Tantraloka

by Abhinavagupta

 

In Sanscrito:

 

CAP.1 - CAP.2 - CAP.3 - CAP.4 - CAP.5 - CAP.6 - CAP.7 - CAP.8 - CAP.9 - CAP.10

CAP.11 - CAP.12 - CAP.13 - CAP.14 - CAP.15 - CAP.16 - CAP.17 - CAP.18 - CAP.19 - CAP.20

CAP.21 - CAP.22 - CAP.23 - CAP.24 - CAP.25 - CAP.26 - CAP.27 - CAP.28 - CAP.29 - CAP.30 

CAP.31 - CAP.32 - CAP.33 - CAP.34 - CAP.35 - CAP.36 - CAP.37 - Testo translitterato

pdf: Testo in sanscrito - Testo translitterato - Tantraloka with commentary by Rajanaka Jayaratha Vol.1 - Vol.2 - Vol.3 - Vol.4 - Vol.5 - Vol.6

 

 

TANTRALOKA SANSCRITO

 

 

Capitolo 17

 

 

अथ श्रीतन्त्रालोके सप्तदशमाह्निकम्

 

अथ भैरवतादात्म्यदायिनीं प्रक्रियां ब्रुवे

एवं मण्डलकुम्भाग्निशिष्यस्वात्मसु पञ्चसु ॥१॥

गृहीत्वा व्याप्तिमैक्येन न्यस्याध्वानं शिष्यगम्

कर्ममायाणुमलिनत्रयं बाहौ गले तथा ॥२॥

शिखायां क्षिपेत्सूत्रग्रन्थियोगेन दैशिकः

तस्यातद्रूपताभानं मलो ग्रन्थिः कीर्त्यते ॥३॥

इतिप्रतीतिदार्ढ्यार्थं बहिर्ग्रन्थ्युपकल्पनम्

बाहू कर्मास्पदं विष्णुर्मायात्मा गलसंश्रितः ॥४॥

अधोवहा शिखाणुत्वं तेनेत्थं कल्पना कृता

नरशक्तिशिवाख्यस्य त्रयस्य बहुभेदताम् ॥५॥

वक्तुं त्रिस्त्रिगुणं सूत्रं ग्रन्थये परिकल्पयेत्

तेजोजलान्नत्रितयं त्रेधा प्रत्येकमप्यदः ॥६॥

श्रुत्यन्ते केऽप्यतः शुक्लकृष्णरक्तं प्रपेदिरे

ततोऽग्नौ तर्पिताशेषमन्त्रे चिद्व्योममात्रके ॥७॥

सामान्यरूपे तत्त्वानां क्रमाच्छुद्धिं समाचरेत्

तत्र स्वमन्त्रयोगेन धरामावाहयेत्पुरा ॥८॥

इष्ट्वा पुष्पादिभिः सर्पिस्तिलाद्यैरथ तर्पयेत्

तत्तत्त्वव्यापिकां पश्चान्मायातत्त्वाधिदेवताम् ॥९॥

मायाशक्तिं स्वमन्त्रेणावाह्याभ्यर्च्य प्रतर्पयेत्

आवाहने मातृकार्णं मालिन्यर्णं पूजने ॥१०॥

कुर्यादिति गुरुः प्राह स्वरूपाप्यायनद्वयात्

तारो वर्णो ̕ संबुद्धिपदं त्वामित्यतः परम् ॥११॥

उत्तमैकयुतं कर्मपदं दीपकमप्यतः

तभ्यं नाम चतुर्थ्यन्तं ततोऽप्युचितदीपकम् ॥१२॥

इत्यूहमन्त्रयोगेन तत्तत्कर्म प्रवर्तयेत्

आवाहनानन्तरं हि कर्म सर्वं निगद्यते ॥१३॥

आवाहनं संबोधः स्वस्वभावव्यवस्थितेः

भावस्याहंमयस्वात्मतादात्म्यावेश्यमानता ॥१४॥

शाक्ती भूमिश्च सैवोक्ता यस्यां मुख्यास्ति पूज्यता

अभातत्वादभेदाच्च नह्यसौ नृशिवात्मनोः ॥१५॥

जडाभासेषु तत्त्वेषु संवित्स्थित्यै ततो गुरुः

आवाहनविभक्तिं प्राक् कृत्वा तुर्यविभक्तितः ॥१६॥

नमस्कारान्ततायोगात्पूर्णां सत्तां प्रकल्पयेत्

ततः पूर्णस्वभावत्वं तद्रूपोद्रेकयोगतः ॥१७॥

ध्येयोद्रेको भवेद्ध्यातृप्रह्वीभाववशाद्यतः

आवाह्येष्ट्वा प्रतर्प्येति श्रीस्वच्छन्दे निरूपितम् ॥१८॥

अनेनैव पथानेयमित्यस्मद्गुरवो जगुः

