Tantraloka

by Abhinavagupta

 

In Sanscrito:

 

CAP.1 - CAP.2 - CAP.3 - CAP.4 - CAP.5 - CAP.6 - CAP.7 - CAP.8 - CAP.9 - CAP.10

CAP.11 - CAP.12 - CAP.13 - CAP.14 - CAP.15 - CAP.16 - CAP.17 - CAP.18 - CAP.19 - CAP.20

CAP.21 - CAP.22 - CAP.23 - CAP.24 - CAP.25 - CAP.26 - CAP.27 - CAP.28 - CAP.29 - CAP.30 

CAP.31 - CAP.32 - CAP.33 - CAP.34 - CAP.35 - CAP.36 - CAP.37 - Testo translitterato

pdf: Testo in sanscrito - Testo translitterato - Tantraloka with commentary by Rajanaka Jayaratha Vol.1 - Vol.2 - Vol.3 - Vol.4 - Vol.5 - Vol.6

 

 

TANTRALOKA SANSCRITO

 

 

Capitolo 10

 

 

अथ श्रीतन्त्रालोके दशममाह्निकम्

 

उच्यते त्रिकशास्त्रेकरहस्यं तत्त्वभेदनम् ॥१॥

तेषाममीषां तत्त्वानां स्ववर्गेष्वनुगामिनाम्

भेदान्तरमपि प्रोक्तं शास्त्रेऽत्र श्रीत्रिकाभिधे ॥२॥

शक्तिमच्छक्तिभेदेन धराद्यं मूलपश्चिमम्

भिद्यते पञ्चदशधा स्वरूपेण सहानरात् ॥३॥

कलान्तं भेदयुग्घीनं रुद्रवत्प्रलयाकलः

तद्वन्माया नवधा ज्ञाकलाः सप्तधा पुनः ॥४॥

मन्त्रास्तदीशाः पाञ्चध्ये मन्त्रेशपतयस्त्रिधा

शिवो भिद्यते स्वैकप्रकाशघनचिन्मयः ॥५॥

शिवो मन्त्रमहेशेशमन्त्रा अकलयुक्कली

शक्तिमन्तः सप्त तथा शक्तयस्तच्चतुर्दश ॥६॥

स्वं स्वरूपं पञ्चदशं तद्भूः पञ्चदशात्मिका

तथाहि तिस्रो देवस्य शक्तयो वर्णिताः पुरा ॥७॥

ता एव मातृमामेयत्रैरूप्येण व्यवस्थिताः

परांशो मातृरूपोऽत्र प्रमाणांशः परापरः ॥८॥

मेयोऽपरः शक्तिमांश्च शक्तिः स्वं रूपमित्यदः

तत्र स्वरूपं भूमेर्यत्पृथग्जडमवस्थितम् ॥९॥

मातृमानाद्युपधिभिरसंजातोपरागकम्

सकलादिशिवान्तैस्तु मातृभिर्वेद्यतास्य या ॥१०॥

शक्तिमद्भिरनुद्भूतशक्तिभिः सप्त तद्भिदः

सकलादिशिवान्तानां शक्तिषूद्रेचितात्मसु ॥११॥

वेद्यताजनिताः सप्त भेदा इति चतुर्दश

सकलस्य प्रमाणांशो योऽसौ विद्याकलात्मकः ॥१२॥

सामान्यात्मा शक्तित्वे गणितो नतु तद्भिदः

लयाकलस्य मानांशः एव परमस्फुटः ॥१३॥

ज्ञानाकलस्य मानं तु गलद्विद्याकलावृति

अशुद्धविद्याकलनाध्वंससंस्कारसंगता ॥१४॥

प्रबुभुत्सुः शुद्धविद्या सन्त्राणां करणं भवेत्

प्रबुद्धा शुद्धविद्या तु तत्संस्कारेण संगता ॥१५॥

मानं मन्त्रेश्वराणां स्यात्तत्संस्कारविवर्जिता

मानं मन्त्रमहेशानां करणं शक्तिरुच्यते ॥१६॥

स्वातन्त्र्यमात्रसद्भावा या त्विच्छा शक्तिरैश्वरी

शिवस्य सैव करणं तया वेत्ति करोति ॥१७॥

शिवात्सकलान्तं ये मातारः सप्त ते द्विधा

न्यग्भूतोद्रिक्तशक्तित्वात्तद्भेदो वेद्यभेदकः ॥१८॥

तथाहि वेद्यता नाम भावस्यैव निजं वपुः

चैत्रेण वेद्यं वेद्मीति किंह्यत्र प्रतिभासताम् ॥१९॥

ननु चैत्रीयविज्ञानमात्रमत्र प्रकाशते

वेद्यताख्यस्तु नो धर्मो भाति भावस्य नीलवत् ॥२०॥

वेद्यता स्वभावेन धर्मो भावस्य चेत्ततः

सर्वान्प्रत्येव वेद्यः स्याद्धटनीलादिधर्मवत् ॥२१॥

अथ वेदकसंवित्तिबलाद्वेद्यत्वधर्मभाक्

भावस्तथापि दोषोऽसौ कुविन्दकृतवस्त्रवत् ॥२२॥

वेद्यताख्यस्तु यो धर्मः सो ̕वेद्यश्चेत्खपुष्पवत्

वेद्यश्चेदस्ति तत्रापि वेद्येतत्यनवस्थितिः ॥२३॥

ततो किंचिद्वेद्यं स्यान्मूर्छितं तु जगद्भवेत्

ननु विज्ञात्रुपाध्यं शो पस्कृतं वपुरुच्यताम् ॥२४॥

भावस्यार्थप्रकाशात्म यथा ज्ञानमिदं त्वसत्

एकविज्ञातृवेद्यत्वे ज्ञात्रन्तरवेद्यता ॥२५॥

समस्तज्ञातृवेद्यत्वे नैकविज्ञातृवेद्यता

तस्मान्न वेद्यता नाम भावधर्मो ̕स्ति कश्चन ॥२६॥

भावस्य वेद्यता सैव संविदो यः समुद्भवः

अर्थग्रहणरूपं हि यत्र विज्ञानमात्मनि ॥२७॥

समवैति प्रकाश्योऽर्थस्तं प्रत्येषैव वेद्यता

अत्र ब्रूमः पदार्थानां धर्मो यदि वेद्यता ॥२८॥

अवेद्या एव ते संस्युर्ज्ञाने सत्यपि वर्णिते

यथाहि पृथुबुध्नादिरूपे कुम्भस्य सत्यपि ॥२९॥

अतदात्मा पटो नैति पृथुबुध्नादिरूपताम्

तथा सत्यपि विज्ञाने विज्ञातृसमवायिनि ॥३०॥

अवेद्यधर्मका भावाः कथं वेद्यत्वमाप्नुयुः

अनर्थः सुमहांश्चैष दृश्यतां वस्तु यत्स्वयम् ॥३१॥

प्रकाशात्म तत्संविच्चाप्रकाशा तदाश्रयः

अप्रकाशो मनोदीपचक्षुरादि तथैव तत् ॥३२॥

किं तत्प्रकाशतां नाम सुप्ते जगति सर्वतः

ज्ञानस्यार्थप्रकाशत्वं ननु रूपं प्रदीपवत् ॥३३॥

अपूर्वमत्र विदितं नरीनृत्यामहे ततः

अर्थप्रकाशो ज्ञानस्य यद्रूपं तन्निरूप्यताम् ॥३४॥

