Tantraloka

by Abhinavagupta

 

In Sanscrito:

 

CAP.1 - CAP.2 - CAP.3 - CAP.4 - CAP.5 - CAP.6 - CAP.7 - CAP.8 - CAP.9 - CAP.10

CAP.11 - CAP.12 - CAP.13 - CAP.14 - CAP.15 - CAP.16 - CAP.17 - CAP.18 - CAP.19 - CAP.20

CAP.21 - CAP.22 - CAP.23 - CAP.24 - CAP.25 - CAP.26 - CAP.27 - CAP.28 - CAP.29 - CAP.30 

CAP.31 - CAP.32 - CAP.33 - CAP.34 - CAP.35 - CAP.36 - CAP.37 - Testo translitterato

pdf: Testo in sanscrito - Testo translitterato - Tantraloka with commentary by Rajanaka Jayaratha Vol.1 - Vol.2 - Vol.3 - Vol.4 - Vol.5 - Vol.6

 

 

TANTRALOKA SANSCRITO

 

 

Capitolo 2

 

 

अथ श्रीतन्त्रालोकस्य द्वितीयमाह्निकम्

 

यत्तत्राद्यं पदमविरतानुत्तरज्ञप्तिरूपं

तन्निर्णेतुं प्रकरणमिदमारभेऽहं द्वितीयम् ॥१॥

अनुपायं हि यद्रूपं कोऽर्थो देशनयात्र वै

सकृत्स्याद्देशना पश्चादनुपायत्वमुच्ययते ॥२॥

अनुपायमिदं तत्त्वमित्युपायं विना कुतः

स्वयं तु तेषां तत्तादृक् किं ब्रूमः किल तान्प्रति ॥३॥

यच्चतुर्धोदितं रूपं विज्ञानस्य विभोरसौ

स्वभाव एव मन्तव्यः हि नित्योदितो विभुः ॥४॥

एतावद्भिरसंख्यातैः स्वभावैर्यत्प्रकाशते

केऽप्यंशांशिकया तेन विशन्त्यन्ये निरंशतः ॥५॥

तत्रापि चाभ्युपायादिसापेक्षान्यत्वयोगतः

उपायस्यापि नो वार्या तदन्यत्वाद्विचित्रता ॥६॥

तत्र ये निर्मलात्मानो भैरवीयां स्वसंविदम्

निरुपायामुपासीनास्तद्विधिः प्रणिगद्यते ॥७॥

तत्र तावत्क्रियायोगो नाभ्युपायत्वमर्हति

हि तस्मात्समुद्भूतः प्रत्युत प्रविभाव्यते ॥८॥

ज्ञप्तावुपाय एव स्यादिति चेज्ज्ञप्तिरुच्यते

प्रकाशत्वं स्वप्रकाशे तच्च तत्रान्यतः कथम् ॥९॥

संवित्तत्त्वं स्वप्रकाशमित्यस्मिन्कं नु युक्तिभिः

तदभावे भवेद्विश्वं जडत्वादप्रकाशकम् ॥१०॥

यावानुपायो बाह्यः स्यादान्तरो वापि कश्चन

सर्वस्तन्मुखप्रेक्षी तत्रोपायत्वभाक्कथम् ॥११॥

त्यजावधानानि ननु क्व नाम धत्सेऽवधानं विचिनु स्वयं तत्

पूर्णेऽवधानं हि नाम युक्तं नापूर्णमभ्येति सत्यभावम् ॥१२॥

तेनावधानप्राणस्य भावनादेः परे पथि

भैरवीये कथंकारं भवेत्साक्षादुपायता ॥१३॥

ये ̕पि साक्षादुपायेन तद्रूपं प्रविविञ्चते

नूनं ते सूर्यसंवित्त्यै खद्योताधित्सवो जडाः ॥१४॥

किं यावदिदं बाह्यमान्तरोपायसंमतम्

तत्प्रकाशात्मतामात्रं शिवस्यैव निजं वपुः ॥१५॥

नीलं पीतं सुखमिति प्रकाशः केवलः शिवः

अमुष्मिन्परमाद्वैते प्रकाशात्मनि कोऽपरः ॥१६॥

उपायोपेयभावः स्यात्प्रकाशः केवलं हि सः ॥१७॥

इदं द्वैतमऽयं भेद इदमद्वैतमित्यपि

प्रकाशवपुरेवायं भासते परमेश्वरः ॥१८॥

अस्यां भूमौ सुखं दुःखं बन्धो मोक्षश्चितर्जडः

घटकुम्भवदेकार्थाः शब्दास्तेऽप्येकमेव ॥१९॥

प्रशाशे ह्यप्रकाशांशः कथं नाम प्रकाशताम्

प्रकाशमाने तस्मिन्वा तद्द्वैतास्तस्य लोपिताः ॥२०॥

अप्रकाशेऽथ तस्मिन्वा वस्तुता कथमुच्यते

प्रकाशविशेषत्वमत एवोपपद्यते ॥२१॥

अत एकप्रकाशोऽयमिति वादेऽत्र सुस्थिते

दूरादावारिताः सत्यं विभिन्नज्ञानवादिनः ॥२२॥

प्रकाशमात्रमुदितमप्रकाशनिषेधनात्

एकशब्दस्य त्वर्थः संख्या चिद्व्यक्तिभेदभाक् ॥२३॥

नैष शक्तिर्महादेवी परत्राश्रितो यतः

चैष शक्तिमान्देवो कस्याप्याश्रयो यतः ॥२४॥

नैष ध्येयो ध्यात्रभावान्न ध्याता ध्येयवर्जनात्

पूज्यः पूजकाभावात्पूज्याभावान्न पूजकः ॥२५॥

मन्त्रो मन्त्र्योऽसौ मन्त्रयिता प्रभुः

दीक्षा दीक्षको वापि दीक्षावान्महेश्वरः ॥२६॥

स्थानासननिरोधार्घसंघानावाहनादिकम्

विसर्जनान्तं नास्त्यत्र कर्तृकर्मक्रियोज्झिते ॥२७॥

सन्न चासत्सदसन्न तन्नोभयोज्झितम्

दुर्विज्ञेया हि सावस्था किमप्येतदनुत्तरम् ॥२८॥

अयमित्यवभासो हि यो भावोऽवच्छिदात्मकः

एव घटवल्लोके संस्तथा नैष भैरवः ॥२९॥

असत्त्वं चाप्रकाशत्वं कुत्राप्युपयोगिता

विश्वस्य जीवितं सत्यं प्रकाशैकात्मकश्च सः ॥३०॥

आभ्यामेव तु हेतुभ्यां द्व्यात्मा द्वयोज्झितः

सर्वात्मना हि भात्येष केन रूपेण मन्त्र्यताम् ॥३१॥

श्रीमत्त्रिशिरसि प्रोक्तं परज्ञानस्वरूपकम्

शक्त्या गर्भान्तर्वर्तिन्या शक्तिगर्भ परं पदम् ॥३२॥

भावो नाप्यभावो द्वयं वाचामगोचरात्

अकथ्यपदवीरूढं शक्तिस्थं शक्तिवर्जितम् ॥३३॥

इति ये रूढसंवित्तिपरमार्थपवित्रिताः

अनुत्तरपथे रूढास्तेऽभ्युपायानियन्त्रिताः ॥३४॥

तेषामिदं समाभाति सर्वतो भावमण्डलम्

पुरःस्थमेव संवित्तिभैरवाग्निविलापितम् ॥३५॥

एतेषां सुखदुःखांशशंकातंकविकल्पनाः

निर्विकल्पपरावेशमात्रशेषत्वमागताः ॥३६॥

एषां मन्त्रो ध्यानं पूजा नापि कल्पना

समय्यादिकाचार्यपर्यन्तः को ̕पि विश्रमः ॥३७॥

समस्तयन्त्रणातन्त्रत्रोटनाटंकधर्मिणः

नानुग्रहात्परं किंचिच्छेषवृत्तौ प्रयोजनम् ॥३८॥

स्वं कर्तव्यं किमपि कलयंल्लोक एष प्रयत्नान्नो पारार्थ्यं प्रति घटयते कांचन स्वप्रवृत्तिम्

यस्तु ध्वस्ताखिलभवमलो भैरवीभावपूर्णः कृत्यं तस्य स्फुटमिदमियल्लोककर्तव्यमात्रम् ॥३९॥

