Tantraloka

by Abhinavagupta

 

In Sanscrito:

 

CAP.1 - CAP.2 - CAP.3 - CAP.4 - CAP.5 - CAP.6 - CAP.7 - CAP.8 - CAP.9 - CAP.10

CAP.11 - CAP.12 - CAP.13 - CAP.14 - CAP.15 - CAP.16 - CAP.17 - CAP.18 - CAP.19 - CAP.20

CAP.21 - CAP.22 - CAP.23 - CAP.24 - CAP.25 - CAP.26 - CAP.27 - CAP.28 - CAP.29 - CAP.30 

CAP.31 - CAP.32 - CAP.33 - CAP.34 - CAP.35 - CAP.36 - CAP.37 - Testo translitterato

pdf: Testo in sanscrito - Testo translitterato - Tantraloka with commentary by Rajanaka Jayaratha Vol.1 - Vol.2 - Vol.3 - Vol.4 - Vol.5 - Vol.6

 

 

TANTRALOKA SANSCRITO

 

 

Capitolo 5

 

 

अथ श्रीतन्त्रालोके पञ्चममाह्निकम्

 

आणवेन विधिना परधाम प्रेप्सतामथ निरूप्यत एतत् ॥१॥

विकल्पस्यैव संस्कारे जाते निष्प्रतियोगिनि

अभीष्टे वस्तुनि प्राप्तिर्निश्चिता भोगमोक्षयोः ॥२॥

विकल्पः कस्यचित्स्वात्मस्वातन्त्र्यादेव सुस्थिरः

उपायान्तरसापेक्ष्यवियोगेनैव जायते ॥३॥

कस्यचित्तु विकल्पोऽसौ स्वात्मसंस्करणं प्रति

उपायान्तरसापेक्षस्तत्रोक्तः पूर्वको विधिः ॥४॥

विकल्पो नाम चिन्मात्रस्वभावो यद्यपि स्थितः

तथापि निश्चयात्मासावणोः स्वातन्त्र्ययोजकः ॥५॥

निश्चयो बहुधा चैष तत्रोपायाश्च भेदिनः

अणुशब्देन ते चोक्ता दूरान्तिकविभेदतः ॥६॥

तत्र बुद्धौ तथा प्राणे देहे चापि प्रमातरि

अपारमार्थिकेऽप्यस्मिन् परमार्थः प्रकाशते ॥७॥

यतः प्रकाशाच्चिन्मात्रात् प्राणाद्यव्यतिरेकवत्

तस्यैव तु स्वतन्त्रत्वाद्द्विगुणं जडचिद्वपुः ॥८॥

उक्तं त्रैशिरसे चैतद्देव्यै चन्द्रार्धमौलिना

जीवः शक्तिः शिवस्यैव सर्वत्रैव स्थितापि सा ॥९॥

स्वरूपप्रत्यये रूढा ज्ञानस्योन्मीलनात्परा

तस्य चिद्रूपतां सत्यां स्वातन्त्र्योल्लासकल्पनात् ॥१०॥

पश्यञ्जडात्मताभागं तिरोधायाद्वयो भवेत्

तत्र स्वातन्त्र्यदृष्ट्या वा दर्पणे मुखबिम्बवत् ॥११॥

विशुद्धं निजचैतन्यं निश्चिनोत्यतदात्मकम्

बुद्धिप्राणादितो भिन्नं चैतन्यं निश्चितं बलात् ॥१२॥

सत्यतस्तदभिन्नं स्यात्तस्यान्योन्यविभेदतः

विश्वरूपाविभेदित्वं शुद्धत्वादेव जायते ॥१३॥

निष्ठितैकस्फुरन्मूर्तेर्मूर्त्यन्तरविरोधतः

अन्तः संविदि सत्सर्वं यद्यप्यपरथा धियि ॥१४॥

प्राणे देहेऽथवा कस्मात्संक्रामेत्केन वा कथम्

तथापि निर्विकल्पे ̕स्मिन्विकल्पो नास्ति तं विना ॥१५॥

दृष्टेऽप्यदृष्टकल्पत्वं विकल्पेन तु निश्चयः

