Tantraloka

by Abhinavagupta

 

In Sanscrito:

 

CAP.1 - CAP.2 - CAP.3 - CAP.4 - CAP.5 - CAP.6 - CAP.7 - CAP.8 - CAP.9 - CAP.10

CAP.11 - CAP.12 - CAP.13 - CAP.14 - CAP.15 - CAP.16 - CAP.17 - CAP.18 - CAP.19 - CAP.20

CAP.21 - CAP.22 - CAP.23 - CAP.24 - CAP.25 - CAP.26 - CAP.27 - CAP.28 - CAP.29 - CAP.30 

CAP.31 - CAP.32 - CAP.33 - CAP.34 - CAP.35 - CAP.36 - CAP.37 - Testo translitterato

pdf: Testo in sanscrito - Testo translitterato - Tantraloka with commentary by Rajanaka Jayaratha Vol.1 - Vol.2 - Vol.3 - Vol.4 - Vol.5 - Vol.6

 

 

TANTRALOKA SANSCRITO

 

 

Capitolo 6

 

अथ श्रीतन्त्रालोके षष्ठममाह्निकम्

 

स्थानप्रकल्पाख्यतया स्फुटस्तु बाह्योऽभ्युपायः प्रविविच्यतेऽथ ॥१॥

स्थानभेदस्त्रिधा प्रोक्तः प्राणे देहे बहिस्तथा

प्राणश्च पञ्चधा देहे द्विधा बाह्यान्तरत्वतः ॥२॥

मण्डलं स्थण्डिलं पात्रमक्षसूत्रं सपुस्तकम्

लिङ्गं तूरं पटः पुस्तं प्रतिमा मूर्तिरेव ॥३॥

इत्येकादशधा बाह्यं पुनस्तद्बहुधा भवेत्

तत्र प्राणाश्रयं तावद्विधानमुपदिश्यते ॥४॥

अध्वा समस्त एवायं षड्विधोऽप्यतिविस्तृतः

यो वक्ष्यते एकत्र प्राणे तावत्प्रतिष्ठितः ॥५॥

अध्वनः कलनं यत्तत्क्रमाक्रमतया स्थितम्

क्रमाक्रमौ हि चित्रैककलना भावगोचरे ॥६॥

क्रमाक्रमात्मा कालश्च परः संविदि वर्तते

काली नाम परा शक्तिः सैव देवस्य गीयते ॥७॥

सैव संविद्बहिः स्वात्मगर्भीभूतौ क्रमाक्रमौ

स्फुटयन्ती प्ररोहण प्राणवृत्तिरिति स्थिता ॥८॥

संविन्मात्रं हि यच्छुद्धं प्रकाशपरमार्थकम्

तन्मेयमात्मनः प्रोज्झ्य विविक्तं भासते नभः ॥९॥

तदेव शून्यरूपत्वं संविदः परिगीयते

नेति नेति विमर्शेन योगिनां सा परा दशा ॥१०॥

एव खात्मा मेये ̕स्मिन्भेदिते स्वीक्रियोन्मुखः

पतन्समुच्छलत्त्वेन प्राणस्पन्दोर्मिसंज्ञितः ॥११॥

तेनाहुः किल संवित्प्राक्प्राणे परिणता तथा

अन्तःकरणतत्त्वस्य वायुराश्रयतां गतः ॥१२॥

इयं सा प्राणनाशक्तिरान्तरोद्योगदोहदा

स्पन्दः स्फुरत्ता विश्रान्तिर्जीवो हृत्प्रतिभा मता ॥१३॥

सा प्राणवृत्तिः प्राणाद्यै रूपैः पञ्चभिरात्मसात्

देहं यत्कुरुते संवित्पूर्णस्तेनैष भासते ॥१४॥

प्राणनावृत्तितादात्म्यसंवित्खचितदेहजाम्

चेष्टां पश्यन्त्यतो मुग्धा नास्त्यन्यदिति मन्वते ॥१५॥

तामेव बालमूर्खस्त्रीप्रायवेदितृसंश्रिताम्

मतिं प्रमाणीकुर्वन्तश्चार्वाकास्तत्त्वदर्शिनः ॥१६॥

तेषां तथा भावना चद्दार्ढ्यमेति निरन्तरम्

तद्देहभङ्गे सुप्ताः स्युरातादृग्वासनाक्षयात् ॥१७॥

तद्वासनाक्षये त्वेषामक्षीणं वासनान्तरम्

बुद्धं कुतश्चित्संसूते विचित्रां फलसम्पदम् ॥१८॥

अदार्ढ्यशङ्कनात्प्राच्यवासनातादवस्थ्यतः

अन्यकर्तव्यशैथिल्यात्संभाव्यानुशयत्वतः ॥१९॥

अतद्रूढान्यजनताकर्तव्यपरिलोपनात्

नास्तिक्यवासनामाहुः पापात्पापीयसीमिमाम् ॥२०॥

अलमप्रस्तुतेनाथ प्रकृतं प्रविविच्यते

यावान्समस्त एवायमध्वा प्राणे प्रतिष्ठितः ॥२१॥

द्विधा सोऽध्वा क्रियया मूर्त्या प्रविभज्यते

प्राण एव शिखा श्रीमत्त्रिशिरस्युदिता हि सा ॥२२॥

बद्धा यागादिकाले तुं निष्कलत्वाच्छिवात्मिका

यतोऽहोरात्रमध्येऽस्याश्चतुर्विंशतिधा गतिः ॥२३॥

प्राणविक्षेपरन्ध्राख्यशतैश्चित्रफलप्रदा

क्षपा शशी तथापानो नाद एकत्र तिष्ठति ॥२४॥

जीवादित्यो चोद्गच्छेत्तुट्यर्धं सान्ध्यमीदृशम्

ऊर्ध्ववक्त्रो रविश्चन्द्रो ̕धोमुखो वह्निरन्तरे ॥२५॥

माध्याह्निकी मोक्षदा स्याद्व्योममध्यस्थितो रविः

अनस्तमितसारो हि जन्तुचक्रप्रबोधकः ॥२६॥