तं ये पश्यन्ति ताद्रूप्यक्रमेणामलसंविदः

तेऽपि तद्रूपिणस्तावत्येवास्यानुग्रहात्मता ॥४०॥

एतत्तत्त्वपरिज्ञानं मुख्यं यागादि कथ्यते

दीक्षान्तं विभुना श्रीमत्सिद्धयोगीश्वरीमते ॥४१॥

स्थण्डिलादुत्तरं तूरं तूरादुत्तरतः पटः

पटाद्ध्यानं ततो ध्येयं ततः स्याद्धारणोत्तरा ॥४२॥

ततो ̕पि योगजं रूपं ततो ̕पि ज्ञानमुत्तरम्

ज्ञानेन हि महासिद्धो भवेद्योगीश्वरस्त्विति ॥४३॥

सो ̕पि स्वातन्त्र्यधाम्ना चेदप्यनिर्मलसंविदाम्

अनुग्रहं चिकीर्षुस्तद्भाविनं विधिमाश्रयेत् ॥४४॥

अनुग्राह्यानुसारेण विचित्रः कथ्यते

परापराद्युपायौघसंकीर्णत्वविभेदतः ॥४५॥

तदर्थमेव चास्यापि परमेश्वररूपिणः

तदभ्युपायशास्त्रादिश्रवणाध्ययनादरः ॥४६॥

नहि तस्य स्वतन्त्रस्य कापि कुत्रापि खण्डना

नानिर्मलचितः पुंसोऽनुग्रहस्त्वनुपायकः ॥४७॥

श्रीमदूर्मिमहाशास्त्रे सिद्धसंतानरूपके

इदमुक्तं तथा श्रीमत्सोमानन्दादिदैशिकैः ॥४८॥

गुरोर्वाक्याद्युक्तिप्रचयरचनोन्मार्जनवशात् समाश्वासाच्छास्त्रं प्रति समुदिताद्वापि कथितात्

विलीने शंकाभ्रे त्दृदयगगनोद्भासिमहसः प्रभोः सूर्यस्येव स्पृशत चरणान्ध्वान्तजयिनः ॥४९॥

इदमनुत्तरधामविवेचकं विगलितौपयिकं कृतमाह्निकम् ॥५०॥

 


 

Capitolo 3

 

अथ श्रीतन्त्रालोकस्य तृतीयमाह्निकम्

 

अथ परौपयिकं प्रणिगद्यते पदमनुत्तरमेव महेशितुः

 

प्रकाशमात्रं यत्प्रोक्तं भैरवीयं परं महः

तत्र स्वतन्त्रतामात्रमधिकं प्रविविच्यते ॥१॥

यः प्रकाशः सर्वस्य प्रकाशत्वं प्रयच्छति

तद्व्यतिरेक्यस्ति विश्वं सद्वावभासते ॥२॥

अतोऽसौ परमेशानः स्वात्मव्योमन्यनर्गलः

इयतः सृष्टिसंहाराडम्बरस्य प्रदर्शकः ॥३॥

निर्मले मकुरे यद्वद्भान्ति भूमिजलादयः

अमिश्रास्तद्वदेकस्मिंश्चिन्नाथे विश्ववृत्तयः ॥४॥

सदृशं भाति नयनदर्पणाम्बरवारिषु

तथा हि निर्मले रूपे रूपमेवावभासते ॥५॥

प्रच्छन्नरागिणी कान्तप्रतिबिम्बितसुन्दरम्

दर्पणं कुचकुम्भाभ्यां स्पृशन्त्यपि तृप्यति ॥६॥

हि स्पर्शोऽस्य विमलो रूपमेव तथा यतः

नैर्मल्यं चातिनिविडसजातीयैकसंगतिः ॥७॥

स्वस्मिन्नभेदाद्भिन्नस्य दर्शनक्षमतैव या

अत्यक्तस्वप्रकाशस्य नैर्मल्यं तद्गुरूदितम् ॥८॥

नैर्मल्यं मुख्यमेकस्य संविन्नाथस्य सर्वतः

अंशांशिकातः क्वाप्यन्यद्विमलं तत्तदिच्छया ॥९॥

भावानां यत्प्रतीघाति वपुर्मायात्मकं हि तत्

तेषामेवास्ति सद्विद्यामयं त्वप्रतिघातकम् ॥१०॥

तदेवमुभयाकारमवभासं प्रकाशयन्

विभाति वरदो बिम्बप्रतिबिम्बदृशाखिले ॥११॥

यस्त्वाह नेत्रतेजांसि स्वच्छात्प्रतिफलन्त्यलम्

विपर्यस्य स्वकं वक्त्रं गृह्णन्तीति पृच्छ्यते ॥१२॥

देहादन्यत्र यत्तेजस्तदधिष्ठातुरात्मनः

तेनैव तेजसा ज्ञत्वे कोऽर्थः स्याद्दर्पणेन तु ॥१३॥

विपर्यस्तैस्तु तेजोभिर्ग्राहकात्मत्वमागतैः

रूपं दृश्येत वदने निजे मकुरान्तरे ॥१४॥

स्वमुखे स्पर्शवच्चैतद्रूपं भायान्ममेत्यलम्

त्वस्य स्पृश्यभिन्नस्य वेद्यैकान्तस्वरूपिणः ॥१५॥

रूपसंस्थानमात्रं तत्स्पर्शगन्धरसादिभिः

न्यग्भूतैरेव तद्युक्तं वस्तु तत्प्रतिबिम्बितम् ॥१६॥

न्यग्भावो ग्राह्यताभावात्तदभावोऽप्रमाणतः

चार्थसंगमाभावात्सोऽप्यादर्शेऽनवस्थितेः ॥१७॥

अत एव गुरुत्वादिर्धर्मो नैतस्य लक्ष्यते

नह्यादर्शे संस्थितोऽसौ तद्दृष्टौ उपायकः ॥१८॥

तस्मात्तु नैष भेदेन यद्भाति तत उच्यते

आधारस्तत्र तूपाया दीपदृक्संविदः क्रमात् ॥१९॥

दीपचक्षुर्विबोधानां काठिन्याभावतः परम्

सर्वतश्चापि नैर्मल्यान्न विभादर्शवत्पृथक् ॥२०॥

एतच्च देवदेवेन दर्शितं बोधवृद्धये

मूढानां वस्तु भवति ततोऽप्यन्यत्र नाप्यलम् ॥२१॥

प्रतीघाति स्वतन्त्रं नो स्थाय्यस्थायि चापि

स्वच्छस्यैवैष कस्यापि महिमेति कृपालुना ॥२२॥

देशों नो रूपं समययोगो परिमा चान्योन्यासंगो तदपहानिर्न घनता

चावस्तुत्वं स्यान्न किमपि सारं निजमिति ध्रुवं मोहः शाम्येदिति निरदिशद्दर्पणविधिः ॥२३॥