बुद्धिप्राणशरीरेषु पारमेश्वर्यमञ्जसा ॥१६॥

विकल्प्यं शून्यरूपे प्रमातरि विकल्पनम्

बुद्धिर्ध्यानमयी तत्र प्राण उच्चारणात्मकः ॥१७॥

उच्चारणं प्राणाद्या व्यानान्ताः पञ्च वृत्तयः

आद्या तु प्राणनाभिख्यापरोच्चारात्मिका भवेत् ॥१८॥

शरीरस्याक्षविषयैतत्पिण्डत्वेन संस्थितिः

तत्र ध्यानमयं तावदनुत्तरमिहोच्यते ॥१९॥

यः प्रकाशः स्वतन्त्रोऽयं चित्स्वभावो हृदि स्थितः

सर्वतत्त्वमयः प्रोक्तमेतच्च त्रिशिरोमते ॥२०॥

कदलीसंपुटाकारं सबाह्याभ्यन्तरान्तरम्

ईक्षते हृदयान्तःस्थं तत्पुष्पमिव तत्त्ववित् ॥२१॥

सोमसूर्याग्निसंघट्टं तत्र ध्यायेदनन्यधीः

तद्ध्यानारणिसंक्षोभान्महाभैरवहव्यभुक् ॥२२॥

हृदयाख्ये महाकुण्डे जाज्वलन् स्फीततां व्रजेत्

तस्य शक्तिमतः स्फीतशक्तेर्भैरवतेजसः ॥२३॥

मातृमानप्रमेयाख्यं धामाभेदेन भावयेत्

वह्न्यर्कसोमशक्तीनां तदेव त्रितयं भवेत् ॥२४॥

परा परापरा चेयमपरा सदोदिता

सृष्टिसंस्थितिसंहारैस्तासां प्रत्येकतस्त्रिधा ॥२५॥

चतुर्थं चानवच्छिन्नं रूपमासामकल्पितम्

एवं द्वादश ता देव्यः सूर्यबिम्बवदास्थिताः ॥२६॥

एकैकमासां वह्न्यर्कसोमतच्छान्तिभासनम्

एतदानुत्तरं चक्रं हृदयाच्चक्षुरादिभिः ॥२७॥

व्योमभिर्निःसरत्येव तत्तद्विषयगोचरे

तच्चक्रभाभिस्तत्रार्थे सृष्टिस्थितिलयक्रमात् ॥२८॥

सोमसूर्याग्निभासात्म रूपं समवतिष्ठते

एवं शब्दादिविषये श्रोत्रादिव्योमवर्त्मना ॥२९॥

चक्रेणानेन पतता तादात्म्यं परिभावयेत्

अनेन क्रमयोगेन यत्र यत्र पतत्यदः ॥३०॥

चक्रं सर्वात्मकं तत्तत्सार्वभौममहीशवत्

इत्थं विश्वाध्वपटलमयत्नेनैव लीयते ॥३१॥

भैरवीयमहाचक्रे संवित्तिपरिवारिते

ततः संस्कारमात्रेण विश्वस्यापि परिक्षये ॥३२॥

स्वात्मोच्छलत्तया भ्राम्यच्चक्रं संचिन्तयेन्महत्

ततस्तद्दाह्यविलयात् तत्संस्कारपरिक्षयात् ॥३३॥

प्रशाम्यद्भावयेच्चक्रं ततः शान्तं ततः शमम्

अनेन ध्यानयोगेन विश्वं चक्रे विलीयते ॥३४॥

तत्संविदि ततः संविद्विलीनार्थैव भासते

चित्स्वाभाव्यात् ततो भूयः सृष्टिर्यच्चिन्महेश्वरी ॥३५॥

एवं प्रतिक्षणं विश्वं स्वसंविदि विलापयन्

विसृजंश्च ततो भूयः शश्वद्भैरवतां व्रजेत् ॥३६॥

एवं त्रिशूलात् प्रभृति चतुष्पञ्चारकक्रमात्

पञ्चाशदरपर्यन्तं चक्रं योगी विभावयेत् ॥३७॥

चतुष्षष्टिशतारं वा सहस्रारमथापि वा

असंख्यारसहस्रं वा चक्रं ध्यायेदनन्यधीः ॥३८॥

संविन्नाथस्य महतो देवस्योल्लासिसंविदः