अर्थः प्रकाशश्चेद्रूपमर्थो वा ज्ञानमेव वा

अथार्थस्य प्रकाशो यस्तद्रूपमिति भण्यते ॥३५॥

षष्ठी कर्तरि चेदुक्तो दोष एव दुरुद्धरः

अथ कर्मणि षष्ठ्येषा ण्यर्थस्तत्र हृदि स्थितः ॥३६॥

तथा चेदं दर्शयामः किं प्रकाशः प्रकाशते

अप्रकाशोऽपि नैवासौ तथापि किंचन ॥३७॥

तर्हि लोके कथं ण्यर्थः उच्यते चेतनस्थितौ

मुख्यो ण्यर्थस्य विषयो जडेषु त्वौपचारिकः ॥३८॥

तथाहि गन्तुं शक्तो ̕पि चैत्रोऽन्यायत्ततां गतेः

मन्वान एव वक्त्यस्मि गमितः स्वामिनेति हि ॥३९॥

स्वाम्यप्यस्य गतौ शक्तिं बुद्ध्वा स्वाधीनतां स्फुटम्

पश्यन्निवृत्तिमाशंक्य गमयामीति भाषते ॥४०॥

प्रेर्यप्रेरकयोरेवं मौलिकी ण्यर्थसंगतिः

तदभिप्रायतोऽन्योऽपि लोके व्यवहरेत्तथा ॥४१॥

शरं गमयतीत्यत्र पुनर्वेगाख्यसंस्क्रियाम्

विदधत्प्रेरकम्मन्य उपचारेण जायते ॥४२॥

वायुरद्रिं पातयतीत्यत्र द्वावपि तौ जडौ

द्रष्टृभिः प्रेरकप्रेर्यवपुषा परिकल्पितौ ॥४३॥

इत्थं जडेन संबन्धे मुख्या ण्यर्थसंगतिः

आस्तामन्यत्र विततमेतद्विस्तरतो मया ॥४४॥

अर्थे प्रकाशना सेयमुपचारस्ततो भवेत्

अस्तु चेद्भासते तर्हि एव पतदद्रिवत् ॥४५॥

उपचारे निमित्तेन केनापि किल भूयते

वायुः पातयतीत्यत्र निमित्तं तत्कृता क्रिया ॥४६॥

गिरौ येनैष संयोगनाशाद्भ्रंशं प्रपद्यते

इह तु ज्ञानमर्थस्य किंचित्करमेव तत् ॥४७॥

उपचारः कथं नाम भवेत्सो ̕पि ह्यवस्तुसन्

अप्रकाशित एवार्थः प्रकाशत्वोपचारतः ॥४८॥

तादृगेव शिशुः किं हि दहत्यग्न्युपचारतः

शिशौ वह्न्युपचारे यद्बीजं तैक्ष्ण्यादि तच्च सत् ॥४९॥

प्रकाशत्वोपचारे तु किं बीजं यत्र सत्यता

सिद्धे हि चेतने युक्त उपचारः हि स्फुटम् ॥५०॥

अध्यारोपात्मकः सोऽपि प्रतिसंधानजीवितः

चाद्यापि किमप्यस्ति चेतनं ज्ञानमप्यदः ॥५१॥

अप्रकाशं तदन्येन तत्प्रकाशेऽप्ययं विधिः

ननु प्रदीपो रूपस्य प्रकाशः कथमीदृशम् ॥५२॥

अत्रापि वहन्त्येताः किं नु युक्तिविकल्पनाः

यादृशा स्वेन रूपेण दीपो रूपं प्रकाशयेत् ॥५३॥

तादृशा स्वयमप्येष भाति ज्ञानं तु नो तथा

प्रदीपश्चैष भावानां प्रकाशत्वं ददा[धा]त्यलम् ॥५४॥

अन्यथा प्रकाशेरन्नभेदे चेदृशो विधिः

तस्मात्प्रकाश एवायं पूर्वोक्तः परमः शिवः ॥५५॥

यथा यथा प्रकाशेत तत्तद्भाववपुः स्फुटम्

एवं नीलता नाम यथा काचित्प्रकाशते ॥५६॥

तद्वच्चकास्ति वेद्यत्वं तच्च भावांशपृष्ठगम्

फलं प्रकटतार्थस्य संविद्वेति द्वयं ततः ॥५७॥

विपक्षतो रक्षितं संधानं चापि तन्मिथः

तथाहि निभृतश्चौरश्चैत्रवेद्यमिति स्फुटम् ॥५८॥

बुद्ध्वा नादत्त एवाशु परीप्साविवशोऽपि सन्

सेयं पश्यति मां नेत्रत्रिभागेनेति सादरम् ॥५९॥

स्वं देहममृतेनेव सिक्तं पश्यति कामुकः

चैतज्ज्ञानसंवित्तिमात्रं भावांशपृष्ठगम् ॥६०॥

अर्थक्रियाकरं तच्चेन्न धर्मः कोन्वसौ भवेत्

यच्चोक्तं वेद्यताधर्मा भावः सर्वानपि प्रति ॥६१॥

स्यादित्येतत्स्वपक्षघ्नं दुष्प्रयोगास्त्रवत्तव

अस्माकं तु स्वप्रकाशशिवतामात्रवादिनाम् ।६२॥

अन्यं प्रति चकास्तीति वच एव विद्यते

सर्वान्प्रति तन्नीलं घटश्चेति यद्वचः ॥६३॥

तदप्यविदितप्रायं गृहीतं मुग्धबुद्धिभिः

नहि कालाग्निरुद्रीयकायावगतनीलिमा ॥६४॥

तव नीलः किं नु पीतो मैवं भून्नतु नीलकः

कंचित्प्रति नीलो ̕सौ नीलो वा यं प्रति स्थितः ॥६५॥

तं प्रत्येव वेद्यः स्यात्संकल्पद्वारको ̕न्ततः

यथा चार्थप्रकाशात्म ज्ञानं संगीर्यते त्वया ॥६६॥

तथा तज्ज्ञातृवेद्यत्वं भावीयं रूपमुच्यताम्

ज्ञातात्र नियतः कश्चिज्ज्ञाने यथा तव ॥६७॥

अर्थे ज्ञाता यदा यो यस्तद्वेद्यं वपुरुच्यताम्

तत्तद्विज्ञातृवेद्यत्वं सर्वान्प्रत्येव भासताम् ॥६८॥

इत्येवं चोदयन्मन्ये व्रजेद्बधिरधुर्यताम्

नह्यन्यं प्रति वै कंचिद्भाति सा वेद्यता तथा ॥६९॥

भावस्य रूपमित्युक्ते केयमस्थानवैधुरी

अनेन नीतिमार्गेण निर्मूलमपसारिता ॥७०॥

अनवस्था तथा ह्यन्यैर्नीलाद्यैः सदृशी सा

वेद्यता किंतु धर्मो ̕सौ यद्योगात्सर्वधर्मवान् ॥७१॥

धर्मी वेद्यत्वमभ्येति सत्तासमवायवत्

ब्रूषे यथा हि कुरुते सत्ता सत्यसतः सतः ॥७२॥

समवायोऽपि संश्लिष्टः श्लिष्टानश्लिष्टताजुषः

अन्त्यो विशेषो व्यावृत्तिरूपो व्यावृत्तिवर्जितान् ॥७३॥

व्यावृत्तान् श्वेतिमा शुक्लमशुक्लं गमनं तथा

तद्वन्नीलादिधर्मांशयुक्तो धर्मी स्वयं स्थितः ॥७४॥

