Tantraloka

by Abhinavagupta

 

In Sanscrito:

 

CAP.1 - CAP.2 - CAP.3 - CAP.4 - CAP.5 - CAP.6 - CAP.7 - CAP.8 - CAP.9 - CAP.10

CAP.11 - CAP.12 - CAP.13 - CAP.14 - CAP.15 - CAP.16 - CAP.17 - CAP.18 - CAP.19 - CAP.20

CAP.21 - CAP.22 - CAP.23 - CAP.24 - CAP.25 - CAP.26 - CAP.27 - CAP.28 - CAP.29 - CAP.30 

CAP.31 - CAP.32 - CAP.33 - CAP.34 - CAP.35 - CAP.36 - CAP.37 - Testo translitterato

pdf: Testo in sanscrito - Testo translitterato - Tantraloka with commentary by Rajanaka Jayaratha Vol.1 - Vol.2 - Vol.3 - Vol.4 - Vol.5 - Vol.6

 

 

TANTRALOKA SANSCRITO

 

 

Capitolo 7

 

अथ श्रीतन्त्रालोके सप्तममाह्निकम्

 

अथ परमरहस्योऽयं चक्राणां भण्यतेऽभ्युदयः ॥१॥

इत्ययत्नजमाख्यातं यत्नजं तु निगद्यते

बीजपिण्डात्मकं सर्वं संविदः स्पन्दनात्मताम् ॥२॥

विदधत्परसंवित्तावुपाय इति वर्णितम्

यथारघट्टचक्राग्रघटीयन्त्रौघवाहनम् ॥३॥

एकानुसंधियत्नेन चित्रं यन्त्रोदयं भजेत्

एकानुसंधानबलाज्जाते मन्त्रोदये ̕निशम् ॥४॥

तन्मन्त्रदेवता यत्नात्तादात्म्येन प्रसीदति

खे रसैकाक्षि नित्योत्थे तदर्धं द्विकपिण्डके ॥५॥

त्रिके सप्त सहस्राणि द्विशतीत्युदयो मतः

चतुष्के तु सहस्राणि पञ्च चैव चतुःशती ॥६॥

पञ्चार्णे ̕ब्धिसहस्राणि त्रिशती विंशतिस्तथा

षट्के सहस्रत्रितयं षट्शती चोदयो भवेत् ॥७॥

सप्तके त्रिसहस्रं तु षडशीत्यधिकं स्मृतम्

शतैस्तु सप्तविंशत्या वर्णाष्टकविकल्पिते ॥८॥

चतुर्विंशतिशत्या तु नवार्णेषूदयो भवेत्

अधिषष्ट्येकविंशत्या शतानां दशवर्णके ॥९॥

एकान्नविंशतिशतं चतुःषष्टिः शिवार्णके

अष्टादश शतानि स्युरुदयो द्वादशार्णके ॥१०॥

त्रयोदशार्णे द्वाषष्ट्या शतानि किल षोडश

त्रिचत्वारिंशता पञ्चदशेति भुवनार्णके ॥११॥

चतुर्दशशती खाब्धिः स्यात्पञ्चदशवर्णके

त्रयोदशशती सार्धा षोडशार्णे तु कथ्यते ॥१२॥

शतद्वादशिका सप्तदशार्णे सैकसप्ततिः

अष्टादशार्णे विज्ञेया शतद्वादशिका बुधैः ॥१३॥

चतुर्विंशतिसंख्याके चक्रे नवशती भवेत्

सप्तविंशतिसंख्याते तूदयोऽष्टशतात्मकः ॥१४॥

द्वात्रिंशके महाचक्रे षट्शती पञ्चसप्ततिः

द्विचतुर्विंशके चक्रे सार्धां शतचतुष्टयीम् ॥१५॥

उदयं पिण्डयोगज्ञः पिण्डमन्त्रेषु लक्षयेत्

चतुष्पञ्चाशके चक्रे शतानां तु चतुष्टयम् ॥१६॥

सप्तत्रिंशत्सहार्धेन त्रिशत्यष्टाष्टके भवेत्

अर्धमर्धत्रिभागश्च षट्षष्टिर्द्विशती भवेत् ॥१७॥

एकाशीतिपदे चक्रे उदयः प्राणचारगः

चक्रे तु षण्णवत्याख्ये सपादा द्विशती भवेत् ॥१८॥

अष्टोत्तरशते चक्रे द्विशतस्तूदयो भवेत्

क्रमेणेत्थमिदं चक्रं षट्कृत्वो द्विगुणं यदा ॥१९॥

ततोऽपि द्विगुणेऽष्टांशस्यार्धमध्यर्धमेककम्

ततोऽपि सूक्ष्मकुशलैरर्धार्धादिप्रकल्पने ॥२०॥

भागषोडशकस्थित्या सूक्ष्मश्चारो ̕भिलक्ष्यते

एवं प्रयत्नसंरुद्धप्राणचारस्य योगिनः ॥२१॥