परत्वेन तु यत्पूज्यं तत्स्वतन्त्रचिदात्मकम् ॥१९॥

अनवच्छित्प्रकाशत्वान्न प्रकाश्यं तु कुत्रचित्

तस्य ह्येतत्प्रपूज्यत्वध्येयत्वादि यदुल्लसेत् ॥२०॥

तस्यैव तत्स्वतन्त्रत्वं यातिदुर्घटकारिता

संबोधरूपे तत्तस्मिन् कथं संबोधना भवेत् ॥२१॥

प्रकाशनायां स्यात्प्रकाशस्य प्रकाशता

संबोधनविभक्त्यैव विना कर्मादिशक्तिताम् ॥२२॥

स्वातन्त्र्यात्तं दर्शयितुं तत्रोहमिममाचरेत्

देवमावाहयामीति ततो देवाय दीपकम् ॥२३॥

प्राग्युक्त्या पूर्णतादायि नमःस्वाहादिकं भवेत्

नुतिः पूर्णत्वमग्नीन्दुसंघट्टाप्यायता परम् ॥२४॥

आप्यायकं प्रोच्छालं वौषडादि प्रदीपयेत्

तत्र बाह्ये ̕पि तादात्म्यप्रसिद्धं कर्म चोद्यते ॥२५॥

यदि कर्मपदं तन्नो गुरुरभ्यूहयेत्क्वचित्

अनाभासिततद्वस्तुभासनाय नियुज्यते ॥२६॥

मन्त्रः किं तेन तत्र स्यात्स्फुटं यत्रावभासि तत्

तेन प्रोक्षणसंसेकजपादिविधिषु ध्रुवम् ॥२७॥

तत्कर्माभ्यूहनं कुर्यात्प्रत्युत व्यवधातृताम्

बहिस्तथात्मताभावे कार्यं कर्मपदोहनम् ॥२८॥

तृप्तावाहुतिहुतभुक्पाशप्लोषच्छिदादिषु

यत्रोद्दिष्टे विधौ पश्चात्तदनन्तैः क्रियात्मकैः ॥२९॥

अंशैः साध्यं तत्रोहो दीक्षणादिविधिष्विव

ततः शिष्यस्य तत्तत्त्वस्थानेऽस्त्रेण प्रताडनम् ॥३०॥

कृत्वाथ शिवहस्तेन हृदयं परिमर्शयेत्

ततः स्वनाडीमार्गेण हृदयं प्राप्य वै शिशोः ॥३१॥

शिष्यात्मना सहैकत्वं गत्वादाय तं हृदा

पुटितं हंसरूपाख्यं तत्र संहारमुद्रया ॥३२॥

कुर्यादात्मीयहृदयस्थितमप्यवभासकम्

शिष्यदेहस्य तेजोभी रश्मिमात्रावियोगतः ॥३३॥

स्वबन्धस्थानचलनात् स्वतन्त्रस्थानलाभतः

स्वकर्मापरतन्त्रत्वात्सर्वत्रोत्पत्तिमर्हति ॥३४॥

तेनात्महृदयानीतं प्राक्कृत्वा पुद्गलं ततः

मायायां तद्धरातत्त्वशरीराण्यस्य संसृजेत् ॥३५॥

तत्रास्य गर्भाधानं युक्तं पुंसवनादिभिः

गर्भनिष्क्रामपर्यन्तैरेकां कुर्वीत संस्क्रियाम् ॥३६॥

जननं भोगभोक्तृत्वं मिलित्वैकाथ संस्क्रिया

ततो ̕स्य तेषु भोगेषु कुर्यात्तन्मयतां लयम् ॥३७॥

ततस्तत्तत्त्वपाशानां विच्छेदं समुपाचरेत्

संस्काराणां चतुष्के ̕स्मिन्नपरां परापराम् ॥३८॥

मन्त्राणां पञ्चदशकं परां वा योजयेत्क्रमात्

पिवन्याद्यष्टकं शस्त्रादिकं षट्कं परा तथा ॥३९॥

इति पञ्चदशैते स्युः क्रमाल्लीनत्वसंस्कृतौ

अपरामन्त्रमुक्त्वा प्रागमुकात्मन इत्यथ ॥४०॥

गर्भाधानं करोमीति पुनर्मन्त्रं तमेव

स्वाहान्तमुच्चरन्दद्यादाहुतित्रितयं गुरुः ॥४१॥

परं परापरामन्त्रममुकात्मन इत्यथ

जातस्य भोगभोक्तृत्वं करोम्यथ परापराम् ॥४२॥

अन्ते स्वाहेति प्रोच्चार्य वितरेत्तिस्र आहुतीः

उच्चार्य पिवनीमन्त्रममुकात्मन इत्यथ ॥४३॥

भोगे लयं करोमीति पुनर्मन्त्रं तमेव

स्वाहान्तमाहुतीस्तिस्रो दद्यादाज्यतिलादिभिः ॥४४॥

एष एव वमन्यादौ विधिः पञ्चदशान्तके

पूर्वं परात्मकं मन्त्रममुकात्मन इत्यथ ॥४५॥

