधुन्वन्निव वर्तते ॥८५॥

साक्षात्स्वदेहसंस्थोऽहं कर्तानुग्रहकर्मणाम्

ज्ञानक्रियास्वतन्त्रत्वाद्दीक्षाकर्मणि पेशलः ॥८६॥

भिन्नकार्याकृतिव्रातेन्द्रियचक्रानुसन्धिमान्

एको यथाहं वह्न्यादिषड्रूपो ̕स्मि तथा स्फुटम् ॥८७॥

एवमालोच्य येनैषो ̕ध्वना दीक्षां चिकीर्षति

अनुसंहितये शिष्यवर्जं पञ्चसु तं यजेत् ॥८८॥

अनुसन्धिबलान्ते समासव्यासभेदतः

कुर्यादत्यन्तमभ्यस्तमन्यान्तर्भावपूरितम् ॥८९॥

ततो ̕पि चिन्तया भूयोऽनुसन्दध्याच्छिवात्मताम्

अहमेव परं तत्त्वं नच पद्धटवत् क्वचित् ॥९०॥

महाप्रकाशस्तत्तेन मयि सर्वमिदं जगत्

नच तत्केनचिद्बाह्यप्रतिबिम्बवदर्पितम् ॥९१॥

कर्ताहमस्य तन्नान्याधीनं मदधिष्ठितम्

इत्थंभूतमहाव्याप्तिसंवेदनपवित्रितः ॥९२॥

मत्समत्वं गतो जन्तुर्मुक्त इत्यभिधीयते

तापनिर्घर्षसेकादिपारम्पर्येण वह्निताम् ॥९३॥

यथायोगोलको याति गुरुरेवं शिवात्मताम्

ततः पुरःस्थितं यद्वा पुरोभावितविग्रहम् ॥९४॥

परोक्षदीक्षणे यद्वा दर्भाद्यैः कल्पिते मृते

शिष्ये वीक्ष्यार्च्य पुष्पाद्यैर्न्यसेदध्वानमस्य तम् ॥९५॥

येनाध्वना मुख्यतया दीक्षामिच्छति दैशिकः

तं देहे न्यस्य तत्रान्तर्भाव्यमन्यदिति स्थितिः ॥९६॥

शोध्याध्वनि विन्यस्ते तत्रैव परिशोधकम्

न्यसेद्यथेप्सितं मन्त्रं शोध्यौचित्यानुसारतः ॥९७॥

क्वचिच्छोध्यं त्वविन्यस्य शोधकन्यासमात्रतः

स्वयं शुद्ध्यति संशोध्यं शोधकस्य प्रभावतः ॥९८॥

अपरं परापरं परं विधिमिच्छया

तद्योजनानुसारेण श्रित्वा न्यासः षडध्वनः ॥९९॥

ललाटान्तं वेदवसौ रन्ध्रान्तं रसरन्ध्रके

वसुखेन्दौ द्वादशान्तमित्येष त्रिविधो विधिः ॥१००॥

क्रमेण कथ्यते दृष्टः शास्त्रे श्रीपूर्वसंज्ञिते

तत्र तत्त्वेषु विन्यासो गुल्फान्ते चतुरङ्गुले ॥१०१॥

धरा जलादिमूलान्तं प्रत्येकं द्व्यङ्गुलं क्रमात्

रसश्रुत्यङ्गुलं नाभेरूर्ध्वमित्थं षडङ्गुले ॥१०२॥

पुंसः कलान्तं षट्तत्त्वीं प्रत्येकं त्र्यङ्गुले क्षिपेत्

अष्टादशाङ्गुलं त्वेवं कण्ठकूपावसानकम् ॥१०३॥

सदाशिवान्तं मायादिचतुष्कं चतुरङ्गुले

प्रत्येकमित्यब्धिवसुसंख्यमालिकदेशतः ॥१०४॥

शिवतत्त्वं ततः पश्चात्तेजोरूपमनाकुलम्

सर्वेषां व्यापकत्वेन सबाह्याभ्यन्तरं स्मरेत् ॥१०५॥

जलाद्ध्यन्तं सार्धयुग्मं मूलं त्र्यङ्गुलमित्यतः

द्वादशाङ्गुलताधिक्याद्विधिरेष परापरः ॥१०६॥

जलाद्ध्यन्तं त्र्यङ्गुले चेदव्यक्तं तु चतुष्टये

तच्चतुर्विंशत्याधिक्यात्परोऽप्यष्टशते विधिः ॥१०७॥

त्रिविधोन्मानकं व्यक्तं वसुदिग्भ्यो रविक्षयात्

मयतन्त्रे तथाचोक्तं तत्तत्स्वफलवाञ्छया ॥१०८॥

नवपञ्चचतुस्त्र्येकतत्त्वन्यासे स्वयं धिया

न्यासं प्रकल्पयेत्तावत्तत्त्वान्तर्भावचिन्तनात् ॥१०९॥

कलापञ्चकवेदाण्डन्यासोऽनेनैव लक्षितः

उक्तं त्रिशिरस्तन्त्रे स्वाधारस्थं यथास्थितम् ॥११०॥

द्वादशाङ्गुलमुत्थानं देहातीतं समं ततः

द्वासप्ततिर्दश द्वे देहस्थं शिरसोऽन्ततः ॥१११॥

पादादारभ्य सुश्रोणि अनाहतपदावधि

देहातीते ̕पि विश्रान्त्या संवित्तेः कल्पनावशात् ॥११२॥

देहत्वमिति तस्मात्स्यादुत्थानं द्वादशाङ्गुलम्

इति निर्णेतुमत्रैतदुक्तमष्टोत्तरं शतम् ॥११३॥

पुरन्यासोऽथ गुल्फान्तं भूः पुराण्यत्र षोडश