अवेद्यो वेद्यतारूपाद्धर्माद्वेद्यत्वमागतः

वेद्यता भासमाना स्वयं नीलादिधर्मवत् ॥७५॥

अप्रकाशा स्वप्रकाशाद्धर्मादेति प्रकाशताम्

प्रकाशे खलु विश्रान्तिं विश्वं श्रयति चेत्ततः ॥७६॥

नान्या काचिदपेक्षास्य कृतकृत्यस्य सर्वतः

यथा शिवनाथेन स्वातन्त्र्याद्भास्यते भिदा ॥७७॥

नीलादिवत्तथैवायं वेद्यता धर्म उच्यते

एवं सिद्धं हि वेद्यत्वं भावधर्मोऽस्तु का घृणा ॥७८॥

इदं तु चिन्त्यं सकलपर्यन्तोक्तप्रमातृभिः

वेद्यत्वमेकरूपं स्याच्चातुर्दश्यमतः कुतः ॥७९॥

उच्यते परिपूर्णं चेद्भावीयं रूपमुच्यते

तद्विभुर्भैरवो देवो भगवानेव भण्यते ॥८०॥

अथ तन्निजमाहात्म्यकल्पितोंऽशांशिकाक्रमः

सह्यते किं कृतं तर्हि प्रोक्तकल्पनयानया ॥८१॥

अत एव यदा येन वपुषा भाति यद्यथा

तदा तथा तत्तद्रूपमित्येषोपनिषत्परा ॥८२॥

चैत्रेण वेद्यं जानामि द्वाभ्यां बहुभिरप्यथ

मन्त्रेण तन्महेशेन शिवेनोद्रिक्तशक्तिना ॥८३॥

अन्यादृशेन वेत्येवं भावो भाति यथा तथा

अर्थक्रियादिवैचित्र्यमभ्येत्यपरिसंख्यया ॥८४॥

तथा ह्येकाग्रसकलसामाजिकजनः खलु

नृत्तं गीतं सुधासारसागरत्वेन मन्यते ॥८५॥

तत एवोच्यते मल्लनटप्रेक्षोपदेशने

सर्वप्रमातृतादात्म्यं पूर्णरूपानुभावकम् ॥८६॥

तावन्मात्रार्थसंवित्तितुष्टाः प्रत्येकशो यदि

कः संभूय गुणस्तेषां प्रमात्रैक्यं भवेच्च किम् ॥८७॥

यदा तु तत्तद्वेद्यत्वधर्मसंदर्भगर्भितम्

तद्वस्तु शुष्कात्प्राग्रूपादन्यद्युक्तमिदं तदा ॥८८॥

शास्त्रेऽपि तत्तद्वेद्यत्वं विशिष्टार्थक्रियाकरम्

भूयसैव तथाच श्रीमालिनीविजयोत्तरे ॥८९॥

तथा षड्विधमध्वानमनेनाधिष्ठितं स्मरेत्

अधिष्ठानं हि देवेन यद्विश्वस्य प्रवेदनम् ॥९०॥

तदीशवेद्यत्वेनेत्थं ज्ञातं प्रकृतकार्यकृत्

एवं सिद्धं वेद्यताख्यो धर्मो भावस्य भासते ॥९१॥

तदनाभासयोगे तु स्वरूपमिति भण्यते

उपाधियोगिताशङ्कामपहस्तयतो ̕स्फुटम् ॥९२॥

स्वात्मनो येन वपुषा भात्यर्थस्तत्स्वकं वपुः

जानामि घटमित्यत्र वेद्यतानुपरागवान् ॥९३॥

घट एव स्वरूपेण भात इत्यपदिश्यते

ननु तत्र स्वयंवेद्यभावो मन्त्राद्यपेक्षया ॥९४॥

अपि चास्त्येव नन्वस्तु नतु सन्प्रतिभासते

अवेद्यमेव कालाग्निवपुर्मेरोः परा दिशः ॥९५॥

ममेति संविदि परं शुद्धं वस्तु प्रकाशते

भातत्वाद्वेद्यमपि तन्न वेद्यत्वेन भासनात् ॥९६॥

अवेद्यमेव भानं हि तथा कमनुयुञ्ज्महे

एवं पञ्चदशात्मेयं धरा तद्वज्जलादयः ॥९७॥

अव्यक्तान्ता यतोऽस्त्येषां सकलं प्रति वेद्यता

यत्तूच्यते कलाद्येन धरान्तेन समन्विताः ॥९८॥

सकला इति तत्कोशषट्कोद्रेकोपलक्षणम्

उद्भूताशुद्धचिद्रागकलादिरसकञ्चुकाः ॥९९॥

सकलालयसंज्ञास्तु न्यग्भूताखिलकञ्चुकाः

ज्ञानाकलास्तु ध्वस्तैतत्कञ्चुका इति निर्णयः ॥१००॥

तेन प्रधाने वेद्ये ̕पि पुमानुद्भूतकञ्चुकः

प्रमातास्त्येव सकलः पाञ्चदश्यमतः स्थितम् ॥१०१॥

पाञ्चदश्यं धराधन्तर्निविष्टे सकलेऽपि

सकलान्तरमस्त्येव प्रमेयेऽत्रापि मातृ हि ॥१०२॥

स्थूलावृतादिसंकोचतदन्यव्याप्तृताजुषः

पीताद्याः स्थिरकम्प्रत्वाच्चतुर्दश धरादिषु ॥१०३॥

स्वरूपीभूतजडताः प्राणदेहपथे ततः

प्रमातृताजुषः प्रोक्ता धारणा विजयोत्तरे ॥१०४॥

यदा तु मेयता पुंसः कलान्तस्य प्रकल्प्यते

तदुद्भूतः कञ्चुकांशो मेयो नास्य प्रमातृता ॥१०५॥

अतः सकलसंज्ञस्य प्रमातृत्वं विद्यते

त्रयोदशत्वं तच्छक्तिशक्तिमद्द्वयवर्जनात् ॥१०६॥

न्यग्भूतकञ्चुको माता युक्त[यत]स्तत्र लयाकलः

मायानिविष्टो विज्ञानाकलाद्याः प्राग्वदेव तु ॥१०७॥

मायातत्त्वे ज्ञेयरूपे कञ्चुकन्यग्भवोऽपि यः

सोऽपि मेयः कञ्चुकैक्यं यतो माया सुसूक्ष्मिका ॥१०८॥

विज्ञानाकल एवात्र ततो मातापकञ्चुकः

मायानिविष्टेऽप्यकले तथेत्येकादशात्मता ॥१०९॥

विज्ञानकेवले वेद्ये कञ्चुकध्वंससुस्थिते

उद्बुभूषुप्रबोधानां मन्त्राणामेव मातृता ॥११०॥

तेऽपि मन्त्रा यदा मेयास्तदा माता तदीश्वरः

ह्युद्भवात्पूर्णबोधस्तस्मिन्प्राप्ते तु मेयताम् ॥१११॥

उद्भूतपूर्णरूपोऽसौ माता मन्त्रमहेश्वरः

तस्मिन्विज्ञेयतां प्राप्ते स्वप्रकाशः परः शिवः ॥११२॥

प्रमाता स्वकतादात्म्यभासिताखिलवेद्यकः

शिवः प्रमाता नो मेयो ह्यन्याधीनप्रकाशता ॥११३॥

मेयता सा तत्रास्ति स्वप्रकाशो ह्यसौ प्रभुः

स्वप्रकाशेऽत्र कस्मिंश्चिदनभ्युपगते सति ॥११४॥

अप्रकाशात्प्रकाशत्वे ह्यनवस्था दुरुत्तरा