नैवास्ति काचित्कलना विश्वशक्तेर्महेशितुः ॥३९॥

शक्तयोऽस्य जगत् कृत्स्नं शक्तिमांस्तु महेश्वरः

इति माङ्गलशास्त्रे तु श्रीश्रीकण्ठो न्यरूपयत् ॥४०॥

इत्येतत् प्रथमोपायरूपं ध्यानं न्यरूपयत्

श्रीशंभुनाथो मे तुष्टस्तस्मै श्रीसुमतिप्रभुः ॥४१॥

अनयैव दिशान्यानि ध्यानान्यपि समाश्रयेत्

अनुत्तरोपायधुरां यान्यायान्ति क्रमं विना ॥४२॥

अथ प्राणस्य या वृत्तिः प्राणनाद्या निरूपिता

तदुपायतया ब्रूमो ̕नुत्तरप्रविकासनम् ॥४३॥

निजानन्दे प्रमात्रंशमात्रे हृदि पुरा स्थितः

शून्यतामात्रविश्रान्तेर्निरानन्दं विभावयेत् ॥४४॥

प्राणोदये प्रमेये तु परानन्दं विभावयेत्

तत्रानन्तप्रमेयांशपूरणापाननिर्वृतः ॥४५॥

परानन्दगतस्तिष्ठेदपानशशिशोभितः

ततोऽनन्तस्फुरन्मेयसंघट्टैकान्तनिर्वृतः ॥४६॥

समानभूमिमागत्य ब्रह्मानन्दमयो भवेत्

ततो ̕पि मानमेयौघकलनाग्रासतत्परः ॥४७॥

उदानवह्नौ विश्रान्तो महानन्दं विभावयत्

तत्र विश्रान्तिमभ्येत्य शाम्यत्यस्मिन्महार्चिषि ॥४८॥

निरुपाधिर्महाव्याप्तिर्व्यानाख्योपाधिवर्जिता

तदा खलु चिदानन्दो यो जडानुपबृंहितः ॥४९॥

नह्यत्र संस्थितिः कापि विभक्ता जडरूपिणः

यत्र कोऽपि व्यवच्छेदो नास्ति यद्विश्वतः स्फुरत् ॥५०॥

यदनाहतसंवित्ति परमामृतबृंहितम्

यत्रास्ति भावनादीनां मुख्या कापि संगतिः ॥५१॥

तदेव जगदानन्दमस्मभ्यं शंभुरूचिवान्

तत्र विश्रान्तिराधेया हृदयोच्चारयोगतः ॥५२॥

या तत्र सम्यग्विश्रान्तिः सानुत्तरमयी स्थितिः

इत्येतद्धृदयाद्येकस्वभावेऽपि स्वधामनि ॥५३॥

षट्प्राणोच्चारजं रूपमथ व्याप्त्या तदुच्यते

प्राणदण्डप्रयोगेन पूर्वापरसमीकृतेः ॥५४॥

चतुष्किकाम्बुजालम्बिलम्बिकासौधमाश्रयेत्

त्रिशूलभूमिं क्रान्त्वातो नाडित्रितयसङ्गताम् ॥५५॥

इच्छाज्ञानक्रियाशक्तिसमत्वे प्रविशेत् सुधीः

एकां विकासिनीं भूयस्त्वसंकोचां विकस्वराम् ॥५६॥

श्रयेद्भ्रूबिन्दुनादान्तशक्तिसोपानमालिकाम्

तत्रोर्ध्वकुण्डलीभूमौ स्पन्दनोदरसुन्दरः ॥५७॥

विसर्गस्तत्र विश्राम्येन्मत्स्योदरदशाजुषि

रासभी वडवा यद्वत्स्वधामानन्दमन्दिरम् ॥५८॥

विकाससंकोचमयं प्रविश्य हृदि हृष्यति

तद्वन्मुहुर्लीनसृष्टभावव्रातसुनिर्भराम् ॥५९॥

श्रयेद्विकाससंकोचरूढभैरवयामलाम्

एकीकृतमहामूलशूलवैसर्गिके हृदि ॥६०॥

परस्मिन्नेति विश्रान्तिं सर्वापूरणयोगतः

अत्र तत्पूर्णवृत्त्यैव विश्वावेशमयं स्थितम् ॥६१॥

प्रकाशस्यात्मविश्रान्तावहमित्येव दृश्यताम्

अनुत्तरविमर्शे प्राग्व्यापारादिविवर्जिते ॥६२॥