तस्मादेकाङ्गुलव्याप्त्या प्रत्येकं लकुलादितः ॥११४॥

द्विरण्डान्तं त्र्यङ्गुलं तु च्छगलाण्डमथाब्धिषु

देवयोगाष्टके द्वे हि प्रत्येकाङ्गुलपादतः ॥११५॥

इति प्रधानपर्यन्तं षट्चत्वारिंशदङ्गुलम्

षट्पञ्चाशत्पुराणीत्थं प्राग्धरायां तु षोडश ॥११६॥

ततोऽप्यर्धाङ्गुलव्याप्त्या षट्पुराण्यङ्गुलत्रये

चत्वारि युग्म एकस्मिन्नेकं पुरमङ्गुले ॥११७॥

सरागे पुंस्पुराणीशसंख्यानीत्थं षडङ्गुले

क्रोधेशपुरमेकस्मिन्द्वये चाण्डमियं वित् ॥११८॥

संवर्तज्योतिषोरेवं कलातत्त्वगयोः क्रमात्

शूरपञ्चान्तपुरयोर्नियतौ चैकयुग्मता ॥११९॥

श्रीपूर्वशास्त्रे तच्चोक्तं परमेशेन शंभुना

उत्तरादिक्रमादद्व्येकभेदो विद्यादिके त्रये ॥१२०॥

असारत्वात्क्रमस्यादौ नियतिः परतः कला

अथवान्योन्यसंज्ञाभ्यां तत्त्वयोर्व्यपदेश्यता ॥१२१॥

एकवीरशिखेशश्रीकण्ठाः काले त्रयस्त्रये

कालस्य पूर्वं विन्यासो नियतेरभिधीयते ॥१२२॥

अथवान्योन्यसंज्ञाभिर्व्यपदेशो हि दृश्यते

एवं पुमादिषट्तत्त्वी विन्यस्ताष्टादशाङ्गुले ॥१२३॥

ततो ̕प्यङ्गुष्ठमात्रान्तं मायातत्त्वस्थमष्टकम्

प्रत्येकमर्धाङ्गुलतः स्यादङ्गुलचतुष्टये ॥१२४॥

इत्थं द्व्यक्ष्णि पुराण्यष्टाविंशतिः पुरुषान्निशि

पुरत्रयं द्वयोस्त्र्यंशन्यूनाङ्गुलमिति क्रमात् ॥१२५॥

द्वयोर्द्वयं पञ्चपुरी वैद्यीये चतुरङ्गुले

तत ऐशपुराण्यष्टौ चतुष्केऽर्धाङ्गुलक्रमात् ॥१२६॥

ततस्त्रीणि द्वये द्वे द्वयोरित्थं चतुष्टये

सादाशिवं पञ्चकं स्यादित्थं वस्वेककं रवौ ॥१२७॥

षोडशकं रसविशिखं वसुद्विकं वसुशशीति पुरवर्गाः

वेदा रसाब्धि युग्माक्षि रवयस्तत्र चाङ्गुलाः क्रमशः ॥१२८॥

अष्टादशाधिकशतं पुराणि देहेऽत्र चतुरशीतिमिते

विन्यस्तानि तदित्थं शेषे तु व्यापकं शिवं तत्त्वम् ॥१२९॥

इति विधिरपरः कथितः परापराख्यो रसश्रुतिस्थाने

अष्टशरं संख्यानं खमुनिकृतं तत्परे विधौ ज्ञेयम् ॥१३०॥

लकुलादेर्योगाष्टकपर्यन्तस्यात्र भुवनपूगस्य

अधिकीकुर्याद्गणनावशेन भागं विधिद्वये क्रमशः ॥१३१॥

अपरादिविधित्रैतादथ न्यासः पदाध्वनः

पूर्वं दशपदी चोक्ता स्वतन्त्रा न्यस्यते यदा ॥१३२॥

तयैव दीक्षा कार्या चेत्तदेयं न्यासकल्पना

तत्त्वादिमुख्यतायोगाद्दीक्षायां तु पदावली ॥१३३॥

तत्तत्त्वाद्यनुसारेण तत्रान्तर्भाव्यते तथा

स्वप्रधानत्वयोगे तु दीक्षायां पदपद्धतिम् ॥१३४॥

न्यस्येत्क्रमेण तत्त्वादिवदनानवलोकिनीम्

चतुर्ष्वष्टासु चाष्टासु दशस्वथ दशस्वथ ॥१३५॥

दशस्वथो पञ्चदशस्वथ वेदशरेन्दुषु

धरापदान्नवपदीं मातृकामालिनीगताम् ॥१३६॥

योजयेद्व्याप्तृ दशमं पदं तु शिवसंज्ञितम्

धरापदं वर्जयित्वा पञ्च यानि पदानि तु ॥१३७॥

विधिद्वयं स्यान्निक्षिप्य द्वादश द्वादशाङ्गुलान्

मन्त्राध्वनो ̕प्येष एव विधिर्विन्यासयोजने ॥१३८॥

व्याप्तिमात्रं हि भिद्येतेत्युक्तं प्रागेव तत्तथा

वर्णाध्वनोऽथ विन्यासः कथ्यतेऽत्र विधित्रये ॥१३९॥

एकं चतुर्षु प्रत्येकं द्वयोरङ्गुलयोः क्रमात्

त्रयोविंशतिवर्णी स्यात् षड्वर्ण्येकैकशस्त्रिषु ॥१४०॥

प्रत्येकमथ चत्वारश्चतुर्ष्विति विलोमतः

मालिनीमातृकार्णाः स्युर्व्याप्तृ शैवं रसेन्दुतः ॥१४१॥

वर्जयित्वाद्यवर्णं तु तत्त्ववत्स्याद्रवीन्नवीन्

तां त्रयोविंशतौ वर्णेष्वप्यन्यत्स्याद्विधिद्वयम् ॥१४२॥