क्रमेण प्राणचारस्य ग्रास एवोपजायते

प्राणग्रासक्रमावाप्तकालसंकर्षणस्थितिः ॥२२॥

संविदेकैव पूर्णा स्याज्ज्ञानभेदव्यपोहनात्

तथा हि प्राणचारस्य नवस्यानुदये सति ॥२३॥

कालभेदजनितो ज्ञानभेदः प्रकल्पते

संवेद्यभेदान्न ज्ञानं भिन्नं शिखरिवृत्तवत् ॥२४॥

कालस्तु भेदकस्तस्य तु सूक्ष्मः क्षणो मतः

सौक्ष्म्यस्य चावधिर्ज्ञानं यावत्तिष्ठति क्षणः ॥२५॥

अन्यथा निर्वक्तुं निपुणैरपि पार्यते

ज्ञानं कियद्भवेत्तावत्तदभावो भासते ॥२६॥

तदभावश्च नो तावद्यावत्तत्राक्षवर्त्मनि

अर्थे वात्मप्रदेशे वा संयोगविभागिता ॥२७॥

सा चेदुदयते स्पन्दमयी तत्प्राणगा ध्रुवम्

भवेदेव ततः प्राणस्पन्दाभावे सा भवेत् ॥२८॥

तदभावान्न विज्ञानाभावः सैवं तु सैव धीः

चासौ वस्तुतो दीर्घा कालभेदव्यपोहनात् ॥२९॥

वस्तुतो ह्यत एवेयं कालं संविन्न संस्पृशेत्

अत एकैव संवित्तिर्नानारूपे तथातथा ॥३०॥

विन्दाना निर्विकल्पापि विकल्पो भावगोचरे

स्पन्दान्तरं यावत्तदुदितं तावदेव सः ॥३१॥

तावानेको विकल्पः स्याद्विविधं वस्तु कल्पयन्

ये त्वित्थं विदुस्तेषां विकल्पो नोपपद्यते ॥३२॥

ह्येको भवेत्कश्चित् त्रिजगत्यापि जातुचित्

शब्दारूषणया ज्ञानं विकल्पः किल कथ्यते ॥३३॥

सा स्यात्क्रमिकैवेत्थं किं कथं को विकल्पयेत्

घट इत्यपि नेयान्स्याद्विकल्पः का कथा स्थितौ ॥३४॥

विकल्पश्च कोऽप्यस्ति यो मात्रामात्रनिष्ठितः

ज्ञानसमूहो ̕स्ति तेषामयुगपत्स्थितेः ॥३५॥

तेनास्तङ्गत एवैष व्यवहारो विकल्पजः

तस्मात्स्पन्दान्तरं यावन्नोदियात्तावदेककम् ॥३६॥

विज्ञानं तद्विकल्पात्मधर्मकोटीरपि स्पृशेत्

एकाशीतिपदोदारशक्त्यामर्शात्मकस्ततः ॥३७॥

विकल्पः शिवतादायी पूर्वमेव निरूपितः

यथा कर्णौ नर्तयामीत्येवं यत्नात्तथा भवेत् ॥३८॥

चक्रचारगताद्यत्नात्तद्वत्तच्चक्रगैव धीः

जपहोमार्चनादीनां प्राणसाम्यमतो विधिः ॥३९॥

सिद्धामते कुण्डलिनीशक्तिः प्राणसमोन्मना

उक्तं योगिनीकौले तदेतत्परमेशिना ॥४०॥

पदमन्त्राक्षरे चक्रे विभागं शक्तितत्त्वगम्

पदेषु कृत्वा मन्त्रज्ञो जपादौ फलभाग्भवेत् ॥४१॥

द्वित्रिसप्ताष्टसंख्यातं लोपयेच्छतिकोदयम्

इति शक्तिस्थिता मन्त्रा विद्या वा चक्रनायकाः ॥४२॥

पदपिण्डस्वरूपेण ज्ञात्वा योज्याः सदा प्रिये

नित्योदये महातत्त्वे उदयस्थे सदाशिवे ॥४३॥

अयुक्ताः शक्तिमार्गे तु जप्ताश्चोदयेन ये

ते सिद्ध्यन्ति यत्नेन जप्ताः कोटिशतैरपि ॥४४॥

मालामन्त्रेषु सर्वेषु मानसो जप उच्यते

उपांशुर्वा शक्त्युदयं तेषां परिकल्पयेत् ॥४५॥

पदमन्त्रेषु सर्वेषु यावत्तत्पदशक्तिगम्

शक्यते सततं युक्तैस्तावज्जप्यं तु साधकैः ॥४६॥

तावती तेषु वै संख्या पदेषु पदसंज्ञिता

तावन्तमुदयं कृत्वा त्रिपदोक्त्यादितः क्रमात् ॥४७॥

द्वादशाख्ये द्वादशिते चक्रे सार्धं शतं भवेत्

उदयस्तद्धि सचतुश्चत्वारिंशच्छतं भवेत् ॥४८॥

षोडशाख्ये द्वादशिते द्वानवत्यधिके शते