पाशाच्छेदं करोमीति परामन्त्रः पुनस्ततः

हुं स्वाहा फट् समुच्चार्य दद्यात्तिस्रोऽप्यथाहुतीः ॥४६॥

संस्काराणां चतुष्के ̕स्मिन्ये मन्त्राः कथिता मया

तेषु कर्मपदात्पूर्वं धरातत्त्वपदं वदेत् ॥४७॥

ततो धरातत्त्वपतिमामन्त्र्येष्ट्वा प्रतर्प्य

शिवाभिमानसंरब्धो गुरुरेवं समादिशेत् ॥४८॥

तत्त्वेश्वर त्वया नास्य पुत्रकस्य शिवाज्ञया

प्रतिबन्धः प्रकर्तव्यो यातुः पदमनामयम् ॥४९॥

ततो यदि समीहेत धरातत्त्वान्तरालगम्

पृथक् शोधयितुं मन्त्री भुवनाद्यध्वपञ्चकम् ॥५०॥

अपरामन्त्रतः प्राग्वत्तिस्रस्तिस्रस्तदाहुतीः

दद्यात्पुरं शोधयामीत्यूहयुक्तं प्रसन्नधीः ॥५१॥

एवं कलामन्त्रपदवर्णेष्वपि विचक्षणः

तिस्रस्तिस्रो हुतीर्दद्यात् पृथक् सामस्त्यतो ̕पिवा ॥५२॥

ततः पूर्णाहुतिं दत्त्वा परया वौषडन्तया

अपरामन्त्रतः शिष्यमुद्धृत्यात्महृदं नयेत् ॥५३॥

यदा त्वेकेन शुद्धेन तदन्तर्भावचिन्तनात्

पृथक् शोधयेत्तत्त्वनाथसंश्रवणात्परम् ॥५४॥

तदा पूर्णां वितीर्याणुमुत्क्षिप्यात्मनि योजयेत्

तात्स्थ्यात्मसंस्थ्ययोगाय तयैवापरयाहुतीः ॥५५॥

सकर्मपदया दद्यादिति केचित्तु मन्वते

अन्ये तु गुरवः प्राहुर्भावनामयमीदृशम् ॥५६॥

नात्र बाह्याहुतिर्देया दैशिकस्य पृथक् पुनः

दद्याद्वा यदि नो दोषः स्यादुपायः भावने ॥५७॥

एवं प्राक्तनतात्स्थ्यात्मसंस्थत्वे योजयेद्गुरुः

ततः शिष्यहृदं नेयः आत्मा तावतो ̕ध्वनः ॥५८॥

शुद्धस्तद्दार्ढ्यसिद्ध्यै पूर्णा स्यात्परया पुनः

महापाशुपतं पूर्वं विलोमस्य विशुद्धये ॥५९॥

जुहोमि पुनरस्त्रेण वौषडन्त इति क्षिपेत्

पुनः पूर्णां ततो मायामभ्यर्च्याथ विसर्जयेत् ॥६०॥

धरातत्त्वं विशुद्धं सज्जलेन शुद्धरूपिणा

भावयेन्मिश्रितं वारि शुद्धियोग्यं ततो भवेत् ॥६१॥

तथा तत्तत्पुरातत्त्वमिश्रणादुत्तरोत्तरम्

सर्वा शिवीभवेत्तत्त्वावली शुद्धान्यथा पृथक् ॥६२॥

पृथक्त्वं मलो मायाभिधानस्तस्य संभवे

कर्मक्षयेऽपि नो मुक्तिर्भवेद्विद्येश्वरादिवत् ॥६३॥

ततोऽपि जलतत्त्वस्य वह्नौ व्योम्नि चिदात्मके

आह्वानाद्यखिलं यावत्तेजस्यस्य विमश्रणम् ॥६४॥

एवं क्रमात्कलातत्त्वे शुद्धे पाशं भुजाश्रितम्

छिन्द्यात्कला हि सा किंचित्कर्तृत्वोन्मीलनात्मिका ॥६५॥

कर्माख्यमलजृम्भात्मा तं ग्रन्थिं स्रुगग्रगम्

पूर्णाहुत्या समं वह्निमन्त्रतेजसि निर्दहेत् ॥६६॥

मन्त्रो हि विश्वरूपः सन्नुपाश्रयवशात्तथा

व्यक्तरूपस्ततो वह्नौ पाशप्लोषविधायकः ॥६७॥

प्लुष्टो लीनस्वभावो ̕सौ पाशस्तं प्रति शम्भुवत्

परमेशमहातेजःशेषमात्रत्वमश्नुते ॥६८॥

कर्मपाशेऽत्र होतव्ये पूर्णयास्य शुभाशुभम्

अशुभं वा भवद्भूतं भावि वाथ समस्तकम् ॥६९॥

दहामि फट्त्रयं वौषडिति पूर्णां विनिक्षिपेत्

एवं मायान्तसंशुद्धौ कण्ठपाशं होमयेत् ॥७०॥

पूर्णस्य तस्य मायाख्यं पाशभेदप्रथात्मकम्