चिद्विमर्शपराहंकृत् प्रथमोल्लासिनी स्फुरेत्

तत उद्योगसक्तेन द्वादशकलात्मना ॥६३॥

सूर्येणाभासयेद्भावं पूरयेदथ चर्चयेत्

अथेन्दुः षोडशकलो विसर्गग्रासमन्थरः ॥६४॥

संजीवन्यमृतं बोधवह्नौ विसृजति स्फुरन्

इच्छाज्ञानक्रियाशक्तिसूक्ष्मरन्ध्रस्रुगग्रगम् ॥६५॥

तदेवम[तद]मृतं दिव्यं संविद्देवीषु तर्पकम्

विसर्गामृतमेतावद् बोधाख्ये हुतभोजिनि ॥६६॥

विसृष्टं चेद्भवेत्सर्वं हुतं षोढाध्वमण्डलम्

यतोऽनुत्तरनाथस्य विसर्गः कुलनायिका

तत्क्षोभः कादिहान्तं तत्प्रसरस्तत्त्वपद्धतिः ॥६७॥

अंअ इति कुलेश्वर्या सहितो हि कुलेशिता

परो विसर्गविश्लेषस्तन्मयं विश्वमुच्यते ॥६८॥

वित्प्राणगुणदेहान्तर्बहिर्द्रव्यमयीमिमाम्

अर्चयेज्जुहुयाद्ध्यायेदित्थं संजीवनीं कलाम् ॥६९॥

आनन्दनाडीयुगलस्पन्दनावहितौ स्थितः

एनां विसर्गनिःष्यन्दसौधभूमिं प्रपद्यते ॥७०॥

शाक्ते क्षोभे कुलावेशे सर्वनाड्यग्रगोचरे

व्याप्तौ सर्वात्मसंकोचे हृदयं प्रविशेत्सुधीः ॥७१॥

सोमसूर्यकलाजालपरस्परनिघर्षतः

अग्नीषोमात्मके धाम्नि विसर्गानन्द उन्मिषेत् ॥७२॥

अलं रहस्यकथया गुप्तमेतत्स्वभावतः

योगिनीहृदयं तत्र विश्रान्तः स्यात्कृती बुधः ॥७३॥

हानादानतिरस्कारवृत्तौ रूढिमुपागतः

अभेदवृत्तितः पश्येद्विश्वं चितिचमत्कृतेः ॥७४॥

अर्थक्रियार्थितादैन्यं त्यक्त्वा बाह्यान्तरात्मनि

खरूपे निर्वृतिं प्राप्य फुल्लां नाददशां श्रयेत् ॥७५॥

वक्त्रमन्तस्तया सम्यक् संविदः प्रविकासयेत्

संविदक्षमरुच्चक्रं ज्ञेयाभिन्नं ततो भवेत् ॥७६॥

तज्ज्ञेयं संविदाख्येन वह्निना प्रविलीयते

विलीनं तत् त्रिकोणे ̕स्मिञ्शक्तिवह्नौ विलीयते ॥७७॥

तत्र संवेदनोदारबिन्दुसत्तासुनिर्वृतः

संहारबीजविश्रान्तो योगी परमयो भवेत् ॥७८॥

अन्तर्बाह्ये द्वये वापि सामान्येतरसुन्दरः

संवित्स्पन्दस्त्रिशक्त्यात्मा संकोचप्रविकासवान् ॥७९॥

असंकोचविकासोऽपि तदाभासनतस्तथा

अन्तर्लक्ष्यो बहिर्दृष्टिः परमं पदमश्नुते ॥८०॥

ततः स्वातन्त्र्यनिर्मेये विचित्रार्थक्रियाकृति

विमर्शनं विशेषाख्यः स्पन्द औन्मुख्यसंज्ञितः ॥८१॥

तत्र विश्रान्तिमागच्छेद्यद्वीर्यं मन्त्रमण्डले

शान्त्यादिसिद्धयस्तत्तद्रूपतादात्म्यतो यतः ॥८२॥

दिव्यो यश्चाक्षसंघो ̕यं बोधस्वातन्त्र्यसंज्ञकः

सोऽनिमीलित एवैतत् कुर्यात्स्वात्ममयं जगत् ॥८३॥

महासाहससंयोगविलीनाखिलवृत्तिकः

पुञ्जीभूते स्वरश्म्योघे निर्भरीभूय तिष्ठति ॥८४॥