ततश्च सुप्तं विश्वं स्यान्न चैवं भासते हि तत् ॥११५॥

अन्याधीनप्रकाशं हि तद्भात्यन्यस्त्वसौ शिवः

इत्यस्य स्वप्रकाशत्वे किमन्यैर्युक्तिडम्बरैः ॥११६॥

मानानां हि परो जीवः एवेत्युक्तमादितः

नन्वस्ति स्वप्रकाशे ̕पि शिवे वेद्यत्वमीदृशः ॥११७॥

उपदेशो[श्यो]पदेष्टृत्वव्यवहारोऽन्यथा कथम्

सत्यं तु तथा सृष्टः परमेशेन वेद्यताम् ॥११८॥

नीतो मन्त्रमहेशादिकक्ष्यां समधिशाय्यते

तथाभूतश्च वेद्योऽसौ नानवच्छिन्नसंविदः ॥११९॥

पूर्णस्य वेद्यता युक्ता परस्परविरोधतः

तथा वेद्यस्वभावेऽपि वस्तुतो शिवात्मताम् ॥१२०॥

को ̕पि भावः प्रोज्झतीति सत्यं तद्भावना फलेत्

श्रीपूर्वशास्त्रे तेनोक्तं शिवः साक्षान्न भिद्यते ॥१२१॥

साक्षात्पदेनायमर्थः समस्तः प्रस्फुटीकृतः

नन्वेकरूपतायुक्तः शिवस्तद्वशतो भवेत् ॥१२२॥

त्रिवेदतामन्त्रमहानाथे कात्र विवादिता

महेश्वरेशमन्त्राणां तथा केवलिनोर्द्वयोः ॥१२३॥

अनन्तभेदतैकैकं स्थिता सकलवत्किल

ततो लयाकले मेये प्रमातास्ति लयाकलः ॥१२४॥

अतस्त्रयोदशत्वं स्यादित्थं नैकादशात्मता

विज्ञानाकलवेद्यत्वेऽप्यन्यो ज्ञानाकलो भवेत् ॥१२५॥

माता तदेकादशता स्यान्नैव तु नवात्मता

एवं मन्त्रतदीशानां मन्त्रेशान्तरसंभवे ॥१२६॥

वेद्यत्वान्नव सप्त स्युः सप्त पञ्च तु ते कथम्

उच्यते सत्यमस्त्येषा कलना किंतु सुस्फुटः ॥१२७॥

यथात्र सकले भेदो तथा त्वकलादिके

अनन्तावान्तरेदृक्षयोनिभेदवतः स्फुटम् ॥१२८॥

चतुर्दशविधस्यास्य सकलस्यास्ति भेदिता

लयाकले तु संस्कारमात्रात्सत्यप्यसौ भिदा ॥१२९॥

अकलेन विशेषाय सकलस्यैव युज्यते

विज्ञानकेवलादीनां तावत्यपि वै भिदा ।१३०॥

शिवस्वाच्छन्द्यमात्रं तु भेदायैषां विजृम्भते

इत्याशयेन संपश्यन्विशेषं सकलादिह ॥१३१॥

लयाकलादौ नोवाच त्रायोदश्यादिकं विभुः

नन्वस्तु वेद्यता भावधर्मः किंतु लयाकलौ ॥१३२॥

मन्वाते नेह वै किंचित्तदपेक्षा त्वसौ कथम्

श्रूयतां संविदैकात्म्यतत्त्वे ̕स्मिन्संव्यवस्थिते ॥१३३॥

जडेऽपि चितिरस्त्येव भोत्स्यमाने तु का कथा

स्वबोधावसरे तावद्भोत्स्यते लयकेवली ॥१३४॥

द्विविधश्च प्रबोधोऽस्य मन्त्रत्वाय भवाय

भावनादिबलादन्यवैष्णवादिनयोदितात् ॥१३५॥

यथास्वमाधरौत्तर्यविचित्रात्संस्कृतस्तथा

लीनः प्रबुद्धो मन्त्रत्वं तदीशत्वमथैति वा ॥१३६॥

स्वातन्त्र्यवर्जिता ये तु बलान्मोहवशीकृताः

लयाकलात्स्वसंस्कारात्प्रबुद्ध्यन्ते भवाय ते ॥१३७॥

ज्ञानाकलोऽपि मन्त्रेशमहेशत्वाय बुध्यते

मन्त्रादित्वाय वा जातु जातु संसृतयेऽपि वा ॥१३८॥

अवतारो हि विज्ञानियोगिभावेऽस्य भिद्यते

उक्तं बोधयामास सिसृक्षुर्जगत्प्रभुः ॥१३९॥

विज्ञानकेवलानष्टाविति श्रीपूर्वशासने

अतः प्रभोत्स्यमानत्वे यानयोर्बोधयोग्यता ॥१४०॥

तद्बलाद्वेद्यतायोग्यभावेनैवात्र वेद्यता

तथाहि गाढनिद्रेऽपि प्रियेऽनाशङ्कितागताम् ॥१४१॥

मां द्रक्ष्यतीति नाङ्गेषु स्वेषु मात्यभिसारिका

एवं शिवो ̕पि मनुते एतस्यैतत्प्रवेद्यताम् ॥१४२॥

यास्यतीति सृजामीति तदानीं योग्यतैव सा

वेद्यता तस्य भावस्य भोक्तृता तावती सा ॥१४३॥

लयाकलस्य चित्रो हि भोगः केन विकल्प्यते

यथा यथा हि सम्वित्तिः हि भोगः स्फुटो ̕स्फुटः ॥१४४॥

स्मृतियोग्योऽप्यन्यथा वा भोग्यभावं तूज्झति

गाढनिद्राविमूढो ̕पि कान्तालिङ्गितविग्रहः ॥१४५॥

भोक्तैव भण्यते सो ̕पि मनुते भोक्तृतां पुरा

उत्प्रेक्षामात्रहीनो ̕पि कांचित्कुलवधूं पुरः ॥१४६॥

संभोक्ष्यमाणां दृष्ट्वैव रभसाद्याति संमदम्

तामेव दृष्ट्वा तदा समानाशयभागपि ॥१४७॥

अन्यस्तथा संवित्ते कमत्रोपलभामहे

लोके रूढमिदं दृष्टिरस्मिन्कारणमन्तरा ॥१४८॥

प्रसीदतीव मग्नेव निर्वातीवेतिवादिनि

इत्थं विस्तरतस्तत्त्वभेदोऽयं समुदाहृतः ॥१४९॥

शक्तिशक्तिमतां भेदादन्योन्यं तत्कृतेष्वपि

भेदेष्वन्योन्यतो भेदात्तथा तत्त्वान्तरैः सह ॥१५०॥

भेदोपभेदगणनां कर्वतो नावधिः क्वचित्

तत एव विचित्रोऽयं भुवनादिविधिः स्थितः ॥१५१॥

पार्थिवत्वे ̕पि नो साम्यं रुद्रवैष्णवलोकयोः

का कथान्यत्र तु भवेद्भोगे वापि स्वरूपके ॥१५२॥

नो विस्तरः साक्षाच्छक्यो यद्यपि भाषितुम्

तथापि मार्गमात्रेण कथ्यमानो विविच्यताम् ॥१५३॥

सप्तानां मातृशक्तीनामन्योन्यं भेदने सति

रूपमेकान्नपञ्चाशत्स्वरूपं चाधिकं ततः ॥१५४॥

सर्वं सर्वात्मकं यस्मात्तस्मात्सकलमातरि

लयाकलादिशक्तीनां संभवोऽस्त्येव तत्त्वतः ॥१५५॥