दहामि फट्त्रयं वौषडिति पूर्णां क्षिपेद्गुरुः ॥७१॥

निर्बीजा यदि कार्या तु तदात्रैवापरां क्षिपेत्

पूर्णां समयपाशाख्यबीजदाहपदान्विताम् ॥७२॥

गुरौ देवे तथा शास्त्रे भक्तिः कार्यास्य नह्यसौ

समयः शक्तिपातस्य स्वभावो ह्येष नो पृथक् ॥७३॥

मायान्ते शुद्धिमायाते वागीशी या पुराभवत्

माया शक्तिमयी सैव विद्याशक्तित्वमश्नुते ॥७४॥

तच्छुद्धविद्यामाहूय विद्याशक्तिं नियोजयेत्

एवं क्रमेण संशुद्धे सदाशिवपदेऽप्यलम् ॥७५॥

शिखां ग्रन्थियुतां छित्त्वा मलमाणवकं दहेत्

यतो ̕धिकारभोगाख्यौ द्वौ पाशौ तु सदाशिवे ॥७६॥

इत्युक्त्याणवपाशोऽत्र मायीयस्तु निशावधिः

शिष्यो यथोचितं स्नायादाचामेद्दैशिकः स्वयम् ॥७७॥

आणवाख्ये विनिर्दग्धे ह्यधोवाहिशिखामले

ततः प्रागुक्तसकलप्रमेयं परिचिन्तयन् ॥७८॥

शिष्यदेहादिमात्मीयदेहप्राणादियोजितम्

कृत्वात्मदेहप्राणादेर्विश्वमन्तरनुस्मरेत् ॥७९॥

उक्तप्रक्रियया चैवं दृढबुद्धिरनन्यधीः

प्राणस्थं देशकालाध्वयुगं प्राणं शक्तिगम् ॥८०॥

तां संविद्गतां शुद्धां संविदं शिवरूपिणीम्

शिष्यसंविदभिन्नां मन्त्रवह्न्याद्यभेदिनीम् ॥८१॥

ध्यायन् प्राग्वत्प्रयोगेण शिवं सकलनिष्कलम्

द्व्यात्मकं वा क्षिपेत्पूर्णां प्रशान्तकरणेन तु ॥८२॥

उक्तं त्रैशिरसे तन्त्रे सर्वसंपूरणात्मकम्

मूलादुदयगत्या तु शिवेन्दुपरिसंप्लुतम् ॥८३॥

जन्मान्तमध्यकुहरमूलस्रोतःसमुत्थितम्

शिवार्करश्मिभिस्तीव्रैः क्षुब्धं ज्ञानामृतं तु यत् ॥८४॥

तेन संतर्पयेत्सम्यक् प्रशान्तकरणेन तु

शून्यधामाब्जमध्यस्थप्रभाकिरणभास्वरः ॥८५॥

आधेयाधारनिःस्पन्दबोधशास्त्रपरिग्रहः

जन्माधेयप्रपञ्चैकस्फोटसंघट्टघट्टनः ॥८६॥

मूलस्थानात्समारभ्य कृत्वा सोमेशमन्तगम्

खमिवातिष्ठते यावत्प्रशान्तं तावदुच्यते ॥८७॥

उक्तं श्रीपूर्वशास्त्रे स्रुचमापूर्य सर्पिषा

कृत्वा शिष्यं तथात्मस्थं मूलमन्त्रमनुस्मरन् ॥८८॥

शिवं शक्तिं तथात्मानं शिष्यं सर्पिस्तथानलम्

एकीकुर्वञ्छनैर्गच्छेद्द्वादशान्तमनन्यधीः ॥८९॥

तत्र कुम्भकमास्थाय ध्यायन्सकलनिष्कलम्

तिष्ठेत्तावदनुद्विग्नो यावदाज्यक्षयो भ्वेत् ॥९०॥

एवं युक्तः परे तत्त्वे गुरुणा शिवमूर्तिना

भूयः पशुतामेति दग्धमायानिबन्धनः ॥९१॥

देहपाते पुनः प्रेप्सेद्यदि तत्त्वेषु कुत्रचित्

भोगान् समस्तव्यस्तत्वभेदैरन्ते परं पदम् ॥९२॥

तदा तत्तत्त्वभूमौ तु तत्संख्यायामनन्यधीः

पुनर्योजनिकां कुर्यात्पूर्णाहुत्यन्तरेण तु ॥९३॥

मुक्तिप्रदा भोगमोक्षप्रदा वा या प्रकीर्तिता

दीक्षा सा स्यात्सबीजत्वनिर्बीजात्मतया द्विधा ॥९४॥

बाले निर्ज्ञातमरणे त्वशक्ते वा जरादिभिः

कार्या निर्बीजिका दीक्षा शक्तिपातबलोदये ॥९५॥

निर्बीजायां सामयांस्तु पाशानपि विशोधयेत्

कृतनिर्बीजदीक्षस्तु देवाग्निगुरुभक्तिभाक् ॥९६॥

इयतैव शिवं यायात् सद्यो भोगान् विभुज्य वा