चारार्धेन समं प्रोक्तं शतं द्वादशकाधिकम् ॥४९॥

षोडशाख्ये षोडशिते भवेच्चतुरशीतिगः

उदयो द्विशतं तद्धि षट्पञ्चाशत्समुत्तरम् ॥५०॥

चाराष्टभागांस्त्रीनत्र कथयन्त्यधिकान्बुधाः

अष्टाष्टके द्वादशिते पादार्धं विंशतिं वसून् ॥५१॥

उदयः सप्तशतिका साष्टा षष्टिर्यतो हि सः

एष चक्रोदयः प्रोक्तः साधकानां हितावहः ॥५२॥

निरुद्ध्य मानसीर्वृत्तीश्चक्रे विश्रान्तिमागतः

व्युत्थाय यावद्विश्राम्येत्तावच्चारोदयो ह्ययम् ॥५३॥

पूर्णे समुदये त्वत्र प्रवेशैकात्म्यनिर्गमाः

त्रय इत्यत एवोक्तः सिद्धौ मध्योदयो वरः ॥५४॥

आद्यन्तोदयनिर्मुक्ता मध्यमोदयसंयुताः

मन्त्रविद्याचक्रगणाः सिद्धिभाजो भवन्ति हि ॥५५॥

मन्त्रचक्रोदयज्ञस्तु विद्याचक्रोदयार्थवित्

क्षिप्रं सिद्ध्येदिति प्रोक्तं श्रीमद्द्विंशतिके त्रिके ॥५६॥

द्विस्त्रिश्चतुर्वा मात्राभिर्विद्यां वा चक्रमेव वा

तत्त्वोदययुतं नित्यं पृथग्भूतं जपेत्सदा ॥५७॥

पिण्डाक्षरपदैर्मन्त्रमेकैकं शक्तितत्त्वगम्

बह्वक्षरस्तु यो मन्त्रो विद्या वा चक्रमेव वा ॥५८॥

शक्तिस्थं नैव तं तत्र विभागस्त्वोंनमोन्तगः

अस्मिंस्तत्त्वोदये तस्मादहोरात्रस्त्रिशस्त्रिशः ॥५९॥

विभज्यते विभागश्च पुनरेव त्रिशस्त्रिशः

पूर्वोदये तु विश्रम्य द्वितीयेनोल्लसेद्यदा ॥६०॥

विशेच्चार्धर्धिकायोगात्तदोक्तार्धोदयो भवेत्

यदा पूर्णोदयात्मा तु समः कालस्त्रिके स्फुरेत् ॥६१॥

प्रवेशविश्रान्त्युल्लासे स्यात्स्वत्र्यंशोदयस्तदा

एत्येष कालविभवः प्राण एव प्रतिष्ठितः ॥६२॥

स्पदे खे तच्चित्यां तेनास्यां विश्वनिष्ठिअतिः

अतः संवित्प्रतिष्ठानौ यतो विश्वलयोदयौ ॥६३॥

शक्त्यन्तेऽध्वनि तत्स्पन्दासंख्याता वास्तवी ततः

उक्तं श्रीमालिनीतन्त्रे गात्रे यत्रैव कुत्रचित् ॥६४॥

विकार उपजायेत तत्तत्त्वं तत्त्वमुत्तमम्

प्राणे प्रतिष्ठितः कालस्तदाविष्टा यत्तनुः ॥६५॥

देहे प्रतिष्ठितस्यास्य ततो रूपं निरूप्यते

चित्स्पन्दप्राणवृत्तीनामन्त्या या स्थूलता सुषिः ॥६६॥

सा नाडीरूपतामेत्य देहं संतानयेदिमम्

श्रीस्वच्छन्देऽत एवोक्तं यथा पर्णं स्वतन्तुभिः ॥६७॥

व्याप्तं तद्वत्तनुर्द्वारद्वारिभावेन नाडिभिः

पादाङ्गुष्ठादिकोर्ध्वस्थब्रह्मकुण्डलिकान्तगः ॥६८॥

कालः समस्तश्चतुरशीतावेवाङ्गुलेष्वितः

द्वादशान्तावधिं किंचित्सूक्ष्मकालस्थितिं विदुः ॥६९॥

षण्णवत्यामधः षड्द्विक्रमाच्चाष्टोत्तरं शतम्

अत्र मध्यमसंचारिप्राणोदयलयान्तरे ॥७०॥

विश्वे सृष्टिलयास्ते तु चित्रा वाय्वन्तरक्रमात्

इत्येष सूक्ष्मपरिमर्शनशीलनीयश्चक्रोदयोऽनुभवशास्त्रदृशा मयोक्तः ॥७१॥

 

 


 

     Bookmark and Share

 

 

Creative Commons License

Precedente Home Successiva

AGHORI BREVE STORIA GRANDE MADRE SADHANA CHAKRA AYURVEDA CORSO DI YOGA EVENTI GALLERIA SITI CONSIGLIATI CONTATTACI GUESTBOOK SITE MAP PDF IN ITA

Privacy Policy