त्वस्फुटोऽस्तु भेदांशं दातुं तावत्प्रभुर्भवेत्

तेषामपि भेदानामन्योन्यं बहुभेदता ॥१५६॥

मुख्यानां भेदभेदानां जलाद्यैर्भेदने सति

मुख्यभेदप्रकारेण विधेरानन्त्यमुच्यते ॥१५७॥

सकलस्य समुद्भूताश्चक्षुरादिस्वशक्तयः

न्यग्भूताश्च प्रतन्वन्ति भेदान्तरमपि स्फुटम् ॥१५८॥

एवं लयाकलादीनां तत्संस्कारपदोदितात्

पाटवात्प्रक्षयाद्वापि भेदान्तरमुदीयते ॥१५९॥

न्यक्कृतां शक्तिमास्थायाप्युदासीनतया स्थितिम्

अनाविश्येव यद्वेत्ति तत्रान्या वेद्यता खलु ॥१६०॥

आविश्येव निमज्ज्येव विकास्येव विघूर्ण्य

विदतो वेद्यतान्यैव भेदोऽत्रार्थक्रियोचितः ॥१६१॥

अन्यशक्तितिरोभावे कस्याश्चित्सुस्फुटोदये

भेदान्तरमपि ज्ञेयं वीणावादकदृष्टिवत् ॥१६२॥

तिरोभावोद्भवौ शक्तेः स्वशक्त्यन्तरतो ̕न्यतः

चेत्यमानादचेत्याद्वा तन्वाते बहुभेदताम् ॥१६३॥

एवमेतद्धरादीनां तत्त्वानां यावती दशा

काचिदस्ति घटाख्यापि तत्र संदर्शिता भिदः ॥१६४॥

अत्रापि वेद्यता नाम तादात्म्यं वेदकैः सह

ततः सकलवेद्योऽसौ घटः सकल एव हि ॥१६५॥

यावच्छिवैकवेद्योऽसौ शिव एवावभासते

तावदेकशरीरो हि बोधो भात्येव यावता ॥१६६॥

अधुनात्र समस्तस्य धरातत्त्वस्य दर्श्यते

सामस्त्य एवाभिहितं पाञ्चदश्यं पुरोदितम् ॥१६७॥

धरातत्त्वाविभेदेन यः प्रकाशः प्रकाशते

एव शिवनाथोऽत्र पृथिवी ब्रह्म तन्मतम् ॥१६८॥

धरातत्त्वगताः सिद्धीर्वितरीतुं समुद्यतान्

प्रेरयन्ति शिवेच्छातो ये ते मन्त्रमहेश्वराः ॥१६९॥

प्रेर्यमाणास्तु मन्त्रेशा मन्त्रास्तद्वाचकाः स्फुटम्

धरातत्त्वगतं योगमभ्यस्य शिवविद्यया ॥१७०॥

तु पाशवसांख्यीयवैष्णवादिद्वितादृशा

अप्राप्तध्रुवधामानो विज्ञानाकलताजुषः ॥१७१॥

तावत्तत्त्वोपभोगेन ये कल्पान्ते लयं गताः

सौषुप्तावस्थयोपेतास्तेऽत्र प्रलयकेवलाः ॥१७२॥

सौषुप्ते तत्त्वलीनत्वं स्फुटमेव हि लक्ष्यते

अन्यथा नियतस्वप्नसंदृष्टिर्जायते कुतः ॥१७३॥

सौषुप्तमपि चित्रं स्वच्छास्वच्छादि भासते

अस्वाप्सं सुखमित्यादिस्मृतिवैचित्र्यदर्शनात् ॥१७४॥

यदैव क्षणं सूक्ष्मं निद्रायैव प्रबुद्ध्यते

तदैव स्मृतिरेषेति नार्थजज्ञानजा स्मृतिः ॥१७५॥

तेन मूढैर्यदुच्येत प्रबुद्धस्यान्तरान्तरा

तूलिकादिसुखस्पर्शस्मृतिरेषेति तत्कुतः ॥१७६॥

माहाकर्मसमुल्लाससंमिश्रितमलाबिलाः

धराधिरोहिणो ज्ञेयाः सकला इह पुद्गलाः ॥१७७॥

अस्यैव सप्तकस्य स्वस्वव्यापारप्रकल्पने

प्रक्षोभो यस्तदेवोक्तं शक्तीनां सप्तकं स्फुटम् ॥१७८॥

शिवो ह्यच्युतचिद्रूपस्तिस्रस्तच्छक्तयस्तु याः

ताः स्वातन्त्र्यवशोपात्तग्रहीत्राकारतावशात् ॥१७९॥

त्रिधा मन्त्रावसानाः स्युरुदासीना इव स्थिताः

ग्राह्याकारोपरागात्तु ग्रहीत्राकारतावशात् ॥१८०॥

सकलान्तास्तु तास्तिस्र इच्छाज्ञानक्रिया मताः

सप्तधेत्थं प्रमातृत्वं तत्क्षोभो मानता तथा ॥१८१॥

यत्तु ग्रहीतृतारूपसंवित्संस्पर्शवर्जितम्

शुद्धं जडं तत्स्वरूपमित्थं विश्वं त्रिकात्मकम् ॥१८२॥

एवं जलाद्यपि वदेद्भेदैर्भिन्नं महामतिः

अनया तु दिशा प्रायः सर्वभेदेषु विद्यते ॥१८३॥

भेदो मन्त्रमहेशान्तेष्वेष पञ्चदशात्मकः

तथापि स्फुटताभावात्सन्नप्येष चर्चितः ॥१८४॥

एतच्च सूत्रितं धात्रा श्रीपूर्वे यद्ब्रवीति हि

सव्यापाराधिपत्वेनेत्यादिना जाग्रदादिताम् ॥१८५॥

अभिन्नेऽपि शिवेऽन्तःस्थसूक्ष्मबोधानुसारतः

अधुना प्राणशक्तिस्थे तत्त्वजाले विविच्यते ॥१८६॥

भेदोऽयं पाञ्चदश्यादिर्यथा श्रीशंभुरादिशत्

समस्तेऽर्थेऽत्र निर्ग्राह्ये तुटयः षोडश क्षणाः ॥१८७॥

षट्त्रिंशदङ्गुले चारे सांशद्व्यङ्गुलकल्पिताः

तत्राद्यः परमाद्वैतो निर्विभागरसात्मकः ॥१८८॥

द्वितीयो ग्राहकोल्लासरूपः प्रतिविभाव्यते

अन्त्यस्तु ग्राह्यतादात्म्यात्स्वरूपीभावमागतः ॥१८९॥

प्रविभाव्यो हि पृथगुपान्त्यो ग्राहकः क्षणः

तृतीयं क्षणमारभ्य क्षणषट्कं तु यत्स्थितम् ॥१९०॥

तन्निर्विकल्पं प्रोद्गच्छद्विकल्पाच्छादनात्मकम्

तदेव शिवरूपं हि परशक्त्यात्मकं विदुः ॥१९१॥

द्वितीयं मध्यमं षट्कं परापरपदात्मकम्

विकल्परूढिरप्येषा क्रमात्प्रस्फुटतां गता ॥१९२॥

षट्केऽत्र प्रथमे देव्यस्तिस्रः प्रोन्मेषवृत्तिताम्

निमेषवृत्तितां चाशु स्पृशन्त्यः षट्कतां गताः ॥१९३॥

एवं द्वितीयषट्केऽपि किं त्वत्र ग्राह्यवर्त्मना

उपरागपदं प्राप्य परापरतया स्थिताः ॥१९४॥

आद्येऽत्र षट्के ता देव्यः स्वातन्त्र्योल्लासमात्रतः