श्रीमद्दीक्षोत्तरे चोक्तं चारे षट्त्रिंशदङ्गुले ॥९७॥

तत्त्वान्यापादमूर्धान्तं भुवनानि त्यजेत्क्रमात्

तुटिमात्रं निष्कलं तददेहं तदहंपरम् ॥९८॥

शक्त्या तत्र क्षिपाम्येनमिति ध्यायंस्तु दीक्षयेत्

सबीजायां तु दीक्षायां समयान्न विशोधयेत् ॥९९॥

विशेषस्त्वयमेतस्यां यावज्जीवं शिशोर्गुरुः

शेषवृत्त्यै शुद्धतत्त्वसृष्टिं कुर्वीत पूर्णया ॥१००॥

अभिन्नाच्छिवसंबोधजलधेर्युगपत्स्फुरत्

पूर्णां क्षिपंस्तत्त्वजालं ध्यायेद्भारूपकं सृतम् ॥१०१॥

विशुद्धतत्त्वसृष्टिं वा कुर्यात्कुम्भाभिषेचनात्

तथा ध्यानबलादेव यद्वा पूर्णाभिषेचनैः ॥१०२॥

पृथिवी स्थिररूपास्य शिवरूपेण भाविता

स्थिरीकरोति तामेव भावनामिति शुद्ध्यति ॥१०३॥

जलमाप्याययत्येनां तेजो भास्वरतां नयेत्

मरुदानन्दसंस्पर्शं व्योम वैतत्यमावहेत् ॥१०४॥

एवं तन्मात्रवर्गोऽपि शिवतामय इष्यते

परानन्दमहाव्याप्तिरशेषमलविच्युतिः ॥१०५॥

शिवे गन्तृत्वमादानमुपादेयशिवस्तुतिः

शिवामोदभरास्वाददर्शनस्पर्शनान्यलम् ॥१०६॥

तदाकर्णनमित्येवमिन्द्रियाणां विशुद्धता

संकल्पाध्यवसामानाः प्रकाशो रक्तिसंस्थिती ॥१०७॥

शिवात्मत्वेन यत्सेयं शुद्धता मानसादिके

नियमो रञ्जनं कर्तृभावः कलनया सह ॥१०८॥

वेदनं हेयवस्त्वंशविषये सुप्तकल्पता

इत्थं शिवैक्यरूढस्य षट्कञ्चुकगणोऽप्ययम् ॥१०९॥

शुद्ध एव पुमान् प्राप्तशिवभावो विशुद्ध्यति

विद्येशादिषु तत्त्वेषु नैव काचिदशुद्धता ॥११०॥

इत्येवं शुद्धतत्त्वानां सृष्ट्या शिष्यो ̕पि तन्मयः

भवेद्ध्येतत्सूचितं श्रीमालिनीविजयोत्तरे ॥१११॥

बन्धमोक्षावुभावेताविन्द्रियाणि जगुर्बुधाः

निगृहीतानि बन्धाय विमुक्तानि विमुक्तये ॥११२॥

एतानि व्यापके भावे यदा स्युर्मनसा सह

मुक्तानि क्वापि विषये रोधाद्बन्धाय तानि तु ॥११३॥

इत्येवं द्विविधो भावः शुद्धाशुद्धप्रभेदतः

इन्द्रियाणां समाख्यातः सिद्धयोगीश्वरे मते ॥११४॥

श्रीमान् विद्यागुरुस्त्वाह प्रमाणस्तुतिदर्शने

समस्तमन्त्रैर्दीक्षायां नियमस्त्वेष कथ्यते ॥११५॥

मायान्तशुद्धौ सर्वाः स्युः क्रिया ह्यपरया सदा

द्व्यात्मया सकलान्ते तु निष्कले परयैव तु ॥११६॥

ईशान्ते पिवन्यादि सकलान्तेऽङ्गपञ्चकम्

इत्येवंविधिमालोच्य कर्म कुर्याद्गुरूत्तमः ॥११७॥

पुराध्वनि हुतीनां या संख्येयं तत्त्ववर्णयोः

तामेव द्विगुणीकुर्यात्पदाध्वनि चतुर्गुणाम् ॥११८॥

क्रमान्मन्त्रकलामार्गे द्विगुणा द्विगुणा क्रमात्

यावत्त्रितत्त्वसंशुद्धौ स्याद्विंशतिगुणा ततः ॥११९॥

प्रतिकर्म भवेत्षष्टिराहुतीनां त्रितत्त्वके

एकतत्त्वे शतं प्राहुराहुतीनां तु साष्टकम् ॥१२०॥

विलोमकर्मणा साकं याः पूर्णाहुतयः स्मृताः

तासां सर्वाध्वसंशुद्धौ संख्यान्यत्वं किंचन ॥१२१॥

इत्येषा कथिता दीक्षा जननादिसमन्विता ॥१२२॥

 

 


 

Capitolo 18

 

 

अथ श्रीतन्त्रालोके अष्टादशमाह्निकम्

 