श्रीपूर्वशास्त्रे तेनादौ तत्त्वेषूक्तं विधित्रयम्

अतिदिष्टं तु तद्भिन्नाभिन्नवर्णद्वये समम् ॥१४३॥

द्विविधोऽपि हि वर्णानां षड्विधो भेद उच्यते

तत्त्वमार्गविधानेन ज्ञातव्यः परमार्थतः ॥१४४॥

उपदेशातिदेशाभ्यां यदुक्तं तत्पदादिषु

भूयो ̕तिदिष्टं तत्रैव शास्त्रेऽस्मद्धृदयेश्वरे ॥१४५॥

पदमन्त्रकलादीनां पूर्वसूत्रानुसारतः

त्रितयत्वं प्रकुर्वीत तत्त्ववर्णोक्तवर्त्मना ॥१४६॥

उक्तं तत्पदमन्त्रेषु कलास्वथ निरूप्यते

चतुर्षु रसवेदे द्वाविंशतौ द्वादशस्वथ ॥१४७॥

निवृत्त्याद्याश्चतस्रः स्युर्व्याप्त्री स्याच्छान्त्यतीतिका

द्वितीयस्यां कलायां तु द्वादश द्वादशाङ्गुलान् ॥१४८॥

क्रमात्क्षिप्त्वा विधिद्वैतं परापरपरात्मकम्

चतुरण्डविधिस्त्वादिशब्देनेह प्रगृह्यते ॥१४९॥

कलाचतुष्कवत्तेन तस्मिन्वाच्यं विधित्रयम्

एवं षड्विधमध्वानं शोध्यशिष्यतनौ पुरा ॥१५०॥

न्यस्यैकतममुख्यत्वान्न्यस्येच्छोधकसंमतम्।

अध्वन्यासनमन्त्रौघः शोधको ह्येक आदितः ॥१५१॥

शब्दराशिर्मालिनी समस्तव्यस्ततो द्विधा

एकवीरतया यद्वा षट्कं यामलयोगतः ॥१५२॥

पञ्चवक्त्री शक्तितद्वद्भेदात्षोढा पुनर्द्विधा

एकाकियामलत्वेनेत्येवं सा द्वादशात्मिका ॥१५३॥

षडङ्गी सकलान्यत्वाद्द्विविधा वक्त्रवत्पुनः

द्वादशत्वेन गुणिता चतुर्विंशतिभेदिका ॥१५४॥

अघोराद्यष्टके द्वे तृतीयं यामलोदयात्

मातृसद्भावमन्त्रश्च केवलः श्रुतिचक्रगः ॥१५५॥

एकद्वित्रिचतुर्भेदात्त्रयोदशभिदात्मकः

एकवीरतया सो ̕यं चतुर्दशतया स्थितः ॥१५६॥

अनामसंहृतिस्थैर्यसृष्टिचक्रं चतुर्विधम्

देवताभिर्निजाभिस्तन्मातृसद्भाववृंहितम् ॥१५७॥

इत्थं शोधकवर्गोऽयं मन्त्राणां सप्ततिः स्मृता

षडर्धशास्त्रेषु श्रीमत्सारशास्त्रे कथ्यते ॥१५८॥

अघोराद्यष्टकेनेह शोधनीयं विपश्चिता

अथवैकाक्षरामन्त्रैरथवा मातृकाक्रमात् ॥१५९॥

भैरवीयहृदा वापि खेचरीहृदयेन वा

भैरवेण महादेवि त्वथ वक्त्राङ्गपञ्चकैः ॥१६०॥

येन येन हि मन्त्रेण तन्त्रे ̕स्मिन्नुद्भवः कृतः

तेनैव दीक्षयेन्मन्त्री इत्याज्ञा पारमेश्वरी ॥१६१॥

एवं शोधकभेदेन सप्ततिः कीर्तिता भिदः

शोध्यन्यासं विना मन्त्रैरेतैर्दीक्षा यदा भवेत् ॥१६२॥

तदा सप्ततिधा ज्ञेया जननादिविवर्जिता

शोध्यभेदोऽथ वक्तव्यः संक्षेपात्सो ̕पि कथ्यते ॥१६३॥

एकत्रिपञ्चषट्त्रिंशद्भेदात्तात्त्वश्चतुर्विधः

पञ्चैकभेदाच्चाध्वानस्तथैवाण्डचतुष्टयम् ॥१६४॥

एवं दशविधं शोध्यं त्रिंशद्धा तद्विधित्रयात्

शोध्यशोधकभेदेन शतानि त्वेकविंशतिः ॥१६५॥

अत्रापि न्यासयोगेन शोध्येऽध्वनि तथाकृतेः

शतैकविंशतिभिदा जननाद्युज्झिता भवेत् ॥१६६॥

जननादिमयी तावत्येवं शतदृशि श्रुतिः

स्यात्सप्तत्यधिका सापि द्रव्यविज्ञानभेदतः ॥१६७॥

द्विधेति पञ्चाशीतिः स्याच्छतान्यधिकखाब्धिका

भोगमोक्षानुसन्धानाद्द्विविधा सा प्रकीर्तिता ॥१६८॥

अशुभस्यैव संशुद्ध्या शुभस्याप्यथ शोधनात्

द्विधा भोगः शुभे शुद्धिः कालत्रयविभेदिनि ॥१६९॥

एकद्विसामस्त्यवशात्सप्तधेत्यष्टधा भुजिः

गुरुशिष्यक्रमात्सोऽपि द्विधेत्येवं विभिद्यते ॥१७०॥

प्रत्यक्षदीक्षणे यस्माद्द्वयोरेकानुसन्धितः

तादृग्दीक्षाफलं पूर्णं विसंवादे तु विप्लवः ॥१७१॥