इत्थं प्रदर्शितेऽमुत्र प्रतिबिम्बनवर्त्मनि

शब्दस्य प्रतिबिम्बं यत् प्रतिश्रुत्केति भण्यते ॥२४॥

चासौ शब्दजः शब्द आगच्छत्त्वेन संश्रवात्

तेनैव वक्त्रा दूरस्थैः शब्दस्याश्रवणादपि ॥२५॥

पिठिरादिपिधानांशविशिष्टछिद्रसंगतौ

चित्रत्वाच्चास्य शब्दस्य प्रतिबिम्बं मुखादिवत् ॥२६॥

इदमन्यस्य वेद्यस्य रूपमित्यवभासते

यथादर्शे तथा केनाप्युक्तमाकर्णये त्विति ॥२७॥

नियमाद्बिम्बसांमुख्यं प्रतिबिम्बस्य यत्ततः

तन्मध्यगाः प्रमातारः शृण्वन्ति प्रतिशब्दकम् ॥२८॥

मुख्यग्रहं त्वपि विना प्रतिबिम्बग्रहो भवेत्

स्वपश्चात्स्थं प्रियं पश्येट्टङ्कितं मुकुरे वपुः ॥२९॥

सांमुख्यं चोच्यते तादृग्दर्पणाभेदसंस्थितेः ॥३०॥

अतः कूपादिपिठिराकाशे तत्प्रतिबिम्बितम्

वक्त्राकाशं सशब्दं सद्भाति तत्परवक्तवत् ॥३१॥

यथा चादर्शपाश्चात्यभागस्थो वेत्ति नो मुखम्

तथा तथाविधाकाशपश्चात्स्थो वेत्ति ध्वनिम् ॥३२॥

शब्दो चानभिव्यक्तः प्रतिबिम्बति तद्ध्रुवम्

अभिव्यक्तिश्रुती तस्य समकालं द्वितीयके ॥३३॥

क्षणे तु प्रतिबिम्बत्वं श्रुतिश्च समकालिका

तुल्यकालं हि नो हस्ततच्छायारूपनिश्चयः ॥३४॥

इत्थं प्रदर्शितेऽमुत्र प्रतिबिम्बसतत्त्वके

प्रकृतं ब्रूमहे तत्र प्रतिबिम्बनमर्हति ॥३५॥

शब्दो नभसि सानन्दे स्पर्शधामनि सुन्दरः

स्पर्शोऽन्यो ̕पि दृढाघातशूलशीतादिकोद्भवः

परस्थः प्रतिबिम्बत्वात्स्वदेहोद्धूलनाकरः ॥३६॥

चैष मुख्यस्तत्कार्यपारम्पर्याप्रकाशनात् ॥३७॥

एवं घ्राणान्तरे गन्धो रसो दन्तोदके स्फुटः ॥३८॥

यथा रूपं प्रतिबिम्बितं दृशोर्न चक्षुषान्येन विना हि लक्ष्यते

तथा रसस्पर्शनसौरभादिकं लक्ष्यतेऽक्षेण विना स्थितं त्वपि ॥३९॥

चान्तरे स्पर्शनधामनि स्थितं बहिःस्पृशोन्याक्षधियः गोचरः ॥४०॥

अतो ̕न्तिकस्थस्वकतादृगिन्द्रियप्रयोजनान्तःकरणैर्यदा कृता

तदा तदात्तं प्रतिबिम्बमिन्द्रिये स्वकां क्रियां सूयत एव तादृशीम् ॥४१॥

तु स्मृतान्मानसगोचरादृता भवेत्क्रिया सा किल वर्तमानतः

अतः स्थितः स्पर्शवरस्तदिन्द्रिये समागतः सन्विदितस्तथाक्रियः ॥४२॥

असंभवे बाह्यगतस्य तादृशः स्व एव तस्मिन्प्रतिबिम्बितस्तथा

करोति तां स्पर्शवरः सुखात्मिकां चापि कस्यामपि नाडिसंततौ ॥४३॥

तेन संवित्तिमकुरे विश्वमात्मानमर्पयत्

नाथस्य वदतेऽमुष्य विमलां विश्वरूपताम् ॥४४॥

यथा गन्धरूपस्पृग्रसाद्याः प्रतिबिम्बिताः

तदाधारोपरागेण भान्ति खङ्गे मुखादिवत् ॥४५॥

तथा विश्वमिदं बोधे प्रतिबिम्बितमाश्रयेत्

प्रकाशत्वस्वतन्त्रत्वप्रभृतिं धर्मविस्तरम् ॥४६॥

यथा सर्वतः स्वच्छे स्फटिके सर्वतो भवेत्

प्रतिबिम्बं तथा बोधे सर्वतः स्वच्छताजुषि ॥४७॥

अत्यन्तस्वच्छता सा यत्स्वाकृत्यनवभासनम्

अतः स्वच्छतमो बोधो रत्नं त्वाकृतिग्रहात् ॥४८॥

प्रतिबिम्बं बिम्बेन बाह्यस्थेन समर्प्यते

तस्यैव प्रतिबिम्बत्वे किं बिम्बमवशिष्यताम् ॥४९॥

यद्वापि कारणं किंचिद्बिम्बत्वेनाभिषिच्यते

तदपि प्रतिबिम्बत्वमेति बोधेऽन्यथा त्वसत् ॥५०॥

इत्थमेतत्स्वसंवित्तिदृढन्यायास्त्ररक्षितम्

साम्राज्यमेव विश्वत्र प्रतिबिम्बस्य जृम्भते ॥५१॥

ननु बिम्बस्य विरहे प्रतिबिम्बं कथं भवेत्

किं कुर्मो दृश्यते तद्धि ननु तद्बिम्बमुच्यताम् ॥५२॥

नैवं तल्लक्षणाभावाद्बिम्बं किल किमुच्यते

अन्यामिश्रं स्वतन्त्रं सद्भासमानं मुखं यथा ॥५३॥

स्वरूपानपहानेन पररूपसदृक्षताम्

प्रतिबिम्बात्मतामाहुः खड्गादर्शतलादिवत् ॥५४॥

उक्तं सति बाह्ये ̕पि धीरेकानेकवेदनात्

अनेकसदृशाकारा त्वनेकेति सौगतैः ॥५५॥

नन्वित्थं प्रतिबिम्बस्य लक्षणं किं तदुच्यते

अन्यव्यामिश्रणायोगात्तद्भेदाशक्यभासनम्

प्रतिबिम्बमिति प्राहुर्दर्पणे वदनं यथा ॥५६॥

बोधमिश्रमिदं बोधाद्भेदेनाशक्यभासनम्

परतत्त्वादि बोधे किं प्रतिबिम्बं भण्यते ॥५७॥

लक्षणस्य व्यवस्थैषाकस्माच्चेद्बिम्बमुच्यताम्

प्राज्ञा वस्तुनि युज्यन्ते तु सामयिके ध्वनौ ॥५८॥

ननु प्रतिबिम्बस्य विना बिम्बं भवेत्स्थितिः

किं ततः प्रतिबिम्बे हि बिम्बं तादात्म्यवृत्ति ॥५९॥

अतश्च लक्षणस्यास्य प्रोक्तस्य तदसंभवे

हानिर्हेतुमात्रे तु प्रश्नोऽयं पर्यवस्यति ॥६०॥

तत्रापि निमित्ताख्ये नोपादाने कथंचन

निमित्तकारणानां कदाचित्क्वापि संभवः ॥६१॥

अत एव पुरोवर्तिन्यालोके स्मरणादिना

निमित्तेन घनेनास्तु संक्रान्तदयिताकृतिः ॥६२॥

अन्यथा संविदारूढा कान्ता विच्छेदयोगिनी

कस्माद्भाति वै संविद् विच्छेदं पुरतो गता ॥६३॥

अत एवान्तरं किंचिद्धीसंज्ञं भवतु स्फुटम्

यत्रास्य विच्छिदा भानं संकल्पस्वप्नदर्शने ॥६४॥

अतो निमित्तं देवस्य शक्तयः सन्तु तादृशे

इत्थं विश्वमिदं नाथे भैरवीयचिदम्बरे

प्रतिबिम्बमलं स्वच्छे खल्वन्यप्रसादतः ॥६५॥

अनन्यापेक्षिता यास्य विश्वात्मत्वं प्रति प्रभोः

तां परां प्रतिभां देवीं संगिरन्ते ह्यनुत्तराम् ॥६६॥

अकुलस्यास्य देवस्य कुलप्रथनशालिनी

कौलिकी सा परा शक्तिरवियुक्तो यया प्रभुः ॥६७॥

तयोर्यद्यामलं रूपं संघट्ट इति स्मृतः