अथ संक्षिप्तदीक्षेयं शिवतापत्तिदोच्यते

रजो नाधिवासोऽत्र भूक्षेत्रपरिग्रहः

यत्र तत्र प्रदेशे तु पूजयित्वा गुरुः शिवम् ॥१॥

अध्वानं मनसा ध्यात्वा दीक्षयेत्तत्त्वपारगः

जननादिविहीनां तु येन येनाध्वना गुरुः ॥२॥

कुर्यात्स एकतत्त्वान्तां शिवभावैकभावितः

परामन्त्रस्ततोऽस्येति तत्त्वं संशोधयाम्यथ ॥३॥

स्वाहेति प्रतितत्त्वं स्याच्छुद्धे पूर्णाहुतिं क्षिपेत्

एवं मन्त्रान्तरैः कुर्यात्समस्तैरथवोक्तवत् ॥४॥

परासंपुटितं नाम स्वाहान्तं प्रथमान्तकम्

शतं सहस्रं साष्टं वा तेन शक्त्यैव होमयेत् ॥५॥

ततः पूर्णेति संशोध्यहीनमुत्तममीदृशम्

दीक्षाकर्मोदितं तत्र तत्र शास्त्रे महेशिना ॥६॥

प्रत्येकं मातृकायुग्मवर्णैस्तत्त्वानि शोधयेत्

यदि वा पिण्डमन्त्रेण सर्वमन्त्रेष्वयं विधिः ॥७॥

यथा यथा स्वभ्यस्तज्ञानस्तन्मयतात्मकः

गुरुस्तथा तथा कुर्यात् संक्षिप्तं कर्म नान्यथा ॥८॥

श्रीब्रह्मयामले चोक्तं संक्षिप्तेऽपि हि भावयेत्

व्याप्तिं सर्वाध्वसामान्यां किंतु यागे विस्तरः ॥९॥

अतन्मयीभूतमिति विक्षिप्तं कर्म सन्दधत्

क्रमात्तादात्म्यमेतीति विक्षिप्तं विधिमाचरेत् ॥१०॥

संक्षिप्तो विधिरुक्तोऽयं कृपया यः शिवोदितः

दीक्षोत्तरे कैरणे तत्र तत्रापि शासने ॥११॥

 

 


 

 

Capitolo 19

 

 

अथ श्रीतन्त्रालोके एकान्नविंशमाह्निकम्

 