परोक्षमृतदीक्षादौ गुरुरेवानुसन्धिमान्

क्रियाज्ञानमहिम्ना तं शिष्यं धाम्नीप्सिते नयेत् ॥१७२॥

अविभिन्ने क्रियाज्ञाने कर्मशुद्धौ तथैव ते

अनुसन्धिः पुनर्भिन्नः कर्म यस्मात्तदात्मकम् ॥१७३॥

श्रीमत्स्वच्छन्दशास्त्रे वासनाभेदतः फलम्

शिष्याणां गुरोश्चोक्तमभिन्नेऽपि क्रियादिके ॥१७४॥

भोगस्य शोधकाच्छोध्यादनुसन्धेश्च तादृशात्

वैचित्र्यमस्ति भेदस्य वैचित्र्यप्राणता यतः ॥१७५॥

तथाहि वक्त्रैर्यस्याध्वा शुद्धस्तैरेव योजितः

भोक्तुमिष्टे क्वचित्तत्त्वे भोक्ता तद्बलान्वितः ॥१७६॥

शुभानां कर्मणां चात्र सद्भावे भोगचित्रता

तादृगेव भवेत्कर्मशुद्धौ त्वन्यैव चित्रता ॥१७७॥

भोगश्च सद्य उत्क्रान्त्या देहेनैवाथ संगतः

तदैवाभ्यासतो वापि देहान्ते वेत्यसौ चतुः ॥१७८॥

प्राक्तनाष्टभिदा योगाद्द्वात्रिंशद्भेद उच्यते

मोक्ष एको ̕पि बीजस्य समयाख्यस्य तादृशम् ॥१७९॥

बालादिकं ज्ञातशीघ्रमरणं शक्तिवर्जितम्

वृद्धं वोद्दिश्य शक्तं वा शोधनाशोधनाद्द्विधा ॥१८०॥

सद्य उत्क्रान्तितस्त्रैधं सा चासन्नमृतौ गुरोः

कार्येत्याज्ञा महेशस्य श्रीमद्गह्वरभाषिता ॥१८१॥

दृष्ट्वा शिष्यं जराग्रस्तं व्याधिना परिपीडितम्

उत्क्रमय्य ततस्त्वेनं परतत्त्वे नियोजयेत् ॥१८२॥

पञ्चत्रिंशदमी भेदा गुरोर्वा गुरुशिष्ययोः

उक्तद्वैविध्यकलनात्सप्ततिः परिकीर्तिताः ॥१८३॥

एतैर्भेदैः पुरोक्तांस्तान्भेदान्दीक्षागतान्गुरुः

हत्वा वदेत्प्रसंख्यानं स्वभ्यस्तज्ञानसिद्धये ॥१८४॥

पञ्चाशीतिशती या चत्वारिंशत्समुत्तरा कथिता

तां सप्तत्या भित्त्वा दीक्षाभेदान्स्वयं कलयेत् ॥१८५॥

पञ्चकमिह लक्षाणां सप्तनवतिः सहस्रपरिसंख्या

अष्टौ शतानि दीक्षाभेदोऽयं मालिनीतन्त्रे ॥१८६॥

सप्ततिधा शोद्धृगणस्त्रिंशद्धा शोध्य एकतत्त्वादिः

साण्डः षडध्वरूपस्तथेतिकर्तव्यता चतुर्भेदा ॥१८७॥

द्रव्यज्ञानमयी सा जननादिविवर्जिताथ तद्युक्ता

पञ्चत्रिंशद्धा पुनरेषा भोगापवर्गसन्धानात् ॥१८८॥

यस्माद्द्वात्रिंशद्धा भोगः शुभशुद्ध्यशुद्धिकालभिदा

मोक्षस्त्रेधा द्विगुणा सप्ततिरितिकार्यताभेदाः ॥१८९॥

शोधनशोध्यविभेदादितिकर्तव्यत्वभेदतश्चैषा

दीक्षा बहुधा भिन्ना शोध्यविहीना तु सप्ततिधा ॥१९०॥

मन्त्राणां सकलेतरसाङ्गनिरङ्गादिभेदसंकलनात्

श्योध्यस्य तत्त्वादेः पञ्चदशाद्युक्तभेदपरिगणनात् ॥१९१॥

भेदानां परिगणना शक्यते कर्तुमित्यसंकीर्णाः

भेदाः संकीर्णाः पुनरन्ये भूयस्त्वकारिणो बहुधा ॥१९२॥

शोधकशोध्यादीनां द्वित्रादिविभेदसद्भावात्

भोगे साध्ये यद्यद्बहु कर्तव्यं तदाश्रयेन्मतिमान् ॥१९३॥

कारणभूयस्त्वं किल फलभूयस्त्वाय किं चित्रम्

अपवर्गे नतु भेदस्तेनास्मिन्वासनादृढत्वजुषा ॥१९४॥

अल्पाप्याश्रयणीया क्रियाथ विज्ञानमात्रे वा

अभिनवगुप्तगुरुः पुनराह हि सति वित्तदेशकालादौ ॥१९५॥

अपवर्गे ̕पि हि विस्तीर्णकर्मविज्ञानसंग्रहः कार्यः

चिद्वृत्तेर्वैचित्र्याच्चाञ्चल्येऽपि क्रमेण सन्धानात् ॥१९६॥

तस्मिंस्तस्मिन्वस्तुनि रूढिरवश्यं शिवात्मिका भवति

तत्त्वमिदमेतदात्मकमेतस्मात्प्रोद्धृतो मया शिष्यः ॥१९७॥

इत्थं क्रमसंवित्तौ मूढोऽपि शिवात्मको भवति

क्रमिकतथाविधशिवतानुग्रहसुभगं दैशिकं पश्यन् ॥१९८॥

शिशुरपि तदभेददृशा भक्तिबलाच्चाभ्युपैति शिवभावम्