आनन्दशक्तिः सैवोक्ता यतो विश्वं विसृज्यते ॥६८॥

परापरात्परं तत्त्वं सैषा देवी निगद्यते

तत्सारं तच्च हृदयं विसर्गः परः प्रभुः ॥६९॥

देवीयामलशास्त्रे सा कथिता कालकर्षिणी

महाडामरके यागे श्रीपरा मस्तके तथा ॥७०॥

श्रीपूर्वशास्त्रे सा मातृसद्भावत्वेन वर्णिता

संघट्टे ̕स्मिंश्चिदात्मत्वाद्यत्तत्प्रत्यवमर्शनम् ॥७१॥

इच्छाशक्तिरघोराणां शक्तीनां सा परा प्रभुः

सैव प्रक्षुब्धरूपा चेदीशित्री संप्रजायते ॥७२॥

तदा घोराः परा देव्यो जाताः शैवाध्वदैशिकाः

स्वात्मप्रत्यवमर्शो यः प्रागभूदेकवीरकः ॥७३॥

ज्ञातव्यविश्वोन्मेषात्मा ज्ञानशक्तितया स्थितः

इयं परापरा देवी घोरां या मातृमण्डलीम् ॥७४॥

सृजत्यविरतं शुद्धाशुद्धमार्गैकदीपिकाम्

ज्ञेयांशः प्रोन्मिषन्क्षोभं यदैति बलवत्त्वतः ॥७५॥

ऊनताभासनं संविन्मात्रत्वे जायते तदा

रूढं तज्ज्ञेयवर्गस्य स्थितिप्रारम्भ उच्यते ॥७६॥

रूढिरेषा विबोधाब्धेश्चित्राकारपरिग्रहः

इदं तद्बीजसंदर्भबीजं चिन्वन्ति योगिनः ॥७७॥

इच्छाशक्तिर्द्विरूपोक्ता क्षुभिताक्षुभिता या

इष्यमाणं हि सा वस्तुद्वैरूप्येणात्मनि श्रयेत् ॥७८॥

अचिरद्युतिभासिन्या शक्त्या ज्वलनरूपया

इष्यमाणसमापत्तिः स्थैर्येणाथ धरात्मना ॥७९॥

उन्मेषशक्तावस्त्येतज्ज्ञेयं यद्यपि भूयसा

तथापि विभवस्थानं सा तु प्राच्यजन्मभूः ॥८०॥

इच्छाशक्तेरतः प्राहुश्चातूरूप्यं परामृतम्

क्षोभान्तरस्यासद्भावान्नेदं बीजं कस्यचित् ॥८१॥

प्रक्षोभकत्वं बीजत्वं क्षोभाधारश्च योनिता

क्षोभकं संविदो रूपं क्षुभ्यति क्षोभयत्यपि ॥८२॥

क्षोभः स्याज्ज्ञेयधर्मत्वं क्षोभणा तद्बहिष्कृतिः

अन्तःस्थविश्वाभिन्नैकबीजांशविसिसृक्षुता ॥८३॥

क्षोभो ̕तदिच्छे तत्त्वेच्छाभासनं क्षोभणां विदुः

यदैक्यापत्तिमासाद्य तदिच्छा कृतिनी भवेत् ॥८४॥

क्षोभाधारमिमं प्राहुः श्रीसोमानन्दपुत्रकाः

संविदामीषणादीनामनुद्भिन्नविशेषकम् ॥८५॥

यज्ज्ञेयमात्रं तद्बीजं यद्योगाद्बीजता स्वरे

तस्य बीजस्य सैवोक्ता विसिसृक्षा उद्भवः

यतो ग्राह्यमिदं भास्यद्भिन्नकल्पं चिदात्मनः ॥८६॥

एष क्षोभः क्षोभणा तु तूष्णींभूतान्यमातृगम्

हठाद्यदौदासीन्यांशच्यावनं संविदो बलात् ॥८७॥

जातापि विसिसृक्षासौ यद्विमर्शान्तरैक्यतः

कृतार्था जायते क्षोभाधारो ̕त्रैतत्प्रकीर्तितम् ॥८८॥

ततस्तदान्तरं ज्ञेयं भिन्नकल्पत्वमिच्छति

विश्वबीजादतः सर्व बाह्यं बिम्बं विवर्त्स्यति ॥८९॥

क्षोभ्यक्षोभकभावस्य सतत्त्वं दर्शितं मया

श्रीमन्महेश्वरेणोक्तं गुरुणा यत्प्रसादतः ॥९०॥

प्रकृतं ब्रूमहे नेदं बीजं वर्णचतुष्टयम्

नापि योनिर्यतो नैतत्क्षोभाधारत्वमृच्छति ॥९१॥

आत्मन्येव विश्रान्त्या तत्प्रोक्तममृतात्मकम्

इत्थं प्रागुदितं यत्तत्पञ्चकं तत्परस्परम् ॥९२॥

उच्छलद्विविधाकारमन्योन्यव्यतिमिश्रणात्

योऽनुत्तरः परः स्पन्दो यश्चानन्दः समुच्छलन् ॥९३॥

ताविच्छोन्मेषसंघट्टाद्गच्छतो ̕तिविचित्रताम्

अनुत्तरानन्दचिती इच्छाशक्तौ नियोजिते ॥९४॥

त्रिकोणमिति तत्प्राहुर्विसर्गामोदसुन्दरम्

अनुत्तरानन्दशक्ती तत्र रूढिमुपागते ॥९५॥

त्रिकोणद्वित्वयोगेन व्रजतः षडरस्थितिम्

एवोन्मेषयोगे ̕पि पुनस्तन्मयतां गते ॥९६॥

क्रियाशक्तेः स्फुटं रूपमभिव्यङ्क्तः परस्परम्

इच्छोन्मेषगतः क्षोभो यः प्रोक्तस्तद्गतेरपि ॥९७॥

ते एव शक्ती ताद्रूप्यभागिन्यौ नान्यथास्थिते

नन्वनुत्तरतानन्दौ स्वात्मना भेदवर्जितौ ॥९८॥

कथमेतावतीमेनां वैचित्रीं स्वात्मनि श्रितौ

शृणु तावदयं संविन्नाथोऽपरिमितात्मकः ॥९९॥

अनन्तशक्तिवैचित्र्यलयोदयकलेश्वरः

अस्थास्यदेकरूपेण वपुषा चेन्महेश्वरः ॥१००॥

महेश्वरत्वं संवित्त्वं तदत्यक्ष्यद्धटादिवत्

परिच्छिन्नप्रकाशत्वं जडस्य किल लक्षणम् ॥१०१॥

जडाद्विलक्षणो बोधो यतो परिमीयते

तेन बोधमहसिन्धोरुल्लासिन्यः स्वशक्तयः ॥१०२॥

आश्रयन्त्यूर्मय इव स्वात्मसंघट्टचित्रताम्

स्वात्मसंघट्टवैचित्र्यं शक्तीनां यत्परस्परम् ॥१०३॥

एतदेव परं प्राहुः क्रियाशक्तेः स्फुटं वपुः

अस्मिंश्चतुर्दशे धाम्नि स्फुटीभूतत्रिशक्तिके ॥१०४॥

त्रिशूलत्वमतः प्राह शास्ता श्रीपूर्वशासने

निरञ्जनमिदं चोक्तं गुरुभिस्तत्त्वदर्शिभिः ॥१०५॥

शक्तिमानञ्ज्यते यस्मान्न शक्तिर्जातु केनचित्

इच्छा ज्ञानं क्रिया चेति यत्पृथक्पृथगञ्ज्यते ॥१०६॥

तदेव शक्तिमत्स्वैः स्वैरिष्यमाणादिकैः स्फुटम्

एतत्त्रितयमैक्येन यदा तु प्रस्फुरेत्तदा ॥१०७॥

केनचिदुपाधेयं स्वस्वविप्रतिषेधतः

लोलीभूतमतः शक्तित्रितयं तत्त्रिशूलकम्

यस्मिन्नाशु समावेशाद्भवेद्योगी निरञ्जनः ॥१०८॥

इत्थं परामृतपदादारभ्याष्टकमीदृशम्

ब्राह्म्यादिरूपसंभेदाद्यात्यष्टाष्टकतां स्फुटम् ॥१०९॥

अत्रानुत्तरशक्तिः सा स्वं वपुः प्रकटस्थितम्

कुर्वन्त्यपि ज्ञेयकलाकालुष्याद्विन्दुरूपिणी ॥११०॥

उदितायां क्रियाशक्तौ सोमसूर्याग्निधामनि

अविभागः प्रकाशो यः बिन्दुः परमो हि नः ॥१११॥

तत्त्वरक्षाविधाने तदुक्तं परमेशिना

हृत्पद्ममण्डलान्तःस्थो नरशक्तिशिवात्मकः ॥११२॥

बोद्धव्यो लयभेदेन विन्दुर्विमलतारकः