बिन्दुः प्राणो ह्यहश्चैव रविरेकत्र तिष्ठति

महासन्ध्या तृतीया तु सुप्रशान्तात्मिका स्थिता ॥२७॥

एवं बद्धा शिखा यत्र तत्तत्फलनियोजिका

अतः संविदि सर्वोऽयमध्वा विश्रम्य तिष्ठति ॥२८॥

अमूर्तायाः सर्वगत्वान्निष्क्रियायाश्च संविदः

मूर्तिक्रियाभासनं यत्स एवाध्वा महेशितुः ॥२९॥

अध्वा क्रमेण यातव्ये पदे संप्राप्तिकारणम्

द्वैतिनां भोग्यभावात्तु प्रबुद्धानां यतोऽद्यते ॥३०॥

इह सर्वत्र शब्दानामन्वर्थं चर्चयेद्यतः

उक्तं श्रीमन्निशाचारे संज्ञात्र त्रिविधा मता ॥३१॥

नैमित्तिकी प्रसिद्धा तथान्या पारिभाषिकी

पूर्वत्वे वा प्रधानं स्यात्तत्रान्तर्भावयेत्ततः ॥३२॥

अतो ̕ध्वशब्दस्योक्तेयं निरुक्तिर्नोदितापि चेत्

क्वचित्स्वबुद्ध्या साप्यूह्या कियल्लेख्यं हि पुस्तके ॥३३॥

तत्र क्रियाभासनं यत्सो ̕ध्वा कालाह्व उच्यते

वर्णमन्त्रपदाभिख्यमत्रास्तेऽध्वत्रयं स्फुटम् ॥३४॥

यस्तु मूर्त्यवभासांशः देशाध्वा निगद्यते

कलातत्त्वपुराभिख्यमन्तर्भूतमिह त्रयम् ॥३५॥

त्रिकद्वयेऽत्र प्रत्येकं स्थूलं सूक्ष्मं परं वपुः

यतो ̕स्ति तेन सर्वोऽयमध्वा षड्विध उच्यते ॥३६॥

षड्विधादध्वनः प्राच्यं यदेतत्त्रितयं पुनः

एष एव कालाध्वा प्राणे स्पष्टं प्रतिष्ठितः ॥३७॥

तत्तवमध्यस्थितात्कालादन्योऽयं काल उच्यते

एष कालो हि देवस्य विश्वाभासनकारिणी ॥३८॥

क्रियाशक्तिः समस्तानां तत्त्वानां परं वपुः

एतदीश्वरतत्त्वं तच्छिवस्य वपुरुच्यते ॥३९॥

उद्रिक्ताभोगकार्यात्मविश्वैकात्म्यमिदं यतः

एतदीश्वररूपत्वं परमात्मनि यत्किल ॥४०॥

तत्प्रमातरि मायीये कालतत्त्वं निगद्यते

शिवादिशुद्धविद्यान्तं यच्छिवस्य स्वकं वपुः ॥४१॥

तदेव पुंसो मायादिरागान्तं कञ्चुकीभवेत्

अनाश्रितं यतो माया कलाविद्ये सदाशिवः ॥४२॥

ईश्वरः कालनियती सद्विद्या राग उच्यते

अनाश्रितः शून्यमाता बुद्धिमाता सदाशिवः ॥४३॥

ईश्वरः प्राणमाता विद्या देहप्रमातृता

अनाश्रयो हि शून्यत्वं ज्ञानमेव हि बुद्धिता ॥४४॥

विश्वात्मता प्राणत्वं देहे वेद्यैकतानता

तेन प्राणपथे विश्वाकलनेयं विराजते ॥४५॥

येन रूपेण तद्वच्मः सद्भिस्तदवधीयताम्

द्वादशान्तावधावस्मिन्देहे यद्यपि सर्वतः ॥४६॥

ओतप्रोतात्मकः प्राणस्तथापीत्थं सुस्फुटः

यत्नो जीवनमात्रात्मा तत्परश्च द्विधा मतः ॥४७॥

संवेद्यश्चाप्यसंवेद्यो द्विधेत्थं भिद्यते पुनः

स्फुटास्फुटत्वाद्द्वैविध्यं प्रत्येकं परिभावयेत् ॥४८॥

संवेद्यजीवनाभिख्यप्रयत्नस्पन्दसुन्दरः

प्राणः कन्दात्प्रभृत्येव तथाप्यत्र सुस्फुटः ॥४९॥

कन्दाधारात्प्रभृत्येव व्यवस्था तेन कथ्यते

स्वच्छन्दशास्त्रे नाडीनां वाय्वाधारतया स्फुटम् ॥५०॥

तत्रापि तु प्रयत्नोऽसौ संवेद्यतया स्थितः

वेद्ययत्नात्तु हृदयात्प्राणचारो विभज्यते ॥५१॥

प्रभोः शिवस्य या शक्तिर्वामा ज्येष्ठा रौद्रिका

सतदन्यतमावात्मप्राणौ यत्नविधायिनौ ॥५२॥

प्रभुशक्तिः क्वचिन्मुख्या यथाङ्गमरुदीरणे

आत्मशक्तिः क्वचित्कन्दसंकोचस्पन्दने यथा ॥५३॥

प्राणशक्तिः क्वचित्प्राणचारे हार्दे यथा स्फुटम्

त्रयं द्वयं वा मुख्यं स्याद्योगिनामवधानिनाम् ॥५४॥

अवधानाददृष्टांशाद्बलवत्त्वादथेरणात्

विपर्ययोऽपि प्राणात्मशक्तीनां मुख्यतां प्रति ॥५५॥

वामा संसारिणामीशा प्रभुशक्तिर्विधायिनी

ज्येष्ठा तु सुप्रबुद्धानां बुभुत्सूनां रौद्रिका ॥५६॥

वामा संसारवमना ज्येष्ठा शिवमयी यतः

द्रावयित्री रुजां रौद्री रोद्ध्री चाखिलकर्मणाम् ॥५७॥

सृष्ट्यादितत्त्वमज्ञात्वा मुक्तो नापि मोचयेत्

उक्तं श्रीयोगचारे मोक्षः सर्वप्रकाशनात् ॥५८॥

उत्पत्तिस्थितिसंहारान् ये जानन्ति योगिनः