यद्यपि विकल्पवृत्तेरपि मोक्षं दीक्षयैव देहान्ते ॥१९९॥

शास्त्रे प्रोवाच विभुस्तथापि दृढवासना युक्ता

मोक्षे ̕प्यस्ति विशेषः क्रियाल्पभूयस्त्वजः सलोकादिः ॥२००॥

इति केचित्तदयुक्तं विचित्रो भोग एव कथितः स्यात्

संस्कारशेषवर्तनजीवितमध्ये ̕स्य समयलोपाद्यम् ॥२०१॥

नायाति विघ्नजालं क्रियाबहुत्वं मुमुक्षोस्तत्

यस्मात् सबीजदीक्षासंस्कृतपुरुषस्य समयलोपाद्ये ॥२०२॥

भुक्ते भोगान्मोक्षो नैवं निर्बीजदीक्षायाम्

इति केचिन्मन्यन्ते युक्तं तच्चापि यत्स्मृतं शास्त्रे ॥२०३॥

समयोल्लङ्घनाद्देवि क्रव्यादत्वं शतं समाः ॥२०४॥

तस्मादुरुशिष्यमतौ शिवभावनिरूढिवितरणसमर्थम्

क्रमिकं तत्त्वोद्धरणादि कर्म मोक्षेऽपि युक्तमतिविततम् ॥२०५॥

यस्तु सदा भावनया स्वभ्यस्तज्ञानवान्गुरुः शिशोः

अपवर्गाय यथेच्छं यं कंचिदुपायमनुतिष्ठेत् ॥२०६॥

एवं शिष्यतनौ शोध्यं न्यस्याध्वानं यथेप्सितम्

शोधकं मन्त्रमुपरि न्यस्येत्तत्त्वानुसारतः ॥२०७॥

द्वयोर्मातृकयोस्तत्त्वस्थित्या वर्णक्रमः पुरा

कथितस्तं तथा न्यस्येत्तत्तत्तत्त्वविशुद्धये ॥२०८॥

वर्णाध्वा यद्यपि प्रोक्तः शोध्यः पाशात्मकस्तु सः

मायीयः शोधकस्त्वन्यः शिवात्मा परवाङ्मयः ॥२०९॥

उवाच सद्योज्योतिश्च वृत्तौ स्वायम्भुवस्य तत्

बाढमेको हि पाशात्मा शब्दोऽन्यश्च शिवात्मकः ॥२१०॥

तस्मात्तस्यैव वर्णस्य युक्ता शोधकशोध्यता

श्रीपूर्वशास्त्रे चाप्युक्तं ते तैरालिङ्गिता इति ॥२११॥

सद्योजातादिवक्त्राणि हृदाद्यङ्गानि पञ्च

षट्कृत्वो न्यस्य षट्त्रिंशन्न्यासं कुर्याद्धरादितः ॥२१२॥

परापराया वैलोम्याद्धरायां स्यात्पदत्रयम्

ततो जलादहङ्कारे पञ्चाष्टकसमाश्रयात् ॥२१३॥

पदानि पञ्च धीमूलपुंरागाख्ये त्रये त्रयम्

एकं त्वशुद्धवित्कालद्वये चैकं नियामके ॥२१४॥

कलामायाद्वये चैकं पदमुक्तमिह क्रमात्

विद्येश्वरसदाशक्तिशिवेषु पदपञ्चकम् ॥२१५॥

एकोनविंशतिः सेयं पदानां स्यात्परापरा

सार्धं चैकं चैकं सार्धं द्वे द्वे शशी दृगथ युग्मम् ॥२१६॥

त्राणि दृगब्धिश्चन्द्रः श्रुतिः शशी पञ्च विधुमहश्चन्द्राः

एकान्नविंशतौ स्यादक्षरसंख्या पदेष्वियं देव्याः ॥२१७॥

हल्द्वययुतवसुचित्रगुपरिसंख्यातस्ववर्णायाः

मूलान्तं सार्धवर्णं स्यान्मायान्तं वर्णमेककम् ॥२१८॥

शक्त्यन्तमेकमपरान्यासे विधिरुदीरितः

मायान्तं हल्ततः शक्तिपर्यन्ते स्वर उच्यते ॥२१९॥

निष्कले शिवतत्त्वे वै परो न्यासः परोदितः

परापरापदान्येव ह्यघोर्याद्यष्टकद्वये ॥२२०॥

मन्त्रास्तदनुसारेण तत्त्वेष्वेतद्द्वयं क्षिपेत्

पिण्डाक्षराणां सर्वेषां वर्णसंख्या विभेदतः ॥२२१॥

अव्यक्तान्तं स्वरे न्यस्या शेषं शेषेषु योजयेत्

बीजानि सर्वतत्त्वेषु व्याप्तृत्वेन प्रकल्पयेत् ॥२२२॥

पिण्डानां बीजवन्न्यासमन्ये तु प्रतिपेदिरे

अकृते वाथ शोध्यस्य न्यासे वस्तुबलात् स्थितेः ॥२२३॥

शोधकन्यासमात्रेण सर्वं शोध्यं विशुध्यति

श्रीमन्मृत्युञ्जयादौ कथितं परमेष्ठिना ॥२२४॥

अधुना न्यासमात्रेण भूतशुद्धिः प्रजायते

देहशुद्ध्यर्थमप्येतत्तुल्यमेतेन वस्तुतः ॥२२५॥

अन्यप्रकरणोक्तं यद्युक्तं प्रकरणान्तरे

ज्ञापकत्वेन साक्षाद्वा तत्किं नान्यत्र गृह्यते ॥२२६॥

मालिनीमातृकाङ्गस्य न्यासो योऽर्चाविधौ पुरा