योऽसौ नादात्मकः शब्दः सर्वप्राणिष्ववस्थितः ॥११३॥

अधऊर्ध्वविभागेन निष्क्रियेणावतिष्ठते

ह्लादतैक्ष्ण्यादि वैचित्र्यं सितरक्तादिकं यत् ॥११४॥

स्वयं तन्निरपेक्षोऽसौ प्रकाशो गुरुराह

यन्न सूर्यो वा सोमो नाग्निर्भासयते ̕पि ॥११५॥

चार्कसोमवह्नीनां तत्प्रकाशाद्विना महः

किमप्यस्ति निजं किं तु संविदित्थं प्रकाशते ॥११६॥

स्वस्वातन्त्र्यप्रभावोद्यद्विचित्रोपाधिसंगतः

प्रकाशो याति तैक्ष्ण्यादिमवान्तरविचित्रताम् ॥११७॥

दुर्दर्शनोऽपि घर्मांशुः पतितः पाथसां पथि

नेत्रानन्दत्वमभ्येति पश्योपाधेः प्रभाविताम् ॥११८॥

सूर्यादिषु प्रकाशोऽसावुपाधिकलुषीकृतः

संवित्प्रकाशं माहेशमत एव ह्यपेक्षते ॥११९॥

प्रकाशमात्रं सुव्यक्तं सूर्य इत्युच्यते स्फुटम्

प्रकाश्यवस्तुसारांशवर्षि तत्सोम उच्यते ॥१२०॥

सूर्य प्रमाणमित्याहुः सोमं मेयं प्रचक्षते

अन्योन्यमवियुक्तौ तौ स्वतन्त्रावप्युभौ स्थितौ ॥१२१॥

भोक्तृभोग्योभयात्मैतदन्योन्योन्मुखतां गतम्

ततो ज्वलनचिद्रूपं चित्रभानुः प्रकीर्तितः ॥१२२॥

योऽयं वह्नेः परं तत्त्वं प्रमातुरिदमेव तत्

संविदेव तु विज्ञेयतादात्म्यादनपेक्षिणी ॥१२३॥

स्वतन्त्रत्वात्प्रमातोक्ता विचित्रो ज्ञेयभेदतः

सोमांशदाह्यवस्तूत्थवैचित्र्याभासबृंहितः ॥१२४॥

तत एवाग्निरुदितश्चित्रभानुर्महेशिना

ज्ञेयाद्युपायसंघातनिरपेक्षैव संविदः ।१२५

स्थितिर्माताहमस्मीति ज्ञाता शास्त्रज्ञवद्यतः

अज्ञ एव यतो ज्ञातानुभवात्मा रूपतः ॥१२६॥

तु सा ज्ञातृता यस्यां शुद्धज्ञेयाद्यपेक्षते

तस्यां दशायां ज्ञातृत्वमुच्यते योग्यतावशात् ॥१२७॥

मानतैव तु सा प्राच्यप्रमातृपरिकल्पिता

उच्छलन्त्यपि संवित्तिः कालक्रमविवर्जनात् ॥१२८॥

उदितैव सती पूर्णा मातृमेयादिरूपिणी

पाकादिस्तु क्रिया कालपरिच्छेदात्क्रमोचिता ॥१२९॥

मतान्त्यक्षणवन्ध्यापि पाकत्वं प्रपद्यते

इत्थं प्रकाशतत्त्वस्य सोमसूर्याग्निता स्थिता ॥१३०॥

अपि मुख्यं तत्प्रकाशमात्रत्वं व्यपोह्यते

एषां यत्प्रथमं रूपं ह्रस्वं तत्सूर्य उच्यते ॥१३१॥

क्षोभानन्दवशाद्दीर्घविश्रान्त्या सोम उच्यते

यत्तत्परं प्लुतं नाम सोमानन्दात्परं स्थितम् ॥१३२॥

प्रकाशरूपं तत्प्राहुराग्नेयं शास्त्रकोविदाः

अत्र प्रकाशमात्रं यत्स्थिते धामत्रये सति ॥१३३॥

उक्तं विन्दुतया शास्त्रे शिवविन्दुरसौ मतः

मकारादन्य एवायं तच्छायामात्रधृद्यथा ॥१३४॥

रलहाः षण्ठवैसर्गवर्णरूपत्वसंस्थिताः

इकार एव रेफांशच्छाययान्यो यथा स्वरः ॥१३५॥

तथैव महलेशादः सोऽन्यो द्वेधास्वरो ̕पि सन्

अस्यान्तर्विसिसृक्षासौ या प्रोक्ता कौलिकी परा ॥१३६॥

सैव क्षोभवशादेति विसर्गात्मकतां ध्रुवम्

उक्तं त्रिशिरःशास्त्रे कलाव्याप्त्यन्तचर्चने ॥१३७॥

कला सप्तदशी तस्मादमृताकाररूपिणी

परापरस्वस्वरूपबिन्दुगत्या विसर्पिता ॥१३८॥

प्रकाश्यं सर्ववस्तूनां विसर्गरहिता तु सा

शक्तिकुण्डलिका चैव प्राणकुण्डलिका तथा ॥१३९॥

विसर्गप्रान्तदेशे तु परा कुण्डलिनीति

शिवव्योमेति परमं ब्रह्मात्मस्थानमुच्यते ॥१४०॥

विसर्गमात्रं नाथस्य सृष्टिसंहारविभ्रमाः

स्वात्मनः स्वात्मनि स्वात्मक्षेपो वैसर्गिकी स्थितिः ॥१४१॥

विसर्ग एवमुत्सृष्ट आश्यानत्वमुपागतः

हंसः प्राणो व्यञ्जनं स्पर्शश्च परिभाष्यते ॥१४२॥

अनुत्तरं परं धाम तदेवाकुलमुच्यते

विसर्गस्तस्य नाथस्य कौलिकी शक्तिरुच्यते ॥१४३॥

विसर्गता सैवास्या यदानन्दोदयक्रमात्

स्पष्टीभूतक्रियाशक्तिपर्यन्ता प्रोच्छलत्स्थितिः ॥१४४॥

विसर्ग एव तावान्यदाक्षिप्तैतावदात्मकः

इयद्रूपं सागरस्य यदनन्तोर्मिसंततिः ॥१४५॥

अत एव विसर्गोऽयमव्यक्तहकलात्मकः

कामतत्त्वमिति श्रीमत्कुलगुह्वर उच्यते ॥१४६॥

यत्तदक्षरमव्यक्त कान्ताकण्ठे व्यवस्थितम्

ध्वनिरूपमनिच्छं तु ध्यानधारणवर्जितम् ॥१४७॥

तत्र चित्तं समाधाय वशयेद्युगपज्जगत्

अत एव विसर्गस्य हंसे यद्वत्स्फुटा स्थितिः ॥१४८॥

तद्वत्सानुत्तरादीनां कादिसान्ततया स्थितिः

अनुत्तरात्कवर्गस्य सूतिः पञ्चात्मनः स्फुटम् ॥१४९॥

पञ्चशक्त्यात्मतोवश एकैकत्र यथा स्फुटः

इच्छाशक्तेः स्वस्वरूपसंस्थाया एकरूपतः ॥१५०॥

चवर्गः पञ्चशक्त्यात्मा क्रमप्रस्फुटतात्मकः

या तूक्ता ज्ञेयकालुष्यभाक्क्षिप्रचरयोगतः ॥१५१॥

द्विरूपायास्ततो जातं -ताद्यं वर्गयुग्मकम्

उन्मेषात्पादिवर्गस्तु यतो विश्वं समाप्यते ॥१५२॥

ज्ञेयरूपमिदं पञ्चविंशत्यन्तं यतः स्फुटम्

ज्ञेयत्वात्स्फुटतः प्रोक्तमेतावत्स्पर्शरूपकम् ॥१५३॥

इच्छाशक्तिश्च या द्वेधा क्षुभिताक्षुभितत्वतः

सा विजातीयशक्त्यंशप्रोन्मुखी याति यात्मताम् ॥१५४॥

सैव शीघ्रतरोपात्तज्ञेयकालुष्यरूषिता

विजातीयोन्मुखत्वेन रत्वं लत्वं गच्छति ॥१५५॥

तद्वदुन्मेषशक्तिर्द्विरूपा वैजात्यशक्तिगा

वकारत्वं प्रपद्येत सृष्टिसारप्रवर्षकम् ॥१५६॥

इच्छैवानुत्तरानन्दयाता शीघ्रत्वयोगतः

वायुरित्युच्यते वह्निर्भासनात्स्थैर्यतो धरा ॥१५७॥

इदं चतुष्कमन्तःस्थमत एव निगद्यते

इच्छाद्यन्तर्गतत्वेन स्वसमाप्तौ संस्थितेः ॥१५८॥