मुक्तास्ते तदज्ञानबन्धनैकाधिवासिताः ॥५९॥

सृष्ट्यादयश्च ते सर्वे कालाधीना संशयः

प्राणात्मकस्तस्मादुच्चारः कथ्यते स्फुटः ॥६०॥

हृदयात्प्राणचारश्च नासिक्यद्वादशान्ततः

षट्त्रिंशदङ्गुलो जन्तोः सर्वस्य स्वाङ्गुलक्रमात् ॥६१॥

क्षोदिष्ठे वा महिष्ठे वा देहे तादृश एव हि

वीर्यमोजो बलं स्पन्दः प्राणचारः समं ततः ॥६२॥

षट्त्रिंशदङ्गुले चारे यद्गमागमयुग्मकम्

नालिकातिथिमासाब्दतत्सङ्घ्रोऽत्र स्फुटं स्थितः ॥६३॥

तुटिः सपादाङ्गुलयुक्प्राणस्ताः षोडशोच्छ्वसन्।

निःश्वसंश्चात्र चषकः सपञ्चांशेऽङ्गुलेऽङ्गुले ॥६४॥

श्वासप्रश्वासयोर्नाली प्रोक्ताहोरात्र उच्यते

नवाङ्गुलाम्बुधितुटौ प्रहरास्ते ̕ब्धयो दिनम् ॥६५॥

निर्गमेऽन्तर्निशेनेन्दू तयोः संध्ये तुटेर्दले

केतुः सूर्ये विधौ राहुर्भौमादेर्वारभागिनः ॥६६॥

प्रहरद्वयमन्येषां ग्रहाणामुदयोऽन्तरा

सिद्धिर्दवीयसी मोक्षो ̕भिचारः पारलौकिकी ॥६७॥

ऐहिकी दूरनैकट्यातिशया प्रहराष्टके

मध्याह्नमध्यनिशयोरभिजिन्मोक्षभोगदा ॥६८॥

नक्षत्राणां तदन्येषामुदयो मध्यतः क्रमात्

नागा लोकेशमूर्तीशा गणेशा जलतत्त्वतः ॥६९॥

प्रधानान्तं नायकाश्च विद्यातत्त्वाधिनायकाः

सकलाद्याश्च कण्ठ्योष्ठ्यपर्यन्ता भैरवास्तथा ॥७०॥

शक्तयः पारमेश्वर्यो वामशा वीरनायकाः

अष्टावष्टौ ये इत्थं व्याप्यव्यापकताजुषः ॥७१॥

स्थूलसूक्ष्माः क्रमात्तेषामुदयः प्रहराष्टके

दिने क्रूराणि सौम्यानि रात्रौ कर्माण्यसंशयम् ॥७२॥

क्रूरता सौम्यता वाभिसन्धेरपि निरूपिता

दिनरात्रिक्षये मुक्तिः सा व्याप्तिध्यानयोगतः ॥७३॥

ते चोक्ताः परमेशेन श्रीमद्वीरावलीकुले

सितासितौ दीर्घह्रस्वौ धर्माधर्मौ दिनक्षपे ॥७४॥

क्षीयेते यदि तद्दीक्षा व्याप्त्या ध्यानेन योगतः

अहोरात्रः प्राणचारे कथितो मास उच्यते ॥७५॥

दिनं कृष्णो निशा शुक्लः पक्षौ कर्मसु पूर्ववत्

याः षोडशोक्तास्तिथयस्तासु ये पूर्वपश्चिमे ॥७६॥

तयोस्तु विश्रमोऽर्धेऽर्धे तिथ्यः पञ्चदशेतराः

सपादे द्व्यङ्गुले तिथ्या अहोरात्रो विभज्यते ॥७७॥

प्रकाशविश्रमवशात्तावेव हि दिनक्षपे

संवित्प्रतिक्षणं यस्मात्प्रकाशानन्दयोगिनी ॥७८॥

तौ क्लृप्तौ यावति तया तावत्येव दिनक्षपे

यावत्येव हि संवित्तिरुदितोदितसुस्फुटा ॥७९॥

तावानेव क्षणः कल्पो निमेषो वा तदस्त्वपि

यावानेवोदयो वित्तेर्वेद्यैकग्रहतत्परः ॥८०॥

तावदेवास्तमयनं वेदितृस्वात्मचर्वणम्

वेद्ये बहिरन्तर्वा द्वये वाथ द्वयोज्झिते ॥८१॥

सर्वथा तन्मयीभूतिर्दिनं वेत्तृस्थता निशा

वेदिता वेद्यविश्रान्तो वेत्ता त्वन्तर्मुखस्थितिः ॥८२॥

पुरा विचारयन्पश्चात्सत्तामात्रस्वरूपकः

जाग्रद्वेदितृता स्वप्नो वेत्तृभावः पुरातनः ॥८३॥

परः सुप्तं क्षये रात्रिदिनयोस्तुर्यमद्वयम्

कदाचिद्वस्तुविश्रान्तिसाम्येनात्मनि चर्वणम् ॥८४॥

वेद्यवेदकसाम्यं तत् सा रात्रिदिनतुल्यता

वेद्ये विश्रान्तिरधिका दिनदैर्घ्याय तत्र तु ॥८५॥

न्यूना स्यात्स्वात्मविश्रान्तिर्विपरीते विपर्ययः

स्वात्मौत्सुक्ये प्रबुद्धे हि वेद्यविश्रान्तिरल्पिका ॥८६॥

इत्थमेव दिवारात्रिन्यूनाधिक्यक्रमं वदेत्

यथा देहेष्वहोरात्रन्यूनाधिक्यादि नो समम् ॥८७॥

तथा पुरेष्वपीत्येवं तद्विशेषेण नोदितम्

श्रीत्रैयम्बकसन्तानवितताम्बरभास्करः ॥८८॥

दिनरात्रिक्रमं मे श्रीशंभुरित्थमपप्रथत्

श्रीसन्तानगुरुस्त्वाह स्थानं बुद्धाप्रबुद्धयोः ॥८९॥

हृद आरभ्य यत्तेन रात्रिन्दिवविभाजनम्

तदसत्सितपक्षेऽन्तः प्रवेशोल्लासभागिनि ॥९०॥

अबुद्धस्थानमेवैतद्दिनत्वेन कथं भवेत्

अलं वानेन नेदं वा मम प्राङ्मतमत्सरः ॥९१॥

हेये तु दर्शिते शिष्याः सत्पथैकान्तदर्शिनः