प्रोक्तः केवलसंशोद्धृमन्त्रन्यासे एव तु ॥२२७॥

त्रिपदी द्वयोर्द्वयोः स्यात्प्रत्येकमथाष्टसु श्रुतिपदानि

दिक्चन्द्रचन्द्ररसरविशरशरदृग्दृङ्मृगाङ्कशशिगणने ॥२२८॥

अङ्गुलमाने देव्या अष्टादश वैभवेन पदमन्यत्

अपरं मानमिदं स्यात् केवलशोधकमनुन्यासे ॥२२९॥

तुर्यपदात्पदषट्के मानद्वितयं परापरपराख्यम्

द्वादशकं द्वादशकं तत्त्वोपरि पूर्ववत्त्वन्यत् ॥२३०॥

केवलशोधकमन्त्रन्यासाभिप्रायतो महादेवः

तत्त्वक्रमोदितमपि न्यासं पुनराह तद्विरुद्धमपि ॥२३१॥

निष्कले पदमेकार्णं यावत्त्रीणि तु पार्थिवे

इत्यादिना तत्त्वगतक्रमन्यास उदीरितः ॥२३२॥

पुनश्च मालिनीतन्त्रे वर्गविद्याविभेदतः

द्विधा पदानीत्युक्त्वाख्यन्न्यासमन्यादृशं विभुः ॥२३३॥

एकैकं द्व्यङ्गुलं ज्ञेयं तत्र पूर्वं पदत्रयम्

अष्टाङ्गुलानि चत्वारि दशाङ्गुलमतः परम् ॥२३४॥

द्व्यङ्गुले द्वे पदे चान्ये षडङ्गुलमतः परम्

द्वादशाङ्गुलमन्यच्च द्वेऽन्ये पञ्चाङ्गुले पृथक् ॥२३५॥

पदद्वयं चतुष्पर्व तथान्ये द्वे द्विपर्वणी

एवं परापरादेव्याः स्वतन्त्रो न्यास उच्यते ॥२३६॥

विद्याद्वयं शिष्यतनौ व्याप्तृत्वेनैव योजयेत्

इति दर्शयितुं नास्य पृथङ्न्यासं न्यरूपयत् ॥२३७॥

एवं शोधकमन्त्रस्य न्यासे तद्रश्मियोगतः

पाशजालं विलीयेत तद्ध्यानबलतो गुरोः ॥२३८॥

शोध्यतत्त्वे समस्तानां योनीनां तुल्यकालतः

जननाद्भोगतः कर्मक्षये स्यादपवृक्तता ॥२३९॥

देहैस्तावद्भिरस्याणोश्चित्रं भोक्तुरपि स्फुटम्

मनोऽनुसन्धिर्नो विश्वसंयोगप्रविभागवत् ॥२४०॥

नियत्या मनसो देहमात्रे वृत्तिस्ततः परम्

नानुसन्धा यतः सैकस्वान्तयुक्ताक्षकल्पिता ॥२४१॥

प्रदेशवृत्ति ज्ञानमात्मनस्तत्र तत्र तत्

भोग्यज्ञानं नान्यदेहेष्वनुसन्धानमर्हति ॥२४२॥

यदा तु मनसस्तस्य देहवृत्तेरपि ध्रुवम्

योगमन्त्रक्रियादेः स्याद्वैमल्यं तद्विदा तदा ॥२४३॥

यथामलं मनो दूरस्थितमप्याशु पश्यति

तथा प्रत्ययदीक्षायां तत्तद्भुवनदर्शनम् ॥२४४॥

जननादिवियुक्तां तु यदा दीक्षां चिकीर्षति

तदास्मादुद्धरामीति युक्तमूहप्रकल्पनम् ॥२४५॥

यदा शोध्यं विना शोद्धृन्यासस्तत्रापि मन्त्रतः

जननादिक्रमं कुर्यात्तत्त्वसंश्लेषवर्जितम् ॥२४६॥

एकाकिशोद्धृन्यासे जननादिविवर्जने

तच्छोद्धृसंपुटं नाम केवलं परिकल्पयेत् ॥२४७॥

द्रव्ययोगेन दीक्षायां तिलाज्याक्षततण्डुलम्

तत्तन्मन्त्रेण जुहुयाज्जन्मयोगवियोगयोः ॥२४८॥

यदा विज्ञानदीक्षां तु कुर्याच्छिष्यं तदा भृशम्

तन्मन्त्रसंजल्पबलात् पश्येदा चाविकल्पकात् ॥२४९॥

विकल्पः किल संजल्पमयो यत्स विमर्शकः

मन्त्रात्मासौ विमर्शश्च शुद्धोऽपाशवतात्मकः ॥२५०॥

नित्यश्चानादिवरदशिवाभेदोपकल्पितः

तद्योगाद्दैशिकस्यापि विकल्पः शिवतां व्रजेत् ॥२५१॥

श्रीसारशास्त्रे तदिदं परमेशेन भाषितम्

अर्थस्य प्रतिपत्तिर्या ग्राह्यग्राहकरूपिणी ॥२५२॥

सा एव मन्त्रशक्तिस्तु वितता मन्त्रसन्ततौ

परामर्शस्वभावेत्थं मन्त्रशक्तिरुदाहृता ॥२५३॥

परामर्शो द्विधा शुद्धाशुद्धत्वान्मन्त्रभेदकः

उक्तं श्रीपौष्करेऽन्ये ब्रह्मविष्ण्वादयो ̕ण्डगाः ॥२५४॥

प्राधानिकाः साञ्जनास्ते सात्त्वराजसतामसाः

तैरशुद्धपरामर्शात्तन्मयीभावितो गुरुः ॥२५५॥

वैष्णवादिः पशुः प्रोक्तो योग्यः पतिशासने