सजातीयकशक्तीनामिच्छाद्यानां योजनम्

क्षोभात्मकमिदं प्राहुः क्षोभाक्षोभात्मनामपि ॥१५९॥

अनुत्तरस्य साजात्ये भवेत्तु द्वितयी गतिः

अनुत्तरं यत्तत्रैकं तच्चेदानन्दसूतये ॥१६०॥

प्रभविष्यति तद्योगे योगः क्षोभात्मकः स्फुटः

अत्राप्यनुत्तरं धाम द्वितीयमपि सूतये ॥१६१॥

पर्याप्तं तदा क्षोभं विनैवानुत्तरात्मता

इच्छा या कर्मणा हीना या चैष्टव्येन रूषिता ॥१६२॥

शीघ्रस्थैर्यप्रभिन्नेन त्रिधा भावमुपागता

अनुन्मिषितमुन्मीलत्प्रोन्मीलितमिति स्थितम् ॥१६३॥

इष्यमाणं त्रिधैतस्यां ताद्रूप्यस्यापरिच्युतेः

तदेव स्वोष्मणा स्वात्मस्वातन्त्र्यप्रेरणात्मना ॥१६४॥

बहिर्भाव्य स्फुटं क्षिप्तं --सत्रितयं स्थितम्

तत एव सकारे ̕स्मिन्स्फुटं विश्वं प्रकाशते ॥१६५॥

अमृतं परं धाम योगिनस्तत्प्रचक्षते

क्षोभाद्यन्तविरामेषु तदेव परामृतम् ॥१६६॥

सीत्कारसुखसद्भावसमावेशसमाधिषु

तदेव ब्रह्म परममविभक्तं प्रचक्षते ॥१६७॥

उवाच भगवानेव तच्छ्रीमत्कुलगुह्करे

शक्तिशक्तिमदैकात्म्यलब्धान्वर्थाभिधानके ॥१६८॥

काकचञ्चुपुटाकारं ध्यानधारणवर्जितम्

विषतत्त्वमनच्काख्यं तव स्नेहात्प्रकाशितम् ॥१६९॥

कामस्य पूर्णता तत्त्वं संघट्टे प्रविभाव्यते

विषस्य चामृतं तत्त्वं छाद्यत्वेऽणोश्च्युते सति ॥१७०॥

व्याप्त्री शक्तिर्विषं यस्मादव्याप्तुश्छादयेन्महः

निरञ्जनं परं धाम तत्त्वं तस्य तु साञ्जनम् ॥१७१॥

क्रियाशक्त्यात्मकं विश्वमयं तस्मात्स्फुरेद्यतः

इच्छा कामो विषं ज्ञानं क्रिया देवी निरञ्जनम् ॥१७२॥

एतत्त्रयसमावेशः शिवो भैरव उच्यते

अत्र रूढिं सदा कुर्यादिति नो गुरवो जगुः ॥१७३॥

विषतत्त्वे संप्रविश्य भूतं विषं

ग्रहः केवल एवाहमिति भावनया स्फुरेत् ॥१७४॥

नन्वत्र षण्ठवर्णेभ्यो जन्मोक्तं तेन षण्ठता

कथं स्यादिति चेद्ब्रूमो नात्र षण्ठस्य सोतृता ॥१७५॥

तथाहि तत्रगा यासाविच्छाशक्तिरुदीरिता

सैव सूते स्वकर्तव्यमन्तःस्थं स्वेष्टरूपकम् ॥१७६॥

यत्त्वत्र रूषणाहेतुरेषितव्यं स्थितं ततः

भागान्न प्रसवस्तज्जं कालुष्यं तद्वपुश्च तत् ॥१७७॥

ज्ञेयारूषणया युक्तं समुदायात्मकं विदुः

षण्ठं क्षोभकताक्षोभधामत्वाभावयोगतः ॥१७८॥

एतद्वर्णचतुष्कस्य स्वोष्मणाभासनावशात्

ऊष्मेति कथितं नाम भैरवेणामलात्मना ॥१७९॥

कादि-हान्तमिदं प्रहुः क्षोभाधारतया बुधाः

योनिरूपेण तस्यापि योगे क्षोभान्तरं व्रजेत् ॥१८०॥

तन्निदर्शनयोगेन पञ्चाशत्तमवर्णता

पञ्चविंशकसंज्ञेयप्राग्वद्भूमिसुसंस्थितम् ॥१८१॥

चतुष्कं चतुष्कं भेदाभेदगतं क्रमात्

आद्यं चतुष्कं संवित्तेर्भेदसंधानकोविदम् ॥१८२॥

भेदस्याभेदरूढ्येकहेतुरन्यच्चतुष्टयम्

इत्थं यद्वर्णजातं तत्सर्व स्वरमयं पुरा ॥१८३॥

व्यक्तियोगाद्व्यञ्जनं तत्स्वरप्राणं यतः किल

स्वराणां षट्कमेवेह मूलं स्याद्वर्णसंततौ ॥१८४॥

षड्देवतास्तु ता एव ये मुख्याः सूर्यरश्मयः

सौराणामेव रश्मीनामन्तश्चान्द्रकला यतः ॥१८५॥

अतोऽत्र दीर्घत्रितयं स्फुटं चान्द्रमसं वपुः

चन्द्रश्च नाम नैवान्यो भोग्यं भोक्तुश्च नापरम् ॥१८६॥

भोक्तैव भोग्यभावेन द्वैविध्यात्संव्यवस्थितः

घटस्य हि भोग्यत्वं स्वं वपुर्मातृगं हि तत् ॥१८७॥

अतो मातरि या रूढिः सास्य भोग्यत्वमुच्यते

अनुत्तरं परामृश्यपरामर्शकभावतः ॥१८८॥

संघट्टरूपतां प्राप्तं भोग्यमिच्छादिकं तथा

अनुत्तरानन्दभुवामिच्छाद्ये भोग्यतां गते ॥१८९॥

संध्यक्षराणामुदयो भोक्तृरूपं कथ्यते

अनुत्तरानन्दमयो देवो भोक्तैव कथ्यते ॥१९०॥

इच्छादिकं भोग्यमेव तत एवास्य शक्तिता

भोग्यं भोक्तरि लीनं चेद् भोक्ता तद्वस्तुतः स्फुटः ॥१९१॥

अतः षण्णां त्रिकं सारं चिदिष्युन्मेषणात्मकम्

तदेव त्रितयं प्राहुर्भैरवस्य परं महः ॥१९२॥

तत्त्रिकं परमेशस्य पूर्णा शक्तिः प्रगीयते

तेनाक्षिप्तं यतो विश्वमतो ̕स्मिन्समुपासिते ॥१९३॥

विश्वशक्ताववच्छेदवन्ध्ये जातमुपासनम्

इत्येष महिमैतावानिति तावन्न शक्यते ॥१९४॥

अपरिच्छिन्नशक्तेः कः कुर्याच्छक्तिपरिच्छिदाम्

तस्मादनुत्तरो देवः स्वाच्छन्द्यानुत्तरत्वतः ॥१९५॥

विसर्गशक्तियुक्तत्वात्संपन्नो विश्वरूपकः

एवं पञ्चाशदामर्शपूर्णशक्तिर्महेश्वरः ॥१९६॥

विमर्शात्मैक एवान्याः शक्तयो ̕त्रैव निष्ठिताः

एकाशीतिपदा देवी ह्यत्रान्तर्भावयिष्यते ॥१९७॥

एकामर्शस्वभावत्वे शब्दराशिः भैरवः

आमृश्यच्छायया योगात्सैव शक्तिश्च मातृका ॥१९८॥

सा शब्दराशिसंघट्टाद्भिन्नयोनिस्तु मालिनी

प्राग्वन्नवतयामर्शात्पृथग्वर्गस्वरूपिणी ॥१९९॥

एकैकामर्शरूढौ तु सैव पञ्चाशदात्मिका

इत्थं नादानुवेधेन परामर्शस्वभावकः ॥२००॥

शिवो मातापितृत्वेन कर्ता विश्वत्र संस्थितः

विसर्ग एव शाक्तोऽयं शिवबिन्दुतया पुनः ॥२०१॥

गर्भीकृतानन्तविश्वः श्रयतेऽनुत्तरात्मताम्

अपरिच्छिन्नविश्वान्तःसारे स्वात्मनि यः प्रभोः ॥२०२॥

परामर्शः एवोक्तो द्वयसंपत्तिलक्षणः

अनुत्तरविसर्गात्मशिवशक्त्यद्वयात्मनि ॥२०३॥

परामर्शो निर्भरत्वादहमित्युच्यते विभोः

अनुत्तराद्या प्रसृतिर्हान्ता शक्तिस्वरूपिणी ॥२०४॥