अकिचिच्चिन्तकस्तत्र स्पष्टदृग्याति संविदम्

यद्विस्फुलिङ्गाः संसारभस्मदाहैकहेतवः ॥८५॥

तदुक्तं परमेशेन त्रिशिरोभैरवागमे

शृणु देवि प्रवक्ष्यामि मन्त्रभूम्यां प्रवेशनम् ॥८६॥

मध्यनाड्योर्ध्वगमनं तद्धर्मप्राप्तिलक्षणम्

विसर्गान्तपदातीतं प्रान्तकोटिनिरूपितम् ॥८७॥

अधःप्रवाहसंरोधादूर्ध्वक्षेपविवर्जनात्

महाप्रकाशमुदयज्ञानव्यक्तिप्रदायकम् ॥८८॥

अनुभूय परे धाम्नि मात्रावृत्त्या पुरं विशेत्

निस्तरङ्गावतीर्णा सा वृत्तिरेका शिवात्मिका ॥८९॥

चतुष्षड्द्विर्द्विगुणितचक्रषट्कसमुज्ज्वला

तत्स्थं [त्स्थो] विचारयेत् खं खं खस्थं खस्थेन संविशेत् ॥९०॥

खं खं त्यक्त्वा खमारुह्य खस्थं खं चोच्चरेदिति

खमध्यास्याधिकारेण पदस्थाश्चिन्मरीचयः ॥९१॥

भावयेद्भावमन्तःस्थं भावस्थो भावनिःस्पृहः

भावाभावगती रुद्ध्वा भावाभावावरोधदृक् ॥९२॥

आत्माणुकुलमूलानि शक्तिर्भूतिश्चिती रतिः

शक्तित्रयं द्रष्टृदृश्योपरक्तं तद्विवर्जितम् ॥९३॥

एतत्खं दशधा प्रोक्तमुच्चारोच्चारलक्षणम्

धामस्थं धाममध्यस्थं धामोदरपुटीकृतम् ॥९४॥

धाम्ना तु बोधयेद्धाम धाम धामान्तगं कुरु

तद्धाम धामगत्या तु भेद्यं धामान्तमान्तरम् ॥९५॥

भेदोपभेदभेदेन भेदः कार्यस्तु मध्यतः

इति प्रवेशोपायो ̕यमाणवः परिकीर्तितः ॥९६॥

श्रीमहेश्वरनाथेन यो हृत्स्थेन ममोदितः

श्रीब्रह्मयामले चोक्तं श्रीमान् रावो दशात्मकः ॥९७॥

स्थूलः सूक्ष्मः परो हृद्यः कण्ठ्यस्तालव्य एव

सर्वतश्च विभुर्योऽसौ विभुत्वपददायकः ॥९८॥

जितरावो महायोगी संक्रामेत्परदेहगः

परां विन्दति व्याप्तिं प्रत्यहं ह्यभ्यसेत तम् ॥९९॥

तावद्यावदरावे सा रावाल्लीयेत राविणी

अत्र भावनया देहगतोपायैः परे पथि ॥१००॥

विविक्षोः पूर्णतास्पर्शात्प्रागानन्दः प्रजायते

ततोऽपि विद्युदापातसदृशे देहवर्जिते ॥१०१॥

धाम्नि क्षणं समावेशादुद्भवः प्रस्फुटं प्लुतिः

जलपांसुवदभ्यस्तसंविद्देहैक्यहानितः ॥१०२॥

स्वबलाक्रमणाद्देहशैथिल्यात् कम्पमाप्नुयात्

गलिते देहतादात्म्यनिश्चयेऽन्तर्भुखत्वतः ॥१०३॥

निद्रायते पुरा यावन्न रूढः संविदात्मनि

ततः सत्यपदे रूढो विश्वात्मत्वेन संविदम् ॥१०४॥

संविदन् घूर्णते घूर्णिर्महाव्याप्तिर्यतः स्मृता

आत्मन्यनात्माभिमतौ सत्यामेव ह्यनात्मनि ॥१०५॥

आत्माभिमानो देहादौ बन्धो मुक्तिस्तु तल्लयः

आदावनात्मन्यात्मत्वे लीने लब्धे निजात्मनि ॥१०६॥

आत्मन्यनात्मतानाशे महाव्याप्तिः प्रवर्तते

आनन्द उद्भवः कम्पो निन्द्रा घूर्णिश्च पञ्चकम् ॥१०७॥