व्याख्यातः कृष्णपक्षो स्तत्र प्राणगतः शशी ॥९२॥

आप्यायनात्मनैकैकां कलां प्रतितिथि त्यजेत्

द्वादशान्तसमीपे तु यासौ पञ्चदशी तुटिः ॥९३॥

सामावस्यात्र क्षीणश्चन्द्रः प्राणार्कमाविशेत्

उक्तं श्रीकामिकायां नोर्ध्वेऽधः प्रकृतिः परा

अर्धार्धे क्रमते माया द्विखण्डा शिवरूपिणी ॥९४॥

चन्द्रसूर्यात्मना देहं पूरयेत्प्रविलापयेत्

अमृतं चन्द्ररूपेण द्विधा षोडशधा पुनः ॥९५॥

पिवन्ति सुराः सर्वे दशपञ्च पराः कलाः

अमा शेषगुहान्तःस्थामावास्या विश्वतर्पिणी ॥९६॥

एवं कलाः पञ्चदश क्षीयन्ते शशिनः क्रमात्

आप्यायिन्यमृताब्रूपतादात्म्यात्षोडशी तु ॥९७॥

तत्र पञ्चदशी यासौ तुटिः प्रक्षीणचन्द्रमाः

तदूर्ध्वगं यत्तुट्यर्धं पक्षसंधिः कीर्तितः ॥९८॥

तस्माद्विश्रमतुट्यर्धादामावस्यं पुरादलम्

परं प्रातिपदं चार्धमिति संधिः कल्प्यते ॥९९॥

तत्र प्रातिपदे तस्मिंस्तुट्यर्धार्धे पुरादलम्

आमावस्यं तिथिच्छेदात्कुर्यात्सूर्यग्रहं विशत् ॥१००॥

तत्रार्कमण्डले लीनः शशी स्रवति यन्मधु

तप्तत्वात्तत्पिबेदिन्दुसहभूः सिंहिकासुतः ॥१०१॥

अर्कः प्रमाणं सोमस्तु मेयं ज्ञानक्रियात्मकौ

राहुर्मायाप्रमाता स्यात्तदाच्छादनकोविदः ॥१०२॥

तत एव तमोरूपो विलापयितुमक्षमः

तत्संघट्टाद्वयोल्लासो मुख्यो माता विलापकः ॥१०३॥

अर्केन्दुराहुसंघट्टात् प्रमाणं वेद्यवेदकौ

अद्वयेन ततस्तेन पुण्य एष महाग्रहः ॥१०४॥

अमावस्यां विनाप्येष संघट्टश्चेन्महाग्रहः

यथार्के मेषगे राहावश्विनीस्थे ̕श्विनीदिने ॥१०५॥

आमावास्यं यदा त्वर्धं लीनं प्रातिपदे दले

प्रतिपच्च विशुद्धा स्यात्तन्मोक्षो दूरगे विधौ ॥१०६॥

ग्रासमोक्षान्तरे स्नानध्यानहोमजपादिकम्

लौकिकालौकिकं भूयःफलं स्यात्पारलौकिकम् ॥१०७॥

ग्रास्यग्रासकताक्षोभप्रक्षये क्षणमाविशन्

मोक्षभाग्ध्यानपूजादि कुर्वंश्चन्द्रार्कयोर्ग्रहे ॥१०८॥

तिथिच्छेद ऋणं कासो वृद्धिर्निःश्वसनं धनम्

अयत्नजं यत्नजं तु रेचनादथ रोधनात् ॥१०९॥

एवं प्राणे विशति चित्सूर्य इन्दुं सुधामयम्

एकैकध्येन बोधांशु कलया परिपूरयेत् ॥११०॥

क्रमसंपूरणाशालिशशाङ्कामृतसुन्दराः

तुट्यः पञ्चदशैताः स्युस्तिथयः सितपक्षगाः ॥१११॥

अन्त्यायां पूर्णमस्तुट्यां पूर्ववत्पक्षसन्धिता

इन्दुग्रहश्च प्रतिपत्सन्धौ पूर्वप्रवेशतः ॥११२॥

ऐहिकं ग्रहणे चात्र साधकानां महाफलम्

प्राग्वदन्यदयं मासः प्राणचारेऽब्द उच्यते ॥११३॥

षट्सु षट्स्वङ्गुलेष्वर्को हृदयान्मकरादिषु

तिष्ठन्माघाढिकं षट्कं कुर्यात्तच्चोत्तरायणम् ॥११४॥

संक्रान्तित्रितये वृत्ते भुक्ते चाष्टादशाङ्गुले

मेषं प्राप्ते रवौ पुण्यं विषुवत्पारलौकिकम् ॥११५॥

प्रवेशे तु तुलास्थे ̕र्के तदेव विषुवद्भवेत्

इह सिद्धिप्रदं चैतद्दक्षिणायनगं ततः ॥११६॥

गर्भता प्रोद्बुभूषिष्यद्भावश्चाथोद्बुभूषुता

उद्भविष्यत्त्वमुद्भूतिप्रारम्भोऽप्युद्भवस्थितिः ॥११७॥

जन्म सत्ता परिणतिर्वृद्धिर्ह्रासः क्षयः क्रमात्

मकरादीनि तेनात्र क्रिया सूते सदृक्फलम् ॥११८॥

आमुत्रिके झषः कुम्भो मन्त्रादेः पूर्वसेवने

चतुष्कं किल मीनाद्यमन्तिकं चोत्तरोत्तरम् ॥११९॥

प्रवेशे खलु तत्रैव शान्तिपुष्ट्यादिसुन्दरम्

कर्म स्यादैहिकं तच्च दूरदूरफलं क्रमात् ॥१२०॥

निर्गमे दिनवृद्धिः स्याद्विपरीते विपर्ययः

वर्षे ̕स्मिंस्तिथयः पञ्च प्रत्यङ्गुलमिति क्रमः ॥१२१॥

तत्राप्यहोरात्रविधिरिति सर्वं हि पूर्ववत्

प्राणीये वर्ष एतस्मिन्कार्तिकादिषु दक्षतः ॥१२२॥

पितामहान्तं रुद्राः स्युर्द्वादशाग्रेऽत्र भाविनः

प्राणे वर्षोदयः प्रोक्तो द्वादशाब्दोदयोऽधुना ॥१२३॥

खरसास्तिथ्य एकस्मिन्नेकस्मिन्नङ्गुले क्रमात्