प्रत्याहृताशेषविश्वानुत्तरे सा निलीयते

तदिदं विश्वमन्तःस्थं शक्तौ सानुत्तरे परे ॥२०५॥

तत्तस्यामिति यत्सत्यं विभुना संपुटीकृतिः

तेन श्रीत्रीशिकाशास्त्रे शक्तेः संपुटिताकृतिः ॥२०६॥

संवित्तौ भाति यद्विश्वं तत्रापि खलु संविदा

तदेतत्त्रितयं द्वन्द्वयोगात्संघाततां गतम् ॥२०७॥

एकमेव परं रूपं भैरवस्याहमात्मकम्

विसर्गशक्तिर्या शंभोः सेत्थं सर्वत्र वर्तते ॥२०८॥

तत एवसमस्तोऽयमानन्दरसविभ्रमः

तथाहि मधुरे गीते स्पर्शे वा चन्दनादिके ॥२०९॥

माध्यस्थ्यविगमे यासौ हृदये स्पन्दमानता

आनन्दशक्तिः सैवोक्ता यतः सहृदयो जनः ॥२१०॥

पूर्व विसृज्यसकलं कर्तव्यं शून्यतानले

चित्तविश्रान्तिसंज्ञोऽयमाणवस्तदनन्तरम् ॥२११॥

दृष्टश्रुतादितद्वस्तुप्रोन्मुखत्वं स्वसंविदि

चित्तसंबोधनामोक्तः शाक्तोल्लासभरात्मकः ॥२१२॥

तत्रोन्मुखत्वतद्वस्तुसंघट्टाद्वस्तुनो हृदि

रूढेः पूर्णतयावेशान्मितचित्तलयाच्छिवे ॥२१३॥

प्राग्वद्भविष्यदौन्मुख्यसंभाव्यमिततालयात्

चित्तप्रलयनामासौ विसर्गः शाम्भवः परः ॥२१४॥

तत्त्वरक्षाविधानेऽतो विसर्गत्रैधमुच्यते

हृत्पद्मकोशमध्यस्थस्तयोः संघट्ट इष्यते ॥२१५॥

विसर्गोऽन्तः प्रोक्तश्चित्तविश्रान्तिलक्षणः

द्वितीयः विसर्गस्तु चित्तसंबोधलक्षणः ॥२१६॥

एकीभूतं विभात्यत्र जगदेतच्चराचरम्

ग्राह्यग्राहकभेदो वै किंचिदत्रेष्यते यदा ॥२१७॥

तदासौ सकलः प्रोक्तो निष्कलः शिवयोगतः

ग्राह्यग्राहकविच्छित्तिसंपूर्णग्रहणात्मकः ॥२१८॥

तृतीयः विसर्गस्तु चित्तप्रलयलक्षणः

एकीभावात्मकः सूक्ष्मो विज्ञानात्मात्मनिर्वृतः ॥२१९॥

निरूपितोऽयमर्थः श्रीसिद्धयोगीश्वरीमते

सात्र कुण्डलिनी बीजं जीवभूता चिदात्मिका ॥२२०॥

तज्जं ध्रुवेच्छोन्मेषाख्यं त्रिकं वर्णास्ततः पुनः

इत्यवर्णादित्यादियावद्वैसर्गिकी कला ॥२२१॥

ककारादिसकारान्ता विसर्गात्पञ्चधा

बहिश्चान्तश्च हृदये नादेऽथ परमे पदे ॥२२२॥

बिन्दुरात्मनि मूर्धान्तं हृदयाद्व्यापको हि सः

आदिमान्त्यविहीनास्तु मन्त्राः स्युः शरदभ्रवत् ॥२२३॥

गुरोर्लक्षणमेतावदादिमान्त्यं वेदयेत्

पूज्यः सोऽहमिव ज्ञानी भैरवो देवतात्मकः ॥२२४॥

श्लोकगाथादि यत्किंचिदादिमान्त्ययुतं ततः

तस्माद्विदंस्तथा सर्वं मन्त्रत्वेनैव पश्यति ॥२२५॥

विसर्गशक्तिर्विश्वस्य कारणं निरूपिता

ऐतरेयाख्यवेदान्ते परमेशेन विस्तरात् ॥२२६॥

यल्लोहितं तदग्निर्यद्वीर्यं सूर्येन्दुविग्रहम्

इति ब्रह्म परमं तत्संघट्टोदयात्मकम् ॥२२७॥

तस्यापि परं वीर्य पञ्चभूतकलात्मकम्

भोग्यत्वेनान्नरूपं शब्दस्पर्शरसात्मकम् ॥२२८॥

शब्दोऽपि मधुरो यस्माद्वीर्योपचयकारकः

तद्धि वीर्यं परं शुद्धं विसिसृक्षात्मकं मतम् ॥२२९॥

तद्बलं तदोजश्च ते प्राणाः सा कान्तता

तस्माद्वीर्यात्प्रजास्ताश्च वीर्य कर्मसु कथ्यते ॥२३०॥

यज्ञादिकेषु तद्वृष्टौ सौषधीष्वथ ताः पुनः

वीर्ये तच्च प्रजास्वेवं विसर्गे विश्वरूपता ॥२३१॥

शब्दराशिः एवोक्तो मातृका साच कीर्तिता

क्षोभ्यक्षोभकतावेशान्मालिनीं तां प्रचक्षते ॥२३२॥

बीजयोनिसमापत्तिविसर्गोदयसुन्दरा

मालिनी हि परा शक्तिर्निर्णीता विश्वरूपिणी ॥२३३॥

एषा वस्तुत एकैव परा कालस्य कर्षिणी

शक्तिमद्भेदयोगेन यामलत्वं प्रपद्यते ॥२३४॥

तस्य प्रत्यवमर्शो यः परिपूर्णोऽहमात्मकः

स्वात्मनि स्वतन्त्रत्वाद्विभागमवभासयेत् ॥२३५॥

विभागाभासने चास्य त्रिधा वपुरुदाहृतम्

पश्यन्ती मध्यमा स्थूला वैखरीत्यभिशब्दितम् ॥२३६॥

तासामपि त्रिधा रूपं स्थूलसूक्ष्मपरत्वतः

तत्र या स्वरसन्दर्भसुभगा नादरूपिणी ॥२३७॥

सा स्थूला खलु पश्यन्ती वर्णाद्यप्रविभागतः

अविभागैकरूपत्वं माधुर्यं शक्तिरुच्यते ॥२३८॥

स्थानवाय्वादिघर्षोत्था स्फुटतैव पारुषी

तदस्यां नादरूपायां संवित्सविधवृत्तितः ॥२३९॥

साजात्यान्तर्म[त्तम] यीभूतिर्झगित्येवोपलभ्यते

येषां तन्मयीभूतिस्ते देहादिनिमज्जनम् ॥२४०॥

अविदन्तो मग्नसंविन्मानास्त्वहृदया इति

यत्तुचर्मावनद्धादि किंचित्तत्रैष यो ध्वनिः ॥२४१॥

स्फुटास्फुटरूपत्वान्मध्यमा स्थूलरूपिणी

मध्यायाश्चाविभागांशसद्भाव इति रक्तता ॥२४२॥

अविभागस्वरमयी यत्र स्यात्तत्सुरञ्जकम्

अविभागो हि निर्वृत्यै दृश्यतां तालपाठतः ॥२४३॥

किलाव्यक्तध्वनौ तस्मिन्वादने परितुष्यति

या तु स्फुटानां वर्णानामुत्पत्तौ कारणं भवेत् ॥२४४॥

सा स्थूला वैखरी यस्याः कार्यं वाक्यादि भूयसा

अस्मिन्स्थूलत्रये यत्तदनुसन्धानमादिवत् ॥२४५॥

पृथक्पृथक्तत्त्रितयं सूक्ष्ममित्यभिशब्द्यते

षड्जं करोमि मधुरं वादयामि ब्रुवे वचः ॥२४६॥

पृथगेवानुसन्धानत्रयं संवेद्यते किल

एतस्यापि त्रयस्याद्यं यद्रुपमनुपाधिमत् ॥२४७॥

तत्परं त्रितयं तत्र शिवः परचिदात्मकः

विभागाभासनायां मुख्यास्तिस्रोऽत्र शक्तयः ॥२४८॥

अनुत्तरा परेच्छा परापरतया स्थिता

उन्मेषशक्तिर्ज्ञानाख्या त्वपरेति निगद्यते ॥२४९॥

क्षोभरूपात्पुनस्तासामुक्ताः षट् संविदोऽमलाः

आसामेव समावेशात्क्रियाशक्तितयोदितात् ॥२५०॥

संविदो द्वादश प्रोक्ता यासु सर्वं समाप्यते