जिघृक्षितेऽप्युपाधौ स्युः पररूपादविच्युताः ॥१९५॥

अस्ति चातिशयः कश्चित्तासामप्युत्तरोत्तरम्

यो विवेकधनैर्धीरैः स्फुटीकृत्यापि दर्श्यते ॥१९६॥

केचित्त्वेकां तुटिं ग्राह्ये चैकामपि ग्रहीतरि

तादात्म्येन विनिक्षिप्य सप्तकं सप्तकं विदुः ॥१९७॥

तदस्यां सूक्ष्मसंवित्तौ कलनाय समुद्यताः

संवेदयन्ते यद्रूपं तत्र किं वाग्विकत्थनैः ॥१९८॥

एवं धरादिमूलान्तं प्रक्रिया प्राणगामिनी

गुरुपर्वक्रमात्प्रोक्ता भेदे पञ्चदशात्मके ॥१९९॥

क्रमात्तु भेदन्यूनत्वे न्यूनता स्यात्तुटिष्वपि

तस्यां ह्रासो विकल्पस्य स्फुटता चाविकल्पिनः ॥२००॥

यथा हि चिरदुःखार्तः पश्चादात्तसुखस्थितिः

विस्मरत्येव तद्दुःखं सुखविश्रान्तिवर्त्मना ॥२०१॥

तथा गतविकल्पे ̕पि रूढाः संवेदने जनाः

विकल्पविश्रान्तिबलात्तां सत्तां नाभिमन्वते ॥२०२॥

विकल्पनिर्ह्रासवशेन याति विकल्पवन्ध्या परमार्थसत्या

संवित्स्वरूपप्रकटत्वमित्थं तत्रावधाने यततां सुबुद्धिः ॥२०३॥

ग्राह्यग्राहकसंवित्तौ संबन्धे सावधानता

इयं सा तत्र तत्रोक्ता सर्वकामदुघा यतः ॥२०४॥

एवं द्वयं द्वयं यावन्न्यूनीभवति भेदगम्

तावत्तुटिद्वयं याति न्यूनतां क्रमशः स्फुटम् ॥२०५॥

अत एव शिवावेशे द्वितुटिः परिगीयते

एका तु सा तुटिस्तत्र पूर्णा शुद्धैव केवलम् ॥२०६॥

द्वितीया शिव(शक्ति)रूपैव सर्वज्ञानक्रियात्मिका

तस्यामवहितो योगी किं वेत्ति करोति वा ॥२०७॥

तथा चोक्तं कल्लटेन श्रीमता तुटिपातगः

लाभः सर्वज्ञकर्तृत्वे तुटेः पातोऽपरा तुटिः ॥२०८॥

आद्यायां तु तुटौ सर्वं सर्वतः पूर्णमेकताम्

गतं किं तत्र वेद्यं वा कार्यं वा व्यपदेशभाक् ॥२०९॥

अतो भेदसमुल्लासकलां प्राथमिकीं बुधाः

चिन्वन्ति प्रतिभां देवीं सर्वज्ञत्वादिसिद्धये ॥२१०॥

सैव शक्तिः शिवस्योक्ता तृतीयादितुटिष्वथ

मन्त्रादि(धि)नाथतच्छक्तिमन्त्रेशाद्याः क्रमोदिताः ॥२११॥

तासु संदधतश्चित्तमवधानैकधर्मकम्

तत्तत्सिद्धिसमावेशः स्वयमेवोपजायते ॥२१२॥

अत एव यथा भेदबहुत्वं दूरता तथा

संवित्तौ तुटिबाहुल्यादक्षार्थासंनिकर्षवत् ॥२१३॥

यथा यथा हि न्यूनत्वं तुटीनां ह्रासतो भिदः

तथा तथातिनैकट्यं संविदः स्याच्छिवावधि ॥२१४॥

शिवतत्त्वमतः प्रोक्तमन्तिकं सर्वतोऽमुतः

अत एव प्रयत्नोऽयं तत्प्रवेशे विद्यते ॥२१५॥

यथा यथा हि दूरत्वं यत्नयोगस्तथा तथा

भावनाकरणादीनां शिवे निरवकाशताम् ॥२१६॥

अत एव हि मन्यन्ते संप्रदायधना जनाः

तथा हि दृश्यतां लोको घटादेर्वेदने यथा ॥२१७॥

प्रयत्नवानिवाभाति तथा किं सुखवेदने

आन्तरत्वमिदं प्राहुः संविन्नैकट्यशालिताम् ॥२१८॥

तां चिद्रूपतोन्मेषं बाह्यत्वं तन्निमेषताम्

भविनां त्वन्तिकोऽप्येवं भातीत्यतिदूरता ॥२१९॥

दूरे ̕पि ह्यन्तिकीभूते भानं स्यात्त्वत्र तत्कथम्

बीजाङ्कुरलतादलपुष्पफलादिवत् ॥२२०॥

क्रमिकेयं भवेत्संवित्सूतस्तत्र किलाङ्कुरः

बीजाल्लता त्वङ्कुरान्नो बीजादिह सर्वतः ॥२२१॥

संवित्तत्त्वं भासमानं परिपूर्णं हि सर्वतः

सर्वस्य कारणं प्रोक्तं सर्वत्रैवोदितं यतः ॥२२२॥

तत एव घटेऽप्येषा प्राणवृत्तिर्यदि स्फुरेत्

विश्राम्येच्चाशु तत्रैव शिवबीजे लयं व्रजेत् ॥२२३॥

तु क्रमिकता काचिच्छिवात्मत्वे कदाचन

अन्यन्मन्त्रादि(धि)नाथादि कारणं तत्तु संनिधेः ॥२२४॥

शिवाभेदाच्च किं चाथ द्वैते नैकट्यवेदनात्

अनया दिशा सर्व सर्वदा प्रविवेचयन् ॥२२५॥

भैरवायत एव द्राक् चिच्चक्रेश्वरतां गतः

इत्थं प्राणगो भेदः खेचरीचक्रगोपितः ॥२२६॥

मया प्रकटितः श्रीमच्छाम्भवाज्ञानुवर्तिना

अत्रैवाध्वनि वेद्यत्वं प्राप्ते या संविदुद्भवेत् ॥२२७॥

तस्याः स्वकं यद्वैचित्र्यं तदवस्थापदाभिधम्

जाग्रत्स्वप्नः सुषुप्तं तुर्यं तदतीतकम् ॥२२८॥

इति पञ्च पदान्याहुरेकस्मिन्वेदके सति

तत्र यैषा धरातत्त्वाच्छिवान्ता तत्त्वपद्धतिः ॥२२९॥

तस्यामेकः प्रमाता चेदवश्यं जाग्रदादिकम्

तद्दर्श्यते शंभुनाथप्रसादाद्विदितं मया ॥२३०॥

यदधिष्ठेयमेवेह नाधिष्ठातृ कदाचन

संवेदनगतं वेद्यं तज्जाग्रत्समुदाहृतम् ॥२३१॥

चैत्रमैत्रादिभूतानि तत्त्वानि धरादितः

अभिधाकरणीभूताः शब्दाः किं चाभिधा प्रमा ॥२३२॥

प्रमातृमेयतन्मानप्रमारूपं चतुष्टयम्

विश्वमेतदधिष्ठेयं यदा जाग्रत्तदा स्मृतम् ॥२३३॥

तथा हि भासते यत्तन्नीलमन्तः प्रवेदने

संकल्परूपे बाह्यस्य तदधिष्ठातृ बोधकम् ॥२३४॥