द्वादशाब्दोदये ते चैत्राद्या द्वादशोदिताः ॥१२४॥

चैत्रे मन्त्रोदितिः सोऽपि तालुन्युक्तोऽधुना पुनः

हृदि चैत्रोदितिस्तेन तत्र मन्त्रोदयोऽपि हि ॥१२५॥

प्रत्यङ्गुलं तिथीनां तु त्रिशते परिकल्पिते

सपञ्चांशाङ्गुलेऽब्दः स्यात्प्राणे षष्ट्यब्दता पुनः ॥१२६॥

शतानि षट् सहस्राणि चैकविंशतिरित्ययम्

विभागः प्राणगः षष्टिवर्षाहोरात्र उच्यते ॥१२७॥

प्रहराहर्निशामासऋत्वब्दरविषष्टिगः

यश्छेदस्तत्र यः सन्धिः पुण्यो ध्यानपूजने ॥१२८॥

इति प्राणोदये योऽयं कालः शक्त्येकविग्रहः

विश्वात्मान्तःस्थितस्तस्य बाह्ये रूपं निरूप्यते ॥१२९॥

षट् प्राणाश्चषकस्तेषां षष्टिर्नाली तास्तथा

तिथिस्तत्त्रिंशता मासस्ते द्वादश तु वत्सरः ॥१३०॥

अब्दं पित्र्यस्त्वहोरात्र उदग्दक्षिणतोऽयनात्

पितॄणां यत्स्वमानेन वर्षं तद्दिव्यमुच्यते ॥१३१॥

षष्ट्यधिकं त्रिशतं वर्षाणामत्र मानुषम्

तच्च द्वादशभिर्हत्वा माससंख्यात्र लभ्यते ॥१३२॥

तां पुनस्त्रिंशता हत्वाहोरात्रकल्पना वदेत्

हत्वा तां चैकविंशत्या सहस्रैः षट्शतेन ॥१३३॥

प्राणसंख्यां वदेत्तत्र षष्ट्याद्यब्दोदयं पुनः

उक्तं गुरुभिः श्रीमद्रौरवादिस्ववृत्तिषु ॥१३४॥

देवानां यदहोरात्रं मानुषाणां हायनः

शतत्रयेण षष्ट्या नॄणां विबुधवत्सरः ॥१३५॥

श्रीमत्स्वच्छन्दशास्त्रे तदेव मतमीक्ष्यते

पितॄणां तदहोरात्रमित्युपक्रम्य पृष्ठतः ॥१३६॥

एवं दैवस्त्वहोरात्र इति ह्यैक्योपसंहृतिः

तेन ये गुरवः श्रीमत्स्वच्छन्दोक्तिद्वयादितः ॥१३७॥

पित्र्यं वर्षं दिव्यदिनमूचुर्भ्रान्ता हि ते मुधा

दिव्यार्काब्दसहस्राणि युगेषु चतुरादितः ॥१३८॥

एकैकहान्या तावद्भिः शतैस्तेष्वष्ट संधयः

चतुर्युगैकसप्तत्या मन्वन्तस्ते चतुर्दश ॥१३९॥

ब्रह्मणो ̕हस्तत्र चेन्द्राः क्रमाद्यान्ति चतुर्दश

ब्रह्माहो ̕न्ते कालवह्नेर्ज्वाला योजनलक्षिणी ॥१४०॥

दग्ध्वा लोकत्रयं धूमात्त्वन्यत्प्रस्वापयेत्त्रयम्

निरयेभ्यः पुरा कालवह्नेर्व्यक्तिर्यतस्ततः ॥१४१॥

विभुरधःस्थितो ̕पीश इति श्रीरौरवं मतम्

ब्रह्मनिःश्वासनिर्धूते भस्मनि स्वेदवारिणा ॥१४२॥

तदीयेनाप्लुतं विश्वं तिष्ठेत्तावन्निशागमे

तस्मिन्निशावधौ सर्वे पुद्गलाः सूक्ष्मदेहगाः ॥१४३॥

अग्निवेगेरिता लोके जने स्युर्लयकेवलाः

कूष्माण्डहाटकाद्यास्तु क्रीडन्ति महदालये ॥१४४॥

निशाक्षये पुनः सृष्टिं कुरुते तामसादितः

स्वकवर्षशतान्तेऽस्य क्षयस्तद्वैष्णवं दिनम् ॥१४५॥

रात्रिश्च तावतीत्येवं विष्णुरुद्रशताभिधाः

क्रमात्स्वस्वशतान्तेषु नश्यन्त्यत्राण्डलोपतः ॥१४६॥

अबाद्यव्यक्ततत्त्वान्तेष्वित्थं वर्षशतं क्रमात्

दिनरात्रिविभागः स्यात् स्वस्वायुःशतमानतः ॥१४७॥

ब्रह्मणः प्रलयोल्लाससहस्रैस्तु रसाग्निभिः

अव्यक्तस्थेषु रुद्रेषु दिनं रात्रिश्च तावती ॥१४८॥

तदा श्रीकण्ठ एव स्यात्साक्षात्संहारकृत्प्रभुः

सर्वे रुद्रास्तथा मूले मायागर्भाधिकारिणः ॥१४९॥

अव्यक्ताख्ये ह्याविरिञ्चाच्छ्रीकण्ठेन सहासते

निवृत्ताधःस्थकर्मा हि ब्रह्मा तत्राधरे धियः ॥१५०॥

भोक्ता ज्ञो ̕धिकारे तु वृत्त एव शिवीभवेत्

एषोऽवान्तरलयस्तत्क्षये सृष्टिरुच्यते ॥१५१॥

सांख्यवेदादिसंसिद्धाञ्छ्रीकण्ठस्तदहर्मुखे

सृजत्येव पुनस्तेन सम्यङ्मुक्तिरीदृशी ॥१५२॥

प्रधाने यदहोरात्रं तज्जं वर्षशतं विभोः

श्रीकण्ठस्यायुरेतच्च दिनं कञ्चुकवासिनाम् ॥१५३॥

तत्क्रमान्नियतिः कालो रागो विद्या कलेत्यमी

यान्त्यन्योन्यं लयं तेषामायुर्गाहनिकं दिनम् ॥१५४॥

तद्दिनप्रक्षये विश्वं मायायां प्रविलीयते

क्षीणायां निशि तावत्यां गहनेशः सृजेत्पुनः ॥१५५॥

एवमव्यक्तकालं तु परार्धैर्दशभिर्जहि