अथ सद्यःसमुत्क्रान्तिप्रदा दीक्षा निरूप्यते

तत्क्षणाच्चोपभोगाद्वा देहपाते शिवं व्रजेत्

इत्युक्त्या मालिनीशास्त्रे सूचितासौ महेशिना ॥१॥

देहपाते समीपस्थे शक्तिपातस्फुटत्वतः

आसाद्य शांकरीं दीक्षां तस्माद्दीक्षाक्षणात्परम् ॥२॥

शिवं व्रजेदित्यर्थोऽत्र पूर्वापरविवेचनात्

व्याख्यातः श्रीमतास्माकं गुरुणा शम्भुमूर्तिना ॥३॥

यदा ह्यासन्नमरणे शक्तिपातः प्रजायते

तत्र मन्देऽथ गुर्वादिसेवयायुः क्षयं व्रजेत् ॥४॥

अथवा बन्धुमित्रादिद्वारा सास्य विभोः पतेत्

पूर्वं वा समयी नैव परां दीक्षामवाप्तवान् ॥५॥

आप्तदीक्षो ̕पि वा प्राणाञ्जिहासुः क्लेशवर्जितम्

अन्त्यान्गुरुस्तदा कुर्यात्सद्यउत्क्रान्तिदीक्षणम् ॥६॥

नत्वपक्वमले नापि शेषकार्मिकविग्रहे

कुर्यादुत्क्रमणं श्रीमद्गह्वरे निरूपितम् ॥७॥

दृष्ट्वा शिष्यं जराग्रस्तं व्याधिना परिपीडितम्

उत्क्रमय्य ततस्त्वेनं परतत्त्वे नियोजयेत् ॥८॥

विशेषणविशेष्यत्वे कामचारविधानतः

पूर्वोक्तमर्थजातं श्रीशम्भुनात्र निरूपितम् ॥९॥

विधिं पूर्वोदितं सर्वं कृत्वा समयशुद्धितः

क्षुरिकामस्य विन्यस्येज्ज्वलन्तीं मर्मकर्तरीम् ॥१०॥

कृत्वा पूर्वोदितं न्यासं कालानलसमप्रभम्

संहृतिक्रमतः सार्धं सृक्छिन्दियुगलेन तु ॥११॥

आग्नेयीं धारणां कृत्वा सर्वमर्मप्रतापनीम्

पूरयेद्वायुना देहमङ्गुष्ठान्मस्तकान्तकम् ॥१२॥

तमुत्कृष्य ततोऽङ्गुष्ठादूर्ध्वान्तं वक्ष्यमाणया

कृन्तेन्मर्माणि रन्ध्रान्तात् कालरात्र्या विसर्जयेत् ॥१३॥

अनेन क्रमयोगेन योजितो हुतिवर्जितः

समय्यप्येति तां दीक्षामिति श्रीमालिनीमते ॥१४॥

षोडशाधारषट्चक्रलक्ष्यत्रयखपञ्चकात्

क्वचिदन्यतरत्राथ प्रागुक्तपशुकर्मवत् ॥१५॥

प्रविश्य मूलं कन्दादेश्छिन्दन्नैक्यविभावनात्

पूर्णाहुतिप्रयोगेण स्वेष्टे धाम्नि नियोजयेत् ॥१६॥

ज्ञानत्रिशूलं संदीप्तं दीप्तचक्रत्रयोज्ज्वलम्

चिन्तयित्वामुना तस्य वेदनं बोधनं भ्रमम् ॥१७॥

दीपनं ताडनं तोदं चलनं पुनः पुनः

कन्दादिचक्रगं कुर्याद्विशेषेण हृदम्बुजे ॥१८॥

द्वादशान्ते ततः कृत्वा बिन्दुयुग्मगते क्षिपेत्

निर्लक्ष्ये वा परे धाम्नि संयुक्तः परमेश्वरः ॥१९॥

तस्य कुर्यात्संस्कारं कंचिदित्याह गह्वरे

देवः किमस्य पूर्णस्य श्राद्धाद्यैरिति भावितः ॥२०॥

श्रीमद्दीक्षोत्तरे त्वेष विधिर्वह्निपुटीकृतः

हंसः पुमानधस्तस्य रुद्रबिन्दुसमन्वितः ॥२१॥

शिष्यदेहे नियोज्यैतदनुद्वग्नः शतं जपेत्

उत्क्रम्योर्ध्वनिमेषेण शिष्य इत्थं परं व्रजेत् ॥२२॥

एष एव विधिः श्रीमत्सिद्धयोगीश्वरीमते

इयमुत्क्रामणी दीक्षा कर्तव्या योगिनो गुरोः ॥२३॥

अनभ्यस्तप्राणचारः कथमेनां करिष्यति

वक्ष्यमाणां ब्रह्मविद्यां सकलां निष्कलोम्भिताम् ॥२४॥

कर्णेऽस्य वा पठेद्भूयो भूयो वाप्यथ पाठयेत्

स्वयं कर्म कुर्वीत तत्त्वशुद्ध्यादिकं गुरुः ॥२५॥

मन्त्रक्रियाबलात्पूर्णाहुत्येत्थं योजयेत्परे

योगाभ्यासमकृत्वापि सद्य-उत्क्रान्तिदां गुरुः ॥२६॥

ज्ञानमन्त्रक्रियाध्यानबलात्कर्तुं भवेत्प्रभुः

अनयोत्क्रम्यते शिष्यो बलादेवैककं क्षणम् ॥२७॥

कालस्योल्लङ्घ्य भोगो हि क्षणिकोऽस्यास्तु किं ततः

सद्य उत्क्रान्तिदा चान्या यस्यां पूर्णाहुतिं तदा ॥२८॥

दद्याद्यदास्य प्राणाः स्युर्ध्रुवं निष्क्रमणेच्छवः

विनापि क्रियया भाविब्रह्मविद्याबलाद्गुरुः ॥२९॥

कर्णजापप्रयोगेण तत्त्वकञ्चुकजालतः

निःसारयन्यथाभीष्टे सकले निष्कले द्वये ॥३०॥

तत्त्वे वा यत्र कुत्रापि योजयेत्पुद्गलं क्रमात्

समयी पुत्रको वापि पठेद्विद्यामिमां तथा ॥३१॥

तत्पाठात्तु समय्युक्तां रुद्रांशापत्तिमश्नुते

एतौ जपे चाध्ययने यस्मादधिकृतावुभौ ॥३२॥

नाध्यापनोपदेशे वा एषोऽध्ययनादृते

पठतोस्त्वनयोर्वस्तुस्वभावात्तस्य सा गतिः ॥३३॥

यथा निषिद्धभूतादिकर्मा मन्त्रं स्मरन्स्वयम्

आविष्टे ̕पि क्वचिन्नैति लोपं कर्तृत्ववर्जनात् ॥३४॥

यथा वाचयञ्शास्त्रं समयी शून्यवेश्मनि

लुप्यते तदन्तःस्थप्राणिवर्गोपकारतः ॥३५॥

तथा स्वयं पठन्नेष विद्यां वस्तुस्वभावतः

तस्मिन्मुक्ते लुप्येत यतो किंचित्करो ̕त्र सः ॥३६॥