यत्तु बाह्यतया नीलं चकास्त्यस्य विद्यते

कथंचिदप्यधिष्ठातृभावस्तज्जाग्रदुच्यते ॥२३५॥

तत्र चैत्रे भासमाने यो देहांशः कथ्यते

अबुद्धो यस्तु मानांशः बुद्धो मितिकारकः ॥२३६॥

प्रबुद्धः सुप्रबुद्धश्च प्रमामात्रेति क्रमः

चातुर्विध्यं हि पिण्डस्थनाम्नि जाग्रति कीर्तितम् ॥२३७॥

जाग्रदादि चतुष्कं हि प्रत्येकमिह विद्यते

जाग्रज्जाग्रदबुद्धं तज्जाग्रत्स्वप्नस्तु बुद्धता ॥२३८॥

इत्यादि तुर्यातीतं तु सर्वगत्वात्पृथक्कुतः

उक्तं पिण्डगं जाग्रदबुद्धं बुद्धमेव ॥२३९॥

प्रबुद्धं सुप्रबुद्धं चतुर्विधमिदं स्मृतम्

मेयभूमिरियं मुख्या जाग्रदाख्यान्यदन्तरा ॥२४०॥

भूततत्त्वाभिधानानां योंऽशो ̕धिष्ठेय उच्यते

पिण्डस्थमिति तं प्राहुरिति श्रीमालिनीमते ॥२४१॥

लौकिकी जाग्रदित्येषा संज्ञा पिण्डस्थमित्यपि

योगिनां योगसिद्ध्यर्थं संज्ञेयं परिभाष्यते ॥२४२॥

अधिष्ठेयसमापत्तिमध्यासीनस्य योगिनः

तादात्म्यं किल पिण्डस्थं मितं पिण्डं हि पिण्डितम् ॥२४३॥

प्रसंख्यानैकरूढानां ज्ञानिनां तु तदुच्यते

सर्वतोभद्रमापूर्णं सर्वतो वेद्यसत्तया ॥२४४॥

सर्वसत्तासमापूर्ण विश्वं पश्येद्यतो यतः

ज्ञानी ततस्ततः संवित्तत्वमस्य प्रकाशते ॥२४५॥

लोकयोगप्रसंख्यानत्रैरूप्यवशतः किल

नामानि त्रीणि भण्यन्ते स्वप्नादिष्वप्ययं विधिः ॥२४६॥

यत्त्वधिष्ठानकरणभावमध्यास्य वर्तते

वेद्यं सत्पूर्वकथितं भूततत्त्वाभिधामयम् ॥२४७॥

तत्स्वप्नो मुख्यतो ज्ञेयं तच्च वैकल्पिके पथि

वैकल्पिकपथारूढवेद्यसाम्यावभासनात् ॥२४८॥

लोकरूढोऽप्यसौ स्वप्नः साम्यं चाबाह्यरूपता

उत्प्रेक्षास्वप्नसंकल्पस्मृत्युन्मादादिदृष्टिषु ॥२४९॥

विस्पष्टं यद्वेद्यजातं जाग्रन्मुख्यतयैव तत्

यत्तु तत्राप्यविस्पष्टं स्पष्टाधिष्ठातृ भासते ॥२५०॥

विकल्पान्तरगं वेद्यं तत्स्वप्नपदमुच्यते

तदैव तस्य वेत्त्येव स्वयमेव ह्यबाह्यताम् ॥२५१॥

प्रमात्रन्तरसाधारभावहान्यस्थिरात्मते

तत्रापि चातुर्विध्यं तत् प्राग्दिशैव प्रकल्पयेत् ॥२५२॥

गतागतं सुविक्षिप्तं संगतं सुसमाहितम्

अत्रापि पूर्ववन्नाम लौकिकं स्वप्न इत्यदः ॥२५३॥

बाह्याभिमतभावानां स्वापो ह्यग्रहणं मतम्

सर्वाध्वनः पदं प्राणः संकल्पोऽवगमात्मकः ॥२५४॥

पदं तत्समापत्ति पदस्थं योगिनो विदुः

वेद्यसत्तां बहिर्भूतामनपेक्ष्यैव सर्वतः ॥२५५॥

वेद्ये स्वातन्त्र्यभाग् ज्ञानं स्वप्नं व्याप्तितया भजेत्

मानभूमिरियं मुख्या स्वप्नो ह्यामर्शनात्मकः ॥२५६॥

वेद्यच्छायोऽवभासो हि मेये ̕धिष्ठानमुच्यते

यत्त्वधिष्ठातृभूतादेः पूर्वोक्तस्य वपुर्ध्रुवम् ॥२५७॥

बीजं विश्वस्य तत्तूष्णींभूतं सौषुप्तमुच्यते

अनुभूतौ विकल्पे यो ̕सौ द्रष्टा एव हि ॥२५८॥

भावग्रहणं तेन सुष्ठु सुप्तत्वमुच्यते

तत्साम्याल्लौकिकीं निद्रां सुषुप्तं मन्वते बुधाः ॥२५९॥

बीजभावो ̕थाग्रहणं साम्यं तूष्णींस्वभावता

मुख्या मातृदशा सेयं सुषुप्ताख्या निगद्यते ॥२६०॥

रूपकत्वाच्च रूपं तत्तादात्म्यं योगिनः पुनः

रूपस्थं तत्समापत्त्यौदासीन्यं रूपिणां विदुः ॥२६१॥

प्रसंख्यानवतः कापि वेद्यसंकोचनात्र यत्

नास्ति तेन महाव्याप्तिरियं तदनुसारतः ॥२६२॥

उदासीनस्य तस्यापि वेद्यं येन चतुर्विधम्

भूतादि तदुपाध्युत्थमत्र भेदचतुष्टयम् ॥२६३॥

उदितं विपुलं शान्तं सुप्रसन्नमथापरम्

यत्तु प्रमात्मकं रूपं प्रमातुरुपरि स्थितम् ॥२६४॥

पूर्णतागमनौन्मुख्यमौदासीन्यात्परिच्युतिः

तत्तुर्यमुच्यते शक्तिसमावेशो ह्यसौ मतः ॥२६५॥

सा संवित्स्वप्रकाशा तु कैश्चिदुक्ता प्रमेयतः

मानान्मातुश्च भिन्नैव तदर्थं त्रितयं यतः ॥२६६॥

मेयं माने मातरि तत् सो ̕पि तस्यां मितौ स्फुटम्

विश्राम्यतीति सैवैषा देवी विश्वैकजीवितम् ॥२६७॥

रूपं दृशाहमित्यंशत्रयमुत्तीर्य वर्तते

द्वारमात्राश्रितोपाया पश्यामीत्यनुपायिका ॥२६८॥

प्रमातृता स्वतन्त्रत्वरूपा सेयं प्रकाशते

संवित्तुरीयरूपैवं प्रकाशात्मा स्वयं सा ॥२६९॥

तत्समावेशतादात्म्ये मातृत्वं भवति स्फुटम्

तत्समावेशोपरागान्मानत्वं मेयता पुनः ॥२७०॥

तत्समावेशनैकट्यात्त्रयं तत्तदनुग्रहात्

वेद्यादिभेदगलनादुक्ता सेयमनामया ॥२७१॥

मात्राद्यनुग्रहादा(धा)नात्सव्यापारेति भण्यते

जाग्रदाद्यपि देवस्य शक्तित्वेन व्यवस्थितम् ॥२७२॥

अपरं परापरं द्विधा तत्सा परा त्वियम्

रूपकत्वादुदासीनाच्च्युतेयं पूर्णतोन्मुखी ॥२७३॥