मायाहस्तावती रात्रिर्भवेत्प्रलय एष सः ॥१५६॥

मायाकालं परार्धानां गुणयित्वा शतेन तु

ऐश्वरो दिवसो नादः प्राणात्मात्र सृजेज्जगत् ॥१५७॥

तावती चैश्वरी रात्रिर्यत्र प्राणः प्रशाम्यति

प्राणगर्भस्थमप्यत्र विश्वं सौषुम्नवर्त्मना ॥१५८॥

प्राणे ब्रह्मविले शान्ते संविद्याप्यवशिष्यते

अंशांशिकातो ̕प्येतस्याः सूक्ष्मसूक्ष्मतरो लयः ॥१५९॥

गुणयित्वैश्वरं कालं परार्धानां शतेन तु

सादाशिवं दिनं रात्रिर्महाप्रलय एव ॥१६०॥

सदाशिवः स्वकालान्ते बिन्द्वर्धेन्दुनिरोधिकाः

आक्रम्य नादे लीयेत गृहीत्वा सचराचरम् ॥१६१॥

नादो नादान्तवृत्त्या तु भित्त्वा ब्रह्मबिलं हठात्

शक्तितत्त्वे लयं याति निजकालपरिक्षये ॥१६२॥

एतावच्छक्तितत्त्वे तु विज्ञेयं खल्वहर्निशम्

शक्तिः स्वकालविलये व्यापिन्यां लीयते पुनः ॥१६३॥

व्यापिन्या तद्दिवारात्रं लीयते साप्यनाश्रिते

परार्धकोट्या हत्वापि शक्तिकालमनाश्रिते ॥१६४॥

दिनं रात्रिश्च तत्काले परार्धगुणितेऽपि

सोऽपि याति लयं साम्यसंज्ञे सामनसे पदे ॥१६५॥

कालः साम्यसंज्ञः स्यान्नित्योऽकल्यः कलात्मकः

यत्तत्सामनसं रूपं तत्साम्यं ब्रह्म विश्वगम् ॥१६६॥

अतः सामनसात्कालान्निमेषोन्मेषमात्रतः

तुट्यादिकं परार्धान्तं सूते सैवात्र निष्ठितम् ॥१६७॥

दशशतसहस्रमयुतं लक्षनियुतकोटि सार्बुदं वृन्दम्

खर्वनिखर्वे शंखाब्जजलधिमध्यान्तमथ परार्धं ॥१६८॥

इत्येकस्मात्प्रभृति हि दशधा दशधा क्रमेण कलयित्वा

एकादिपरार्धान्तेष्वष्टादशसु स्थितिं ब्रूयात् ॥१६९॥

चत्वार एते प्रलया मुख्याः सर्गाश्च तत्कलाः

भूमूलनैशशक्तिस्थास्तदेवाण्डचतुष्टयम् ॥१७०॥

कालाग्निर्भुवि संहर्ता मायान्ते कालतत्त्वराट्

श्रीकण्ठो मूल एकत्र सृष्टिसंहारकारकः ॥१७१॥

तल्लयो वान्तरस्तस्मादेकः सृष्टिलयेशिता

श्रीमानघोरः शक्त्यन्ते संहर्ता सृष्टिकृच्च सः ॥१७२॥

तत्सृष्टौ सृष्टिसंहारा निःसंख्या जगतां यतः

अन्तर्भूतास्ततः शाक्ती महासृष्टिरुदाहृता ॥१७३॥

लये ब्रह्मा हरी रुद्रशतान्यष्टकपञ्चकम्

इत्यन्योन्यं क्रमाद्यान्ति लयं मायान्तके ̕ध्वनि ॥१७४॥

मायातत्त्वलये त्वेते प्रयान्ति परमं पदम्

मायोर्ध्वे ये सिताध्वस्थास्तेषां परशिवे लयः ॥१७५॥

तत्राप्यौपाधिकाद्भेदाल्लये भेदं परे विदुः

एवं तात्त्वेश्वरे वर्गे लीने सृष्टौ पुनः परे ॥१७६॥

तत्साधकाः शिवेष्टा वा तत्स्थानमधिशेरते

ब्राह्मी नाम परस्यैव शक्तिस्तां यत्र पातयेत् ॥१७७॥

ब्रह्मा विष्णुरुद्राद्या वैष्णव्यादेरतः क्रमात्

शक्तिमन्तं विहायान्यं शक्तिः किं याति नेदृशम् ॥१७८॥

छादितप्रथिताशेष शक्तिरेकः शिवस्तथा

एवं विसृष्टिप्रलयाः प्राण एकत्र निष्ठिताः ॥१७९॥

सोऽपि संविदि संविच्च चिन्मात्रे ज्ञेयवर्जिते

चिन्मात्रमेव देवी सा परा परमेश्वरी ॥१८०॥

अष्टात्रिंशं तत्तत्त्वं हृदयं तत्परापरम्

तेन संवित्त्वमेवैतत्स्पन्दमानं स्वभावतः ॥१८१॥

लयोदया इति प्राणे षष्ट्यब्दोदयकीर्तनम्

इच्छामात्रप्रतिष्ठेयं क्रियावैचित्र्यचर्चना ॥१८२॥

कालशक्तिस्ततो बाह्ये नैतस्या नियतं वपुः

स्वप्नस्वप्ने तथा स्वप्ने सुप्ते संकल्पगोचरे ॥१८३॥

समाधौ विश्वसंहारसृष्टिक्रमविवेचने

मितोऽपि किल कालांशो विततत्वेन भासते ॥१८४॥

प्रमात्रभेदे भेदेऽथ चित्रो विततिमाप्यसौ

एवं प्राणे यथा कालः क्रियावैचित्र्यशक्तिजः ॥१८५॥

तथापाने ̕पि हृदयान्मूलपीठविसर्पिणि

मूलाभिधमहापीठसङ्कोचप्रविकासयोः ॥१८६॥

ब्रह्माद्यनाश्रितान्तानां चिनुते सृष्टिसंहृती

शश्वद्यद्यप्यपानोऽय मित्थं वहति किंत्वसौ ॥१८७॥

अवेद्ययत्नो यत्नेन योगिभिः समुपास्यते

हृत्कन्दानन्दसंकोचविकासद्वादशान्तगाः ॥१८८