इत्युक्तमत एव श्रीमालिनीविजयोत्तरे

प्रदर्शिते ̕स्मिन्नानन्दप्रभृतौ पञ्चके यदा ॥१०८॥

योगी विशेत्तदा तत्तच्चक्रेशत्वं हठाद्व्रजेत्

यथा सर्वेशिना बोधेनाक्रान्तापि तनुः क्वचित् ॥१०९॥

किंचित्कर्तुं प्रभवति चक्षुषा रूपसंविदम्

तथैव चक्रे कुत्रापि प्रवेशात्को ̕पि संभवेत् ॥११०॥

आनन्दचक्रं वह्न्यश्रि कन्द उद्भव उच्यते

कम्पो हृत्तालु निद्रा घूर्णिः स्यादूर्ध्वकुण्डली ॥१११॥

एतच्च स्फुटमेवोक्तं श्रीमन्त्रैशिरसे मते

एवं प्रदर्शितोच्चारविश्रान्तिहृदयं परम् ॥११२॥

यत्तदव्यक्तलिङ्गं नृशिवशक्त्यविभागवत्

अत्र विश्वमिदं लीनमत्रान्तःस्थं गम्यते ॥११३॥

इदं तल्लक्षणं पूर्णशक्तिभैरवसंविदः

देहगाध्वसमुन्मेषे समावेशस्तु यः स्फुटः ॥११४॥

अहन्ताच्छादितोन्मेषिभावेदंभावयुक्

व्यक्ताव्यक्तमिदं लिङ्गं मन्त्रवीर्यं परापरम् ॥११५॥

नरशक्तिसमुन्मेषि शिवरूपाद्विभेदितम्

यन्न्यक्कृतशिवाहन्तासमावेशं विभेदवत् ॥११६।

विशेषस्पन्दरूपं तद् व्यक्तं लिङ्गं चिदात्मकम्

व्यक्तात्सिद्धिप्रसवो व्यक्ताव्यक्ताद्द्वयं विमोक्षश्च

अव्यक्ताद्बलमाद्यं परस्य नानुत्तरे त्वियं चर्चा ॥११७॥

आत्माख्यं यद्व्यक्तं नरलिङ्गं तत्र विश्वमर्पयतः

व्यक्ताव्यक्तं तस्माद्गलिते तस्मिंस्तदव्यक्तम् ॥११८॥

तेनात्मलिङ्गमेतत् परमे शिवशक्त्यणुस्वभावमये

अव्यक्ते विश्राम्यति नानुत्तरधामगा त्वियं चर्चा ॥११९॥

एकस्य स्पन्दनस्यैषा त्रैधं भेदव्यवस्थितिः

अत्र लिङ्गे सदा तिष्ठेत् पूजाविश्रान्तितत्परः ॥१२०॥

योगिनीहृदयं लिङ्गमिदमानन्दसुन्दरम्

बीजयोनिसमापत्त्या सूते कामपि संविदम् ॥१२१॥

अत्र प्रयासविरहात्सर्वोऽसौ देवतागणः

आनन्दपूर्णे धाम्न्यास्ते नित्योदितचिदात्मकः ॥१२२॥

अत्र भैरवनाथस्य ससंकोचविकासिका

भासते दुर्घटा शक्तिरसंकोचविकासिनः ॥१२३॥

एतल्लिङ्गसमापत्तिविसर्गानन्दधारया

सिक्तं तदेव सद्विश्वं शश्वन्नवनवायते ॥१२४॥

अनुत्तरे ̕भ्युपायो ̕त्र ताद्रूप्यादेव वर्णितः

ज्वलितेष्वपि दीपेषु घर्मांशुः किं भासते ॥१२५॥

अर्थेषु तद्भोगविधौ तदुत्थे दुःखे सुखे वा गलिताभिशङ्कम्

अनाविशन्तो ̕पि निमग्नचित्ता जानन्ति वृत्तिक्षयसौख्यमन्तः ॥१२६॥

सत्येवात्मनि चित्स्वभावमहसि स्वान्ते तथोपक्तियां तस्मै कुर्वति तत्प्रचारविवशे सत्यक्षवर्गेऽपि

सत्स्वर्थेषु सुखादिषु स्फुटतरं यद्भेदवन्ध्योदयं योगी तिष्ठति पूर्णरश्मिविभवस्तत्तत्त्वमाचीयताम् ॥१२७॥