दशा तस्यां समापत्ती रूपातीतं तु योगिनः

पूर्णतौन्मुख्ययोगित्वाद्विश्वं पश्यति तन्मयः ॥२७४॥

प्रसंख्याता प्रचयतस्तेनेयं प्रचयो मता

नैतस्यामपरा तुर्यदशा संभाव्यते किल ॥२७५॥

संविन्न किल वेद्या सा वित्त्वेनैव हि भासते

जाग्रदाद्यास्तु संभाव्यास्तिस्रोऽस्याः प्राग्दशा यतः ॥२७६॥

त्रितयानुग्रहात्सेयं तेनोक्ता त्रिकशासने

मनोन्मनमनन्तं सर्वार्थमिति भेदतः ॥२७७॥

यत्तु पूर्णानवच्छिन्नवपुरानन्दनिर्भरम्

तुर्यातीतं तु तत्प्राहुस्तदेव परमं पदम् ॥२७८॥

नात्र योगस्य सद्भावो भावनादेरभावतः

अप्रमेयेऽपरिच्छिन्ने स्वतन्त्रे भाव्यता कुतः ॥२७९॥

योगाद्यभावतस्तेन नामास्मिन्नादिशद्विभुः

प्रसंख्यानबलात्त्वेतद्रूपं पूर्णत्वयोगतः ॥२८०॥

अनुत्तरादिह प्रोक्तं महाप्रचयसंज्ञितम्

पूर्णत्वादेव भेदानामस्यां संभावना हि ॥२८१॥

तन्निरासाय नैतस्यां भेद उक्तो विशेषणम्

सततोदितमित्येतत्सर्वव्यापित्वसूचकम् ॥२८२॥

ह्येक एव भवति भेदः क्वचन कश्चन

तुर्यातीते भेद एकः सततोदित इत्ययम् ॥२८३॥

मूढवादस्तेन सिद्धमविभेदित्वमस्य तु

श्रीपूर्वशास्त्रे तेनोक्तं पदस्थमपरं विदुः ॥२८४॥

मन्त्रास्तत्पतयः सेशा रूपस्थमिति कीर्त्यते

रूपातीतं परा शक्तिः सव्यापाराप्यनामया ॥२८५॥

निष्प्रपञ्चो निराभासः शुद्धः स्वात्मन्यवस्थितः

सर्वातीतः शिवो ज्ञेयो यं विदित्वा विमुच्यते ॥२८६॥

इति श्रीसुमतिप्रज्ञाचन्द्रिकाशान्ततामसः

श्रीशंभुनाथः सद्भावं जाग्रदादौ न्यरूपयत् ॥२८७॥

अन्ये तु कथयन्त्येषां भङ्गीमन्यादृशीं श्रिताः

यद्रूपं जाग्रदादीनां तदिदानीं निरूप्यते ॥२८८॥

तत्राक्षवृत्तिमाश्रित्य बाह्याकारग्रहो हि यः

तज्जाग्रत्स्फुटमासीनमनुबन्धि पुनः पुनः ॥२८९॥

आत्मसंकल्पनिर्माणं स्वप्नो जाग्रद्विपर्ययः

लयाकलस्य भोगो ̕सौ मलकर्मवशान्नतु ॥२९०॥

स्थिरीभवेन्निशाभावात्सुप्तं सौख्याद्यवेदने

ज्ञानाकलस्य मलतः केवलाद्भोगमात्रतः ॥२९१॥

भेदवन्तः स्वतो ̕भिन्नाश्चिकीर्ष्यन्ते जडाजडाः

तुर्ये तत्र स्थिता मन्त्रतन्नाथाधीश्वरास्त्रयः ॥२९२॥

यावद्भैरवबोधान्तःप्रवेशनसहिष्णवः

भावा विगलदात्मीयसाराः स्वयमभेदिनः ॥२९३॥

तुर्यातीतपदे संस्युरिति पञ्चदशात्मके

यस्य यद्यत्स्फुटं रूपं तज्जाग्रदिति मन्यताम् ॥२९४॥

यदेवास्थिरमाभाति सपूर्वं स्वप्न ईदृशः

अस्फुटं तु यदाभाति सुप्तं तत्तत्पुरो ̕पि यत् ॥२९५॥

त्रयस्यास्यानुसंधिस्तु यद्वशादुपजायते

स्रक्सूत्रकल्पं तत्तुर्यं सर्वभेदेषु गृह्यताम् ॥२९६॥

यत्त्वद्वैतभरोल्लासद्राविताशेषभेदकम्

तुर्यातीतं तु तत्प्राहुरित्थं सर्वत्र योजयेत् ॥२९७॥

लयाकले तु स्वं रूपं जाग्रत्तत्पूर्ववृत्ति तु

स्वप्नादीति क्रमं सर्वं सर्वत्रानुसरेद्बुधः ॥२९८॥

एकत्रापि प्रभौ पूर्णे चित्तुर्यातीतमुच्यते

आनन्दस्तुर्यमिच्छैव बीजभूमिः सुषुप्तता ॥२९९॥

ज्ञानशक्तिः स्वप्न उक्तः क्रियाशक्तिस्तु जागृतिः

चैवमुपचारः स्यात्सर्वं तत्रैव वस्तुतः ॥३००॥

चेन्न क्वापि मुख्यत्वं नोपचारो ̕पि तत्क्वचित्

एतच्छ्रीपूर्वशास्त्रे स्फुटमुक्तं महेशिना ॥३०१॥

तत्र स्वरूपं शक्तिश्च सकलश्चेति तत्त्रयम्

इति जाग्रदवस्थेयं भेदे पञ्चदशात्मके ॥३०२॥

अकलौ स्वप्नसौषुप्ते तुर्यं मन्त्रादिवर्गभाक्

तुर्यातीतं शक्तिशंभू त्रयोदशाभिधे पुनः ॥३०३॥

स्वरूपं जाग्रदन्यत्तु प्राग्वत्प्रलयकेवले

स्वं जाग्रत्स्वप्नसुप्ते द्वे तुर्याद्यत्र पूर्ववत् ॥३०४॥

विज्ञानाकलभेदेऽपि स्वं मन्त्रा मन्त्रनायकाः

तदीशाः शक्तिशंभ्वित्थं पञ्च स्युर्जाग्रदादयः ॥३०५॥

सप्तभेदे तु मन्त्राख्ये स्वं मन्त्रेशा महेश्वराः

शक्तिः शंभुश्च पञ्चोक्ता अवस्था जाग्रदादयः ॥३०६॥

स्वरूपं मन्त्रमाहेशी शक्तिर्मन्त्रमहेश्वरः

शक्तिः शंभुरिमाः पञ्च मन्त्रेशे पञ्चभेदके ॥३०७॥

स्वं क्रिया ज्ञानमिच्छा शंभुरत्र पञ्चमी

महेशभेदे त्रिविधे जाग्रदादि निरूपितम् ॥३०८॥

व्यापारादाधिपत्याच्च तद्धान्या प्रेरकत्वतः

इच्छानिवृत्तेः स्वस्थत्वाच्छिव एको ̕पि पञ्चधा ॥३०९॥

इत्येष दर्शितोऽस्माभिस्तत्त्वाध्वा विस्तरादथ

 

     Bookmark and Share

 

 

Creative Commons License

Precedente Home Successiva

AGHORI BREVE STORIA GRANDE MADRE SADHANA CHAKRA AYURVEDA CORSO DI YOGA EVENTI GALLERIA SITI CONSIGLIATI CONTATTACI GUESTBOOK SITE MAP PDF IN ITA

Privacy Policy