एतावद्देवदेवस्य मुख्यं तच्छक्तिचक्रकम् ॥२५१॥

एतावता देवदेवः पूर्णशक्तिः भैरवः

परामर्शात्मकत्वेन विसर्गाक्षेपयोगतः ॥२५२॥

इयत्ताकलनाज्ज्ञानात्ताः प्रोक्ताः कालिकाः क्वचित्

श्रीसारशास्त्रे चाप्युक्तं मध्य एकाक्षरां पराम् ॥२५३॥

पूजयेद्भैरवात्माख्यां योगिनीद्वादशावृताम्

ताभ्य एव चतुःषष्टिपर्यन्तं शक्तिचक्रकम् ॥२५४॥

एकारतः समारभ्य सहस्रारं प्रवर्तते

तासां कृत्यभेदेन नामानि बहुधागमे ॥२५५॥

उपासाश्च द्वयाद्वैतव्यामिश्राकारयोगतः

श्रीमत्त्रैशिरमे तच्च कथितं विस्तराद्बहु ॥२५६॥

इह नो लिखितं व्यासभयाच्चानुपयोगतः

ता एव निर्मलाः शुद्धा अघोराः परिकीर्तिताः ॥२५७॥

घोरघोरतराणां तु सोतृत्वाच्च तदात्मिकाः

सृष्टौ स्थितौ संहारे तदुपाधित्रयात्यये ॥२५८॥

तासामेव स्थितं रूपं बहुधा प्रविभज्यते

उपाध्यतीतं यद्रूपं तद्द्विधा गुरवो जगुः ॥२५९॥

अनुल्लासादुपाधीनां यद्वा प्रशमयोगतः

प्रशमश्च द्विधा शान्त्या हठपाकक्रमेण तु ॥२६०॥

अलं ग्रासरसाख्येन सततं ज्वलनात्मना

हठपाकप्रशमनं यत्तृतीयं तदेव

उपदेशाय युज्येत भेदेन्धनविदाहकम् ॥२६१॥

निजबोधजठरहुतभुजि भावाः सर्वे समर्पिता हठतः

विजहति भेदविभागं निजशक्त्या तं समिन्धानाः ॥२६२॥

हठपाकेन भावानां रूपे भिन्ने विलापिते

अश्नन्त्यमृतसाद्भूतं विश्वं संवित्तिदेवताः ॥२६३॥

तास्तृप्ताः स्वात्मनः पूर्ण हृदयैकान्तशायिनम्

चिद्व्योमभैरवं देवमभेदेनाधिशेरते ॥२६४॥

एवं कृत्यक्रियावेशान्नामोपासाबहुत्वतः

आसां बहुविधं रूपमभेदेऽप्यवभासते ॥२६५॥

आसामेव देवीनामावापोद्वापयोगतः

एकद्वित्रिचतुष्पञ्चषट्सप्ताष्टनवोत्तरैः ॥२६६॥

रुद्रार्कान्यकलासेनाप्रभृतिर्भेदविस्तरः

अलमन्येन बहुना प्रकृतेऽथ नियुज्यते ॥२६७॥

संविदात्मनि विश्वोऽयं भाववर्गः प्रपञ्चवान्

प्रतिबिम्बतया भाति यस्य विश्वेश्वरो हि सः ॥२६८॥

एवमात्मनि यस्येदृगविकल्पः सदोदयः

परामर्शः एवासौ शांभवोपायमुद्रितः ॥२६९॥

पूर्णाहन्तापरामर्शो यो ̕स्यायं प्रविवेचितः

मन्त्रमुद्राक्रियोपासास्तदन्या नात्र काश्चन ॥२७०॥

भूयोभूयः समावेशं निर्विकल्पमिमं श्रितः

अभ्येति भैरवीभावं जीवन्मुक्त्यपराभिधम् ॥२७१॥

इत एव प्रभृत्येषा जीवन्मुक्तिर्विचार्यते

यत्र सूत्रणयापीयमुपायोपेयकल्पना ॥२७२॥

प्राक्तने त्वाह्निके काचिद्भेदस्य कलनापि नो

तेनानुपाये तस्मिन्को मुच्यते वा कथं कुतः ॥२७३॥

निर्विकल्पे परामर्शे शाम्भवोपायनामनि

पञ्चाशद्भेदतां पूर्वसूत्रितां योजयेद्बुधः ॥२७४॥

धरामेवाविकल्पेन स्वात्मनि प्रतिबिम्बिताम्

पश्यन्भैरवतां याति जलादिष्वप्ययं विधिः ॥२७५॥

यावदन्ते परं तत्त्वं समस्तावरणोर्ध्वगम्

व्यापि स्वतन्त्रं सर्वज्ञं यच्छिवं परिकल्पितम् ॥२७६॥

तदप्यकल्पितोदारसंविद्दर्पणबिम्बितम्

पश्यन्विकल्पविकलो भैरवीभवति स्वयम् ॥२७७॥

यथा रक्तं पुरः पश्यन्निर्विकल्पकसंविदा

तत्तद्द्वारनिरंशैकघटसंवित्तिसुस्थितः ॥२७८॥

तद्वद्धरादिकैकैकसंघातसमुदायतः

परामृशन्स्वमात्मानं पूर्ण एवावभासते ॥२७९॥

मत्त एवोदितमिदं मय्येव प्रतिबिम्बितम्

मदभिन्नमिदं चेति त्रिधोपायः शाम्भवः ॥२८०॥

सृष्टेः स्थितेः संहृतेश्च तदेतत्सूत्रणं कृतम्

यत्र स्थितं यतश्चेति तदाह स्पन्दशासने ॥२८१॥

एतावतैव ह्यैश्वर्य संविदः ख्यापितं परम्

विश्वात्मकत्वं चेत्यन्यल्लक्षणं किं नु कथ्यताम् ॥२८२॥

स्वात्मन्येव चिदाकाशे विश्वमस्म्यवभासयन्

स्रष्टा विश्वात्मक इति प्रथया भैरवात्मता ॥२८३॥

षडध्वजातं निखिलं मय्येव प्रतिबिम्बितम्

स्थितिकर्ताहमस्मीति स्फुटेयं विश्वरूपता ॥२८४॥

सदोदितमहाबोधज्वालाजटिलतात्मनि

विश्वं द्रवति मय्येतदिति पश्यन्प्रशाम्यति ॥२८५॥

अनन्तचित्रसद्गर्भसंसारस्वप्नसद्मनः

प्लोषकः शिव एवाहमित्युल्लासी हुताशनः ॥२८६॥

जगत्सर्वं मत्तः प्रभवति विभेदेन बहुधा तथाप्येतद्रूढं मयि विगलिते त्वत्र परः

तदित्थं यः सृष्टिस्थितिविलयभेकीकृतिवशादनंशं पश्येत्स स्फुरति हि तुरीयं पदभितः ॥२८७॥

तदस्मिन्परमोपाये शाम्भवाद्वैतशालिनि

केऽप्येव यान्ति विश्वासं पस्मेशेन भाविताः ॥२८८॥

स्नानं व्रतं देहशुद्धिर्धारणा मन्त्रयोजना

अध्वक्लृप्तिर्यागविधिर्होमजप्यसमाधयः ॥२८९॥

इत्यादिकल्पना कापि नात्र भेदेन युज्यते

परानुग्रहकारित्वमत्रस्थस्य स्फुटं स्थितम् ॥२९०॥

यदि तादृगनुग्राह्यो दैशिकस्योपसर्पति

अथासौ तादृशो स्याद्भवभक्त्या भावितः ॥२९१॥

तं चाराधयते भावितादृशानुग्रहेरितः

तदा विचित्रं दीक्षादिविधिं शिक्षेत कोविंदः ॥२९२॥

भाविन्यो ̕पि ह्युपासास्ता स्त्रैवायान्ति निष्ठितिम्

एतन्मयत्वं परमं प्राप्यं निर्वर्ण्यतेशिवम् ॥२९३॥

इति कथितमिदं सुविस्तरं परमं शाम्भवमात्मवेदनम् ॥२९४॥

 


 

     Bookmark and Share

 

 

Creative Commons License

Precedente Home Successiva

AGHORI BREVE STORIA GRANDE MADRE SADHANA CHAKRA AYURVEDA CORSO DI YOGA EVENTI GALLERIA SITI CONSIGLIATI CONTATTACI GUESTBOOK SITE MAP PDF IN ITA

Privacy Policy