ब्रह्मादयो ̕नाश्रितान्ताः सेव्यन्तेऽत्र सुयोगिभिः

एते परमेशानशक्तित्वाद्विश्ववर्तिनः ॥१८९॥

देहमप्यश्नुवानास्तत्कारणानीति कामिके

बाल्ययौवनवृद्धत्वनिधनेषु पुनर्भवे ॥१९०॥

मुक्तौ देहे ब्रह्माद्याः षडधिष्ठानकारिणः

तस्यान्ते तु परा देवी यत्र युक्तो जायते ॥१९१॥

अनेन ज्ञातमात्रेण दीक्षानुग्रहकृद्भवेत्

समस्तकारणोल्लासपदे सुविदिते यतः ॥१९२॥

अकारणं शिवं विन्देद्यत्तद्विश्वस्य कारणम्

अधोवक्त्रं त्विदं द्वैतकलङ्कैकान्तशातनम् ॥१९३॥

क्षीयते तदुपासायां येनोर्ध्वाधरडम्बरः

अत्रापानोदये प्राग्वत्षष्ट्यब्दोदययोजनाम् ॥१९४॥

यावत्कुर्वीत तुट्यादेर्युक्ताङ्गुलविभागतः

एवं समानेऽपि विधिः हि हार्दीषु नाडिषु ॥१९५॥

संचरन्सर्वतोदिक्कं दशधैव विभाव्यते

दश मुख्या महानाडीः पूरयन्नेष तद्गताः ॥१९६॥

नाड्यन्तरश्रिता नाडीः क्रामन्देहे समस्थितिः

अष्टासु दिग्दलेष्वेष क्रामंस्तद्दिक्पतेः क्रमात् ॥१९७॥

चेष्टितान्यनुकुर्वाणो रौद्रः सौम्यश्च भासते

एव नाडीत्रितये वामदक्षिणमध्यगे ॥१९८॥

इन्द्वर्काग्निमये मुख्ये चरंस्तिष्ठत्यहर्निशम्

सार्धनालीद्वयं प्राणशतानि नव यत्स्थितम् ॥१९९॥

तावद्वहन्नहोरात्रं चतुर्विंशतिधा चरेत्

विषुवद्वासरे प्रातः सांशां नालीं मध्यगः ॥२००॥

वामेतरोदक्सव्यान्यैर्यावत्संक्रान्तिपञ्चकम्

एवं क्षीणासु पादोनचतुर्दशसु नालिषु ॥२०१॥

मध्याह्ने दक्षविषुवन्नवप्राणशतीं वहेत्

दक्षोदगन्योदग्दक्षैः पुनः संक्रान्तिपञ्चकम् ॥२०२॥

नवासुशतमेकैकं ततो विषुवदुत्तरम्

पञ्चके पञ्चके ̕तीते संक्रान्तेर्विषुवद्बहिः ॥२०३॥

यद्वत्तथान्तः सङ्क्रान्तिर्नवप्राणशतानि सा

एवं रात्रावपीत्येवं विषुवद्दिवसात्समात् ॥२०४।

आरभ्याहर्निशावृद्धिह्राससङ्क्रान्तिगो ̕प्यसौ

रात्र्यन्तदिनपूर्वांशौ मध्याह्नो दिवसक्षयः ॥२०५॥

शर्वर्युदयो मध्यमुदक्तो विषुतेदृशी

व्याप्तौ विषेर्यतो वृत्तिः साम्यं व्याप्तिरुच्यते ॥२०६॥

तदर्हति यः कालो विषुवत्तदिहोदितः

विषुवत्प्रभृति ह्रासवृद्धी ये दिनरात्रिगे ॥२०७॥

तत्क्रमेणैव संक्रान्तिह्रासवृद्धी दिवानिशोः

इत्थं समानमरुतो वर्षद्वयविकल्पनम् ॥२०८॥

चार एकत्र नह्यत्र श्वासप्रश्वासचर्चनम्

समानेऽपि तुटेः पूर्वं यावत्षष्ट्यब्दगोचरम् ॥२०९॥

कालसंख्या सुसूक्ष्मैकचारगा गण्यते बुधैः

संध्यापूर्वाह्णमध्याह्नमध्यरात्रादि यत्किल ॥२१०॥

अन्तःसंक्रान्तिगं ग्राह्यं तन्मुख्यं तत्फलोदितेः

उक्तः समानगः काल उदाने तु निरूप्यते ॥२११॥

प्राणव्याप्तौ यदुक्तं तदुदाने ̕प्यत्र केवलम्

नासाशक्त्यन्तयोः स्थाने ब्रह्मरन्ध्रोर्ध्वधामनी ॥२१२॥

तेनोदानेऽत्र हृदयान्मूर्धन्यद्वादशान्तगम्

तुट्यादिषष्टिवर्षान्तं विश्वं कालं विचारयेत् ॥२१३॥

व्याने तु विश्वात्ममये व्यापके क्रमवर्जिते

सूक्ष्मसूक्ष्मोच्छलद्रूपमात्रः कालो व्यवस्थितः ॥२१४॥

सृष्टिः प्रविलयः स्थेमा संहारो ̕नुग्रहो यतः

क्रमात्प्राणादिके काले तं तं तत्राश्रयेत्ततः ॥२१५॥

प्राणचारेऽत्र यो वर्णपदमन्त्रोदयः स्थितः

यत्नजोऽयत्नजः सूक्ष्मः परः स्थूलः कथ्यते ॥२१६॥

एको नादात्मको वर्णः सर्ववर्णाविभागवान्

सोऽनस्तमितरूपत्वादनाहत इहोदितः ॥२१७॥

तु भैरवसद्भावो मातृसद्भाव एष सः

परा सैकाक्षरा देवी यत्र लीनं चराचरम् ॥२१८॥

ह्रस्वार्णत्रयमेकैकं रव्यङ्गुलमथेतरत्

प्रवेश इति षड्वर्णाः सूर्येन्दुपथगाः क्रमात् ॥२१९॥

इकारोकारयोरादिसन्धौ संध्यक्षरद्वयम्

- इति प्रवेशे तु + इति द्वयं विदुः ॥२२०॥

षण्ठार्णानि प्रवेशे तु द्वादशान्तललाटयोः

गले हृदि बिन्द्वर्णविसर्गौ परितःस्थितौ ॥२२१॥