ननु चादीक्षिताग्रे नोच्चरेच्छास्त्रपद्धतिम् ॥३७॥

हन्त कुड्याग्रतोऽप्यस्य निषेधस्त्वथ कथ्यते

पर्युदासेन यः श्रोतुमवधारयितुं क्षमः ॥३८॥

एवात्र निषिद्धो नो कुड्यकीटपतत्रिणः

तर्हि पाषाणतुल्यो ̕सौ विलीनेन्द्रियवृत्तिकः ॥३९॥

तस्याग्रे पठतस्तस्य निषेधोल्लङ्घना कथम्

तु वस्तुस्वभावेन गलिताक्षोऽपि बुध्यते ॥४०॥

अक्षानपेक्षयैवान्तश्चिच्छक्त्या स्वप्रकाशया

प्राग्देहं किल तित्यक्षुर्नोत्तरं चाधितष्ठिवान् ॥४१॥

मध्ये प्रबोधकबलात् प्रतिबुध्येत् पुद्गलः

मन्त्राः शब्दमयाः शुद्धविमर्शात्मतया स्वयम् ॥४२॥

अर्थात्मना चावभान्तस्तदर्थप्रतिबोधकाः

तेनास्य गलिताक्षस्य प्रबोधो जायते स्वयम् ॥४३॥

स्वचित्समानजातीयमन्त्रामर्शनसंनिधेः

यथा ह्यल्पजवो वायुः सजातीयविमिश्रितः ॥४४॥

जवी तथात्मा संसुप्तामर्शोऽप्येवं प्रबुध्यते

प्रबुद्धः संजातो चादीक्षित उच्यते ॥४५॥

दीक्षा हि नाम संस्कारो त्वन्यत्सो ̕स्ति चास्य हि

अत एव निजं शास्त्रं पठति क्वापि सामये ॥४६॥

तच्छ्रुत्वा कोऽपि धन्यश्चेन्मुच्यते नास्य सा क्षतिः

शास्त्रनिन्दां मैष कार्षीद्द्वयोः पातित्यदायिनीम् ॥४७॥

इत्येवंपरमेतन्नादीक्षिताग्रे पठेदिति

यथा समयी काष्ठे लोष्टे वा मन्त्रयोजनाम् ॥४८॥

कुर्वंस्तस्मिंश्चलत्येति लोपं तद्वदत्र हि

यतो ̕स्य प्रत्ययप्राप्तिप्रेप्सोः समयिनस्तथा ॥४९॥

प्रवृत्तस्य स्वभावेन तस्मिन्मुक्ते वै क्षतिः

साधकस्तु सदा साध्ये फले नियतियन्त्रणात् ॥५०॥

मक्षिकाश्रुतमन्त्रोऽपि प्रायश्चित्तौचितीं चरेत्

इत्थं सद्यःसमुत्क्रान्तिर्योक्ता तामाज्ञया गुरोः ॥५१॥

समय्यादिरपि प्रोक्तकाले प्रोक्तार्थसिद्धये

स्वयं कुर्यात्समभ्यस्तप्राणचारगमागमः ॥५२॥

अकृताधिकृतिर्वापि गुरुः समयशुद्धये

अधस्तनपदावस्थो नतु ज्ञानेद्धचेतनः ॥५३॥

इतीयं सद्य उत्क्रान्तिः सूचिता मालिनीमते

स्वयं वा गुरुणा वाथ कार्यत्वेन महेशिना ॥५४॥

सर्वं भोगं विरूपं तु मत्वा देहं त्यजेद्यदि

तदा तेन क्रमेणाशु योजितः समयी शिवः ॥५५॥

उक्तेयं सद्य-उत्क्रान्तिर्या गोप्या प्राणवद्बुधैः ॥५६॥

 

 


 

 

Capitolo 20

 

 

अथ श्रीतन्त्रालोके विंशतितममाह्निकम्

 

अथ दीक्षां ब्रुवे मूढजनाश्वासप्रदायिनीम् ॥१॥

त्रिकोणे वह्निसदने वह्निवर्णोज्ज्वले ̕भितः

वायव्यपुरनिर्धूते करे सव्ये सुजाज्वले ॥२॥

बीजं किंचिद्गृहीत्वैतत्तथैव हृदयान्तरे

करे दह्यमानं सच्चिन्तयेत्तज्जपैकयुक् ॥३॥

वह्निदीपितफट्कारधोरणीदाहपीडितम्

बीजं निर्बीजतामेति स्वसूतिकरणाक्षमम् ॥४॥

तप्तं नैतत्प्ररोहाय तेनैव प्रत्ययेन तु

मलमायाख्यकर्माणि मन्त्रध्यानक्रियाबलात् ॥५॥

दग्धानि स्वकार्याय निर्बीजप्रत्ययं त्विमम्

श्रीमान्सुप्रसन्नो मे शंभुनाथो न्यरूपयत् ॥६॥

बीजस्याप्यत्र कार्या योजना कृपया गुरोः

यतो दीक्षा सुदीप्तत्वात्स्थावराण्यपि मोचयेत् ॥७॥

यो गुरुर्जपहोमार्चाध्यानसिद्धत्वमात्मनि

ज्ञात्वा दीक्षां चरेत्तस्य दीक्षा सप्रत्यया स्मृता ॥८॥

अवधूते निराचारे तत्त्वज्ञे नत्वयं विधिः

साचारैः क्रियते दीक्षा या दृष्टप्रत्ययान्विता ॥९॥

निराचारेण दीक्षायां प्रत्ययस्तु गद्यते

ज्ञानं स्वप्रत्ययं यस्मान्न फलान्तरमर्हति ॥१०॥

ध्यानादि तु फलात्साध्यमिति सिद्धामतोदितम्

तुलाशुद्धिपरीक्षां वा कुर्यात्प्रत्यययोगिनीम् ॥११॥

यथा श्रीतन्त्रसद्भावे कथिता परमेशिना

श्रीपूर्वशास्त्रेऽप्येषा सूचिता परमेशिना ॥१२॥

आनन्द उद्भवः कम्पो निद्रा घूर्णिश्च पञ्चमी

इत्येवंवदता शक्तितारतम्याभिधायिना ॥१३॥

उद्भवो लघुभावेन देहग्रहतिरोहितेः

देहो हि पार्थिवो मुख्यस्तदा मुख्यत्वमुज्झति ॥१४॥

भाविलाघवमन्त्रेण शिष्यं ध्यात्वा समुत्प्लुतम्

कर्माणि तत्राशेषाणि पूर्वोक्तान्याचरेद्गुरुः ॥१५॥

उक्ता सेयं तुलाशुद्धिदीक्षा प्रत्ययदायिनी

 

 


 

     Bookmark and Share

 

 

Creative Commons License

Precedente Home Successiva

AGHORI BREVE STORIA GRANDE MADRE SADHANA CHAKRA AYURVEDA CORSO DI YOGA EVENTI GALLERIA SITI CONSIGLIATI CONTATTACI GUESTBOOK SITE MAP PDF IN ITA

Privacy Policy