ये मन्त्राः शुद्धमार्गस्थाः शिवभट्टारकादयः ॥२५६॥

श्रीमन्मतङ्गादिदृशा तन्मयो हि गुरुः शिवः

ननु स्वतन्त्रसंजल्पयोगादस्तु विमर्शिता ॥२५७॥

प्राक्कुतः विमर्शाच्चेत्कुतः सो ̕पि निरूपणे

आद्यस्तथाविकल्पत्वप्रदः स्यादुपदेष्टृतः ॥२५८॥

यः संक्रान्तो ̕भिजल्पः स्यात्तस्याप्यन्योपदेष्टृतः

पूर्वपूर्वक्रमादित्थं एवादिगुरोः पुरा ॥२५९॥

संजल्पो ह्यभिसंक्रान्तः सोऽद्याप्यस्तीति गृह्यताम्

यस्तथाविधसंजल्पबलात्कोऽपि स्वतन्त्रकः ॥२६०॥

विमर्शः कल्प्यते सो ̕पि तदात्मैव सुनिश्चितः

घटकुम्भ इतीत्थं वा यदि भेदो निरूप्यते ॥२६१॥

सोऽप्यन्यकल्पनादायी ह्यनादृत्यः प्रयत्नतः

पणायते करोतीति विकल्पस्योचितौ स्फुटम् ॥२६२॥

करपाण्यभिजल्पौ तौ संकीर्येतां कथं किल

शब्दाच्छब्दान्तरे तेन व्युत्पत्तिर्व्यवधानतः ॥२६३॥

व्यवहारात्तु सा साक्षाच्चित्रोपाख्याविमर्शिनी

तद्विमर्शोदयः प्राच्यस्वविमर्शमयः स्फुरेत् ॥२६४॥

यावद्बालस्य संवित्तिरकृत्रिमविमर्शने

तेन तन्मन्त्रशब्दार्थविशेषोत्थं विकल्पनम् ॥२६५॥

शब्दान्तरोत्थाद्भेदेन पश्यता मन्त्र आदृतः

यच्चापि बीजपिण्डादेरुक्तं प्राग्बोधरूपकम् ॥२६६॥

तत्तस्यैव कुतोऽन्यस्य तत्कस्मादन्यकल्पना

एतदर्थं गुरोर्यत्नाल्लक्षणे तत्र तत्र तत् ॥२६७॥

लक्षणं कथितं ह्येष मन्त्रतन्त्रविशारदः

तेन मन्त्रार्थसंबोधे मन्त्रवार्तिकमादरात् ॥२६८॥

ऊहापोहप्रयोगं वा सर्वथा गुरुराचरेत्

मन्त्रार्थविदभावे तु सर्वथा मन्त्रतन्मयम् ॥२६९॥

गुरुं कुर्यात् तदभ्यासात्तत्संकल्पमयो ह्यसौ

तत्समानाभिसंजल्पो यदा मन्त्रार्थभावनात् ॥२७०॥

गुरोर्भवेत्तदा सर्वसाम्ये को भेद उच्यताम्

अंशेनाप्यथ वैषम्ये ततो ̕र्थक्रिया हि सा ॥२७१॥

गोमयात्कीटतः कीट इत्येवं न्यायतो यदा

संजल्पान्तरतोऽप्यर्थक्रियां तामेव पश्यति ॥२७२॥

तदैष सत्यसंजल्पः शिव एवेति कथ्यते

यद्वक्ति तदेव स्यान्मन्त्रो भोगापवर्गदः ॥२७३॥

नैषो ̕भिनवगुप्तस्य पक्षो मन्त्रार्पितात्मनः

योऽर्थक्रियामाह भिन्नां कीटयोरपि तादृशोः ॥२७४॥

मन्त्रार्पितमनाः किंचिद्वदन्यत्तु विषं हरेत्

तन्मन्त्र एव शब्दः परं तत्र घटादिवत् ॥२७५॥

कान्तासंभोगसंजल्पसुन्दरः कामुकः सदा

तत्संस्कृतोऽप्यन्यदेष कुर्वन्स्वात्मनि तृप्यति ॥२७६॥

तथा तन्मन्त्रसंजल्पभावितो ̕न्यदपि ब्रुवन्

अनिच्छुरपि तद्रूपस्तथा कार्यकरो ध्रुवम् ॥२७७॥

विकल्पयन्नप्येकार्थं यतोऽन्यदपि पश्यति

विषापहारिमन्त्रादीत्युक्तं श्रीपूर्वशासने ॥२७८॥

यदि वा विषनाशेऽपि हेतुभेदाद्विचित्रता

धात्वाप्यायादिकानन्तकार्यभेदाद्भविष्यति ॥२७९॥

तदेवं मन्त्रसंजल्पविकल्पाभ्यासयोगतः

भाव्यवस्तुस्फुटीभावः संजल्पह्रासयोगतः ॥२८०॥

वस्त्वेव भावयत्येष संजल्पमिमं पुनः

गृह्णाति भासनोपायं भाते तत्र तु तेन किम् ॥२८१॥

एवं संजल्पनिर्ह्रासे सुपरिस्फुटतात्मकम्

अकृत्त्रिमविमर्शात्म स्फुरेद्वस्त्वविकल्पकम् ॥२८२॥

निर्विकल्पा सा संविद्यद्यथा पश्यति स्फुटम्

तत्तथैव तथात्मत्वाद्वस्तुनोऽपि बहिःस्थितेः ॥२८३॥

विशेषतस्त्वमायीयशिवताभेदशालिनः

मोक्षेऽभ्युपायः संजल्पो बन्धमोक्षौ ततः किल ॥२८४॥

विकल्पेऽपि गुरोः सम्यगभिन्नशिवताजुषः