इत्युच्चारविधिः प्रोक्तः करणं प्रविविच्यते

तच्चेत्थं त्रिशिरःशास्त्रे परमेशेन भाषितम् ॥१२८॥

ग्राह्यग्राहकचिद्व्याप्तित्यागाक्षेपनिवेशनैः

करणं सप्तधा प्राहुरभ्यासं बोधपूर्वकम् ॥१२९॥

तद्व्याप्तिपूर्वमाक्षेपे करणं स्वप्रतिष्ठता

गुरुवक्त्राच्च बोद्धव्यं करणं यद्यपि स्फुटम् ॥१३०॥

तथाप्यागमरक्षार्थं तदग्रे वर्णयिष्यते

उक्तो एष उच्चारस्तत्र योऽसौ स्फुरन् स्थितः ॥१३१॥

अव्यक्तानुकृतिप्रायो ध्वनिर्वर्णः कथ्यते

सृष्टिसंहारबीजं तस्य मुख्यं वपुर्विदुः ॥१३२॥

तदभ्यासवशाद्याति क्रमाद्योगी चिदात्मताम्

तथा ह्यनच्के साच्के वा कादौ सान्ते पुनःपुनः ॥१३३॥

स्मृते प्रोच्चारिते वापि सा सा संवित्प्रसूयाते

बाह्यार्थसमयापेक्षा घटाद्या ध्वनयो ̕पि ये ॥१३४॥

तेऽप्यर्थभावनां कुर्युर्मनोराज्यवदात्मनि

तदुक्तं परमेशेन भैरवो व्यापको ̕खिले ॥१३५॥

इति भैरवशब्दस्य संततोच्चारणाच्छिवः

श्रीमत्त्रैशिरसेऽप्युक्तं मन्त्रोद्धारस्य पूर्वतः ॥१३६॥

स्मृतिश्च स्मरणं पूर्वं सर्वभावेषु वस्तुतः

मन्त्रस्वरूपं तद्भाव्यस्वरूपापत्तियोजकम् ॥१३७॥

स्मृतिः स्वरूपजनिका सर्वभावेषु रञ्जिका

अनेकाकाररूपेण सर्वत्रावस्थितेन तु ॥१३८॥

स्वस्वभावस्य संप्राप्तिः संवित्तिः परमार्थतः

व्यक्तिनिष्ठा ततो विद्धि सत्ता सा कीर्तिता परा ॥१३९॥

किं पुनः समयापेक्षां विना ये बीजपिण्डकाः

संविदं स्पन्दपन्त्येते नेयुः संविदुपायताम् ॥१४०॥

वाच्याभावादुदासीनसंवित्स्पन्दात्स्वधामतः

प्राणोल्लासनिरोधाभ्यां बीजपिण्डेषु पूर्णता ॥१४१॥

सुखसीत्कारसत्सम्यक्साम्यप्रथमसंविदः

संवेदनं हि प्रथमं स्पर्शोऽनुत्तरसंविदः ॥१४२॥

हृत्कण्ठ्योष्ठ्यत्रिधामान्तर्नितरां प्रविकासिनि

चतुर्दशः प्रवेशो एकीकृततदात्मकः ॥१४३॥

ततो विसर्गोच्चारांशे द्वादशान्तपथावुभौ

हृदयेन सहैकध्यं नयते जपतत्परः ॥१४४॥

कन्दहृत्कण्ठताल्वग्रकौण्डिलीप्रक्रियान्ततः