कादिपञ्चकमाद्यस्य वर्णस्यान्तः सदोदितम्

एवं सस्थानवर्णानामन्तः सा सार्णसन्ततिः ॥२२२॥

हृद्येष प्राणरूपस्तु सकारो जीवनात्मकः

बिन्दुः प्रकाशो हार्णश्च पूरणात्मतया स्थितः ॥२२३॥

उक्तः परोऽयमुदयो वर्णानां सूक्ष्म उच्यते

प्रवेशे षोडशौन्मुख्ये रवयः षण्ठवर्जिताः ॥२२४॥

तदेवेन्द्वर्कमत्रान्ये वर्णाः सूक्ष्मोदयस्त्वयम्

कालोऽर्धमात्रः कादीनां त्रयस्त्रिंशत उच्यते ॥२२५॥

मात्रा ह्रस्वाः पञ्च दीर्घाष्टकं द्विस्त्रिः प्लुतं तु लॄ

एकाशीतिमिमामर्धमात्राणामाह नो गुरुः ॥२२६॥

यद्वशाद्भगवानेकाशीतिकं मन्त्रमभ्यधात्

एकाशीतिपदा देवी शक्तिः प्रोक्ता शिवात्मिका ॥२२७॥

श्रीमातङ्गे तथा धर्मसंघातात्मा शिवो यतः

तथा तथा परामर्शशक्तिचक्रेश्वरः प्रभुः ॥२२८॥

स्थूलैकाशीतिपदजपरामर्शैर्विभाव्यते

तत एव परामर्शो यावत्येकः समाप्यते ॥२२९॥

तावत्तत्पदमुक्तं नो सुप्तिङ्नियमयान्त्रितम्

एकाशीतिपदोदारविमर्शक्तमबृंहितः ॥२३०॥

स्थूलोपायः परोपायस्त्वेष मात्राकृतो लयः

अर्धमात्रा नव नव स्युश्चतुर्षु चतुर्षु यत् ॥२३१॥

अङ्गुलेष्विति षट्त्रिंशत्येकाशीतिपदोदयः

अङ्गुले नवभागेन विभक्ते नवमाशकाः ॥२३२॥

वेदा मात्रार्धमन्यत्तु द्विचतुःषङ्गुणं त्रयम्

एवमङ्गुलरन्ध्रांशचतुष्कद्वयगं लघु ॥२३३॥

दीर्घं प्लुतं क्रमाद्द्वित्रिगुणमर्धं ततोऽपि हल्

क्षकारस्त्र्यर्धमात्रात्मा मात्रिकः सतथान्तरा ॥२३४॥

विश्रान्तावर्धमात्रास्य तस्मिंस्तु कलिते सति

अङ्गुलार्धे ̕द्रिभागेन त्वर्धमात्रा पुरा पुनः ॥२३५॥

क्षकारः सर्वसंयोगग्रहणात्मा तु सर्वगः

सर्ववर्णोदयाद्यन्तसन्धिषूदयभाग्विभुः ॥२३६॥

इत्थं षट्त्रिंशके चारे वर्णानामुदयः फले

क्रूरे सौम्ये विलोमेन हादि यावदपश्चिमम् ॥२३७॥

हृद्यकारो द्वादशान्ते हकारस्तदिदं विदुः

अहमात्मकमद्वैतं यः प्रकाशात्मविश्रमः ॥२३८॥

शिवशक्त्यविभागेन मात्रैकाशीतिका त्वियम्

द्वासप्ततावङ्गुलेषु द्विगुणत्वेन संसरेत् ॥२३९॥

उक्तः सूक्ष्मोदयस्त्रैधं द्विधोक्तस्तु परोदयः

अथ स्थूलोदयोऽर्णानां भण्यते गुरुणोदितः ॥२४०॥

एकैकमर्धप्रहरं दिने वर्गाष्टकोदयः

रात्रौ ह्रासवृद्ध्यत्र केचिदाहुर्न के ̕पि तु ॥२४१॥

एष वर्गोदयो रात्रौ दिवा चाप्यर्धयामगः

प्राणत्रयोदशशती पञ्चाशदधिका सा ॥२४२॥

अध्यर्धा किल संक्रान्तिर्वर्गे वर्गे दिवानिशोः

तदैक्ये तूदयश्चारशतानां सप्तविंशतिः ॥२४३॥

नव वर्गांस्तु ये प्राहुस्तेषां प्राणशती स्वीन्[विः]

सत्रिभागैव संक्रान्तिर्वर्गे प्रत्येकमुच्यते ॥२४४॥

अहर्निशं तदैक्ये तु शतानां श्रुतिचक्षुषी

स्थूलो वर्गोदयः सोऽयमथार्णोदय उच्यते ॥२४५॥

एकैकवर्णे प्राणानां द्विशतं षोडशाधिकम्

बहिश्चषकषट्त्रिंशद्दिन इत्थं तथानिशि ॥२४६॥

शतमष्टोत्तरं तत्र रौद्रं शाक्तमथोत्तरम्

यामलस्थितियोगे तु रुद्रशक्त्यविभागिता ॥२४७॥

दिनरात्र्यविभागे तु दृग्वह्न्यब्ध्यसुचारणाः

सपञ्चमांशा नाडी बहिर्वर्णोदयः स्मृतः ॥२४८॥

इति पञ्चाशिका सेयं वर्णानां परिचर्चिता

एकोनां ये तु तामाहुस्तन्मतं संप्रचक्ष्महे ॥२४९॥

वेदाश्चाराः पञ्चमांशन्यूनं चारार्धमेकशः

वर्णे ̕धिकं तद्द्विगुणमविभागे दिवानिशोः ॥२५०॥

स्थूलो वर्णोदयः सोऽयं पुरा सूक्ष्मो निगद्यते ॥२५१॥

इति कालतत्त्वमुदितं शास्त्रमुखागमनिजानुभवसिद्धम् ॥२५२॥

 

     Bookmark and Share

 

 

Creative Commons License

Precedente Home Successiva

AGHORI BREVE STORIA GRANDE MADRE SADHANA CHAKRA AYURVEDA CORSO DI YOGA EVENTI GALLERIA SITI CONSIGLIATI CONTATTACI GUESTBOOK SITE MAP PDF IN ITA

Privacy Policy