अविकल्पकपर्यन्तप्रतीक्षा नोपयुज्यते ॥२८५॥

तद्विमर्शस्वभावा हि सा वाच्या मन्त्रदेवता

महासंवित्समासन्नेत्युक्तं श्रीगमशासने ॥२८६॥

निकटस्था यथा राज्ञामन्येषां साधयन्त्यलम्

सिद्धिं राजोपगां शीघ्रमेवं मन्त्रादयः पराम् ॥२८७॥

उक्ताभिप्रायगर्भं तदुक्तं श्रीमालिनीमते

मन्त्राणां लक्षणं कस्मादित्युक्ते मुनिभिः किल ॥२८८॥

योगमेकत्वमिच्छन्ति वस्तुनोऽन्येन वस्तुना

तद्वस्तु ज्ञेयमित्युक्तं हेयत्वादिप्रसिद्धये ॥२८९॥

तत्प्रसिद्ध्यै शिवेनोक्तं ज्ञानं यदुपवर्णितम्

सबीजयोगसंसिद्ध्यै मन्त्रलक्षणमप्यलम् ॥२९०॥

चाधिकारिता दीक्षां विना योगे ̕स्ति शाङ्करे

क्रियाज्ञानविभेदेन सा द्वेधा निगद्यते ॥२९१॥

द्विविधा सा प्रकर्तव्या तेन चैतदुदाहृतम्

नच योगाधिकारित्वमेकमेवानया भवेत् ॥२९२॥

अपि मन्त्राधिकारित्वं मुक्तिश्च शिवदीक्षया

अनेनैतदपि प्रोक्तं योगी तत्त्वैक्यसिद्धये ॥२९३॥

मन्त्रमेवाश्रयेन्मूलं निर्विकल्पान्तमादृतः

मन्त्राभ्यासेन भोगं वा मोक्षं वापि प्रसाधयन् ॥२९४॥

तत्राधिकारितालब्ध्यै दीक्षां गृह्णीत दैशिकात्

तेन मन्त्रज्ञानयोगबलाद्यद्यत्प्रसाधयेत् ॥२९५॥

तत्स्यादस्यान्यतत्त्वे ̕पि युक्तस्य गुरुणा शिशोः

दीक्षा ह्यस्योपयुज्येत संस्क्रियायां संस्कृतः ॥२९६॥

स्वबलेनैव भोगं वा मोक्षं वा लभते बुधः

तेन विज्ञानयोगादिबली प्राक् समयी भवन् ॥२९७॥

पुत्रको वा तावान्स्यादपितु स्वबलोचितः

यस्तु विज्ञानयोगादिवन्ध्यः सो ̕न्धो यथा पथि ॥२९८॥

दैशिकायत्त एव स्याद्भोगे मुक्तौ सर्वथा

दीक्षा केवला ज्ञानं विनापि निजमान्तरम् ॥२९९॥

मोचिकैवेति कथितं युक्त्या चागमतः पुरा

यस्तु दीक्षाकृतामेवापेक्ष्य योजनिकां शिशुः ॥३००॥

स्फुटीभूत्यै तदुचितं ज्ञानं योगमथाश्रितः

सो ̕पि यत्रैव युक्तः स्यात्तन्मयत्वं प्रपद्यते ॥३०१॥

गुरुदीक्षामन्त्रशास्त्राधीनसर्वस्थितिस्ततः

दुष्टानामेव सर्वेषां भूतभव्यभविष्यताम् ॥३०२॥

कर्मणां शोधनं कार्यं बुभुक्षोर्न शुभात्मनाम्

यः पुनर्लौकिकं भोगं राज्यस्वर्गादिकं शिशुः ॥३०३॥

त्यक्त्वा लोकोत्तरं भोगमीप्सुस्तस्य शुभेष्वपि

तत्र द्रव्यमयीं दीक्षां कुर्वन्नाज्यतिलादिकैः ॥३०४॥

कर्मास्य शोधयामीति जुहुयाद्दैशिकोत्तमः

ज्ञानमय्यां तु दीक्षायां तद्विशुद्ध्यति सन्धितः ॥३०५॥

गुरोः स्वसंविद्रूढस्य बलात्तत्प्रक्षयो भवेत्

यदास्याशुभकर्माणि शुद्धानि स्युस्तदा शुभम् ॥३०६॥

स्वतारतम्याश्रयणादध्वमध्ये प्रसूतिदम्

शुभपाकक्रमोपात्तफलभोगसमाप्तितः ॥३०७॥

यत्रैष योजितस्तत्स्थो भाविकर्मक्षये कृते

भाविनां चाद्यदेहस्थदेहान्तरविभेदिनाम् ॥३०८॥

अशुभांशविशुद्धौ स्याद्भोगस्यैवानुपक्षयः

भुञ्जानस्यास्य सततं भोगान्मायालयान्ततः ॥३०९॥

दुःखफलदं देहाद्यध्वमध्ये ̕पि किंचन

ततो मायालये भुक्तसमस्तसुखभोगकः ॥३१०॥

निष्कले सकले वैति लयं योजनिकाबलात्

इति प्रमेयं कथितं दीक्षा काले गुरोर्यथा ॥३११॥

 


 

     Bookmark and Share

 

 

Creative Commons License

Precedente Home Successiva

AGHORI BREVE STORIA GRANDE MADRE SADHANA CHAKRA AYURVEDA CORSO DI YOGA EVENTI GALLERIA SITI CONSIGLIATI CONTATTACI GUESTBOOK SITE MAP PDF IN ITA

Privacy Policy