आनन्दमध्यनाड्यन्तः स्पन्दनं बीजमावहेत् ॥१४५॥

संहारबीजं खं हृत्स्थमोष्ठ्यं फुल्लं स्वमूर्धनि

तेजस्त्र्यश्रं तालुकण्ठे बिन्दुरूर्ध्वपदे स्थितः ॥१४६॥

इत्येनया बुधो युक्त्या वर्णजप्यपरायणः

अनुत्तरं परं धाम प्रविशेदचिरात् सुधीः ॥१४७॥

वर्णशब्देन नीलादि यद्वा दीक्षोत्तरे यथा

संहारन्रग्निमरुतो रुद्रबिन्दुयुतान्स्मरेत् ॥१४८॥

हृदये तन्मयो लक्ष्यं पश्येत्सप्तदिनादथ

विस्फुलिङ्गाग्निवन्नीलपीतरक्तादिचित्रितम् ॥१४९॥

जाज्वलीति हृदम्भोजे बीजदीपप्रबोधितम्

दीपवज्ज्वलितो बिन्दुर्भासते विघनार्कवत् ॥१५०॥

स्वयंभासात्मनानेन तादात्म्यं यात्यनन्यधीः

शिवेन हेमतां यद्वत्ताम्रं सूतेन वेधितम् ॥१५१॥

उपलक्षणमेतच्च सर्वमन्त्रेषु लक्षयेत्

यद्यत्संकल्पसंभूतं वर्णजालं हि भौतिकम् ॥१५२॥

तत् संविदाधिक्यवशादभौतिकमिव स्थितम्

अतस्तथाविधे रूपे रूढो रोहति संविदि ॥१५३॥

अनाच्छादितरूपायामनुपाधौ प्रसन्नधीः

नीले पीते सुखे दुःखे संविद्रूपमखण्डितम् ॥१५४॥

गुरुभिर्भाषितं तस्मादुपायेषु विचित्रता

उच्चारकरणध्यानवर्णैरेभिः प्रदर्शितः ॥१५५॥

अनुत्तरपदप्राप्तावभ्युपायविधिक्रमः

अकिंचिच्चिन्तनं वीर्यं भावनायां सा पुनः ॥१५६॥

ध्याने तदपि चोच्चारे करणे सो ̕पि तद्ध्वनौ

स्थानकल्पने बाह्यमिति क्रममुपाश्रयेत् ॥१५७॥

लङ्घनेन परो योगी मन्दबुद्धिः क्रमेण तु

वीर्यं विना यथा षण्ठस्तस्याप्यस्त्यथ वा बलम्

मृतदेह इवेयं स्याद्बाह्यान्तःपरिकल्पना ॥१५८॥

इत्याणवेऽनुत्तरताभ्युपायः प्रोक्तो नयः स्पष्टपथेन बाह्यः ॥१५९॥

 

 


 

     Bookmark and Share

 

 

Creative Commons License

Precedente Home Successiva

AGHORI BREVE STORIA GRANDE MADRE SADHANA CHAKRA AYURVEDA CORSO DI YOGA EVENTI GALLERIA SITI CONSIGLIATI CONTATTACI GUESTBOOK SITE MAP PDF IN ITA

Privacy Policy